नृसिंहषट्चक्रोपनिषत्
ॐ देवा ह वै सत्यं लोकमायंस्तं प्रजापतिमपृच्छन्नारसिंहचक्रन्नो
ब्रूहीति । तान्प्रजापतिर्नारसिंहचक्रमवोचत् । षड्वै नारसिंहानि
चक्राणि भवन्ति । यत् प्रथमं तच्चतुररं यद्वितीयं तच्चतुररं
यत्तृतीयं तदष्टारं यच्चतुर्थं तत्पञ्चारं यत्पञ्चमं
तत्पञ्चारं यत् षष्ठं तदष्टारं तदेताति षडेव नारसिंहानि
चक्राणि भवन्ति ॥
अथ कानि नामानि भवन्ति । यत् प्रथमं तदाचक्रं
यद्वितीयं तत्सुचक्रं यत्तृतीयं तन्महाचक्रं यच्चतुर्थं
तत्सकललोकरक्षणचक्रं यत्पञ्चमं तद्द्यूतचक्रं यद्वै षष्ठं
तदसुरान्तकचक्रं तदेतानि षडेव नारसिंहचक्रनामानि भवन्ति ॥
अथ कानि त्रीणि वलयानि भवन्ति । यत्प्रथमं तदान्तरवलयं भवति ।
यद्द्दितीयं तन्मध्यमं वलयं भवति । यत् तृतीयं तद्बाह्यं वलयं
भवति । तदेतानि त्रीण्येव वलयानि भवन्ति । यदा तद्वैतद्बीजं
यन्मध्यमं तां नारसिंहगायत्रीं यद्बाह्यं तन्मन्त्रः ॥
अथ किमान्तरं वलयम् । षड्वान्तराणि वलयानि भवन्ति । यन्नारसिंहं
तत्प्रथमस्य यन्माहालक्ष्म्यं तद्वितीयस्य यत्सारस्वतं तत्तृतीयस्य
यस्य यत्कामं देवं तच्चतुर्थस्य यत् प्रणवं तत्पञ्चमस्य
यत्क्रोधदैवतं तत् षष्ठस्य । तदेतानि षण्णां नारसिंहचक्राणां
षडान्तराणि वलयानि भवन्ति ॥
अथ किं मध्यमं वलयम् । षड्वै मध्यमानि वलयानि भवन्ति ।
यन्नारसिंहाय तत्प्रथमस्य यद्विद्महे तद्द्वितीयस्य यद्वज्रनखाय
तत्तृतीयस्य यद्धीमहि तच्चतुर्थस्य यत्तन्नस्तत्पञ्चमस्य
यत्सिंहः प्रचोदयादिति तत् षष्ठस्य । तदेतानि षण्णां
नारसिंहचक्राणां षण्मध्यमानि वलयानि भवन्ति ॥
अथ किं बाह्यं वलयम् । षड्वै बाह्यानि वलयानि भवन्ति ।
यदाचक्रं यदात्मा तत्प्रथमस्य यत्सुचक्रं यत्प्रियात्मा तद्द्वितीयस्य
यन्महाचक्रं यज्ज्योतिरात्मा तत्तृतीयस्य यत्सकललोकरक्षणचक्रं
यन्मायात्मा तच्चतुर्थस्य यदाचक्रं यद्योगात्मा तत्पञ्चमस्य
यदसुरान्तकचक्रं यत्सत्यात्मा तत् षष्ठस्य । तदेतानि षण्णां
नारसिंहचक्राणां षट् बाह्यानि वलयानि भवन्ति ॥
क्वैतानि न्यस्यानि । यत्प्रथमं तद्धृदये यद्द्वितीयं तच्छिरसि
यत्तृतीयं तच्छिखायां यच्चतुर्थं तत्सर्वेष्वङ्गेषु
यत्पञ्चमं तत्सर्वेषु (?) यत् षष्ठं तत्सर्वेषु देशेषु ।
य एतानि नारसिंहानि चक्राण्येतेष्वङ्गेषु बिभृयात् तस्यानुष्टुप्
सिध्यति । तं भगवान् नृसिंहः प्रसीदति । तस्य कैवल्यं सिध्यति ।
तस्य सर्वे लोकाः सिध्यन्ति । तस्य सर्वे जनाः सिध्यन्ति । तस्मादेतानि
षण्णां नारसिंहचक्राण्यङ्गेषु न्यस्यानि भवन्ति । पवित्रं च एतत्तस्य
न्यसनम् । न्यसनान्नृसिंहानन्दी भवति । कर्मण्यो भवति । ब्रह्मण्यो
भवति । अन्यसनान्न नृसिंहानन्दी भवति । न कर्मण्यो भवति ।
तस्मादेतत्पवित्रं तस्य न्यसनम् ॥
यो वा एतं नारसिंहं चक्रमधीते स सर्वेषु वेदेष्वधीतो भवति ।
स सर्वेषु यज्ञेषु याजको भवति । स सर्वेषु तीर्थेषु स्नातो भवति ।
स सर्वेषु मन्त्रेषु सिद्धो भवति । स सर्वत्र शुद्धो भवति ।
स सर्वरक्षो भवति । भूतपिशाचशाकिनीप्रेतवन्ताकनाशको भवति ।
स निर्भयो भवति । तदेतन्नाश्रद्दधानाय प्रब्रूयात्तदेतन्नाश्रद्दधानाय
प्रब्रूयादिति ॥
(वैष्णव-उपनिषदः)
इत्याथर्वणीये नृसिंहषट्चक्रोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti