॥ ईशावास्योपनिषदि श्रीराघवेन्द्रयतिविरचितः खण्डार्थः ॥

% श्रीराघवेन्द्रयतिविरचितः % श्रीमदीशावास्योपनिषत्खण्डार्थः ॐ ॥ श्रीप्राणपतिमानम्य पूर्णबोधादिदेशिकान् । ईशावास्योपनिषदः करिष्याम्यर्थसङ्ग्रहम् ॥ अस्या उपनिषदः स्वायम्भुवो मनु ऋषिः । यज्ञनामा हरिर्देवता । अनुष्टुबादि यथायोग्यं छन्दो ज्ञेयम् । “ अनेजद्” इत्यादिना तत्त्वं विवक्षुरुपदिष्टं तत्त्वं अधिकारिण एव हि हृद्यवतिष्ठते, नान्यस्य, इति एतदुपनिषदधिकारसिद्ध्यर्थं विच्छिन्नविषयतृष्णत्वं तावदाद्येन मन्त्रेण सयुक्तिकं विधत्ते - %“ ईशा” इति ॥ ॐ ईशावास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥ “ यत्किञ्च” जगदिदं तत्सर्वं प्रवृत्त्यर्थं आत्मनि “ ईशावास्यम्” । आवासमर्हति, इति आवास्यम् । ईशस्य आवास्यं “ ईशावास्यं”, lस्क़् ईशानुप्रविष्टम्rस्क़् इत्यर्थः । “ तदेवानुप्राविशद्” इत्यादेः । lस्क़् अतोऽस्वतन्त्रम्rस्क़् इति भावः । किञ्च “ जगत्यां” प्रकृताविदं सर्वमाश्रितम् । सा च ईशायत्ताऽतोऽपि अस्वतन्त्रम् । ईश एव स्वतन्त्रः । तेन कारणेन “ तेन” ईश्वरेण “ त्यक्तेन” दत्तेन वित्तेन । lस्क़् यदृच्छालब्धेनrस्क़्, इति यावत् । “ भुञ्जीथाः” भोगं कुर्याः । “ कस्यस्वित्” कस्यापि राजादेः सकाशात् “ धनं” “ मा गृध”, नाऽकाङ्क्षेथाः । lस्क़् ईशादन्यस्यास्वातन्त्र्येण तस्य दाने सामर्थ्याभावाद्, ईशदत्तेनैव वर्तेतrस्क़् - इति भावः ॥ १॥ lस्क़् तृष्णाविच्छेदवत्, स्वोचितकर्मानुष्ठानमपि ज्ञानार्थिनां आवश्यकम्rस्क़्, इत्याह - कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥ “ शतं समाः”, शतं वर्षाणि । “ कालाध्वनोरत्यन्तसंयोगे” (अष्टा. २.३.५) इति द्वितीया । इह मानुषादिजन्मनि यावज् “ जिजीविषेत्” जीवितुमिच्छेत् तावत् “ कर्माणि” “ कुर्वन्नेव” - lस्क़् आमरणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि सर्वथा कुर्याद्rस्क़् इति यावत् । कुतः? एवं कर्माणि कुर्वति नरे मनुष्यमात्रेऽपि त्वयि कर्म पापं न लिप्यते । स्वोचितेन असङ्कल्पितफलेन कर्मणा भगवत्पूजां कुर्वन्तं अल्पाधिकारिणामपि न प्रागुत्तराणि पापानि बाधन्ते । lस्क़् ततश्च ज्ञानाधिकारी स भवतिrस्क़् इति यावत् । इतःकर्मकरणात् lस्क़् अन्यथा अकरणे कर्म पापं न लिप्यतrस्क़् इति नास्ति । lस्क़् भगवत्पूजामकुर्वन्तं पापानि बाधन्त एव । ततश्चासौ ज्ञाने न अधिक्रियते । अतश्च कर्माणि कुर्याद्rस्क़् - इति । पुरुषार्थनये, “ नियमाच्च” (ब्र.