श्रीरामसहस्रनामाक्षरपुष्पावलिः
ॐ
श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
नमः श्रीत्यागराजाय मदाचार्यवराय च ।
श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥
ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥
अथ श्रीरामसहस्रनामाक्षरपुष्पावलिः ।
अनन्यरामभक्ताय अक्षरावलिशक्तये ।
अनन्यगुरुदेवाय अक्षराय नमो नमः ॥ १॥
आनन्दनादरूपाय आत्मप्रकाशदीपिने ।
आदिदेवप्रगेयाय आचार्याय नमो नमः ॥ २॥
श्रीसीतारामगेयाय पुष्पावलिप्रचोदिने ।
श्रीत्यागब्रह्मसन्नाम्ने सद्गुरुस्वामिने नमः ॥ ३॥
अम्बासीतामहालक्ष्म्यै अक्षरारम्भहूतये ।
अतिमङ्गलधात्र्यै च अतिभायै नमो नमः ॥ ४॥
अक्षरावलिपूज्याय क्षरान्तस्थाक्षरात्मने ।
अक्षरावलिवासाय श्रीरामाय नमो नमः ॥ ५॥
अद्वैततत्त्वसाराय अक्षराजान्तरात्मने ।
अचिन्त्यचिन्त्यरूपाय सीतारामाय ते नमः ॥ ६॥
अयोध्यानृपपुत्राय अवनीजासुजानये ।
असमानप्रभावाय अभिरामाय ते नमः ॥ ७॥
आनन्दकन्दमूलाय आद्यन्तरहितार्चिषे ।
आशराभावभावाय आत्मारामाय ते नमः ॥ ८॥
इलाधिपाय इष्टाय इन्दुद्युमणिचक्षुषे ।
इनवंशाब्धिचन्द्राय इक्ष्वाकुभातवे नमः ॥ ९॥
ईयसत्त्वप्रकाशाय ईरणात्मजवन्दिने ।
ईशसन्नूतसन्नाम्ने ईश्वराय नमो नमः ॥ १०॥
उत्तमश्लोकपूज्याय उत्तमासक्तिदायिने ।
उत्तमोत्तमगुण्याय उत्तमाय नमो नमः ॥ ११॥
ऊषप्रशान्तिगेयाय ऊषकध्यातृसेविने ।
ऊषकस्तुतगीताय ऊषारामाय ते नमः ॥ १२॥
ऋषिपूजितपादाय ऋषिसन्नुतकीर्तये ।
ऋषिमानसवासाय ऋतधाम्ने नमो नमः ॥ १३॥
एकब्रह्मस्वरूपाय एकवाक्यार्थकाय च ।
एकान्तस्वानुभूताय एकाक्षराय ते नमः ॥ १४॥
ऐकाग्र्यभक्तिगीताय ऐकान्तिकसुखाय च ।
ऐकात्म्यैकार्थदात्रे च ऐकान्तिकाय ते नमः ॥ १५॥
ओंकारव्यक्तरूपाय ओंकारनादशक्तये ।
ओंकारगुप्तसत्त्वाय ओंकारब्रह्मणे नमः ॥ १६॥
औजस्यनामसाराय औज्ज्वल्यसत्यतेजसे ।
औषधीयसुनामप्रभावरामाय ते नमः ॥ १७॥
कल्याणगुणसान्द्राय कल्याणकीर्तिदायिने ।
कल्याणरामचन्द्राय कल्याणीपतये नमः ॥ १८॥
कारुण्यपूर्णवीक्षाय कामादिरिपुदारिणे ।
कामितार्थप्रदात्रे च कालातीताय ते नमः ॥ १९॥
किरणावलिमालाय कीशसन्नुततेजसे ।
कीर्तनौघनिमग्नाय कीर्तिताय नमो नमः ॥ २०॥
कुन्दकुड्मलदन्ताय कुटिलालकशोभिने ।
कुण्डलीशसुशय्याय कुलदैवाय ते नमः ॥ २१॥
कूर्ममत्स्यावताराय कूवारशयनाय च ।
कूटशस्तोत्रमालाय कूटस्थाय नमो नमः ॥ २२॥
कृष्णावतारलीलाय कृपणोद्धारणाय च ।
कृताञ्जलिप्रसादाय कृपालवे नमो नमः ॥ २३॥
केदारनाथनूताय केवलज्ञानदायिने ।
केदारसन्निवासाय केशवाय नमो नमः ॥ २४॥
कैकेयीसुतपूज्याय कैटभारिसुकीर्तये ।
कैलासनाथमोदाय कैवल्यदायिने नमः ॥ २५॥
कोटिशाजप्तनाम्ने च कोपतापप्रणाशिने ।
कोटिसूर्यप्रभासाय कोदण्डपाणये नमः ॥ २६॥
कौशल्याप्रियपुत्राय कौशिकाहवरक्षिणे ।
कौशेयपीतवासाय कौस्तुभाङ्काय ते नमः । २७॥
क्रमकाक्षरगीताय क्रान्तदर्शिप्रसादिने ।
क्रियायोगोपदेशाय क्रीडाविनोदिने नमः ॥ २८॥
क्रूरराक्षसहाराय क्रोधमोहविदारिणे ।
क्रोडीकृताञ्जनेयाय क्लेशापहाय ते नमः ॥ २९॥
क्वणद्वीणास्वरस्थाय क्षणक्षणस्मृताय च ।
क्षमस्तोतृमनःस्थाय क्षान्तिमते नमो नमः ॥ ३०॥
क्षितिजावरनाथाय क्षीरसागरशायिने ।
क्षुब्धमानसशाम्याय क्षेमंकराय ते नमः ॥ ३१॥
क्षेत्रज्ञायातिदैवाय क्षैत्रज्ञक्षिप्रदाय च ।
क्षौमसंमृदुवाचाय क्ष्मापुत्रीपतये नमः ॥ ३२॥
खगराजतुरङ्गाय खरदूषणहारिणे ।
खाण्डवस्वादुभाषाय ख्यातिदात्रे नमो नमः ॥ ३३॥
गङ्गाप्रभावपादाय गजेन्द्रमोक्षकारिणे ।
गम्भीरद्युतिशोभाय गरिष्ठाय नमो नमः ॥ ३४॥
गान्धर्वगानपूज्याय गानमाधुर्यवासिने ।
गानलोलाय गेयाय गायत्रीगीतये नमः ॥ ३५॥
गिरीशप्रियसन्नाम्ने गिरामाधुर्यभाषिणे ।
गीर्वाणमुनिवन्द्याय गीताचार्याय ते नमः ॥ ३६॥
गीतवाद्याभिनन्दाय गीतसत्कृतिमोदिने ।
गुरुदेवाभिगीताय गुहारामाय ते नमः ॥ ३७॥
गुप्ताय गुणसान्द्राय गुणातीतस्वरूपिणे ।
गुप्तहृत्स्थलवन्द्याय गूढोत्मने नमो नमः ॥ ३८॥
गृहदैवाय गेयाय गेयराजस्तुताय च ।
गैरिकीभवपादाय गोधूलिशान्तये नमः ॥ ३९॥
गोविन्दाय सुनन्दाय गौरीशमुदितात्मने ।
गौराननाय गौराय गौरवकृतये नमः ॥ ४०॥
ग्मापुत्रीमनआभाय ग्रथिताक्षरमालिने ।
ग्रन्थनाथाय ग्रन्थाय ग्लानिच्छिदे नमो नमः ॥ ४१॥
घटनापरिपूर्णाय घनगानप्रसादिने ।
घण्टारवाभिपूज्याय घनश्यामाय ते नमः ॥ ४२॥
घण्टानादसुगीताय घनीकृतातिशक्तये ।
घनाघघनघाताय घनस्वराय ते नमः ॥ ४३॥
घुषिताद्भुतसन्नाम्ने घूर्णमानससान्त्विने ।
घोरसंसारताराय घृणिने ते नमो नमः ॥ ४४॥
घृणापाङ्गसुरक्षाय घृणिवंशातिभातये ।
घृणाघ्नघृणसान्द्राय घृणालवे नमो नमः ॥ ४५॥
चण्डभास्करतेजाय चन्द्रभास्करचक्षुषे ।
चण्डमारुतबाणाय चन्द्राननाय ते नमः ॥ ४६॥
चापालङ्कृतपाणाय चारित्राद्भुतकीर्तये ।
चायनीयप्रशान्ताय चारुनेत्राय ते नमः ॥ ४७॥
चिरकालसुगीताय चिन्तितार्चितचित्तये ।
चिरस्थायिचरित्राय चित्स्वरूपाय ते नमः ॥ ४८॥
चिद्विलासाय चित्तागोचराय चिन्तिताय च ।
चित्तशोधननाम्ने च चिन्मयाय नमो नमः ॥ ४९॥
चेतोहरातितेजाय चेतनाचेतनात्मने ।
चेतोजार्चितदैवाय चैतन्यब्रह्मणे नमः ॥ ५०॥
चैत्रावतारताराय चोदितानन्यभक्तये ।
चौक्षव्यक्त्यकलङ्काय च्युतश्रायाय ते नमः ॥ ५१॥
छत्रच्छायाधिराजाय छन्दस्कृतस्तुताय च ।
छन्दोवृत्तस्तुतिस्थाय छन्द्राय ते नमो नमः ॥ ५२॥
छायामण्डलवृत्ताय छिद्रहृच्छमनाय च ।
छुरिताक्षरमालाय छन्दकाय नमो नमः ॥ ५३॥
जन्ममृत्युविवर्जाय जराधिव्याधिघातिने ।
जगन्नाथाय नीथाय जयरामाय ते नमः ॥ ५४॥
जगदानन्दकाराय जानकीजयजानये ।
जगन्मोहनरामाय जनाधाराय ते नमः ॥ ५५॥
जप्यतारकनाम्ने च जपमन्त्रस्वरूपिणे ।
जपार्थाक्षररूपाय जप्तनाम्ने नमो नमः ॥ ५६॥
जलजारुणपादाय जगदात्मस्वरूपिणे ।
जलजाप्तकुलाप्ताय जलेशशायिने नमः ॥ ५७॥
जानकीसुकलत्राय जाजीकुसुमधारिणे ।
जानकीजापसाराय जागर्तये नमो नमः ॥ ५८॥
जितगौतमशापाय जितेन्द्रियाय जित्वने ।
जितशङ्करचापाय जितसीताय ते नमः ॥ ५९॥
जितरामाय रामाय जितशङ्करचेतसे ।
जितात्मने अजित्याय जितकामाय ते नमः ॥ ६०॥
जीवाधाराय जीवाय जीवनाधारभासवे ।
जीवशक्त्यैकजीवाय जीवनीयाय ते नमः ॥ ६१॥
जीवन्मुक्तप्रगीताय जुष्टसद्गुरुगीतये ।
जूर्णिश्लोकातिदैवाय जुष्यरामाय ते नमः ॥ ६२॥
जूर्णिगङ्गाप्रभावाय जृम्भपुष्पार्चिताय च ।
जृम्भिताव्यक्तरूपाय जेन्याय ते नमो नमः ॥ ६३॥
जेत्राय जैवसर्वस्मै जोषिकार्चिततेजसे ।
