॥ श्रीरामोदन्तम् ॥

॥ अथ बालकाण्डः ॥ श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् । श्रीरामोदन्तमाख्यास्ये श्रीवाल्मीकिप्रकीर्तितम् ॥ १॥ पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः । आसीदस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥ २॥ ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् । वव्रिरे च वरानिष्टानस्मादाश्रितवत्सलात् ॥ ३॥ रावणो मानुषादन्यैरवध्यत्वं तथानुजः । निर्देवत्वेच्छया निद्रां कुम्भकर्णोऽवृणीत च ॥ ४॥ विभीषणो विष्णुभक्तिं वव्रे सत्त्वगुणान्वितः । तेभ्य एतान्वरान्दत्त्वा तत्रैवान्तर्दधे प्रभुः ॥ ५॥ रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् । लङ्कापुरीं पुष्पकं च हृत्वा तत्रावसत्सुखम् ॥ ६॥ यातुधानास्ततः सर्वे रसातलनिवासिनः । दशाननं समाश्रित्य लङ्कायां सुखमावसन् ॥ ७॥ मन्दोदरीं मयसुतां परिणीय दशाननः । तस्यामुत्पादयामास मेघनादाह्वयं सुतम् ॥ ८॥ रसां रसातलं चैव विजित्य स तु रावणः । लोकानाक्रमयन् सर्वाञ्जहार च विलासिनीः ॥ ९॥ दूषयन्वैदिकं कर्म द्विजानर्दयति स्म सः । आत्मजेनान्वितो युद्धे वासवं चाप्यपीडयत् ॥ १०॥ तदीयतरुरत्नानि पुनरानाय्य किङ्करैः । स्थापयित्वा तु लङ्कायामवसच्च चिराय सः ॥ ११॥ ततस्तस्मिन्नवसरे विधातारं दिवौकसः । उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥ १२॥ तदाकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस्तटम् । तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥ १३॥ आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम् । किमर्थमागतोऽसि त्वं साकं देवगणैरिति ॥ १४॥ ततो दशाननात्पीडामजस्तस्मै न्यवेदयत् । तच्छ्रुत्वोवाच धातारं हर्षयन्विष्टरश्रवाः ॥ १५॥ अलं भयेनात्मयोने गच्छ देवगणैः सह । अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥ १६॥ आत्मांशैश्च सुराः सर्वे भूमौ वानररूपिणः । जायेरन्मम साहाय्यं कर्तुं रावणनिग्रहे ॥ १७॥ एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः । पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥ १८॥ अजीजनत्ततः शक्रो वालिनं नाम वानरम् । सुग्रीवमपि मार्ताण्डो हनुमन्तं च मारुतः ॥ १९॥ पुरैव जनयामास जाम्बवन्तं च पद्मजः । एवमन्ये च विबुधाः कपीनजनयन्बहून् ॥ २०॥ ततो वानरसङ्घानां वाली परिवृढोऽभवत् । अमीभिरखिलैः साकं किष्किन्धामध्युवास च ॥ २१॥ आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः । भार्यास्तिस्रोऽपि लब्ध्वासौ तासु लेभे न सन्ततिम् ॥ २२॥ ततः सुमन्त्रवचनादृष्यशृङ्गं स भूपतिः । आनीय पुत्रकामेष्टिमारेभे सपुरोहितः ॥ २३॥ अथाग्नेरुत्थितः कश्चिद्गृहीत्वा पायसं चरुम् । एतत्प्राशय पत्नीस्त्वमित्युक्त्वाऽदान्नृपाय सः ॥ २४॥ तद्‍गृहीत्वा तदैवासौ पत्नीः प्राशयदुत्सुकः । ताश्च तत्प्राशनादेव नृपाद्गर्भमधारयन् ॥ २५॥ पूर्णे कालेऽथ कौसल्या सज्जनाम्भोजभास्करम् । अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥ २६॥ ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत्सुतौ । अकारयत्पिता तेषां जातकर्मादिकं द्विजैः ॥ २७॥ ततो ववृधिरेऽन्योन्यं स्निग्धाश्चत्वार एव ते । सकलासु च विद्यासु नैपुण्यमभिलेभिरे ॥ २८॥ ततः कदाचिदागत्य विश्वामित्रो महामुनिः । ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ॥ २९॥ वसिष्ठवचनाद्रामं लक्ष्मणेन समन्वितम् । कृच्छ्रेण नृपतिस्तस्य कौशिकस्य करे ददौ ॥ ३०॥ तौ गृहीत्वा ततो गच्छन्बलामतिबलां तथा । अस्त्राणि च समग्राणि ताभ्यामुपदिदेश सः ॥ ३१॥ गच्छन्सहानुजो रामः कौशिकेन प्रचोदितः । ताटकामवधीद्धीमान् लोकपीडनतत्पराम् ॥ ३२॥ ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः । अध्वरं च समारेभे राक्षसाश्च समागमन् ॥ ३३॥ राघवस्तु ततोऽस्त्रेण क्षिप्त्वा मारीचमर्णवे । सुबाहुप्रमुखान् हत्वा यज्ञं चापालयन्मुनेः ॥ ३४॥ कौशिकेन ततो रामो नीयमानः सहानुजः । अहल्याशापनिर्मोक्षं कृत्वा सम्प्राप मैथिलम् ॥ ३५॥ जनकेनार्चितो रामः कौशिकेन प्रचोदितः । सीतानिमित्तमानीतं बभञ्ज धनुरैश्वरम् ॥ ३६॥ ततो दशरथं दूतैरानाय्य मिथिलाधिपः । रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥ ३७॥ ततो गुरुनियोगेन कृतोद्वाहः सहानुजः । राघवो निर्ययौ तेन जनकेनोरु मानितः ॥ ३८॥ तदाकर्ण्य धनुर्भङ्गमायान्तं रोषभीषणम् । विजित्य भार्गवं राममयोध्यां प्राप राघवः ॥ ३९॥ ततः सर्वजनानन्दं कुर्वाणश्चेष्टितैः स्वकैः । तामध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥ ४०॥ ॥ इति श्रीरामोदन्ते बालकाण्डः समाप्तः ॥
॥ अथ अयोध्याकाण्डः ॥ एतस्मिन्नन्तरे गेहं मातुलस्य युधाजितः । प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥ १॥ ततः प्रकृतिभिः साकं मन्त्रयित्वा स भूपतिः । अभिषेकाय रामस्य समारेभे मुदान्वितः ॥ २॥ कैकेयी तु महीपालं मन्थरादूषिताशया । वरद्वयं पुरा दत्तं ययाचे सत्यसङ्गरम् ॥ ३॥ वनवासाय रामस्य राज्याप्त्यै भरतस्य च । तस्या वरद्वयं कृच्छ्रमनुजज्ञे महीपतिः ॥ ४॥ रामं तदैव कैकेयी वनवासाय चादिशत् । अनुज्ञाप्य गुरून्सर्वान्निर्ययौ च वनाय सः ॥ ५॥ दृष्ट्वा तं निर्गतं सीता लक्ष्मणश्चानुजग्मतुः । सन्त्यज्य स्वगृहान्सर्वे पौराश्चानुययुर्द्रुतम् ॥ ६॥ वञ्चयित्वा तु तान्पौरान्निद्राणान्निशि राघवः । var - कृशान् पौरान् वाह्यमानं सुमन्त्रेण रथमारुह्य चागमत् ॥ ७॥ श्रिङ्गिबेरपुरं गत्वा गङ्गाकूलेऽथ राघवः । गुहेन सत्कृतस्तत्र निशामेकामुवास च ॥ ८॥ सारथिं संनिमन्त्र्यासौ सीतालक्ष्मणसंयुतः । गुहेनानीतया नावा सन्ततार च जाह्नवीम् ॥ ९॥ भरद्वाजमुनिं प्राप्य तं नत्वा तेन सत्कृतः । राघवस्तस्य निर्देशाच्चित्रकूटेऽवसत्सुखम् ॥ १०॥ अयोध्यां तु ततो गत्वा सुमन्त्रः शोकविह्वलः । राज्ञे न्यवेदयत्सर्वं राघवस्य विचेष्टितम् ॥ ११॥ तदाकर्ण्य सुमन्त्रोक्तं राजा दुःखविमूढधीः । रामरामेति विलपन्देहं त्यक्त्वा दिवं ययौ ॥ १२॥ मन्त्रिणस्तु वसिष्ठोक्त्या देहं संरक्ष्य भूपतेः । दूतैरानाययन् क्षिप्रं भरतं मातुलालयात् ॥ १३॥ भरतस्तु मृतं श्रुत्वा पितरं कैकयीगिरा । संस्कारादि चकारास्य यथाविधि सहानुजः ॥ १४॥ अमात्यैश्चोद्यमानोऽपि राज्याय भरतस्तदा । वनायैव ययौ राममानेतुं नागरैः सह ॥ १५॥ स गत्वा चित्रकूटस्थं रामं चीरजटाधरम् । ययाचे रक्षितुं राज्यं वसिष्ठाद्यैर्द्विजैः सह ॥ १६॥ चतुर्दश समा नीत्वा पुनरेष्याम्यहं पुरीम् । var aiShyAmi पुनरैष्याम्यहं इत्युक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥ १७॥ गृहीत्वा पादुके तस्माद्भरतो दीनमानसः । नन्दिग्रामे स्थितस्ताभ्यां ररक्ष च वसुन्धराम् ॥ १८॥ राघवस्तु गिरेस्तस्माद्गत्वाऽत्रिं समवन्दत । तत्पत्नी तु तदा सीतां भूषणैः स्वैरभूषयत् ॥ १९॥ उषित्वा तु निशामेकामश्रमे तस्य राघवः । विवेश दण्डकारण्यं सीतालक्ष्मणसंयुतः ॥ २०॥ ॥ इति श्रीरामोदन्ते अयोध्याकाण्डः समाप्तः ॥