सू. ३.४.७) इति सूत्रभाष्यादौ “ नरे ज्ञानिन्यपि त्वयि कर्म न लिप्यत इति नास्ति” इति lस्क़् अपरोक्षज्ञानिनोऽपि कर्माकरणे मुक्तौ आनन्दह्रासरूप पापकर्मलेपो अस्त्येवrस्क़्, इति ज्ञानिपरतया मन्त्रो व्याख्यातः ॥ २॥ एवं प्राप्ताधिकारं प्रति परमात्मतत्त्वबुभुत्साजननाय विपरीतज्ञानिनो निन्दायां आह - असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥ सुष्ठु रमणं सुर्यम् । सुपूर्वस्य रमतर्ड्यप्रत्ययः तद्विरुद्धं असुर्यं महादुःखम् । असुर्यमेषु अस्तीत्यसुर्याः । अर्श आद्यच् प्रत्ययान्तोऽयम् । महादुःखवत्त्वाद् “ असुर्याः” । असुरप्राप्यत्वाद् वा “ असुर्याः” । “ अन्धेन तमसाः” अन्धयतीति व्युत्पत्त्या, निबिडान्धकारेण इत्यर्थः । lस्क़् आवृतास्ते प्रसिद्धा यःrस्क़् इति शेषः । लोकास्तान् “ प्रेत्य” मृत्वा “ अभिगच्छन्ति” । lस्क़् ते क?rस्क़् इत्यत उक्तं, “ य” इति । “ आत्महनः” - lस्क़् यथावद् आत्मानमज्ञात्वा वैपरीत्येन जानन्तो, ये केचन वर्तन्ते ते सर्वेऽपि अभिगच्छन्तिrस्क़्, इति । “ नाम” - lस्क़् निश्चितमेतद्rस्क़्, इत्यर्थः ॥ ३॥ अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥ इदानीं परमात्मतत्त्वमुपदिशति, “ अनेजद्” इत्यादिमन्त्रद्वयेन । तत्परमात्मस्वरूपं अनेजत् । “ एजृ कम्पने” । lस्क़् अकम्पमानं निर्भयत्वाद्rस्क़्, इति भावः । “ एकं” प्रधानम् । “ मनसो''ऽपि “ जवीयः” वेगवत्तरम् । “ एनत्” परब्रह्मस्वरूपं “ देवाः” न “ आप्नुवत्” साकल्येन न व्यजानन् । lस्क़् ब्रह्म तु “ पूर्वं” अनादिकालं स्वभावतंrस्क़्, इति यावत् । “ अर्षत्”, “ ऋष ज्ञाने” सर्वं व्यजानत् । आडागमाभावच्छान्दसः (आडागमाभावश्छन्दसः) । “ तद्” ब्रह्म “ तिष्ठत्” विद्यमानमेव (विद्यमानेव) सद् “ धावतो”, वेगेन गच्छतो “ ऽन्यान्” जनान् “ अत्येति” अतिक्रम्य वर्तते । lस्क़् अचिन्त्यशक्तित्वात्, सर्वगतत्वाच्चrस्क़्, इति भावः । “ तस्मिन्” हरौ “ मातरिश्वा” मुख्यवायुः आसमन्तात् पालयन्तीति व्युत्पत्त्या अपः कर्माणि । lस्क़् स्वप्रेरणया प्राणिभिः क्रियमाणानि पुण्यकर्माणि “ दधाति” समर्पयतिrस्क़् - इति ॥ ४॥ तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ ५॥ “ तद्''इति पञ्चम्यर्थे अव्ययम् । lस्क़् जगद्rस्क़् इति शेषः । तत्तस्मात् प्रकृताद् हरेः जगद् “ एजति” बिभेति - तत् ब्रह्म “ नैजति” न बिभेति, स्वतन्त्रत्वाद्, इति भावः । तदु तदेव ब्रह्म दूरे । lस्क़् तदु तदेवान्तिके समीपे च, सर्वगतत्वाद्rस्क़्, इति भावः । तत् ब्रह्म अस्य प्रमितस्य सर्वस्यान्तः । lस्क़् तदु तदेव सर्वस्य बाह्यतः, बहिरपि सर्वव्यापित्वाद्rस्क़्, इति भावः ॥ ५॥ यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥ “ तद्दूर” इत्यादौ हरेः सर्वभूताश्रयतया सर्वभूतगतत्वमुक्तम् । तज्ज्ञानस्य फलमाह - “ यस्तु” इति । “ सर्वाणि भूतानि” चिदचिदात्मकं सर्वं जगत् । “ आत्मन्येव” परमात्माश्रयत्वेन एव अस्तीति “ यस्तु” “ अनु” निस्सन्देहं “ पश्यति” जानाति । यद्वा आश्रितत्वक्रमानुरोधेनेति “ अनु''शब्दार्थः । “ सर्वभूतेषु च आत्मानं” - lस्क़् सर्वभूतेषु नियन्तृतया स्थितं हरिं यो अनुपश्यतिrस्क़्, इत्यन्वयः । ततः परमात्मस्वरूपज्ञानित्वात् हेतोर् “ न विजुगुप्सते” । lस्क़् स्वात्मानं गोप्तुं नेच्छति, भयाभावाद्rस्क़्, इति भावः ॥ ६॥ एतमेवार्थं विवृणोति - यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥ lस्क़् यस्मिन्नात्मनि सर्वाणि भूतानि तिष्ठन्ति” इति शेषः । स “ आत्मैव” तत्र सर्वभूतेषु “ अभूत्”, lस्क़् अनादितो वर्ततrस्क़् इत्यर्थः । lस्क़् एवम्rस्क़् इति शेषः । एवं “ विजानतः” सर्वाधारतया सर्वेषु भूतेषु आत्मानं विशेषेण जानतः सर्वत्र स्थितस्य हरेः “ एकत्वं” च “ अनुपश्यतः” जानतः, को मोहः कः शोकः? - न कोऽपि, इत्यर्थः ॥ ७॥ lस्क़् भगवज्ज्ञानमात्रेण कुतो मोहाद्यभाव?rस्क़् इत्यत आह - स पर्यगाच्छुक्रमकायमव्रणमस्नाविरꣳ शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥ lस्क़् स ज्ञानी पर्यगात् प्राप्तोऽभूत् ब्रह्माrस्क़् इति शेषः । lस्क़् तावता कथं शोकाद्यभाव?rस्क़् इत्यतः तद्विशिनष्टि, “ शुक्रम्” इत्यादिना । lस्क़् शुचं शोकं रहति त्यजतिrस्क़्, इति शुक्रं शोकरहितम् । “ अकायं” लिङ्गदेहरहितम् । “ अव्रणं”, “ व्रण सञ्चूर्णन” इत्यतः स्तोको व्रणः । कालेन अस्तोकत्वादव्रणं नित्यम् । गुणैरस्तोकत्वाद् “ अव्रणम्” - पूर्णमित्यर्थः । “ अस्नाविरम्” स्नावोपलक्षितसप्तधातुमयस्थूलदेहरहितम् । “ शुद्धं” पावित्र्यहेतुं, शुद्धत्वादेव “ अपापविद्धम्” । तत एव हेतोः पापमूलस्थूलसूक्ष्मशरीरहीनम् । तत एव lस्क़् देहनिमित्तशोकादिशून्यम्rस्क़्, इति “ शुक्रम्” इत्युच्यते । एवम्भूतं हरिं “ पर्यगाद्” यतोऽतः कारणाच्छोकाद्यभावः । lस्क़् एवम्भूतहरिसारूप्यलक्षणां तद्गतिं गतस्य शोकाद्यभावो युक्तrस्क़्, इति भावः । lस्क़् ननु