जोटिङ्गध्यातसन्नाम्ने ज्ञप्त्यतीताय ते नमः ॥ ६४॥
ज्ञानाय ज्ञानगम्याय ज्ञानानन्दस्वरूपिणे ।
ज्ञानवृद्धमनःस्थाय ज्ञानतेजाय ते नमः ॥ ६५॥
ज्ञेयाय ज्ञातसर्वस्मै ज्ञीप्सापूरणचक्षसे ।
ज्याघोषबाणकोदण्डरामाय ते नमो नमः ॥ ६६॥
झङ्कारश्रुतिगीताय टङ्कारघोषधन्वने ।
झल्लरीनादमोदाय ठक्कुराकृतये नमः ॥ ६७॥
तन्त्रीसुस्वरलोलाय तन्त्रीस्वरलयाय च ।
तन्त्रीसङ्गीतमोदाय तन्त्रीरागाय ते नमः ॥ ६८॥
तालवाद्याभिनन्दाय ताराधिपाननाय च ।
तारकारामनाम्ने च तारणाय नमो नमः ॥ ६९॥
तिष्याय तिष्यसन्नाम्ने तिष्यकेतुस्तुताय च ।
तीर्थातितीर्थनाम्ने च तीर्णभावाय ते नमः ॥ ७०॥
तुम्बुर्वानूतगीताय तूष्णींस्थप्रणवाय च ।
तृष्णाक्षयाय तृष्याय तृप्तकामाय ते नमः ॥ ७१॥
तेजोजितायुतार्काय तेजस्कराय तेजसे ।
तोयालयगभीराय तोयात्मने नमो नमः ॥ ७२॥
तौर्यत्रिकाभिवन्द्याय तौर्यत्रिकप्रियाय च ।
त्यक्तसर्वसुहृत्स्थाय त्यागयुक्ताय ते नमः ॥ ७३॥
त्यागब्रह्मसुयुक्ताय त्यागराजनुताय च ।
त्यागब्रह्मसुवाक्स्थाय श्रीरामाय नमो नमः ॥ ७४॥
त्यागराजेष्टदैवाय त्यागराजार्चिताय च ।
त्यागराजनुलोलाय श्रीरामाय नमो नमः ॥ ७५॥
त्यागब्रह्मसुपक्षाय त्यागराजप्रियाय च ।
त्यागब्रह्मसमक्षाय श्रीरामाय नमो नमः ॥ ७६॥
त्यागराजकृतिस्थाय त्यागसङ्कीर्तितात्मने ।
त्यागब्रह्मात्मलीनाय श्रीरामाय नमो नमः ॥ ७७॥
त्राणानन्यातिदैवाय त्रिविद्यासारभाससे ।
त्रिगुणातीतसत्याय श्रीरामाय नमो नमः ॥ ७८॥
त्रिलोकवन्दितेशाय त्रितापार्तिविदारिणे ।
त्रिलोकातीतदेवाय त्रिविक्रमाय ते नमः ॥ ७९॥
दक्षशिक्षकनूताय दमादिशमदायिने ।
दहराकाशवासाय दयाकूटाय ते नमः ॥ ८०॥
दशावतारलीलाय दशाशुभकराय च ।
दशाननविदाराय दाशरथ्यर्किने नमः ॥ ८१॥
दिव्यवंशाद्रिदीपाय दिष्णवे सर्वदिष्णवे ।
दिनान्वयाब्धिचन्द्राय दिव्याय ते नमो नमः ॥ ८२॥
दिव्यगङ्गासमक्षाय दिव्यगङ्गाभिनन्दिने ।
दिव्यप्रयागदैवाय रघुनाथाय ते नमः ॥ ८३॥
दीर्घायुष्प्रददैवाय दीनावनव्रताय च ।
दुःखशोकनिवाराय दुरासदाय ते नमः ॥ ८४॥
दुर्गाभ्रात्रे च दुर्गाय दुर्गहैमाद्रिरूपिणे ।
दुर्गागङ्गासुमालाय दुर्गाढाय नमो नमः ॥ ८५॥
दूरीकृताघसङ्घाय दृढव्रताभयाय च ।
देहमानसपोषाय दृशानाय नमो नमः ॥ ८६॥
देवादिमृग्यपादाय देवदेवार्चिताय च ।
देवकुल्याप्रभावाय देवेशाय नमो नमः ॥ ८७॥
दैवाय दैत्यदाराय दोलारोपितमूर्तये ।
दोलोत्सवसुगीताय दोषहाय नमो नमः ॥ ८८॥
दौर्बल्यक्लान्त्यपोहाय दौर्ग्यविद्रावणाय च ।
द्युसरिद्भावभावाय द्युतिधाराय ते नमः ॥ ८९॥
द्युतिमण्डलवृत्ताय द्योतितान्तर्गुहाय च ।
द्रुतसिद्धिप्रदात्रे च द्रुतबाणाय ते नमः ॥ ९०॥
द्वन्द्वातीताय द्वन्द्वाय द्वन्द्वदुःखनिवारिणे ।
द्विकरेहपरार्थाय द्वैताद्वैताय ते नमः ॥ ९१॥
धरणीधरधीराय धराधिपनुताय च ।
धरणीतनयापाय धर्मात्मने नमो नमः ॥ ९२॥
धन्याय धर्मपालाय धाराधरस्वराय च ।
धाराधराभगात्राय धात्रे तुभ्यं नमो नमः ॥ ९३॥
धिष्ण्यहृत्स्थलदैवाय धीमन्दिरनिवासिने ।
धीताय धीतिगीताय धीरोदात्ताय ते नमः ॥ ९४॥
धुनिनाथनिवासाय धूननात्मजसेविने ।
धूपदीपादिसेव्याय धुरीणाय नमो नमः ॥ ९५॥
धृतकोदण्डचापाय धृतिकाराय धृत्वने ।
