उपनिषत्समीक्षा
लेखकः - नन्दप्रदीप्तकुमारः
भारतीयज्ञानभाण्डारे उपनिषदां स्थानं महत्वपूर्णं वरीवर्ति । इयं पराविद्या ब्रह्मविद्या अध्यात्म्यविद्या वा परिगण्यते विद्वद्भिः । मूलतो वेदान्तशास्त्रमुपनिषदाख्यायते । मुख्यतया अध्यात्म्यविद्याप्रतिपादका वेदभागा उपनिषदः कथ्यन्ते । भारतीयदर्शनशास्त्रेषु प्रस्थानत्रयेषु ब्रह्मसूत्रं, श्रीमद्भगवद्गीता, उपनिषच्च त्रीणि प्रस्थानानि विख्यातानि । भारतीया वैदिकधर्मग्रन्था दर्शनानि च इमामेव प्रस्थानत्रयीमवलम्बन्ति । उपनिषदां गीताब्रह्मसूत्रयोराश्रयप्रदायित्वात् ताः सन्ति महनीयतमाः । उप निपूर्वकस्य विशरण-गति-अवसादनार्थकस्य धातोः (षद्लृ धातोः) क्विप् प्रत्ययेन उपनिषत् शब्दस्य निष्पत्तिर्भवति । ब्रह्मस्वरूपप्रतिपादने सर्वसमर्थेयं विद्या सर्वेषां मुमुक्षूणां कृते परमोपादेया भवति । उपनिषदां संख्यानिर्धारणे मुक्तिकोपनिषद्वाक्यं प्रधानम् । तन्मते ``सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम्'' । इति । अष्टोत्तरशतसंख्यका उपनिषदः आसन् । अधुना १२० उपनिषदः समुपलभ्यन्ते । तासु अष्टोत्तरशतसंख्यकासु प्रायेण द्वादशोपनिषदः प्राचीनत्वात् विशदतया प्रामाणिका भवन्ति । तेषु १० उपनिषदः ऋग्वेदसम्बद्धाः, १९ उपनिषदः शुक्लयजुर्वेदसम्बद्धाः, ३२ कृष्णयजुर्वेदसम्बद्धाः, १६ सामवेदसम्बद्धाः, ३१ अथर्ववेदसम्बद्धाः च विराजन्तेतराम् । अन्या योगोपनिषदः, सामान्यवेदान्तोपनिषदः, वैष्णवोपनिषदः, शैवोपनिषदः, शाक्तोपनिषदश्च दृष्टिपथमारोहन्ति । सर्वे दार्शनिकाः तासु कतिचनोपनिषदः स्वमतानुसारिण्यया व्याख्यातवन्तः । अन्यत्र २१ वेदान्तोपनिषदः, १६ वैष्णवोपनिषदः, १५ शैवोपनिषदः,१८ शाक्तोपनिषदः प्रकाशिता सन्ति । सर्वासूपनिषत्सु दशोपनिषदः प्रसिद्धाः सन्ति । तासामुपरि भाष्यकाराः स्व-स्वमतानुसारं भाष्यं कृतवन्तः । तासां संख्या तु मुक्तिकोपनिषदि निम्नरूपेण वर्णिता दृश्यते । उक्तं च-
``ईश केन कठ प्रश्न मुण्ड माण्डूक्य तित्तिरिः ।
ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश'' ॥
एतदतिरिक्ता श्वेताश्वेतोपनिषदपि प्रसिद्धा विद्यते । सर्वासूपनिषत्सु केचन गद्यात्मिकाः, कतिचन पद्यात्मिकाः अपराः गद्यपद्योभयात्मिकाश्च दृश्यन्ते । आसां कालोऽपि भिन्न-भिन्नः प्रतीयते । इमाः उपनिषदः भारतीय-अध्यात्म्यविद्याकाशे जाज्वल्यमानानि नक्षत्राणीव शोभन्ते । सर्वासूपनिषत्सु प्रायशः अद्वैत-द्वैत-विशिष्टाद्वैतश्रुतीनां सद्भावः परमाचार्यैः प्रधानत्वेन स्वीकृतः । सर्वेषां दर्शनानां बीजानि उपनिषत्सु निहितानि दृश्यन्ते । न केवलमास्तिकदर्शनानामपितु नास्तिकानामपि मूलभूताः सिद्धान्ताः आसु समुपलभ्यन्ते ।
आत्मास्ति उपनिषदां प्रधानविषयः । केनोपायेन जीवः आत्मसाक्षात्कारकर्तुं शक्यते तद्विषये उपनिषद् वक्ति । संहितात आरण्यकं यावत् तद्ब्रह्मस्वरूपं भिन्नप्रकारेण वर्णितमस्ति । किन्तु उपनिषद् विशदतया सूक्ष्मरीत्या च तदात्मतत्त्वं विशिनष्टि । तदाह बृहदारण्यके- ``स वायमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमय वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः `` इति संसारस्य मूलभूतं तत्त्वं भवति आत्मा निश्चितः ।
ब्रह्मतत्त्वविश्लेषणे उपनिषदां युक्तिः बलिष्ठा । उपनिषदध्ययनं विना आत्मविद्यासन्धानं सर्वथाऽसम्भवमिति सत्यम् । ब्रहतत्त्वं यः कोऽपि जिज्ञासति, ज्ञातुं शक्यते वा तत्सर्वमुपनिषत् माध्यमेन । साधकः यमात्मानं वृणुते तेनैव स तमवाप्तुमीष्टे । यच्चोक्तं -
``नायमात्मा प्रवचनेन लभो न मेधया न बहुधा श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनूं स्वाम् ॥ ''
इति । विशालं चास्ति उपनिषदः कलेवरम् । न केवलमध्यात्म्यविषया अपितु सर्वे सामाजिकविषया अपि उपनिषत्सु दरीदृश्यन्ते । सर्वेषां मानवजातीनां कृते समादरणीयाः समाश्रयणीया उपनिषदः इति दिक् ।
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com