सदानन्दोपनिषत्
तच्छंयोरावृणीमहे-इति शान्तिः
अथैनं सदानन्दः संवर्तो जैगीषव्यश्च नीललोहितं रुद्रमुवाच ।
भगवन् किमपवर्गं साधयतीति । स एतेभ्यो भगवान् नीललोहितः
प्रोवाच । अन्तर्बहिर्धारितं परम्ब्रह्माभिधेयं शाम्भवं लिङ्गम्,
आधारे दहरेऽव्यक्ते स्वर्णस्फाटिकवैद्रुमम् । निरन्तरानुसन्धानात्
तदन्तर्धारणे विदुः ॥
चतुर्दलं द्वादशारं द्व्यश्रमव्यक्तकं शिवम् ।
दहरेऽङ्गुष्ठमात्रं तमुमाकान्तमहर्निशम् ।
अनिराकारमात्मानं धृत्वा यान्ति परं पदम् ॥
परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।
तत्परात् परतोऽधीशस्तस्मात् स्यादुत्तरः शिवः ॥
जातवेदसमव्यक्तं व्यक्ताव्यक्तं परं सदा ।
तमात्मस्थं येऽनुपश्यन्ति धीराः ।
तेषां शान्तिः शाश्वती नेतरेषाम् ॥
अन्तर्धारणशक्तेन ह्यशक्तेन द्विजोत्तमाः ।
सन्त्कृत्य गुरुणा दत्तं शैवं लिङ्गमुरःस्थले ।
धार्यं विप्रेण मुक्त्यर्थे शिवतत्त्वविदो विदुः ॥
येनाचिरात्सर्वपापं व्यपोह्य परात्परं पुरुषमुपैति विद्वान् ।
अस्य मात्रा अकारो ब्रह्मरूप उकारो विष्णुरूपो मकारः कालकालः
अर्धमात्रा परमशिवः ओङ्कारो लिङ्गम् ॥
योऽसौ सर्वैषु वेदेषु पठ्यते ह्यज ईश्वरः ।
तस्मात्तद्धारणादेतल्लिङ्गदेहमलौकिकम् ।
मृतेऽपि तन्न दह्येत बिले चैतद्विनिक्षिपेत ॥
ने कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः ॥
यो वा स्वहस्तार्चितलिङ्गमेकं परात्पर धारयते नरो वा ।
तस्यैव लभ्यः परमेश्वरोऽसौ निरञ्जनं साम्यमुपैति दिव्यम् ॥
शिवलिङ्गधरं विप्रं विपन्नं त न दाहयेत् ।
यदि वा दाहयेत्तस्य ब्रह्महत्या तदा भवेत् ॥
यदिदं लिङ्गं सकळं सकळनिष्कळं निष्कलं च स्थूलं सूक्ष्मं
च तत्परं स्थूले स्थूलं सूक्ष्मे सूक्ष्मं कारणे तत्परं च ॥
आत्मानभरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनादेव पाशं दहति मानवः ।
अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु शाश्वतम् ॥
अविद्याऽऽवरणं भित्त्वा ब्रह्मणः सायुज्यं सलोकतामाप्नोति । तदिदं
लिङ्गं प्रीम् । तदिदं ॐ सत्यम् । यो विद्वान् ब्रह्मचारी गृही
वानप्रस्थो यतिर्वा सदानन्दोपनिषदं पठति सोऽग्निपूतो भवति ।
स सत्यपूतो भवति । स्वर्णस्तेयात् पूतो भवति ।
ब्रह्महत्यायाः पूतो भवति ।
स सकलभोगभुक् देहं त्यक्त्वा शिवसायुज्यमेति । इत्युपनिषत् ॥
(शैव-उपनिषदः)
इति सदानन्दोपनिषत् समाप्ता ।
Proofread by Kasturi navya sahiti