धृतहस्तसुनीथाय धृतात्मने नमो नमः ॥ ९६॥
धेयनामसुपेयाय धैर्यधैवत्यधाय च ।
धोरणीनामगेयाय धौतात्मने नमो नमः ॥ ९७॥
ध्येयाय ध्यानगम्याय ध्यानस्थान्तर्विलासिने ।
ध्यायमानाय रामाय ध्यातोंकाराय ते नमः ॥ ९८॥
ध्रुवसिद्धिप्रदात्रे च ध्रुवाक्षरान्तरात्मने ।
ध्वनितोंकारनादाय ध्वनिरूपाय ते नमः ॥ ९९॥
नतजीवनजीवाय नतमानससान्त्विने ।
नमस्कृताय नम्याय नन्दनीयाय ते नमः ॥ १००॥
नतपोषणतोषाय नवनव्यसुगीतये ।
नतराजाभिनूताय नरोत्तमाय ते नमः ॥ १०१॥
नरवेषधरापाय नवमन्मथरूपिणे ।
नलिनाक्षविशालाय नरानन्दाय ते नमः ॥ १०२॥
नादसुस्वरपूज्याय नादानन्दलयात्मने ।
नादोपासनतुष्टाय नादरूपाय ते नमः ॥ १०३॥
नारदानन्दगेयाय नागराजसुशायिने ।
नारदागीतलोलाय नारायणाय ते नमः ॥ १०४॥
निगमागमसाराय निश्चलानन्दचेतसे ।
निजदाससुरक्षाय निरामयाय ते नमः ॥ १०५॥
नित्यनूतनरूपाय नित्योत्सवसवाय च ।
नित्यत्ववरदात्रे च नित्यानन्दाय ते नमः ॥ १०६॥
निद्रालस्यातिदूराय निगमागमचारिणे ।
निर्वाणफलदात्रे च निरञ्जनाय ते नमः ॥ १०७॥
नीलनिर्मलरूपाय नीरजाह्लादकारिणे ।
नीरदश्यामशोभाय नीरजाक्षाय ते नमः ॥ १०८॥
नुतिश्रेष्ठसुगीताय नूपुरानादगामिने ।
नूतनक्षीरभक्षाय नूनंगोप्त्रे नमो नमः ॥ १०९॥
नृत्यवाद्यसुगीताय नृसिंहावतराय च ।
नृपोत्तमाय नेत्रे च नेत्रानन्दाय ते नमः ॥ ११०॥
नेत्रोत्सवसुरूपाय नैत्यसङ्गीतसिद्धये ।
नैगमागमसत्त्वाय नैःश्रेयसाय ते नमः ॥ १११॥
नैत्यनैर्मल्यरूपाय नैष्ठ्यनैष्कर्म्यसिद्धये ।
नैकाय एकवाचाय नैकात्मने नमो नमः ॥ ११२॥
नोदिताख्यातधर्माय नोधाभक्तिप्रगीतये ।
नौकातारकनाम्ने च न्यायरूपाय ते नमः ॥ ११३॥
पट्टाभिरामचन्द्राय पङ्कजाक्षीरताय च ।
पवमानसुताप्ताय परिपूर्णाय ते नमः ॥ ११४॥
परब्रह्मस्वरूपाय परमानन्दधीधये ।
पञ्चापगेशगीताय परेशाय नमो नमः ॥ ११५॥
पापाभावाय भावाय पापभावप्रणाशिने ।
पापसन्धावगङ्गाय पावनाय नमो नमः ॥ ११६॥
पामरौघविदूराय पाशबन्धविदारिणे ।
पामरासुरभीमाय पार्थिवीपतये नमः ॥ ११७॥
पितृवाक्परिपालाय पीताम्बराब्जमालिने ।
पीठहृत्सन्निवासाय पीयूषनिधये नमः ॥ ११८॥
पुण्यतीर्थसुनाम्ने च पुनर्जन्मनिवारिणे ।
पुराणाय सुपुण्याय पुष्पार्चिताय ते नमः ॥ ११९॥
पूर्णावतारपूज्याय पूर्णेन्दुमुखभातये ।
पूर्णत्वदाय पूर्णाय पुर्णानन्दाय ते नमः ॥ १२०॥
पृथुकीर्तिविराजाय पृथुकीर्तिप्रदायिने ।
पृषोदरात्मजाप्ताय पृथिवीपतये नमः ॥ १२१॥
पेलवाद्भुतपादाय पेयपेयूषवाणये ।
पेशलारम्यभाषाय पोतनाय नमो नमः ॥ १२२॥
पोतनोत्तमगेयाय पौरस्यध्यातमूर्तये ।
पौरस्यधृतपादाय पौलस्त्यहारिणे नमः ॥ १२३॥
प्रकृतिव्यक्तरूपाय प्रकृत्यव्यक्तशक्तये ।
प्रपन्नैकशरण्याय प्रपञ्चपालिने नमः ॥ १२४॥
प्रणतात्मप्रबोधाय प्रकृष्टाद्भुतकीर्तये ।
प्रक्षीणनतपापाय प्रशान्ताय नमो नमः ॥ १२५॥
प्राकृताप्राकृताभाय प्रांशुलक्षणबाहवे ।
प्राचीनकाव्यनाथाय प्राज्ञाय ते नमो नमः ॥ १२६॥
प्राञ्जलिप्राणदात्रे च प्राणिसद्गतिदायिने ।
प्राक्सन्ध्याचारुगीताय प्राणात्मने नमो नमः ॥ १२७॥
प्राप्तकामाय कामाय प्रार्थितार्थप्रदायिने ।
प्रार्थनावरदैवाय प्रार्थनीयाय ते नमः ॥ १२८॥
