वास्तुसूत्रोपनिषत्

वास्तुसूत्रोपनिषत्

अथ अथर्ववेदीय वास्तुसूत्रोपनिषत् ।

प्रथमप्रपाठकस्य सूत्राणि

वास्तोष्पतिर्ज्ञेय इति १ षट्शिल्पाङ्गप्रयोगेण प्रजनयन्ति रूपाणि २ यूपमिदं ज्योतिः ३ वृत्तज्ञानं रेखाज्ञानं च यो जानाति स स्थापकः ४ शिल्पात् प्रतिमा जायन्ते ५ स प्रवहणः शिल्पसूत्राध्यायं स्थापकविद्यां चावदत् ६ शरीरमूर्तिरहिते मन आवेश्य विशेषेण विकल्पिदोषयुक्तं भवति इति ७ वास्तुषडङ्गमिति श्रेष्ठं ८ षड्धा शैलं ज्ञेयं ९ शैलादङ्गरागज्ञानं प्रसरति १०

द्वितीयप्रपाठकस्य सूत्राणि

निर्दिष्टार्थकप्रतिमा ग्राह्या १ तत्पातनं प्रथमा क्रिया २ तन्मर्दनं द्वितीया क्रिया ३ विलमिति मर्मज्ञेयं ४ न कृत्यरूपार्थं रेखाकरणं कर्तव्यं ५ आदौ वृत्तं ६ एकैकस्य संयोगे एकीभवति ७ रेखान्वये सर्वाङ्गाणि न्यासय ८ तेजांसि सरलरेखाणि ९ नाभौ रूपकर्म प्रारभ्यते १० प्राजापत्यरीत्या वृत्तं हि तेजस्तदाऽपां भासे चतुरस्रं ११ कर्णद्वयं मरु द्भावेन आचरन्ति १२ धरेव कर्णिकक्षेत्रमाकर्षयन्ति स्थापकाः १३ तत्र मध्ये लब्धबिन्दु रसायाः प्राणः १४ त्रिहुताग्निः स्मर्यतेऽपि च लोके १५ निम्नगास्त्रिहुता आप इति १६ षट्कोणको हि आकर्षणीविद्याविशेषः १७ यथा रूपे तथा यूपेऽनुच्छेदान्ता ग्राह्याः १८ खननप्रकारो ध्येयः १९ सूत्रायने रेखाः सुभगा भवन्ति २० उत्थितरेखा अयिरूपाः पार्श्वगा अब्रूपाः तिर्यग्रेखा मरुतरूपा इति २१ रूपसौभाग्याद्ध्यानभावो जायते २२ अमिरेखायामुत्तुङ्गरूपाणि जायन्ते २३ अबेरवायामत्सकरूपाणि जायन्ते २४ मारुतरेरवायां तैजसरूपाणि २५ रेखाज्ञानं सर्वमिति ज्ञेयं २६

तृतीयप्रपाठकस्य सूत्राणि

रूपस्य भावो मुख्यः १ भावानुसारतो रेखाविधानमिति ज्ञेयं २ तेषां बहुधा कृत्यं श्रेयः ३ न्यासार्थं कालबोधो ध्येय इति ४ खनित्राणि अभिमन्त्रयेत् ५ खनित्रपञ्चकं श्रेष्ठं ६ रूपप्रकर्षार्थं रूपाङ्गं स्निग्धमिति ७ शिल्पकाराः प्रलेपयन्ति द्रावकरसं ८ एषां हेतिविद्या श्रेष्ठा ९ रक्षार्थं पर्णमणिः परिधेयः १० भेदनादङ्गसौभगं प्रभवति ११ रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यं १२ गाथानुप्रासे लक्षणं व्यक्तं भवति १३ ध्यानप्रयोगे रूपसौष्ठवं स्पष्टं भवति १४ यथा प्रकृतिस्तथा रूपलक्षणं १५ अङ्गानामर्धाकलं सुषमं ध्येयं १६ हर्सावधि उभयदिशि चोर्ध्वे वर्धयेत् १७ रक्षाविधानेन विघ्नघातयः १८ रेखाक्रमेण भेदनं चतुर्धा ज्ञेयं १९ नेम्योत्तरे रूपाङ्गं न वर्धयेत् २० खनित्रचालनविधिर्ध्येयविशेषः २१

चतुर्थप्रपाठकस्य सूत्राणि

प्रतीतात्प्रतीकः १ रूपादङ्गानि सञ्जायन्ते २ द्विधातो ब्रह्म रूपवद्भवति ३ तत्त्वज्ञानेन कोष्ठका मुख्याः ४ वर्गीकरणं मख्यकृत्यं ५ कोष्ठकान्तराले रूपस्यावयवो ध्येयः ६ परिमिताङ्गहाराद्भावलक्षणानि जायन्ते ७ कोष्ठके व्यतिक्रान्ते रूपमविद्यं भवति ८ शुल्बयज्ञख्य साधनं शिल्परूपस्य साधनमिति ९ शिल्पकाराणां रूपशैले रूपशालादि ध्येयं १० यूपाद्रूपं रूपाद्यूप इति स्वभावः ११ यूपस्य मानं ध्येयं १२ षड्भागस्य प्रयोगो ध्येयः १३ पुरुषस्य तद्रूपेऽङ्गस्तम्भाश्चत्वारो ऽष्टाङ्गक्रमेणोपजायन्ते १४ पालाशदण्डरजसंयोगे रेखामानय १५ निम्नादूर्ध्वावधि सदारेखादीनाचर १६ पुरुषस्तम्भ इव स्तम्भो वै यज्ञख्य रूपं १७ यथास्तम्भस्य यूपस्य दशाङ्गं तथा पुरुषस्य दशयज्ञप्रज्ञाश्च १८ स्थापकाचार्याः स्तम्भाद्रूपं बोधयन्ति १९ स्तम्भः कामकामिनस्त्रिधामानयन्ति २० दैवयज्ञार्थं यूपः २१ तदा पितृमेधेन वृषस्तम्भं पशुमेधार्थं मिथुनस्तम्भं कामचारा होमे रोपयन्ति २२ तद्बोधे मानुषा रूपज्ञा भवन्ति २३ पुरुषस्य रूपाकले कोष्ठकस्याधोभावरूपं प्रसरति २४ दशाङ्गयूपे रूपे इति तस्य भावः समानः २५ ब्रह्मकीलाधारः ब्रह्मकीलेन सह क्षेत्रं विभाजय २६ अङ्गादङ्गं सञ्जायते २७ रेखासंयोगे तत्क्षेत्रेऽङ्गानि सौभगानि भवन्ति २८ क्षेत्रनेमिं रोधयेदिति रेखचत्वरे च २९

पञ्चमप्रपाठकस्य सूत्राणि

भावस्यारोपणं रूपकर्माणि विधेयं १ भावस्याऽधारो रसः २ मनसि वृत्तिर्बहुधा प्रजायते तदा भिन्नभिन्नरसाद्रूपं नैकं भवति ३ नवधा रसः ४ प्रथमरसः श‍ृङ्गारः ५ श‍ृङ्गनररूपार्थमब्रेखा ग्राह्याः ६ स हासो द्वितीयरसः ७ मुखलक्षणाद्रस जानन्ति सर्वे ईक्षणेन ८ स तृतीयः करुणरसभाव इति ९ रौद्रः शिल्पकारेषु चतर्थो रसः १० तिर्यग्रेखायां भावः प्रकटो भवतीति विशेषः ११ स वीरभावः पञ्चमः १२ वैरभावे उत्कटे भयङ्करो भवति स विलक्षणः षष्ठरसः १३ तस्याङ्गमारुतरेखायामिति स सप्तमः १४ शान्तभावः सोऽष्टमो रसः १५ भावानुगतरूपाणि चतुर्धा मुख्यानि १६ लोके भावबोधस्य हेतुर्मनः १७ मनुष्याणां वृत्तिर्मुख्येति १८ सङ्कल्पाद्विकल्प इति विशेषः १९ एष भुवनकोषो देहानुभूत्या क्रमः २० अरूपाद् रूपं तस्य फलं २१ दिशानुसृते दिशापालानुपासन्ते २२ एवं दैवभेदान् मार्गभेदा जायन्ते २३

षष्ठप्रपाठकस्य सूत्राणि

न्यासधारणा श्रेष्ठा १ वृत्त्या दैवचिन्तने भेदः सञ्जायते २ लक्षणप्रकाशार्थं शिल्पविद्या ३ न्यासोऽलङ्कारमुद्रायुधबाध्रकक्षवाहनोपदेवारिस्तुवकक्रमेण रूपनवाङ्गविशेषो ध्येयः ४ तिस्रः रेखाः श्रेष्ठाः ५ रूपक्षेत्रे कोष्ठकालिर्मुख्या ६ षोडशकोष्ठकमध्ये रूपाणि प्रभवन्ति तद्रूपार्थं श्रेष्ठं ७ विलमिति मर्म ब्रह्मेव निधेयं ८ षोडशकोष्ठकप्रमाणविभावास्तु ब्रह्मदैवजैवोपदैवयाजकक्रमेण पञ्चधाध्येयः ९ रूपाङ्गं चतुर्धेति विशेषः १० बिन्दुर्ब्रह्मेव ब्रह्मघ्रुवं ११ ब्रह्म सत्यादौ १२ ब्रह्मबिन्द्ववलम्बनेन रूपाङ्गाणि सौभगानि भवन्ति १३ अलङ्करणं दैवभूषणमिति १४ प्रमोदाद्रतिः प्रसरति १५ करमुद्रा रूपस्य भावं ज्ञापयति १६ बाध्रं बलं ज्ञापयति रूपे १७ आसनं षड्धा ज्ञेयं १८ गुणानुसृतं रूपत्रयं १९ वाहनं रूपस्य प्रकृतिज्ञापकविशेषः २० उपदैवतं प्रतिरूपमिति २१ उपदैवताद्रूपज्ञानं प्रसरति २२ अरिसन्धा ध्येया २३ रूपधाराया वृत्तिरिति श्रेष्ठा २४ स्तोतॄणां रूपे सुभगविशेषः २५ प्रज्ञार्थमेतद् वास्तूपाख्यानं २६ इति अथर्ववेदीय वास्तुसूत्रोपनिषत् समाप्ता । Proofread by Mohan Chettoor
% Text title            : Vastusutra Upanishad
% File name             : vAstusUtropaniShat.itx
% itxtitle              : vAstusUtropaniShat (atharvavedIya)
% engtitle              : vAstusUtropaniShat
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : See commentary in a separate file
% Indexextra            : (Scan 1, Info 1, 2, Commentary Text, Scan)
% Latest update         : August 8, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org