एवमशरीरश्चेत्, जगत्स्रष्टा नेति प्राप्तम् । लोके सदेहस्यैव स्रष्टृतादर्शनाद्rस्क़् इत्याशङ्कां निराह - “ कविर्” इति । कविः सर्वज्ञः । “ मनीषी” प्रकृत्यादिसर्वमनसां ईशितृत्वाद् मनीषी । एतेन lस्क़् ज्ञानाविनाभूतदेहवान्rस्क़् इति लभ्यते । स च अप्राकृत एव, इति प्रागुक्तः । तन्निमित्तशोकाद्यभावो युक्तः । प्राकृतस्यैव तद्धेतुत्वात् । lस्क़् परिभवति सर्वं वशीकरोतिrस्क़् इति “ परिभूः” । lस्क़् सर्वतो वरrस्क़् इत्यर्थः । lस्क़् स्वयमेव परमनपेक्ष्य भवतिrस्क़् इति “ स्वयम्भूः” । सदाऽनन्याश्रयः “ शाश्वतीभ्यः समाभ्य” इति पञ्चमी सप्तम्यर्थे । अनाद्यनन्तसंवत्सरेषु “ याथातथ्यतो” याथार्थ्येन वर्तमानानर्थान् “ व्यदधान्” निर्मिमे । याथातथ्यत इत्युक्त्या lस्क़् ब्रह्मविवर्तत्वादर्थानां न तत्सृष्टौ देहाद्यपेक्षाrस्क़् इति चोद्यं निरस्तम् । “ शाश्वतीभ्यः समाभ्य” इत्युक्त्या lस्क़् सदा देहहीनस्यापि सृष्टिसमये देहोपादानेनास्तु सृष्टिःrस्क़् इति चोद्यं निरस्तं ध्येयम् । lस्क़् सृष्ट्यादिप्रवाहस्य अनाद्यनन्तकालीनत्वाद्rस्क़् इति ॥ ८॥ अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९॥ “ विजानतो''“ ऽनुपश्यत” इत्यत्र lस्क़् यथावत्परमात्मज्ञानं मुक्तिहेतुःrस्क़् इत्युक्तम् । lस्क़् तज्ज्ञानं मिथ्याज्ञाननिन्दासमुच्चितमेव मुक्तिहेतुः, न केवलम्rस्क़्, इत्याह - “ अन्धं तम” इत्यादिमन्त्रत्रयेण । तत्र तावद्यथावज्ज्ञानस्येव अन्यथाज्ञाननिन्दनस्य आवश्यकत्वोपपादनाय अन्यथाज्ञानस्य प्रागुक्तमसुर्यलोकसाधनत्वमनूद्य अन्यथाज्ञानानिन्दनस्य ततोऽधिकानर्थहेतुत्वमाद्येन मन्त्रेणोच्यते । अत्र “ अविद्या''शब्देन विद्याविरोधिमिथ्याज्ञानवाचिना तद्विषयो अन्यथाप्रकारो ग्राह्यः । तथा च अविद्यां यथावदाकारादन्यथाकारं “ उपासते” ध्यायन्ति ये, ते “ अन्धं तमः प्रविशन्ति” - इत्युक्तानुवादः । “ ये” “ विद्यायां” “ उ” तत्त्वज्ञान एव “ रताः” मिथ्याज्ञाननिन्दका इत्येवकारार्थः । ते ततो मिथ्याज्ञानिप्राप्य तमसो “ भूय” अधिकं तमः । “ इव''शब्दस्य “ व्यक्तम्” इत्यर्थः । lस्क़् असंशयम्rस्क़् इति यावत् । “ प्रविशन्ति” इत्यन्वयः ॥ ९॥ lस्क़् न केवलं विपक्षे अनर्थप्राप्तेरेव सम्यग्ज्ञानासम्यग्ज्ञाननिन्दनयोः कार्यत्वं, किन्तु मोक्षफलस्यांशतः उभयसाध्यत्वादपि द्वयोः कार्यत्वम्rस्क़्, इत्याहुः - अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥ “ विद्यया” तत्त्वज्ञानेन “ अन्यदेव” मोक्षैकदेशरूपं फलं प्राप्यमाहुः वृद्धाः । “ अविद्यया” - lस्क़् अन्यथाज्ञाननिन्दया चrस्क़्, इति यावत् । “ अन्यदेव” मोक्षैकदेशलक्षणं फलं प्राप्यमाहुः वृद्धाः । “ इति” इत्येवं वृद्धवचनसम्मतियुक्तं वचनं धीराणां धीमतां (श्रीमतां) सकाशात् “ शुश्रुम” श्रुतवन्तः स्म । “ ये” “ धीरा” “ नो''ऽस्माकं मोक्षसाधनं “ विचचक्षिरे” व्याचचक्षिरे । lस्क़् अतो द्वयमपि आवश्यकम्rस्क़् इति भावः ॥ १०॥ एतन्मन्त्रार्थमेव व्यक्तमाह - विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥ “ विद्याम्” विष्णुयाथात्म्यज्ञानम् । “ अविद्याम्” मिथ्याज्ञाननिन्दनम् । “ च''शब्दावितरेतरयोगे । lस्क़् सह एकपुरुषार्थहेतुत्वेन तदुभयं यो वेद, सrस्क़् इति शेषः । “ अविद्यया” अन्यथाज्ञाननिन्दया “ मृत्युं” दुःखाज्ञानाद्यनिष्टं “ तीर्त्वा”, “ विद्यया” विष्णुयाथात्म्यज्ञानेन “ अमृतं” आनन्दानुभवलक्षणं मोक्षैकदेशं, “ अश्नुते” प्राप्नोति । lस्क़् अनिष्टनिवृत्तेर्मिथ्याज्ञाननिन्दनसामर्थ्यलभ्यत्वात् आनन्दानुभवस्य च तत्त्वज्ञानसामर्थ्यलभ्यत्वात् दलद्वययुक्तमोक्षप्राप्तये, द्वयमपि आवश्यकमेवrस्क़्, इत्युक्तं भवति ॥ ११॥ अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः ॥ १२॥ lस्क़् मिथ्याज्ञानमनर्थहेतुः तत्त्वज्ञानमेव मुक्तिहेतुःrस्क़्, इति प्रागुक्तस्य विवरणं “ अन्धं तमः” इत्युत्तरमन्त्रत्रयेण क्रियते । तत्राद्यस्य अयमर्थः । “ असम्भूतिं” जगत्सृष्टेरकर्तारं lस्क़् सृष्टिकर्ता नrस्क़् इत्युपासते, इत्यर्थः । “ सम्भूत्याम्” - “ उ''शब्द एवार्थो अनेनान्वेति । “ सम्भूत्याम्” “ उ” सृष्टिकर्तृत्व एव रताः । lस्क़् भगवान् सृष्टिकर्तैव, न संहारकर्ताrस्क़्, इत्युपासत इत्यर्थः । प्राग्वदेव अवशिष्टस्यार्थो ध्येयः (ज्ञेयः) ॥ १२॥ lस्क़् न केवलं विपक्षे अनर्थसत्त्वादेव सृष्टिसंहारयोः कर्तृत्वं हरेर्ज्ञेयं, किन्तु दलद्वययुक्तमोक्षोपयोगित्वादपिrस्क़्, इत्याह - अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥ “ सम्भवात्” हरेः सृष्टिकर्तृत्वज्ञानात्, “ असम्भवात्” संहारकर्तृत्वज्ञानत्, इत्यर्थः । शिष्टं प्राग्वत् ज्ञेयम् ॥ १३॥ एतन्मन्त्रार्थमेव व्यक्तमाह - सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह । विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥ १॥ “ सम्भूतिम्” सृष्टिकर्तृत्वं, “ विनाशं” जगत्संहारकर्तृत्वं, शिष्टं प्राग्वत् । lस्क़् सृष्टि उपलक्षितानन्तगुणात्मकत्वज्ञानादानन्दानुभवः विनाशकर्तृत्वज्ञानात् अखिलक्लेशनिवृत्तिरिति उभयरूपमोक्षाय उभयज्ञानमावश्यकम्rस्क़्, इति भावः ॥ १४॥ १॥ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥ एवमाद्यमन्त्रद्वयेनोक्तदिशा प्राप्ताधिकारं शिष्यं प्रति “ अनेजदेकम्” इत्यादिना भगवत्स्वरूपं निरूप्य, “ यस्तु सर्वाणि” इत्यादिसार्धमन्त्रद्वयेन तत्साक्षात्कारो मोक्षहेतुरित्युक्तम् । lस्क़् स च साक्षात्कारो न श्रवणादिमात्रेण, किन्तु ईश्वरप्रसादेन भवतीत्यतो अनुष्ठितश्रवणादिकेनापि तत्साक्षात्कारार्थं भगवत्प्रार्थनं कार्यम्rस्क़्, इति भावेन प्रार्थनाप्रकारमाह - “ हिरण्मयेन” इत्यादिना “ स्मर” इत्यन्तेन ग्रन्थेन । हिरण्मयमिव “ हिरण्मयम्” ज्योतिर्मयम् । lस्क़् पिबति रसान् त्रायते जगद्rस्क़् इति च “ पात्रम्” । तेन “ हिरण्मयेन पात्रेण” सूर्यमण्डलेन “ सत्यस्य” सद्गुणपूर्णस्य सूर्यमण्डलस्थस्य तव “ मुखम्” । उपलक्षणं चैतत् । वपुः सर्वदा “ अपिहितं” अस्ति । हे “ पूषन्” पूर्ण, “ पुष पुष्टौ” इति धातोः । तद्वपुः “ त्वं” “ सत्यधर्माय” lस्क़् सत्यं भगवन्तं हृदये धारयतिrस्क़् इति व्युत्पत्त्या त्वद्ध्यानादिमते भक्ताय मह्यं “ दृष्टये” मम त्वद्दर्शनार्थं “ अपावृणु”, अपगतावरणं कुरु ॥ १५॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् । समूह तेजः यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ १६॥ हे “ पूषन्”, पूर्ण, “ एकर्षे” सर्वविषयकत्वादिना प्रधानज्ञानवत्त्वहेतुना “ एकर्षि''शब्दवाच्यः सन् एकर्ष्याख्यमुनिस्थ । “ यम” सर्वनियामकतया “ यम''शब्दवाच्यः सन् यमान्तर्गत । सूरिभिः प्राप्यत्वहेतुना, “ सूर्य''शब्दवाच्यः सन् सूर्यान्तर्गत । “ प्राजापत्य” प्रजापतेः हिरण्यगर्भस्य विशेषेण प्राप्यतया “ प्राजापत्य''शब्दवाच्य । “ रश्मीन्” मदीयं स्वरूपज्ञानं “ व्यूह” विस्तारय । “ तेजो” बाह्यज्ञानं च “ समूह” विस्तारय - इत्यर्थः । “ तेज” इति स्वरूपज्ञानम् । “ रश्मीन्” इति बाह्यज्ञानं वा । तथा च “ यत्ते रूपं कल्याणतमं” तद्रूपं ते प्रसादादहं “ पश्यामि”, इति आदित्यरश्म्यादीनां अपगमनादिना तदन्तर्गतप्रतीत्यसम्भवात् आदित्यरश्म्यादिविषयं व्याख्यानमयुक्तम् ॥ १६॥ lस्क़् सर्वजीवोत्तममुख्यवायुरूपप्रतीकस्थित्यादिज्ञानं आवश्यकम्rस्क़्, इति भावेन तत् स्थित्यादिकमाह - योऽसावसौ पुरुषः सोऽहमस्मि ॥ १७॥ “ योऽसौ” - lस्क़् प्रसिद्धोऽसौ मुख्यप्राणे स्थितrस्क़् इति शेषः । lस्क़् सोऽहेयत्वात् “ अहम्''इत्युक्तः सदाऽस्तित्वेन मेयत्वहेतुना “ अस्मि''इति तिङ्प्रतिरूपकाव्ययपदवाच्यः तं पश्यामिrस्क़् - इत्यर्थः । यद्वा “ असावसौ” इति द्वयमपि प्रथमान्तमेव । वीप्सायां द्विरुक्तिः । पूर्वं पूषादिशब्दैरुपलक्षणतया प्राणाद्यनेकप्रतीकस्थत्वं विष्णोरुक्तम् । तत्र भेदशङ्कायां “ योऽसौ” इति वाक्यमुच्यते । “ योऽसावसौ पुरुषः” प्राणाद्यनेक(पूषाद्यनेक)प्रतीकेषु स्थितः “ सोऽहमस्मि” - मदन्तर्यामितया अस्ति, इत्यर्थः । lस्क़् सर्वप्रतीकेषु मयि च स्थित एक एवrस्क़्, इति फलितोऽर्थः । “ अहं''पदस्य प्रत्यगात्मं जीवान्तर्यामिणि मुख्यतया तत्समभिव्याहाराद् “ अस्मि” इति उत्तमपुरुषप्रयोगोऽपि साधुरेव, इति ज्ञेयम् ॥ १७॥ lस्क़् ननु परमेश्वरस्य यत्कल्याणरूपत्वमुक्तं यच्च “ सोऽहमस्मि” इति जीवान्तर्गतस्य नित्यास्तित्वमुक्तं, तन्न युक्तम् । देहनाशस्य प्रत्यक्षादिसिद्धतया, तदन्तर्गतस्य जीवस्येव मरणाद्यवश्यम्भावाद्rस्क़्, इत्याशङ्कां कैमुत्येन निराह - वायुरनिलममृतमथेदं भस्मांतꣳ शरीरम् ॥ १८॥ यद्यपि “ इदं” “ शरीरं” “ भस्मान्तं”, तथापि तदन्तर्गतस्य हरेः न मरणादिदोषप्रसक्तिः । कुतः? “ अनिलम्” - lस्क़् अः ब्रह्मैव निलं निलयनं आश्रयो यस्य सोऽनिलःrस्क़् । lस्क़् परमेश्वराश्रितो वायुरपि यदाऽमृतः नित्यः, अथ तदा परमेश्वरोऽमृत इति किमु वक्तव्यम्?rस्क़् - इत्यर्थः । “ अनिल''“ अमृत''पदयोः लिङ्गव्यत्ययो ज्ञेयः । वायोरमृतत्वं नित्यज्ञानत्वेन ज्ञेयम्, “ अतिरोहितविज्ञानाद् वायुरपि अमृतः स्मृतः” इत्युक्तेः । “ एतेन मातरिश्वा व्याख्यातः” (ब्र.सू. २.३.८) इत्यत्र भाष्यादौ तथा निर्णयाच्च - इति ॥ १८॥ अथ प्रणवप्रतीकं प्रार्थयते - ॐ क्रतो स्मर कृतꣳ स्मर । ॐ क्रतो स्मर कृतꣳ स्मर ॥ १९॥ ओतत्वादिगुणयुक्ततया “ ॐ''इत्युच्यमान “ क्रतो” ज्ञानरूपहरे । lस्क़् माम्rस्क़् इति शेषः । “ स्मर” अनुगृहाण । “ कृतं” मदीयं ध्यानादिकं कर्म “ स्मर” । lस्क़् ध्यानादिना मया कृतेन मयि अनुग्रहोन्मुखो भवrस्क़्, इत्यर्थः । नित्यज्ञप्तिस्वरूपस्य संस्कारजन्यस्मरणायोगात् । अभ्यासः तात्पर्यार्थः ॥ १९॥ lस्क़् कृतश्रवणादिना पुरुषेण साक्षात्कारार्थं हरेः प्रार्थनं कार्यम्rस्क़्, इत्यतः तत्प्रकारं “ हिरण्मयेन” इत्यादिनोक्त्वा अधुना lस्क़् प्राप्तसाक्षात्त्कारेणापि पुंसा मोक्षार्थं भगवदुपासनं कार्यम्rस्क़् इति भावेन अग्निप्रतीकस्थ भगवत्प्रार्थनाप्रकारमाह - अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ २०॥ २॥ lस्क़् अङ्गं देहं गुणभूतं जगद्वा नयति प्रेरयतिrस्क़् इति व्युत्पत्त्या “ अग्नि''पदमुख्यार्थः सन् अग्नौ विद्यमानहरे । “ अस्मान्” “ सुपथा” पुनरावृत्तिहीनार्चिरादिमार्गेण “ राये” मोक्षाख्यवित्ताय “ नय” । कुतः? lस्क़् हे देव अस्मदनुष्ठितानि विश्वानि सम्पूर्णानि मोक्षाय पर्याप्तानिrस्क़् इति यावत् । “ वयुनानि” ज्ञानानि भवान् “ विद्वान्” वेद । lस्क़् प्रारब्धकर्मयुक्तस्य कथं मोक्ष?rस्क़्, इत्यत उक्तं, “ युयोधि” इति । “ अस्मान्” इत्यत्रापि अनुषज्यते । “ अस्मान्” “ जुहुराणं” अल्पान् कुर्वत्संसारे परिवर्तयदिति यावत् । lस्क़् एनः पापं अनिष्टं कर्मrस्क़् इति यावत् । “ अस्मत्” अस्मत्तः “ युयोधि” वियोजय । “ युयु वियोगे” इति धातोर्लुग्विकरणम् । वयं तु “ ते” तुभ्यं “ भूयिष्ठां” भक्तिज्ञानोपेतां “ नम उक्तिं” नम इत्युक्तिं “ विधेम” कुर्मः । lस्क़् न तु तत् प्रतिकर्तुं शक्नुमrस्क़् - इति ॥ २०॥ २॥ समस्तगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥ ईषावास्योपनिषदो भाष्याद्युक्तार्थसङ्ग्रहः । राघवेन्द्रेण यतिना कृतोऽयं शिष्ययाञ्चया ॥ इति श्रीराघवेन्द्रयतिविरचितः श्रीमदीशावास्योपनिषत्खण्डार्थः समाप्तः ॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु॥
Encoded by Shrisha Rao (shrao at dvaita.org). See details on http://www.dvaita.net Proofread by Meera Tadipatri (mtadipatri at dvaita.net)

% Text title            : yAjnIyamantropaniShad.h khaNDArtha
% File name             : Ishaa_bhaashhya_Raghavendra.itx
% itxtitle              : IshAvAsyopaniShadi (rAghavendrayativirachitaH khaNDArthaH)
% engtitle              : Ishopanishad with Shri Raghavendra Swami commentary
% Category              : upaniShat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Texttype              : svara
% Author                : Sri Raghavendra Swami
% Language              : Sanskrit
% Subject               : A comm. on the IshAvAsya upanishhad.h
% Transliterated by     : Shrisha Rao 
% Proofread by          : Meera Tadipatri 
% Latest update         : April 26, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP