भगवता नारदाय प्रोक्तम् विष्णुस्तोत्रम्
(अनुस्मृतिस्तोत्रम्)
श्रुत्वा तस्य तु देवर्षेर्वाक्यं वाक्यविशारदः ।
प्रोवाच भगवान्विष्णुर्नारदं जगतो गतिः ॥ ६॥
भगवानुवाच -
हन्त ते कथयिष्यामि मुने दिव्यामनुस्मृतिम् ।
मरणे यामनुस्मृत्य प्राप्नोति परमां गतिम् ॥ ७॥
ओङ्कारमादितः कृत्वा मामनुस्मृत्य मन्मनाः ।
एकाग्रप्रयतो भूत्वा इदं मन्त्रमुदीरयेत् ॥ ८॥
अव्यक्तं शाश्वतं देवमनन्तं पुरुषोत्तमम् ।
प्रपद्ये प्राञ्जलिर्विष्णुमच्युतं परमेश्वरम् ॥ ९॥
पुराणं परमं विष्णुमद्भुतं लोकभावनम् ।
प्रपद्ये पुण्डरीकाक्षमीशं भक्तानुकम्पिनम् ॥ १०॥
लोकनाथं प्रपन्नोऽस्मि अक्षरं परमं पदम् ।
भगवन्तं प्रपन्नोऽस्मि भूतभव्यभवत्प्रभुम् ॥ ११॥
स्रष्टारं सर्वभूतानामनन्तबलपौरुषम् ।
पद्मनाभं हृषीकेशं पपद्ये सत्यमव्ययम् ॥ १२॥
हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम् ।
आभास्वरमनाद्यन्तं प्रपद्ये भास्करद्युतिम् ॥ १३॥
सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम् ।
प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम् ॥ १४॥
नारायणं नरं हंसं योगात्मानं सनातनम् ।
शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम् ॥ १५॥
यः प्रभुः सर्वलोकानां येन सर्वमिदं ततम् ।
चराचरगुरुर्देवः स नो विष्णुः प्रसीदतु ॥ १६॥
यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः पितामहः ।
प्रसीदतु स नो विष्णुः पिता माता पितामहः ॥ १७॥
यः पुरा प्रलये प्राप्ते नष्टे लोके चराचरे ।
एकस्तिष्ठति योगात्मा स नो विष्णुः प्रसीदतु ॥ १८॥
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च
हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु
पर्जन्यः पृथिवी सस्यं कालो धर्मः क्रिया फलम् ।
गुणाकरः स नो बभ्रुर्वासुदेवः प्रसीदतु ॥ १९॥
योगावास नमस्तुभ्यं सर्वावास वरप्रद ।
यज्ञगर्भ महाभाग पञ्चयज्ञ नमोऽस्तु ते ॥ २०॥
चतुर्मूर्ते जगद्धाम लक्ष्म्यावास वरप्रद ।
सर्वावास नमस्तेऽस्तु साक्षिभूत जगत्पते ॥ २१॥
अजेय खण्डपरशो विश्वमूर्ते वृषाकपे ।
त्रिगर्ते पञ्चकालज्ञ नमस्ते ज्ञानसागर ॥ २२॥
अव्यक्तादण्डमुत्पन्नमव्यक्ताद्यः परः प्रभुः ।
यस्मात्परतरं नास्ति तमस्मि शरणं गतः ॥ २३॥
चिन्तयन्तो हि यं नित्यं ब्रह्मेशा आदयः प्रभुम् ।
निश्चयं नाधिगच्छन्ति तमस्मि शरणं गतः ॥ २४॥
जितेन्द्रिया महात्मानो ज्ञानध्यानपरायणाः ।
यं प्राप्य न निवर्तन्ते तमस्मि शरणं गतः ॥ २५॥
एकांशेन जगत्सर्वं योऽवष्टभ्य विभुः स्थितः ।
अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः ॥ २६॥
दिवाकरस्य सौम्यं हि मध्ये ज्योतिरवस्थितम् ।
क्षेत्रज्ञमिति यं प्राहुः स महात्मा प्रसीदतु ॥ २७॥
अव्यक्तमनवस्थानो दुर्विज्ञेयः सनातनः ।
आस्थितः प्रकृतिं भुङ्क्ते स महात्मा प्रसीदतु ॥ २८॥
क्षेत्रज्ञः पञ्चधा भुङ्क्ते प्रकृतिं बहुभिर्गुणैः ।
मनोगुणांश्च यो भुङ्क्ते स महात्मा प्रसीदतु ॥ २९॥
साङ्ख्या योगाश्च ये चान्ये सिद्धाश्चैव महर्षयः ।
यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु ॥ ३०॥
नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख
निर्विकार नमस्तेऽस्तु साक्षिभूत हृदि स्थित ।
अतीन्द्रिय नमस्तुभ्यं लिङ्गेभ्यस्त्वं प्रमीयसे ॥ ३१॥
ये तु त्वां नाभिजानन्ति संसारे संसरन्ति ते
रागद्वेषविनिर्मुक्तं लोभमोहविवर्जितम् ।
अशरीरं शरीरस्थं समं सर्वेषु देहिषु ॥ ३२॥
अव्यक्तं बुद्ध्यहङ्कारौ महाभूतेन्द्रियाणि च ।
त्वयि तानि न तेषु त्वं तेषु त्वं तानि न त्वयि ॥ ३३॥
स्रष्टा भोक्तासि कूटस्थो गुणानां प्रभुरीश्वरः ।
अकर्ता हेतुरहितः प्रभुः स्वात्मन्यवस्थितः ॥ ३४॥
नमस्ते पुण्डरीकाक्ष पुनरेव नमोऽस्तु ते
ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते ।
भक्तानां यद्धितं देव तद्ध्याय त्रिदशेश्वर ॥ ३५॥
मा मे भूतेषु संयोगः पुनर्भवतु जन्मनि ।
अहङ्कारेण बुद्ध्या वा तथा सत्त्वादिभिर्गुणैः ॥ ३६॥
मा मे धर्मो ह्यधर्मो वा पुनर्भवतु जन्मनि ।
विषयैरिन्द्रियैर्वापि मा मे भूयात्समागमः ॥ ३७॥
पृथिवीं यातु मे घ्राणं यातु मे रसना जलम् ।
चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम् ॥ ३८॥
शब्दो ह्याकाशमभ्येतु मनो वैकारिकं तथा ।
अहङ्कारश्च मे बुद्धिं त्वयि बुद्धिः समेतु च ॥ ३९॥
वियोगः सर्वकरणैर्गुणैर्भूतैश्च मे भवेत् ।
सत्त्वं रजस्तमश्चैव प्रकृतिं प्रविशन्तु मे ॥ ४०॥
निष्केवलं पदं चैव प्रयामि परमं तव ।
एकीभावस्त्वयैवास्तु मा मे जन्म भवेत्पुनः ॥ ४१॥
नमो भगवते तस्मै विष्णवे प्रभविष्णवे
त्वन्मनस्त्वद्गतप्राणस्त्वद्भक्तस्त्वत्परायणः ।
त्वामेवानुस्मरे देव मरणे प्रत्युपस्थिते ॥ ४२॥
पूर्वदेहकृता ये मे व्याधयस्ते विशन्तु माम् ।
आर्दयन्तु च दुःखानि प्रविमुञ्चामि यदृणम् ॥ ४३॥
उपतिष्ठन्तु मे रोगा ये मया पूवसञ्चिताः ।
अनृणो गन्तुमिच्छामि तद्विष्णोः परमं पदम् ॥ ४४॥
अहं भगवतस्तस्य मम चासौ सुरेश्वरः ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ४५॥
नमो भगवते तस्मै येन सर्वमिदं ततम् ।
तमेव च प्रपन्नोऽस्मि मम यो यस्य चाप्यहम् ॥ ४६॥
इमामनुस्मृतिं नित्यं वैष्णवीं पापनाशनीम् ।
स्वपञ्जाग्रत्पठेद्यस्तु त्रिसन्ध्यं वापि यः स्मरेत् ॥ ४७॥
मरणे चाप्यनुप्राप्ते यस्त्विमां समनुस्मरेत् ।
अपि पापसमाचारः सोऽपि याति परां गतिम् ॥ ४८॥
अर्चयन्नपि यो देवं गृहे वापि बलिं ददेत् ।
जुह्वदग्निं स्मरेद्वापि लभते स परां गतिम् ॥ ४९॥
पौर्णमास्याममावास्यां द्वादश्यां च विशेषतः ।
श्रावयेच्छ्रद्दधानास्तु ये चान्ये मामुपाश्रिताः ॥ ५०॥
नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयान्वितः ।
तस्य स्युरक्षया लोकाः श्वपाकस्यापि नारद ॥ ५१॥
इति विष्णुधर्मेषु अष्टषष्टितमोऽध्यायान्तर्गतं
भगवता नारदाय प्रोक्तं विष्णुस्तोत्रं सम्पूर्णम् ।
(अनुस्मृतिस्तोत्रम्)
Proofread by PSA Easwaran