शिवसङ्कल्पोपनिषत् २

शिवसङ्कल्पोपनिषत् २

ॐ येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्वम्᳚ । येन॑ य॒ज्ञस्त्रा॑यते स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १॥ येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ । यत्सम्मि॑तम॒नु संय॑न्ति प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २॥ (यत्सम्मि॑तं॒ मन॑स्सं॒चरं॑ति) येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॑ण्वन्ति वि॒दथे॑षु॒ धीराः᳚ । यद॑पू॒र्वं यक्ष॒मन्तः॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३॥ यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑र॒न्तर॒मृतं॑ प्र॒जासु॑ । यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ४॥ सुषा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्नेनी॒यते॑ऽभी॑शुभि॑र्वा॒जिन॑ इव । (म॑नुष्या᳚न्मेनि॒युते॑प॒शुभि॑र्वा॒जिनी॑वान् ) हृत्प्रति॒ष्ठं॒ य॒दजि॑रं॒ जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ५॥ (हृत्प्रवि॒ष्टं॒, य॒दच॑रं॒) यस्मि॒न्नृचः॒साम॒यजूꣳ॑षि॒ यस्मि॑न् प्रति॒ष्ठिता र॑थ॒नाभा॑वि॒वाराः᳚ । (प्रति॒ष्ठार॑श॒नाभा॑वि॒भाराः᳚) यस्मिꣳ॑श्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ६॥ यदत्र॑ ष॒ष्ठं त्रि॒शतꣳ॑ सु॒वीरं॑ य॒ज्ञस्य॒ गु॒ह्यं नव॑नाव॒माय्यम्᳚ । (सु॒वीर्यं॑) दश॑ पञ्च त्रि॒ꣳशतं॒ यत्प॑रं॒ च तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ७॥ यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु सु॒प्तस्य॑ तथै॒वैति॑ । (सर्वं॒तत्सु॒प्तस्य॑) दूर॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ८॥ येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च । येने॒दं जग॒द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ९॥ येने॒दं विश्वं॒ जग॑तो ब॒भूव॑ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः । तदे॒वाग्निस्तम॑सो ज्योति॑रे॒कं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १०॥ (तदे॒वाग्निस्तद्वा॒युस्तत्सूर्य॒स्तदु॑च॒न्द्रमा॒स्तन्मे) ये म॑नो॒ हृद॑यं॒ ये च॑ दे॒वा ये दि॒व्या आपो॒ ये सू᳚र्यर॒श्मिः । ते श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्तं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ११॥ अचि॑न्त्यं॒ चाप्र॑मेयं॒ च॒ व्य॒क्ता॒व्यक्त॑परं॒ च य॑त । सूक्ष्मा᳚त्सू॒क्ष्मत॑रं ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १२॥ एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं च॒ । स॒मुद्र॑श्च म॒ध्यं चा᳚न्तश्च प॒रार्ध॑श्च तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १३॥ ये प॑ञ्च प॒ञ्चद॒श श॒तꣳ॑ स॒हस्र॑म॒युतं॒ न्य॑र्बुदं च । तेऽ॑ग्निचि॒त्येष्ट॑का॒स्तꣳ शरी॑रं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १४॥ (चि॒त्तेष्ट॑का॒स्तꣳ) वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् । यस्य॒ योनिं॒ परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १५॥ यस्ये॒दं धीराः᳚ पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणुत॒मिन्दुम्᳚ । (यस्यै॒तं धीराः᳚) स्था॒व॒रं जङ्ग॑मं॒ द्यौरा॑का॒शं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १६॥ परा᳚त्प॒रत॑रं चै॒व॒ यत्॒परा᳚च्चैव॒ यत्प॑रम् । (तत्॒पराच्चैव॒) य॒त्परा॒त्पर॑तो ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १७॥ परा᳚त्प॒रत॑रो ब्र॒ह्मा॒ त॒त्परा᳚त्पर॒तो हरिः॑ । (परा᳚त्प॒रत॑रं ब्र॒ह्म॒) तत्परा॒त्पर॑तोऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १८॥ (यत्परा॒त्परतोऽधी॒शं॒) या वेदादिषु॑ गाय॒त्री स॒र्वव्या॑पी म॒हेश्व॑री । ऋग्यजुस्सामा॑थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ १९॥ यो वै॑ दे॒वं म॑हादे॒वं॒ प्र॒यतः॑ पुरु॒षोत्त॑मम् । (प्रणव॒श्शुचिः॑) यः सर्वे॑ सर्व॑वेदै॒श्च तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २०॥ प्रय॑तः प्रण॑वोङ्का॒रं॒ प्र॒णवं॑ पुरु॒षोत्त॑मम् । ओङ्कारं प्रण॑वात्मा॒नं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २१॥ योऽसौ॑ स॒र्वेषु॑ वेदे॒षु पठ्यते᳚ ह्यज ईश्व॑रः । अ॒का॒यो निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २२॥ गोभि॒र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च । प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्षं तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २३॥ त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒त्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २४॥ कैला॑स॒शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये । दे॒वता᳚स्तत्र॑ मोद॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २५॥ कैला॑स॒शिख॑रावा॒सा हि॒मव॑द्गिरि॒ संस्थि॑तम् । नी॒ल॒क॒ण्ठं त्रि॑नेत्रं॒ च॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ २६॥ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न् दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २७॥ च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्वशा᳚स्त्रम॒यं विदुः॑ । इ॒ति॒हा॒सपु॑राणा॒नां तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ २८॥ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मानो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मान॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ २९॥ मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान्मा नो॑ रुद्र भामि॒तोऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेमते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३०॥ ऋ॒त॒ꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम् । ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३१॥ कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मꣳ हृ॒दे । सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३२॥ ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३३॥ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३४॥ य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्वे॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः । यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३५॥ यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ । तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३६॥ ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३७॥ नमकं चम॑कं चै॒व॒ पु॒रुषसू᳚᳚क्तं च॒ यद्वि॑दुः । म॒हा॒दे॒वं च॑ तत्तु॒ल्यं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ ३८॥ य इदꣳ शिव॑सङ्क॒ल्प॒ꣳ स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः । ते परं॑ मोक्षं ग॑मिष्य॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ ३९॥ इति शिवसङ्कल्पोपनिषत् समाप्ता । (शैव-उपनिषदः)