प्रियाभिरामरामाय प्रीतसद्भक्तिगीतये ।
प्रेष्ठाय प्रेक्षणीयाय प्रौढत्वसिद्धये नमः ॥ १२९॥
फणिनाथसुशय्याय फालनेत्रस्तुताय च ।
फुल्लारविन्दनेत्राय फुल्लाननाय ते नमः ॥ १३०॥
बदरीकाश्रमस्थाय नरनारायणाय च ।
बदरीधामदैवाय बदरीपाय ते नमः ॥ १३१॥
बलरामावताराय बलरामानुजाय च ।
बलारोग्यप्रदात्रे च बलिष्ठाय नमो नमः ॥ १३२॥
बालार्कसत्सुतेजाय बालार्काभसुवासिने ।
बाललीलाभिनन्दाय बालरामाय ते नमः ॥ १३३॥
बाणत्राणसुशौर्याय बाष्पकण्ठाभिगीतये ।
बाहुद्विरदतुल्याय बाधान्तकाय ते नमः ॥ १३४॥
बिल्वादिपत्रपूज्याय बिलहृत्स्थलवासिने ।
बिम्बोष्ठस्मितवक्त्राय बिठवेष्टाय ते नमः ॥ १३५॥
बीजप्रणवनाम्ने च बीजाक्षरनिवासिने ।
बीजोंकारस्थनादाय बीजरूपाय ते नमः ॥ १३६॥
बुद्ध्यतीताय बुद्धाय बुधवृन्दावनाय च ।
बुद्धावतारलीलाय बुधानाय नमो नमः ॥ १३७॥
बृहन्नाथाय नाथाय बैजिकोंकाररूपिणे ।
बोधसद्गुरुरूपाय ब्रह्मतेजाय ते नमः ॥ १३८॥
ब्रह्मत्वतत्त्वरूपाय ब्रह्मानन्दप्रकाशिने ।
ब्रह्मैकतथ्यबोधाय ब्रह्मबीजाय ते नमः ॥ १३९॥
भक्ताधीनाय भद्राय भक्तिस्तुतिप्रियाय च ।
भक्ताभीष्टप्रदात्रे च भक्ताधीताय ते नमः ॥ १४०॥
भगभव्यप्रभावाय भवरोगनिवारिणे ।
भगिनीरतनाम्ने च भयापहाय ते नमः ॥ १४१॥
भवशोकविरामाय भवभव्यप्रदायिने ।
भवतारकसन्नाम्ने च भवापहाय ते नमः ॥ १४२॥
भवचापविदाराय भवसन्नुतकीर्तये ।
भवमानसभावाय भवप्रियाय ते नमः ॥ १४३॥
भावस्थध्यातदैवाय भावाकूतस्तुताय च ।
भावस्थिराय भावाय भामण्डलाय ते नमः ॥ १४४॥
भावनावाय भावाय भावशुद्धिप्रियाय च ।
भावाभावाय भावाय भावभावाय ते नमः ॥ १४५॥
भिषज्यनादसाराय भीतिच्छिदे परौजसे ।
भीष्मश्लोकितसन्नाम्ने भीमार्चिताय ते नमः ॥ १४६॥
भुवनाधारमूलाय भुवनत्रयपालिने ।
भुक्तिमुक्तिप्रदात्रे च भुवनेशाय ते नमः ॥ १४७॥
भूपालार्चितभूपाय भूमिजानन्दवर्धिने ।
भूजाह्लादनशौर्याय भूरिधाम्ने नमो नमः ॥ १४८॥
भृगुसूनुधनुर्जेत्रे भृगुनन्दनरूपिणे ।
भृत्यवात्सल्यभाषाय भृत्यसंरक्षिणे नमः ॥ १४९॥
भेषजामोदसन्नाम्ने भैरवीरागरागिणे ।
भैषज्यरागधाम्ने च भैषजाय नमो नमः ॥ १५०॥
भोगराजविराजाय भोगतृष्णापहाय च ।
भोगिभोजिसुवाहाय भोगीन्द्रशायिने नमः ॥ १५१॥
भौपालसार्वभौमाय भौलीरागस्तुताय च ।
भ्रमिमानससान्त्वाय भ्रूमध्यस्थाय ते नमः ॥ १५२॥
मङ्गलानन्दरूपाय मङ्गलानन्ददायिने ।
मङ्गलानन्दनाम्ने च मङ्गलाय नमो नमः ॥ १५३॥
मानिताङ्कितगुण्याय मामनोरमणाय च ।
मानिषादाय मान्याय मामनोनिधये नमः ॥ १५४॥
मित्रपुत्रसुमित्राय मित्रवंशप्रभातये ।
मित्रोदयप्रगीताय मित्ररत्नाय ते नमः ॥ १५५॥
मिष्टवाक्स्तुतगीताय मिष्टसङ्गीततोषिणे ।
मिष्टसुस्वरभाषाय मिष्टनाम्ने नमो नमः ॥ १५६॥
मिथ्यापारैकसत्याय मीरपारप्रकीर्तये ।
मुक्तिकारकनाम्ने च मुक्तिधाम्ने नमो नमः ॥ १५७॥
मुक्तसद्गुरुगीताय मुमुक्षुश्रायकीर्तये ।
मुनिभावितपादाय मुनिवन्द्याय ते नमः ॥ १५८॥
मूकवाक्प्रददैवाय मूकवाक्संस्तुताय च ।
मूलाधारोत्थनादाय मूलस्थानाय ते नमः ॥ १५९॥
मृगणात्मप्रबोधाय मृगतृष्णापहाय च ।
मृत्युलोकभयाहन्त्रे मृतण्डभाससे नमः ॥ १६०॥
मृदुसत्त्वसुभाषाय मृदुमानसवासिने ।
मृदुसङ्गीततोषाय मृदुस्वराय ते नमः ॥ १६१॥
मृदुसुस्वरगीताय मृदङ्गलयमोदिने ।
मृदुपल्लवपादाय मृद्वङ्काय नमो नमः ॥ १६२॥
मेघस्वनगभीराय मेधाशक्तिविलासिने ।
मेघश्यामाभवीराय मेरुधीराय ते नमः ॥ १६३॥
मैथिलीप्राणनाथाय मैत्रावरुणगीतये ।
मैत्रीमयाय मैत्राय मैथिलीशाय ते नमः ॥ १६४॥
मोहनाङ्काय मोक्त्रे च मोहकाराय मोहिने ।
मोहनारामरामाय मोहापोहाय ते नमः ॥ १६५॥
मौनध्येयाय गेयाय मौनिराजस्तुताय च ।
मौनमानसवासाय मौनार्चिताय ते नमः ॥ १६६॥
यदुश्रेष्ठावताराय यादवाय यशस्विने ।
यतिश्रेष्ठसुगीताय याधवाय नमो नमः ॥ १६७॥
यतमानससंस्थाय यतिसज्जनसेविने ।
यान्तभान्तनिशान्ताय यागसंरक्षिणे नमः ॥ १६८॥
युक्तमानसपूज्याय युक्तपूजाभिनन्दिने ।
युक्तभूजाभिरामाय युक्ताय ते नमो नमः ॥ १६९॥
येष्ठगङ्गासुमूलाय योगक्षेमावहाय च ।
योगीन्द्रहृन्निवासाय योगारामाय ते नमः ॥ १७०॥
योगिश्रेष्ठाय योग्याय योगसङ्गीतसिद्धये ।
यौक्तिकस्तुतिगीताय यौवनाय नमो नमः ॥ १७१॥
रघुवंशललामाय रम्यश्रीवासचेतसे ।
रमणीयाननाभाय रघुरामाय ते नमः ॥ १७२॥
रागरागविवर्जाय रागरागसुरूपिणे ।
रागविद्यासुपूज्याय रागमूलाय ते नमः ॥ १७३॥
रागतालगतिस्थाय रागस्वरयुताय च ।
रागसङ्गीतलोलाय रामचन्द्राय ते नमः ॥ १७४॥
राजराजसुनेत्राय राजाधिराजभानिधे ।
राजराजसुपूज्याय राजश्रेष्ठाय ते नमः ॥ १७५॥
रिपुसूदनशौर्याय रीतिगङ्गासुगीतये ।
रुद्रप्रियाय रुद्राय रूपहर्षाय ते नमः ॥ १७६॥
रूपवद्भार्यरामाय रेणुकासुतरूपिणे ।
रैवताजप्तनाम्ने च रोगापहाय ते नमः ॥ १७७॥
रोचमानाय रोचाय रोमाञ्चनकराय च ।
रोहिणीसुतरूपाय रोदोधिपतये नमः ॥ १७८॥
रौद्रादिशत्रुदाराय रौद्रसंहतशत्रवे ।
रौक्मपत्नीकरामाय रौक्मगुण्याय ते नमः ॥ १७९॥
लक्ष्मीरमणपुण्याय लक्षणाङ्कितरूपिणे ।
लक्ष्मणानुजसेव्याय लक्षण्याय नमो नमः ॥ १८०॥
लक्ष्याय लगनीयाय लङ्केशसंहराय च ।
ललितामोदगुण्याय लघुगीताय ते नमः ॥ १८१॥
लालसापूर्णरामाय लावण्यराममूर्तये ।
लालितानन्दरामाय लास्यगीताय ते नमः ॥ १८२॥
लिपिरूपविलासाय लिङ्गरूपिप्रियाय च ।
लिप्तानुरागसाराय लिप्यर्चिताय ते नमः ॥ १८३॥
लीनमानसलीनाय लीनसुस्वरगीतये ।
लीलाचतुररामाय लीलावतारिणे नमः ॥ १८४॥
लुप्तलोभादिदोषाय लुब्धार्थपरदायिने ।
लुलितान्तःप्रशान्ताय लुब्धार्थाय नमो नमः ॥ १८५॥
लूनभक्ताघसङ्घाय लूनपुष्पार्चिताय च ।
लूषश्लोकाक्षराभाय लूषार्कमालिने नमः ॥ १८६॥
लेखितश्लोकधाराय लेखनीयाय लेखिने ।
लेखनाय च लेख्याय लेखसंस्थाय ते नमः ॥ १८७॥
लोकावनाय लोक्याय लोकत्राणावतारिणे ।
लोलुपापरिपूर्णाय लोकनाथाय ते नमः ॥ १८८॥
लौक्यातीतप्रभावाय लौकिकालौकिकात्मने ।
लौकिकार्तिनिवाराय लोकंपृणाय ते नमः ॥ १८९॥
वंशीसङ्गीतलोलाय वंशीधरावतारिणे ।
वंशप्रकाशदीपाय वंशोद्धाराय ते नमः ॥ १९०॥
वनवासातितोषाय वन्दारुगणवन्दिने ।
वन्द्रगेयाय वन्द्याय वनजाक्षाय ते नमः ॥ १९१॥
वटपत्रसुशय्याय वराहावतराय च ।
वरदाय वरिष्ठाय वरानन्दाय ते नमः ॥ १९२॥
वाक्पत्रामोदशय्याय वाचामगोचराय च ।
वाक्सम्पत्तिविधात्रे च वागम्बराय ते नमः ॥ १९३॥
वासवाद्यभिपूज्याय वामनावतराय च ।
वासनापरिधावाय वासुदेवाय ते नमः ॥ १९४॥
वायुभोजिसुशय्याय वायुपुत्रनुताय च ।
वातरायणवीराय वातालयाय ते नमः ॥ १९५॥
विराजराजपूज्याय विजितात्मकृपालवे ।
विभीषणशरण्याय विश्रामाय नमो नमः ॥ १९६॥
विनतासुतवाहाय विश्वरूपाय विष्णवे ।
विषयासक्तिदूराय विश्वनाथाय ते नमः ॥ १९७॥
वीतरागविरोधाय विमलाय विभाय च ।
वीतरागैकरागाय वीतशोकाय ते नमः ॥ १९८॥
वेदवेदान्तसाराय वेदवेद्याय वेधसे ।
वेङ्कटाद्रिनिवासाय वेङ्कटेशाय ते नमः ॥ १९९॥
वैदेहीभाग्यभोग्याय वैभोगरङ्गशायिने ।
वैराग्यत्यागरूपाय वैकुण्ठपतये नमः ॥ २००॥
व्यक्ताव्यक्तसुरूपाय व्याध्याध्यार्त्यपहारिणे ।
व्याप्तसर्वस्वरूपाय व्यासस्तुताय ते नमः ॥ २०१॥
शङ्करालीनसन्नाम्ने शङ्खचक्रादिधारिणे ।
शस्ततारकनाम्ने च शरदाभाय ते नमः ॥ २०२॥
शरजाननशोभाय शरनैपुण्यकीर्तये ।
शरणागतरक्षाय शरण्याय नमो नमः ॥ २०३॥
शापमोचनपादाय शान्तसौख्यावहाय च ।
शाम्भवीरतसन्नाम्ने शान्तिभूषाय ते नमः ॥ २०४॥
शिवारामसुनाम्ने च शिवप्रियशिवाय च ।
शिवरामाभिरामाय शिवंकराय ते नमः ॥ २०५॥
शीकागङ्गाभिषिक्ताय शीकरस्पर्शशान्त्विने ।
शीकारदृष्टिदीक्षाय शीलवृत्ताय ते नमः ॥ २०६॥
शुभाकराय शुभ्राय शुभाङ्कितसुरूपिणे ।
शुक्तिबीजस्मिताभाय शुचिव्रताय ते नमः ॥ २०७॥
शून्यापहाय शूराय शृङ्गारशेखराय च ।
शृङ्गारगुणधाम्ने च शृङ्गारहरये नमः ॥ २०८॥
शेषतुल्यसुपाणाय शेषश्वासार्चिताय च ।
शेषतल्पसुशय्याय शेषाचलाय ते नमः ॥ २०९॥
शैलोत्तुङ्गसुपुण्याय शैलसारसुधर्मिणे ।
शैलोत्सङ्गगभीराय शैथिल्यहाय ते नमः ॥ २१०॥
शोकतौषारसूर्याय श्लोकितस्वसुकीर्तये ।
शोकोद्भूतसुकाव्याय श्लोकप्रियाय ते नमः ॥ २११॥
शौभाय शौर्यगुण्याय श्याममेघस्वनाय च ।
श्यामसुन्दरगात्राय श्यामाभाय नमो नमः ॥ २१२॥
श्रद्धालुसिद्धिदात्रे च श्रान्तसंवाहनाय च ।
श्रावितस्वचरित्राय श्रितावनाय ते नमः ॥ २१३॥
श्रीहयग्रीवरूपाय श्रीमानसविलासिने ।
श्रीरङ्गपुरिवासाय श्रीलक्ष्मीपतये नमः ॥ २१४॥
श्रीरम्यचित्तरम्याय श्रीशसानन्दवाग्मिने ।
श्रीमण्यङ्कितवक्षाय श्रीनिवासाय ते नमः ॥ २१५॥
श्रुतितालस्वरूपाय श्रुतिसङ्कुलवासिने ।
श्रुतिशुद्धसुगीताय श्रुत्याधाराय ते नमः ॥ २१६॥
श्रेष्ठाय श्रेष्ठनाम्ने च श्रेष्ठसङ्गीतकीर्तये ।
श्रेष्ठचारित्रपुण्याय श्रेष्ठोत्कृष्टाय ते नमः ॥ २१७॥
श्रैष्ठ्यदैवत्यपूर्णाय श्रोत्राभिरामकण्ठिने ।
श्रोत्रपेयूषभाषाय श्रीरामाय नमो नमः ॥ २१८॥
षट्चक्रशक्तिमूलाय षट्शत्रुसूदनाय च ।
षड्जाधारश्रुतिस्थाय श्रीरामाय नमो नमः ॥ २१९॥
षाडवौडवरागाय षोडशोपचराय च ।
षोडशार्चितदैवाय श्रीरामाय नमो नमः ॥ २२०॥
सकलागमसाराय सकलार्थप्रदायिने ।
सकलाधारमूलाय सकलार्थाय ते नमः ॥ २२१॥
सकलावनदैवाय सनकादिनुताय च ।
सकलार्तिनिवाराय सकलाप्ताय ते नमः ॥ २२२॥
सत्कारुण्याय सद्भाय सद्गङ्गाजनकाय च ।
सद्भक्तार्णवसोमाय सनातनाय ते नमः ॥ २२३॥
सदागतिजदासाय सदानन्दस्वरूपिणे ।
सदात्मानन्दभासाय सदारामाय ते नमः ॥ २२४॥
सप्तस्वरसुभूषाय सप्तस्वरसमष्टये ।
सप्तस्वरसुभाषाय सप्तस्वरधये नमः ॥ २२५॥
सङ्गीतस्वरनन्दाय सङ्गीतप्राप्तिदायिने ।
सङ्गीतस्वरमिष्टाय सङ्गीताय नमो नमः ॥ २२६॥
सत्यसन्धाय सत्याय सत्यप्रकाशभासिने ।
सत्यवाक्सत्यरूपाय सत्यकामाय ते नमः ॥ २२७॥
सत्त्वाय सत्त्वरूपाय सत्त्वतत्त्वप्रकाशिने ।
सत्त्वारिदैत्यदाराय सत्त्वातीताय ते नमः ॥ २२८॥
सर्वस्मै सर्वसाराय सर्वमन्त्रस्वरूपिणे ।
सर्वाभीष्टप्रदात्रे च सर्वोन्नताय ते नमः ॥ २२९॥
सहस्रातीतनाम्ने च सहस्रश्लोककीर्तये ।
सहस्रियकृतिस्थाय सहस्राकृतये नमः ॥ २३०॥
साधुमानसगेहाय साकेतपुरिवासिने ।
सारसाक्षमुखाभाय सारसाराय ते नमः ॥ २३१॥
साधुरूपवनस्थाय सालसम्पाटनाय च ।
साधुसज्जनजीवाय सानन्दाय नमो नमः ॥ २३२॥
सामादिनिगमार्थाय सामगानप्रियाय च ।
सामानसार्णवाब्जाय सारामाय नमो नमः ॥ २३३॥
सिद्धप्रियाय सिद्धाय सिद्धिसद्भुक्तिदायिने ।
सिद्धसद्गुरुगेयाय सिद्धारामाय ते नमः ॥ २३४॥
सीताहृत्सारसार्काय सीतामनोहराय च ।
सीतासाध्वीसुदाराय सीतारामाय ते नमः ॥ २३५॥
सुमनोजनमित्राय सुधासारसुभाषिणे ।
सुस्वराजितकंदाय सुरारामाय ते नमः ॥ २३६॥
सूर्यवंशाद्रिदीपाय सूर्यचन्द्रप्रभाससे ।
सूत्रधाराय सूराय सूरिनाम्ने नमो नमः ॥ २३७॥
सृष्टिस्थित्यन्तकाराय सेवितस्तुतिमालिने ।
सेविकानन्ददात्रे च सेवारामाय ते नमः ॥ २३८॥
सोत्कण्ठेष्टवराधात्रे सोत्कृष्टशक्तिदायिने ।
सोहँल्लयात्मलीनाय सोहंभावाय ते नमः ॥ २३९॥
सौमित्रिसुप्रियाप्ताय सौदामनीयभाससे ।
सौमङ्गलप्रदात्रे च सौम्याय ते नमो नमः ॥ २४०॥
स्नातगङ्गासुखादात्रे स्थावरास्थावरात्मने ।
स्वीकृतानन्यभक्ताय स्वरानन्दाय ते नमः ॥ २४१॥
स्वरान्तस्थस्वराभाय स्वरमाधुर्यसेविने ।
स्वराकाशप्रदीपाय स्वरारामाय ते नमः ॥ २४२॥
स्फुरत्सहस्रनाम्ने च स्वप्रकाशजिताग्नये ।
स्वतन्त्राय स्वमन्त्राय स्वात्मारामाय ते नमः ॥ २४३॥
हरिरामावताराय हरिनारायणाय च ।
हरिगोविन्दकृष्णाय हरये ब्रह्मणे नमः ॥ २४४॥
हंसाय हंसगुह्याय हर्षोत्कर्षप्रभाविने ।
हंसानन्दप्रकाशाय हंसारामाय ते नमः ॥ २४५॥
हिमालयप्रशान्ताय हिमगङ्गाप्रभूतये ।
हिमालयगभीराय हिमालयाय ते नमः ॥ २४६॥
हृज्जगङ्गाभिषिक्ताय हृद्गभीरार्चिताय च ।
हृल्लसत्सत्सुदीपाय हृत्सेविताय ते नमः ॥ २४७॥
हृद्गुहासन्निवासाय हृद्गुहादीपनाय च ।
हृदन्तरङ्गदैवाय हृदारामाय ते नमः ॥ २४८॥
हृदयालयपूज्याय हृदयालयवासिने ।
हृदयालयदीपाय हृदालयाय ते नमः ॥ २४९॥
हृत्स्थसद्गुरुरूपाय हृत्सारसार्चिताय च ।
हृत्पुष्पामोदवासाय हृद्गताय नमो नमः ॥ २५०॥
पुष्पावलिसुरागाय पुष्पामोदस्तुताय च ।
पुष्पार्चितपदाब्जाय सीतारामाय मङ्गलम् ॥ २५१॥
मङ्गलम् अवनीजायै मङ्गलं राममूर्तये ।
मात्रे सुमङ्गलं पित्रे सीतारामाय मङ्गलम् ॥ २५२॥
मङ्गलं रामभद्राय मङ्गलश्लोककीर्तये ।
मङ्गलश्रीनिवासाय सीतारामाय मङ्गलम् ॥ २५३॥
मङ्गलं भूमिजापाय मङ्गलं भूसुपालिने ।
मङ्गलं दिव्यगङ्गाय विष्णवे शुभमङ्गलम् ॥ २५४॥
सीतारामात्मलीनाय पुष्पावलिप्रमोदिने ।
त्यागब्रह्मगुरुस्वामिपादपुष्पाय मङ्गलम् ॥ २५५॥
श्रीरामनामसत्कीर्तिरक्षरावलिसंस्तुतिः ।
नामपुष्पार्चनप्राप्तिर्भगभव्यसुमङ्गलम् ॥ २५६॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया
अनुरागेण कृता श्रीरामसहस्रनामाक्षरपुष्पावलिः गुरौ समर्पिता ।
ॐ
शुभमस्तु ।
Source: Shri Tyagarama Pushpavali 2005
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan