शिवप्रोक्तं सुरोपदेशः

शिवप्रोक्तं सुरोपदेशः

मन्मायामोहिता यूयमभिजातास्स्थ सत्तमाः । भवन्तः पशवस्सर्वे चाब्रह्मस्तम्भपूर्वकाः ॥ ५॥ अहं मायामयैः पाशैरीषणाभिस्सुरासुरान् । वध्वा क्रीडामि देव्या च जगत्यस्मिंश्चराचरे ॥ ६॥ अहमेव सुरान्त्सर्वान्मोचको भक्तिभावितः । मम रूपमविज्ञाय भवन्तो विग्रहं मम ॥ ७॥ दृष्टैव्व चेष्टां विविधां गुणभूतां गुणातिगाः । विषयेष्वनुरक्तं मां ज्ञात्वा मोहं परं गताः ॥ ८॥ तदद्यैवापनेष्यामि श‍ृणुध्वं परमं मम । गोप्याद्गोप्यतरं ज्ञानमथर्वशिरसि स्थितम् ॥ ९॥ सर्वश्रुतिशिरोद्भूतं साक्षादज्ञाननाशनम् । अहमेको निराधारो वर्ताम्याकाशवत्सदा ॥ १०॥ नैव लेपोऽस्ति मनसो मम कार्येन्द्रियैस्सदा । न महाभूतसङ्घैश्च न कालेन दिशा सुराः ॥ ११॥ वस्तुतो ह्यपरिछिन्नोह्यसङ्गोऽस्मिनिरामयः । अव्यक्तः परमात्माहं सर्वेषामन्तरास्थितः ॥ १२॥ अहमादिश्व मध्यञ्चाप्यहमन्तस्सनातनः । जगज्जन्मादिनाशोत्थङ्क्रियाभिर्नाहमीश्वरः ॥ १३॥ मत्त एवाखिलं विश्वं मय्येवेदं स्थितं सुराः । ब्रह्मविष्णवीश्वरेद्रेन्द्रा भवन्तो मत्त एव हि ॥ १४॥ निर्गतास्स्थ भवन्तो वै जगज्जालमिदं सुराः । सोमोऽहं जनिता देवास्सर्वेषां भवतां सुराः ॥ १५॥ भवद्भिस्सह मय्येव विद्यते तच्चराचरम् । न मत्तोऽस्ति पृथक्किञ्चिन्नेह नानास्ति किञ्चन ॥ १६॥ मां विज्ञायेदमखिलं जानन्त्येकं सनातनम् । ममैकत्वपरिज्ञानात्को मोहोऽत्र निलिम्पकाः ॥ १७॥ मां विदित्वैव परमा शान्तिस्तेषां सदैव हि । ग्रन्थिभिर्नाभिभूयन्ते काम्यकर्ममयैस्सुराः ॥ १८॥ वध्यन्तेऽत्र भवन्तो हि विवशा (पशवः) मम मायया । वाक्यैर्गुणमयैर्देवास्तत्फलं प्राप्यते दिवि ॥ १९॥ ये यथा मां प्रपद्यन्ते नानोपासनया सुराः । तांस्तथैवाहमेवाद्य तद्भावानां प्रपूरकः ॥ २०॥ तथैव प्रेरयाम्यद्य सोऽहङ्कारपरो भवेत् । मां प्रेरकमविज्ञाय कर्ताहमिति मन्यते ॥ २१॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुराः ॥ २२॥ (सर्वस्य प्रभुमीशानं सुरस्सर्वस्यकारणम्) ॥ २२॥ अपाणिपादोऽजवनः पश्याम्यहमतन्द्रितः । अचक्षुश्श्रोत्रहीनोऽस्मि मनःप्राणातिगोऽस्म्यहम् ॥ २३॥ मयावास्यमिदं सर्वे मां विज्ञाय विमुच्यते । अहं सर्वशरीरेषु विजानामीदमेवहि ॥ २४॥ न वेत्ति मां सुराः कोऽपि योगयुक्तोऽपि कश्चन (मुक्तये) । सर्वाश्रयोऽहं हि सदा सर्वाधारश्च सत्तमः ॥ २५॥ पञ्चकोशविहीनश्च पञ्चभूतातिगोऽस्म्यहम् । पञ्चप्राणातिगश्चाहं क्वेदं देहेन्द्रियं सुराः ॥ २६॥ अपक्षपातसहितस्सर्वभूतेषु सर्वदा । लोकोत्थसुखदुःखश्च षडूर्मिभिरपि द्रुतम् ॥ २७॥ नैव लिप्तोऽस्मि देहेषु ह्यशीर्ष्णोहमवस्थितः । सूर्यो यथा सर्वलोकं प्रवर्तयति कर्मभिः ॥ २८॥ लोककार्यविहीनश्च तद्वत्साक्षिरहं स्थितः । कायप्राणमनोधर्मैर्नानाहङ्कारसम्भवैः ॥ २९॥ धर्मैर्वा पापजालैर्वा नैव लेपोऽस्ति मे सुराः । काष्टाहं परमश्चाहं भासकोऽहं जडेष्वपि ॥ ३०॥ भीपास्मादनिलो वाति भीषोदेति गभस्तिमान् । भीषैव चन्द्रयमका भीषैवेदं स्थितञ्जगत् ॥ ३१॥ ज्योतिषां ज्योतिरस्मीह बिम्बाबिम्बातिगोऽस्म्यहम् । एकत्वं वा तथा द्वित्वं बहुत्वं वा न किञ्चन ॥ ३२॥ नैव मुक्तिर्नैव बन्धो मयि सर्वेश्वरे सुराः । सर्वभूमात्वहं देवास्साक्ष्यसाक्षिविवर्जितः ॥ ३३॥ न चाणुर्न महांश्चापि निर्गुणस्सगुणोऽपि वा । न माया मायि वा किञ्चिन्नैवाहमपि चेश्वरः ॥ ३४॥ एषोऽहं परमानन्दो रसोऽहं सर्ववस्तुगः । एप ब्रह्मादिस्सर्वश्चाप्यहमेव सदा सुराः ॥ ३५॥ यूयमादिस्सर्व एव सीमा भूमाहमेव हि । न वेदवादवेदान्तैर्न गुरूक्त्या न चेच्छया ॥ ३६॥ (न वेदवादवेदान्तैर्न गुरूक्त्या नचेज्यय) ॥ ३६॥ न कर्मणा वा तपसा प्राप्नोत्येकोऽपि वा सुराः । मत्प्रसादेनैव देवा वृणुतम्भक्तमेव हि ॥ ३७॥ मन्निष्ठां सर्वभावेन कश्चिज्जानाति वा न वा । अथान्यथा नयत्यर्थं वेदान्तानां दुरात्मवान् ॥ ३८॥ मामविज्ञाय दुःखौघान्नैव मुक्तो भविष्यति । विभूतिं मम वक्ष्यामि श‍ृण्वन्तु परमां सुराः ॥ ३९॥ यल्लाभान्नापरो लाभो मत्प्रसादेन लभ्यते । ये भस्मनिष्टास्सततं तेषामेव प्रकाशयेत् ॥ ४०॥ ये त्रिपुण्ड्रलसद्भालास्तेपामेतत्प्रकाश्यते । ये रुद्राक्षमहादेहास्तेषामेतत्प्रकाश्यते ॥ ४१॥ ये रुद्राध्यायनिरतास्तेषामेतत्प्रकाश्यते । ये मल्लिङ्गाराधनेछास्तेषामेतत्प्रकाश्यते ॥ ४२॥ (ये मल्लिङ्गाराधनेछाबिल्वपत्रादिसाधनै) ॥ ४२॥ ये पञ्चाक्षरसन्मन्त्रजपध्यानैकमानसाः । तेषां श्रुतिशिरोद्भूतं ज्ञानं विप्रेषु जायते ॥ ४३॥ ये शिवक्षेत्रनिरतास्तेषामेतत्प्रकाश्यते । अनन्यभावास्सततं वेदान्ते मयि ये गुरौ ॥ ४४॥ अनन्यभावा ये देवास्सदा कौटिल्यवर्जिताः । मन्नामनिरता ये वै तेषामेतत्प्रकाश्यते ॥ ४५॥ सर्वेभ्यो देवसङ्घेभ्यो वरिष्ठं मन्वते हि ये । मध्याननिरता ये वै तेषामेतत्प्रकाश्यते ॥ ४६॥ मध्यानं वेदवेदान्तसारतात्पर्यचिन्तनम् । तेष्वशक्तेषु मद्रूपचिन्तनं तत्प्रबुध्यते ॥ ४७॥ चिन्तयेन्नीलकण्ठं मां त्रिणेत्रं चन्द्रशेखरम् । उमार्धविग्रहं रूपं स्वहृत्पद्मस्य सद्मगम् ॥ ४८॥ भावयन्त्सततं युक्तस्तज्ज्ञानं प्राप्नुयात्सुराः । अपरोक्षं हि मे ज्ञानं तस्य जायेत निश्चितम् ॥ ४९॥ एवं साधनहीनानां ज्ञानं तद्दुर्लभं सुराः । श‍ृण्वन् गुरुमुखैर्भावैर्बुद्ध्या शब्दार्थवेदनैः ॥ ५०॥ तन्नैव तत्प्राप्नुयाज्ज्ञानं कोटिकल्पशतैरपि । मत्प्रसादविहीनो यो गृही वाथ यतिर्वनी ॥ ५१॥ तन्नैव प्राप्नुयाज्ज्ञानं साक्षात्संसारमोचकम् ॥ ५२॥ यस्मिन् ग्रामे पुरे वा सततपरिचितापारशैवप्रचारा रुद्राध्यायजपादरास्सितलमद्भस्मत्रिपुण्ड्रादराः । शम्भोर्लिङ्गसमर्चकास्तु सुतरां ते नातुरं नैव ते सम्प्राप्यन्ति यमाद्भयं जनिजरारोगप्रणाशेन वा ॥ ५३॥ ज्ञानमेतदतिदुर्लभं सुरा भुक्तिमुक्तिजनकं मम भक्त्या । युक्तियुक्तगुरुसूक्तिसुधाब्धौ रुद्धमाद्यमनघं सततञ्च ॥ ५४॥ लभ्यते किल पचेलिमपुण्यैः कस्यचिन्ममकृपावशतो हि । बन्धहृद्धृदयभेदकं सुराह्यन्यथास्य न पथा न कर्मणा ॥ ५५॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये शिवप्रोक्तं सुरोपदेशः ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५० - सुरोपदेशः । ५-५५॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 50 - suropadeshaH . 5-55.. Notes: Śiva शिव delivers Upadeśa to Deva-s सुरोपदेश whereby He outlines the methods and merits of worshipping Him. Encoded and proofread by Ruma Dewan
% Text title            : Shivaproktam Suropadeshah
% File name             : suropadeshaHshivaproktaM.itx
% itxtitle              : suropadeshaH shivaproktaM (shivarahasyAntargatA)
% engtitle              : suropadeshaH shivaproktaM
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 50 - suropadeshaH | 5-55||
% Indexextra            : (Scans 1)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org