शिवसङ्कल्पोपनिषत्

ॐ येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन यज्ञस्त्रायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ १॥ येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारुयन्ति । यत्सम्मितमनु संयन्ति प्राणिनस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २॥ (यत्सम्मितं मनस्सञ्चरन्ति) येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३॥ यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ४॥ सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव । (मनुष्यान्मेनियुतेपशुभिर्वाजिनीवान् ) हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ५॥ (हृत्प्रविष्टं, यदचरं) यस्मिन्नृचःसामयजूꣳषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः । (प्रतिष्ठारशनाभाविभाराः) यस्मिꣳश्चित्तꣳ सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ६॥ यदत्र षष्ठं त्रिशतꣳ सुवीरं यज्ञस्य गुह्यं नवनावमाय्यम् । (सुवीर्यं) दश पञ्च त्रिꣳशतं यत्परं च तन्मे मनः शिवसङ्कल्पमस्तु ॥ ७॥ यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । (सर्वंतत्सुप्तस्य) दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ८॥ येन द्यौः पृथिवी चान्तरिक्षं च ये पर्वताः प्रदिशो दिशश्च । येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ ९॥ येनेदं विश्वं जगतो बभूव ये देवापि महतो जातवेदाः । तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १०॥ (तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमास्तन्मे) ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः । ते श्रोत्रे चक्षुषी सञ्चरन्तं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ११॥ अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत । सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १२॥ एका च दश शतं च सहस्रं चायुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च । समुद्रश्च मध्यं चान्तश्च परार्धश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ १३॥ ये पञ्च पञ्चदश शतꣳ सहस्रमयुतं न्यर्बुदं च । तेऽग्निचित्येष्टकास्तꣳ शरीरं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १४॥ (चित्तेष्टकास्तꣳ) वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । यस्य योनिं परिपश्यन्ति धीरास्तन्मे मनः शिवसङ्कल्पमस्तु ॥ १५॥ यस्येदं धीराः पुनन्ति कवयो ब्रह्माणमेतं त्वा वृणुतमिन्दुम् । (यस्यैतं धीराः) स्थावरं जङ्गमं द्यौराकाशं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १६॥ परात्परतरं चैव यत्पराच्चैव यत्परम् । (तत्पराच्चैव) यत्परात्परतो ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ १७॥ परात्परतरो ब्रह्मा तत्परात्परतो हरिः । (परात्परतरं ब्रह्म) तत्परात्परतोऽधीशस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ १८॥ (यत्परात्परतोऽधीशं) या वेदादिषु गायत्री सर्वव्यापी महेश्वरी । ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ १९॥ यो वै देवं महादेवं प्रयतः पुरुषोत्तमम् । (प्रणवश्शुचिः) यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ २०॥ प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम् । ओङ्कारं प्रणवात्मानं तन्मे मनः शिवसङ्कल्पमस्तु ॥ २१॥ योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः । अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसङ्कल्पमस्तु ॥ २२॥ गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु ॥ २३॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २४॥ कैलासशिखरे रम्ये शङ्करस्य शिवालये । देवतास्तत्र मोदन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ २५॥ कैलासशिखरावासा हिमवद्गिरि संस्थितम् । नीलकण्ठं त्रिनेत्रं च तन्मे मनः शिवसंकल्पमस्तु ॥ २६॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सम्पतत्रैर्द्यावापृथिवी जनयन् देव एकस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २७॥ चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः । इतिहासपुराणानां तन्मे मनः शिवसंकल्पमस्तु ॥ २८॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मानोऽवधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ २९॥ मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेमते तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३०॥ ऋतꣳ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३१॥ कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शन्तमꣳ हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३२॥ ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३३॥ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३४॥ य आत्मदा बलदा यस्य विश्वे उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३५॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश । तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३६॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीꣳ सर्वभूतानां तामिहोपह्वये श्रियं तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३७॥ नमकं चमकं चैव पुरुषसू᳚क्तं च यद्विदुः । महादेवं च तत्तुल्यं तन्मे मनः शिवसंकल्पमस्तु ॥ ३८॥ य इदꣳ शिवसङ्कल्पꣳ सदा ध्यायन्ति ब्राह्मणाः । ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ ३९॥ इति शिवसङ्कल्पोपनिषत् समाप्ता । (शैव-उपनिषदः) Verses 26 and 38 are not found in the referenced print. Proofread by Kasturi navya sahiti, NA
% Text title            : shivasankalpopaniShat 2
% File name             : shivasankalpopaniShat2.itx
% itxtitle              : shivasaNkalpopaniShat 2 (shaiva)
% engtitle              : shivasankalpopaniShat 2
% Category              : upanishhat, shiva
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Kasturi navya sahiti, NA
% Description-comments  : aprakAshitA upaniShadaH
% Indexextra            : (Scanned Book)
% Latest update         : June 18, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org