॥ अथ आरण्यकाण्डः ॥ व्रजन्वनेन काकुत्स्थो विराधं विधिचोदितम् । सदारानुजमात्मानं हरन्तमवधीत्तदा ॥ १॥ शरभङ्गाश्रमं प्राप्य स्वर्गतिं तस्य वीक्ष्य सः । प्रतिजज्ञे राक्षसानां वधं मुनिभिरर्थितः ॥ २॥ तस्माद्गत्वा सुतीक्ष्णं च प्रणम्यानेन पूजितः । अगस्त्यस्याश्रमं प्राप्य तं ननाम रघूत्तमः ॥ ३॥ रामाय वैष्णवं चापमैन्द्रं तूणीयुगं तथा । ब्राह्मं चास्त्रं च खड्गं च प्रददौ कुम्भसम्भवः ॥ ४॥ ततः स गच्छन्काकुत्स्थः समागम्य जटायुषम् । वैदेह्याः पालनायैनं श्रद्धधे पितृवल्लभम् ॥ ५॥ ततः पञ्चवटीं प्राप्य तत्र लक्ष्मणनिर्मिताम् । पर्णशालामध्युवास सीतया सहितः सुखम् ॥ ६॥ तत्राभ्येत्यैकदा रामं वव्रे शूर्पणखाऽभिका । तन्निरस्ता लक्ष्मणं च वव्रे सोऽपि निराकरोत् ॥ ७॥ राममेव ततो वव्रे कामार्ता कामसन्निभम् । पुनश्च धिक्कृता तेन सीतामभ्यद्रवद्रुषा ॥ ८॥ लक्ष्मणेन तदा रोषात्कृत्तश्रवणनासिका । सा तु गत्वा जनस्थानं खरायैतन्न्यवेदयत् ॥ ९॥ तदाकर्ण्य खरः क्रुद्धो राघवं हन्तुमाययौ । दूषणत्रिशिरोमुख्यैर्यातुधानैः समन्वितः ॥ १०॥ तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः । खरं सहानुगं सङ्ख्ये जघानालघुविक्रमः ॥ ११॥ ततः शूर्पणखा गत्वा लङ्कां शोकसमन्विता । न्यवेदयद्रावणाय वृत्तान्तं सर्वमादितः ॥ १२॥ तच्छ्रुत्वा रावणः सीतां हर्तुं कृतमतिस्तदा । मारीचस्याश्रमं प्राप्य साहाय्ये तमचोदयत् ॥ १३॥ सोऽपि स्वर्णमृगो भूत्वा सीतायाः प्रमुखेऽचरत् । सा तु तं मृगमाहर्तुं भर्तारं समयाचत ॥ १४॥ नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः । अन्वगच्छन्मृगं तूर्णं द्रवन्तं काननान्तरे ॥ १५॥ विव्याध च मृगं रामः स निजं रूपमास्थितः । हा सीते लक्ष्मणेत्येवं रुदन्प्राणान्समत्यजत् ॥ १६॥ एतदाकर्ण्य वैदेह्या लक्ष्मणश्चोदितो भृशम् । तद्रक्षां देवताः प्रार्थ्य प्रययौ राघवान्तिकम् ॥ १७॥ तदन्तरे समासाद्य रावणो यतिरूपधृत् । सीतां गृहीत्वा प्रययौ गगनेन मुदाऽन्वितः ॥ १८॥ ततो जटायुरालोक्य नीयमानां तु जानकीम् । प्राहरद्रावणं प्राप्य तुण्डपक्षनखैर्भृशम् ॥ १९॥ छित्त्वैनं चन्द्रहासेन पातयित्वा च भूतले । गृहीत्वा रावणः सीतां प्राविशन्निजमन्दिरम् ॥ २०॥ अशोकवनिकामध्ये संस्थाप्य जनकात्मजाम् । रावणो रक्षितुं चैनां नियुयोज निशाचरीः ॥ २१॥ हत्वा रामस्तु मारीचमागच्छन्ननुजेरिताम् । वार्त्तामाकर्ण्य दुःखार्तः पर्णशालामुपागमत् ॥ २२॥ अदृष्ट्वा तत्र वैदेहीं विचिन्वानो वनान्तरे । सहानुजो गृध्रराजं छिन्नपक्षं ददर्श सः ॥ २३॥ तेनोक्तां जानकीवार्त्तां श्रुत्वा पश्चान्मृतं च तम् । दग्ध्वा सहानुजो रामश्चक्रे तस्योदकक्रियाम् ॥ २४॥ आत्मनोऽभिभवं पश्चात्कुर्वतीं पथि लक्ष्मणः । अयोमुखीं चकाराशु कृत्तश्रवणनासिकाम् ॥ २५॥ गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् । ततस्तु याचितौ तेन तद्देहं देहतुश्च तौ ॥ २६॥ स तु दिव्याकृतिर्भूत्वा रामं सीतोपलब्धये । सुग्रीवमृष्यमूकस्थं याहीत्युक्त्वा दिवं ययौ ॥ २७॥ ततः प्रीतो रघुश्रेष्ठः शबर्याश्रममभ्ययात् । तयाऽभिपूजितः पश्चात्पम्पां प्राप सलक्ष्मणः ॥ २८॥ ॥ इति श्रीरामोदन्ते आरण्यकाण्डः समाप्तः ॥
॥ अथ किष्किन्धाकाण्डः ॥ हनूमानथ सुग्रीवनिर्दिष्टो रामलक्ष्मणौ । प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥ १॥ var - श्रुत्वा ततो रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः । सख्यं च कारयामास तयोः पावकसन्निधौ ॥ २॥ प्रतिजज्ञे तदा रामो हनिष्यामीति वालिनम् । दर्शयिष्यामि वैदेहीमित्यन्येन च संश्रुतम् ॥ ३॥ सुग्रीवेणाथ रामाय भ्रातृवैरस्य कारणम् । निवेदितमशेषं च बलाधिक्यं च तस्य तत् ॥ ४॥ तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् । सुदूरं प्रेषयामास पादाङ्गुष्ठेन राघवः ॥ ५॥ पुनश्च दर्शितांस्तेन सालान्सप्त रघूत्तमः । बाणेनैकेन चिच्छेद सार्धं तस्यानुशङ्कया ॥ ६॥ किष्किन्धां प्राप्य सुग्रीवसतो रामसमन्वितः । जगर्जातीव संहृष्टः कोपयन् वानराधिपम् ॥ ७॥ वाली निष्क्रम्य सुग्रीवं समरेऽपीडयद्भृशम् । सोऽपि सम्भग्नसर्वाङ्गः प्राद्रवद्राघवान्तिकम् ॥ ८॥ कृतचिह्नस्तु रामेण पुनरेव स वालिनम् । रणायाह्वयत क्षिप्रं तस्थौ रामस्तिरोहितः ॥ ९॥ हेममाली ततो वाली तारयाऽभिहितं हितम् । निरस्य कुपितो भ्रात्रा रणं चक्रे सुदारुणम् ॥ १०॥ बाणेन वालिनं रामो विद्ध्वा भूमौ न्यपातयत् । सोऽपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥ ११॥ पश्चात्तपन्तं सुग्रीवं समाश्वास्य रघूत्तमः । वानराणामधिपतिं चकाराश्रितवत्सलः ॥ १२॥ ततो माल्यवतः पृष्ठे रामो लक्ष्मणसंयुतः । उवास चतुरो मासान्सीताविरहदुःखितः ॥ १३॥ अथ रामस्य निर्देशाल्लक्ष्मणो वानराधिपम् । आनयत्प्लवगैः सार्धं हनूमत्प्रमुखैर्गिरिम् ॥ १४॥ सुग्रीवो राघवं दृष्ट्वा वचनात्तस्य वानरान् । न्ययुङ्क्त सीतामन्वेष्टुमाशासु चतसृष्वपि ॥ १५॥ ततो हनुमतः पाणौ ददौ रामोऽङ्गुलीयकम् । विश्वासाय तु वैदेह्यास्तद्गृहीत्वा स निर्ययौ ॥ १६॥ ततो हनूमत्प्रमुखाः वानरा दक्षिणां दिशम् । गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यमाप्नुवन् ॥ १७॥ समयातिक्रमात्तत्र चक्रुः प्रायोपवेशनम् । तेऽत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥ १८॥ ततः प्रापुरुदन्वन्तमङ्गदाद्याः प्लवङ्गमाः । तं विलङ्घयितुं तेषां न कश्चिदभवत्क्षमः ॥ १९॥ स्वप्रभावप्रशंसाभिस्तदा जाम्बवदुक्तिभिः । संवर्धितो महेन्द्राद्रिमारुरोहानिलात्मजः ॥ २०॥ ॥ इति श्रीरामोदन्ते किष्किन्धाकाण्डः समाप्तः ॥
॥ अथ सुन्दरकाण्डः ॥ अभिवन्द्याथ सकलानमरान्पवनात्मजः । पुप्लुवे च गिरेस्तस्माद्विलङ्घयितुमर्णवम् १॥ स समुल्लङ्घ्य मैनाकं सुरसामभिवन्द्य च । निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥ २॥ लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः । सीतां विचिन्वन्नद्राक्षीन्निद्राणं निशि रावणं ॥ ३॥ अपश्यंस्तत्र वैदेहीं विचिन्वानस्ततस्ततः । अशोकवनिकां गत्वा कां चिदार्तां ददर्श सः ॥ ४॥ var - सीतां खिन्नां पादपं कञ्चिदारुह्य तत्पलाशैः सुसंवृतः । आस्ते स्म मारुतिस्तत्र सीतेयमिति तर्कयन् ॥ ५॥ रावणस्तु तदाऽभ्येत्य मैथिलीं मदनार्दितः । भार्या भव ममेत्येवं बहुधा समयाचत ॥ ६॥ अहं त्वद्वशगा न स्यामित्येषा तं निराकरोत् । var - त्वदनुगा काममन्युपरीतात्मा रावणोऽपि तदा ययौ ॥ ७॥ निर्गते रावणे सीतां प्रलपन्तीं स मारुतिः । उक्त्वा रामस्य वृत्तान्तं प्रददौ चाङ्गुलीयकम् ॥ ८॥ तत्समादाय वैदेही विलप्य च भृशं पुनः । चूडामणिं ददौ तस्य करे जग्राह सोऽपि तम् ॥ ९॥ मा विषादं कृथा देवि राघवो रावणं रणे । हत्वा त्वां नेष्यतीत्येनामाश्वास्य स विनिर्ययौ ॥ १०॥ नीतिमान् सोऽपि सञ्चिन्त्य बभञ्जोपवनं च तत् । अक्षादीनि च रक्षांसि बहूनि समरेऽवधीत् ॥ ११॥ ततः शक्रजिता युद्धे बद्धः पवननन्दनः । प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥ १२॥ var - रावणं तं रक्षोदीपितलाङ्गूलः स तु लङ्कामशेषतः । दग्ध्वा सागरमुत्तीर्य वानरान्समुपागमत् ॥ १३॥ स गत्वा वानरैः साकं राघवायात्मना कृतम् । निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥ १४॥ ॥ इति श्रीरामोदन्ते सुन्दरकाण्डः समाप्तः ॥
॥ अथ युद्धकाण्डः ॥ अथासङ्ख्यैः कपिगणैः सुग्रीवप्रमुखैः सह । निर्ययौ राघवस्तूर्णं तीरं प्राप महोदधेः ॥ १॥ तदा विभीषणो भ्रात्रा त्यक्तो राममुपागमत् । लङ्काधिपत्येऽभ्यषिञ्चदेनं रामोऽरिमर्दनः ॥ २॥ दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः । var - उक्तमार्गः कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥ ३॥ ततो राघवनिर्दिष्टा नीलमुख्याः प्लवङ्गमाः । रुरुधुः सर्वतो लङ्कां वृक्षपाषाणपाणयः ॥ ४॥ रावणस्य नियोगेन निर्गतान्युधि राक्षसान् । प्रहस्तप्रमुखान्हत्वा नेदुस्ते सिंहविक्रमाः ॥ ५॥ सुग्रीवश्च हनूमांश्च तथा राघवलक्ष्मणौ । राक्षसान्सुबहून्युद्धे जघ्नुर्भीमपराक्रमाः ॥ ६॥ रावणिस्तु तदाऽभ्येत्य समरे रामलक्ष्मणौ । var - तदाऽभेत्य ननाह नागपाशेन नागारिस्तौ व्यमोचयत् ॥ ७॥ रावणोऽपि ततो युद्धे राघवेण पराजितः । कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥ ८॥ NOTE: at this point in yuddha kANDaM, after shloka 8, there are two different versions available from different editions VERSION 1 (only 14 shlokas after shloka 8) Reference: SiddharUpam (In Malayalam) रक्षोभिस्सह निर्याय भक्षयन्तं प्लवङ्गमान् । सहानुगं कुम्भकर्णं जघानाशु स राघवः ॥ ९॥ इन्द्रजित्पुनरप्याजौ सानुजं च रघूत्तमम् । अमोहयद्वानरांश्च ब्रह्मास्त्रेणास्त्रकोविदः ॥ १०॥ तदैव गत्वा हनुमानानीयौषधिपर्वतम् । तान्सर्वान्बोधयित्वाऽऽशु तत्स्थानेऽस्थापयच्च तम् ॥ ११॥ ततो निकुम्भिलां गत्वा सौमित्रिः सविभीषणः । निषिद्ध्येन्द्रजितो होमं संयुगे तं जघान च ॥ १२॥ तच्छ्रुत्वा रावणः क्रुद्धो निर्याय शरवृष्टिभिः । प्लवङ्गमान्पीडयित्वा रामेण युयुधे भृशं ॥ १३॥ रामोऽपि सुचिरं तेन कृत्वा युद्धं सुदारुणम् । ब्रह्मास्त्रेण जघानैनं ब्रह्मदत्तवरं रिपुम् ॥ १४॥ तदा शक्रादयो देवा हृष्टा रावणनिग्रहात् । रघूत्तमस्योत्तमाङ्गे पुष्पवृष्टिमकुर्वत ॥ १५॥ राक्षसानामधिपतिं कृत्वा रामो विभीषणम् । अग्निप्रवेशसंशुद्धां परिजग्राह मैथिलीम् ॥ १६॥ पुरन्दरवरेणाशु जीवयित्वा प्लवङ्गमान् । अतोषयद्रघुश्रेष्ठो विविधैर्धनसञ्चयैः ॥ १७॥ ततः पुष्पकमारुह्य ससीतः सहलक्ष्मणः । निर्ययौ वानरैस्साकं रामो रक्षोऽधिपेन च ॥ १८॥ अयोध्यां प्रत्यसौ गच्छन्प्रेषयित्वानिलात्मजम् । भरतस्य मतं ज्ञात्वा नन्दिग्राममुपागमत् ॥ १९॥ भ्रातृभिः सह सङ्गम्य वेषं सन्त्यज्य तापसम् । अयोध्यां प्राविशद्रामः प्रीतैर्बन्धुजनैस्सह ॥ २०॥ वसिष्ठोऽथ द्विजैस्साकं मन्त्रिसामन्तसन्निधौ । सीतया सहितं राममभ्यषिञ्चद्यथाविधि ॥ २१॥ आह्लादयञ्जगत्सर्वं पौर्णमास्यां शशी यथा । अयोध्यामवसद्रामः सीतया सहितश्चिरम् ॥ २२॥ VERSION 2 (60 shlokas after shloka 8) Reference: ebook from http://hinduebooks.blogspot.com ततो वानरसङ्घांश्च भक्षयन्तं निशाचरम् । ऐन्द्रेणास्त्रेण रामोऽपि निजघान रणे भृशम् ॥ ९॥ ततो रावणसन्दिष्टौ देवान्तकनरान्तकौ । हनूमदङ्गदाभ्यां तु निहतौ रणमूर्धनि ॥ १०॥ अथातिकायमायान्तं रथमारुह्य वाहिनीम् । अर्दयन्तं महाकायं लक्ष्मणश्चावधीच्छरैः ॥ ११॥ ततो रावणसन्दिष्टः शक्रजिद्राघवौ रणे । ब्रह्मास्त्रेण च तौ बद्ध्वा वानरांश्चावधीच्छरैः ॥ १२॥ अथ जाम्बवतो वाक्याद्गत्वा चौषधिपर्वतम् । मारुतिश्चौषधीस्तत्रादृष्ट्वा कोपं चकार सः ॥ १३॥ var - चचार भूधरं तं समुत्पाट्य गृहीत्वा पुनरागतः । तासां गन्धेन वै सर्वान्राघवादीनजीवयत् ॥ १४॥ रावणः कपिभिर्दग्धां पुरीं वीक्ष्य रुषान्वितः । न्ययुङ्क्त कुम्भकर्णस्य पुत्रौ हन्तुं च राघवौ ॥ १५॥ अथार्दयन्तौ तत्सैन्यं वीक्ष्य तौ बलशालिनौ । कुम्भं रामोऽवधीद्बाणैर्निकुम्भं चात्मजो रवेः ॥ १६॥ ततः खरात्मजं तेन रावणेन प्रचोदितम् । पीडयन्तं कपीन्बाणैर्जघानास्त्रेण राघवः ॥ १७॥ ततः सन्तप्तहृदयो रावणो युद्धदुर्मदम् । प्रचोदयामास सुतं युद्धे हन्तुं स राघवौ ॥ १८॥ नगरान्निर्ययौ तूर्णमिन्द्रजित्समितिञ्जयः । मायासीतां विनिक्षिप्य सर्वेषां मोहनाय वै ॥ १९॥ वानरेष्वपि पश्यत्सु हनूमत्प्रमुखेषु च । जघान सीतां खड्गेन शितेन समितिञ्जयः ॥ २०॥ युद्धं त्यक्त्वा ततः सर्वैर्वानरैः स परीवृतः । दुःखितो हनुमांस्तत्र यत्र रमोऽव्रजल्लघु ॥ २१॥ उपगम्याब्रवीद्रामं हनूमान्निखिलं तदा । श्रुत्वा वृत्तान्तमखिलं रामो मोहमवाप सः ॥ २२॥ विभीषणोऽथ सम्प्राप्य दृष्ट्वा रामं च मूर्छितम् । विषण्णान्वानरान्वाचा सान्त्वयन्निदमब्रवीत् ॥ २३॥ मिथ्या विषादं सन्त्यज्य जगन्नायक हे प्रभो । शृणु मेऽभिहितं वाक्यं ज्ञात्वा रावणिमानसम् ॥ २४॥ दुरात्मना कृता माया राक्षसेन्द्रसुतेन वै । निकुम्भिलायां होमं तु कृतं तेनाधुना किल ॥ २५॥ लक्ष्मणं प्रेषयाद्यैव मया सह समन्त्रिणा । कृते होमे तत्र रिपुरजेयो भवति ध्रुवम् ॥ २६॥ उवाच रामः सौमित्रिं राक्षसेन्द्रसुतं जहि । गच्छेति शीघ्रं सुहृदा रावणस्यानुजेन सः ॥ २७॥ लक्ष्मणस्तु तदा राममामन्त्र्य सविभीषणः । निकुम्भिलां प्राप तूर्णमिन्द्रजिद्यत्र वर्तते ॥ २८॥ अदर्शयद्भ्रातृपुत्रं धर्मात्मा स विभीषणः । लक्ष्मणो भेदयामास राक्षसाञ्छरसञ्चयैः ॥ २९॥ कृत्वा चिरं तत्र युद्धमैन्द्रेणास्त्रेण वै रुषा । शिरश्चिच्छेद सौमित्रिर्दशाननसुतस्य हि ॥ ३०॥ स सुतस्य वधं श्रुत्वा रावणः शोककर्शितः । नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः ॥ ३१॥ निरर्थकं तु मज्जन्म जल्पितं च निरर्थकम् । येनाहमद्य पश्यामि हतमिन्द्रजितं रणे ॥ ३२॥ क्व गतोऽसि हतः शूर मानुषेण पदातिना । राज्याद्भ्रष्टेन दीनेन त्यक्त्वा मां पुत्र जीवितम् ॥ ३३॥ इन्द्रं जित्वा तु तं बद्ध्वा लङ्कामानीय वै बलात् । अकरोस्त्वं प्रतापेन कारागृहनिवासिनम् ॥ ३४॥ मोचयामास ब्रह्मा त्वां सान्त्वयित्वामराधिपम् । तादृक्त्वं कुत्र मां त्यक्त्वा गतोऽद्य सुदुरासदः ॥ ३५॥ किं करिष्याम्यहं पुत्र क्व गच्छामि वदाधुना । नय मां यत्र गन्तासि तत्र ते न विलम्बनम् ॥ ३६॥ लोकेषु त्वत्समो नास्ति तादृशस्य पितास्म्यहम् । इत्याशया स्थितं पुत्र गर्वितेन मयात्र हि ॥ ३७॥ धूम्राक्षो वज्रदंष्ट्रश्च कुम्भकर्णः प्रतापवान् । राक्षसा निहताः सर्वे प्रहस्तप्रमुखा अपि ॥ ३८॥ अनादृत्य तु तान्सर्वान्राक्षसान्प्रहृतानपि । अवष्टभ्य बलं पुत्र सुखेनावस्थितं तव ॥ ३९॥ इत्येवं बहुधा तत्र विलप्य स तु रावणः । अन्तर्नियम्य दुःखानि कोपं चक्रे सुदारुणम् ॥ ४०॥ रथं सूत ममाग्रे त्वं क्षिप्रं कुरु जयैषिणः । रामं सलक्ष्मणं हन्तुं निर्गमिष्याम्यहं गृहात् ॥ ४१॥ इत्युक्त्वा रथमारुह्य शीघ्रं सारथिवाहितम् । रामेण सह सङ्गम्य युद्धं चक्रे सुदारुणम् ॥ ४२॥ ततो मातलिनानीतं रथमैन्द्रं समारुहन् । रराज रामो धर्मात्मा ह्युदयस्थो यथा रविः ॥ ४३॥ चकार युद्धम् तुमुलं देववृन्दे च पश्यति । सीताहरणजात्कोपाद्रामो धर्मभृतां वरः ॥ ४४॥ अथागस्त्यस्य वचनाद्रावणं लोककण्टकम् । जघान रामो लक्ष्मीवान्ब्राह्मेणास्त्रेण तं रणे ॥ ४५॥ मन्दोदरी वधं श्रुत्वा भर्तुः प्रियतरस्य सा । विललाप रणं गत्वा कुररीव भृशातुरा ॥ ४६॥ विभीषणोऽथ रामेण सन्दिष्टः सह राक्षसैः । चकार दहनं तस्य रावणस्य गतायुषः ॥ ४७॥ अथाग्निवचनात्सीतां रामो वीक्ष्य सुनिर्मलाम् । सन्दिष्टो देववृन्दैश्च जग्राह पितृसन्निधौ ॥ ४८॥ तवैव युक्तं कर्मैतत्सर्वलोकभयङ्करम् । तद्वैदेह्याः कृते राम सा तु लक्ष्मीर्भवान्स्वभूः ॥ ४९॥ इत्येवं देवसङ्घैश्च मुनिभिश्चाभिपूजितः । लक्ष्मणश्च तुतोषाथ रामो विश्वासमाययौ ॥ ५०॥ विभीषणस्य धर्मात्मा सत्यसन्ध उदारधीः । कारयामास लक्ष्मीवाननुजेनाभिषेचनम् ॥ ५१॥ ततः पुष्पकमारुह्य सह मित्रैर्जगत्पतिः । भार्यानुजाभ्यां सहितः किष्किन्धां प्राप राघवः ॥ ५२॥ किष्किन्धानिलयाः सर्वाः कपीनां योषितः प्रियाः । सीताकुतूहलात्पुष्पं विमानं ताः समारुहन् ॥ ५३॥ अथ दाशरथिः श्रीमान्भरतं द्रष्टुमिच्छया । भरद्वाजाश्रमं प्राप्तस्तत्र तेन निवारितः ॥ ५४॥ भरतस्यान्तिकं रामः प्रेषयामास मारुतिम् । रामस्यादर्शनाद्वह्निप्रवेशं काङ्क्षतो भृशं ॥ ५५॥ तत्र तेन मुनीन्द्रेण सानुजः ससुहृद्गणः । सन्तोषविवशेनाथ रामोऽपि विधिपूजितः ॥ ५६॥ रामोऽथ सह सङ्गम्य भरतेनारिघातिना । अयोध्यां प्राविशत्तूर्णं मातृभिश्चाभिनन्दितः ॥ ५७॥ अथायोध्यानिवासास्ते जनाः सर्वेऽपि तोषिताः । अभिगम्याब्रुवन्रामं धन्या वयमिति द्रुतम् ॥ ५८॥ चातकास्तु घनान्दृष्ट्वा मयूराश्च यथा शिशून् । आसाद्य मातरस्तोषं तथा प्रापुर्जना भुवि ॥ ५९॥ अथाभिषेकं रामस्य वसिष्ठाद्या मुदाऽन्विताः । सहिता मन्त्रिभिश्चक्रुर्वसवो वासवं यथा ॥ ६०॥ अभिषेकोत्सवे सर्वे सुग्रीवाद्याः कपीश्वराः । यथार्हं पूजिताश्चासन् स्रग्गन्धाम्बरभूषणैः ॥ ६१॥ विशिष्य मुक्ताहारेण सीतया हनुमान्मुदम् । पूजितश्च तथा लेभे यथा सीतावलोकने ॥ ६२॥ सर्वासां वानरीणां च कौसल्या पुत्रवत्सला । भूषणैर्भूषयामास वस्त्रचन्दनकुङ्कुमैः ॥ ६३॥ रामाज्ञयाथ सर्वेऽपि सुग्रीवादिप्लवङ्गमाः । किष्किन्धां लेभिरे कृच्छ्राच्छ्रीरामविरहातुराः ॥ ६४॥ अतिभक्तो दीर्घजीवी लङ्कासमरसाधकः । अनुज्ञातः स रामेण लङ्कां प्रायाद्विभीषणः ॥ ६५॥ पितुस्सिंहासनं प्राप्य भ्रातृभिः सहितोऽनघः । विरराज तथा रामो यथा विष्णुस्त्रिविष्टपे ॥ ६६॥ लक्ष्मणानुमते रामो यौवराज्यं तु दत्तवान् । भरतायाप्रमेयाय प्राणात्प्रियतराय सः ॥ ६७॥ चत्वारस्ते महात्मानः सभार्या रघुसत्तमाः । खे सतारो यथा चन्द्रस्तथा रेजुः स्वपत्तने ॥ ६८॥ ॥ इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥
॥ अथ उत्तरकाण्डः ॥ राजा पर्यग्रहीदेव भार्यां रावणदूषिताम् । इत्यज्ञजनवादेन रामस्तत्याज मैथिलीम् ॥ १॥ तद्विदित्वाथ वाल्मीकिरानीयैनां निजाश्रमम् । अन्तर्वर्त्नीं समाश्वास्य तत्रैवावासयत्सुखम् ॥ २॥ ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः । शत्रुघ्नो लवणं युद्धे निहत्यैनानपालयत् ॥ ३॥ तपस्यन्तं ततः शूद्रं शम्बूकाख्यं रघूत्तमः । हत्वा विप्रस्य कस्यापि मृतं पुत्रमजीवयत् ॥ ४॥ रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति । आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ ॥ ५॥ शङ्क्यमाना पुनश्चैवं रामेण जनकात्मजा । भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥ ६॥ var - the next shloka is found only in some editions लक्ष्मणः सभयभ्रंशाद्रामेण समुपेक्षितः । मानुषं देहमुत्सृज्य स्वकं रूपं समाविशत् ॥ ७॥ अथ रामस्य निर्देशात्पौरैः सह वनौकसः । निमज्ज्य सरयूतीर्थे देहं त्यक्त्वा दिवं ययुः ॥ ८॥ ततो भरतशत्रुघ्नौ निजं रूपमवापतुः । रामोऽपि मानुषं देहं त्यक्त्वा धामाविशत्स्वकम् ॥ ९॥ श्रीरामोदन्तमाख्यातमिदं मन्दधिया मया । समीक्ष्य निपुणैस्सद्भिः संशोध्य परिगृह्यताम् ॥ १०॥ var - the next shloka is found only in some editions येषां प्रसादाद्रामस्य चरितं कीर्तितं मया । तान्गुरून्सर्वदा नौमि नारायणपरायणान् ॥ ११॥ यस्तु दाशरथिर्भूत्वा रणे हत्वा च रावणम् । ररक्ष लोकान्वैकुण्ठः स मां रक्षतु चिन्मयः ॥ १२॥ ॥ इति श्रीरामोदन्ते उत्तरकाण्डः समाप्तः ॥ Encoded and proofread by P. P. Narayanaswami swami at mun.ca Sriramodantam is a highly abridged version of Ramayana believed to be written by Parameshwara Kavi in 15th century. It has been in use as the first text in old Sanskrit curriculum of Kerala for last five centuries. As per this curriculum the students were taught this text along with Amarakosha and Siddharoopam immediately after they had learnt the Sanskrit alphabets (Varnamala).

% Text title            : rAmodantam
% File name             : rAmodantam.itx
% itxtitle              : rAmodantam
% engtitle              : rAmodantam
% Category              : 
% Location              : doc_raama
% Sublocation           : raama
% SubDeity              :
% Subcategory
% Texttype              : stotra
% Author                : Parameshwara Kavi from Kerala
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Christophe Vielle, P. P. Narayanaswami swami at mun.ca
% Proofread by          : P. P. Narayanaswami swami at mun.ca
% Translated by         :
% Description-comments  : khaNDakAvyam
% Source                :
% Indexextra            : GRETIL, malayalamebooks, SiddharUpam
% Acknowledge-Permission:
% Latest update         : May 10, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP