पार्श्वाभ्युदयम्

पार्श्वाभ्युदयम्

᳚pArshvAbhyudayam᳚ meghadUtaveShTita kAvyaM by AchArya jinasena Jinasena was a ninth century Digambara Jain monk, best known for his work ᳚Adi purANa᳚. Very little is known about his personal life. Jinasena is also well-known in the sanskrit poetic literature for his work, pArshvAbhyudayam᳚ (The Arising of pArshva), which he wrote before 783 AD. This work is about the life story of the 23rd Jain Saint PArshvanAtha, and the troubles created by SambarAsura, the brother of the former birth of PArshva. In his work, ᳚PArshvAbhyudayam᳚ Jinasena has performed the wonderful feat of utilising each line of the love poem ᳚MeghadUtam᳚ of KAlidAsa for narrating the life of the 23rd Tirthankara Lord PArshvanAtha. The whole work of MeghadUtam is incorporated in this work, and the simple story of MeghadUtam is altogether changed and the incident of Parshav's harassment caused by Sambara is narrated in a very scholarly manner. What sets this work apart from other similar biographies is that the author ingeniously incorporated ᳚each᳚ of the 480 line from ᳚every᳚ one of the 120 shloka-s of ᳚MeghadUtam᳚, in the form of a ᳚samasyA pUrana᳚ exercise. Since the conventions of a Samasya Purana requires that the adopted text not to be changed, scholars feel that this work reflects the authentic version of KAlidAsa's MeghadUtam vogue during his period. (Ref: K B Pathak: KAlidAsa's MeghadUtam (as embodied in the PArshvAbhyudayam). The poetical metre of this work is, of course, mandAkrAntA, as is expected. This poetic work PArshvAbhyudayam consisting of 364 shloka-s in chaste sanskrit. While most of the shloka-s employ the fourth line as the samasyA from KAlidAsa's MeghadUtam, some shloka-s have used the first or second or third line from KAlidAsa, and in several instances, two lines are taken from KAlidAsa's MeghadUtam. The 364 shloka-s are distributed in four Sargas: Sarga 1 - 118, Sarga 2 - 118, Sarga 3 - 57, Sarga 4 - 71. But the last six shloka-s (in Sarga 4) do not use lines from KAlidAsa, and employ metre different from MandAkrAntA, and are the author's concluding remarks. So, the work uses KAlidAsa's lines only in 358 shloka-s. Among these, Jinasena uses one line of MeghadUtam in 246 shloka-s, and two lines of Meghadutam in 117 (= 234 lines), thus totalling 480 lines of all 120 shloka-s of MeghadUtam that are found in all standard editions of MeghadUtam. It is not clear why all these 4 sargas have the same name: bhagavatkaivalyavarNanaM, as mentioned in this commentary of this work. Reference: shrIjinasenAchAryavirachitaM pArshvAbhyudayam (bhAratIya shruti-darshana kendra, jayapura) 1965 (843 pages), with a commentary in Sanskrit, BAlabodhini, written by Muktendu Varma. NOTE: Since the ordering of varuious shloka-s in MeghadUtam differ from book to book, and also there are many prakShipta shloka-s scattered here and there in many editions, for the sake of a uniform numbering of the variouis lines of MeghadUtam that appears in this present work, I have used the following text as a basis. ᳚Complete Works of Kalidasa᳚, edited by V P Joshi and published by E T Brill, Leiden, Netherlands (1976) Hence all numberings such as (Megha 32c) refer to shlokams in this book, the letters a,b,c,d indicating the pAda number in each shloka. ADDITIONAL NOTE: There is a smaller work of the same flavour, ᳚MeghadUta shlokamslekhaH᳚ of Meghavijaya. In this Jain work, the author is sending a message to his Jain Guru through Megha. He has taken 4th line of each shloka of Kalidasa's MeghadUtam as a samasyA, and composed three more lines to complete the samasyA shloka-s, as a samasyA pUrana. Thus, the 4th line of each shlokam in both kAvyas are identical, though the stories are entirely different.

॥ श्रीपार्श्वाभ्युदयम् ॥

॥ श्रीजिनसेनाचार्यविरचितम् ॥

॥ प्रथमः सर्गः ॥

श्रीमन्मूर्त्या मरकतमयस्तम्भलक्ष्मीं वहन्त्या योगैकाग्न्यास्तिमिततरया तस्थिवांसं निदध्यौ । पार्श्वं दैत्यो नभसि विहरन् बद्धवैरेण दग्धः कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः ॥ १ ॥ (Megha 1a) तन्माहात्म्यात्स्थितवति सति स्वेविमाने समान: प्रेक्षाञ्चक्रेभ्रुकुटिविषमं लब्दसञ्ज्ञो विभागात् । ज्यायान्भ्रातुर्वियुतपतिना प्राक् कलत्रेण योऽभूत् शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ॥ २ ॥ (Megha 1b) यो निर्भत्सैः परमविषमैर्घाटितो भ्रातरि स्वे बद्ध्वा वैरं कपटमनसा हा ! तपस्वी तपस्याम् । सिन्धोस्तीरे कलुषहरणे पुण्यपण्येषु लुब्धो यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु ॥ ३ ॥ (Megha 1c) तस्यास्तीरे मुहुरुपलवानूर्ध्वशोषं प्रशुष्यन् उद्बाहुस्सन् परुषमननः पञ्चतापं तपो यः। कुर्वन्न स्म स्मरति जडधीस्तापसानां मनोज्ञां स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ ४॥ (Megha 1d) यस्मिन् ग्रावा स्थपुटिततलो दावदग्धाः प्रदेशाः शुष्का वृक्षा विविधवृतयो नोपभोग्या न गम्याः । यः स्म ग्रैष्मान् नयति दिवसाञ्शुष्कवैराग्यहेतोः तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी ॥ ५॥ (Megha 2a) यं चाऽन्विष्यन् वनमथ नदीमुत्तरारोहशैलान् अत्युद्भ्रान्ताश्चिरमनुशयाद्भ्रातृभक्तः कनीयान् । शोकाद्देहे कदिचिदवशादत्यनूचानवृत्त्या नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥६॥ (Megha 2b) यं चाऽपश्यद्गिरिवननदीः पर्यटन्सोऽपि कृच्छ्रात् अध्वश्रान्तः कतिपयथकैर्वासरैरद्रिकुञ्जे । दूराद्धूमप्रततवपुषं नीललेश्यं यथोच्चैः आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुम् ॥ ७॥ (Megha 2c) var प्रशमदिवसे यश्चावद्धभ्रुकुटिकुटिलभ्रूतटो जिह्ववक्त्रः क्रोधावेशाज्ज्वलदपघनो भ्रातरं तं तदानीम् । स्नेहोद्रेकाच्चरणपतितं नाऽपदृष्टिर्विरूक्षं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ८॥ (Megha 2d) सोऽसौ जाल्मः कपटहृदयो दैत्यपाशो हताशः स्मृत्वा वैरं मुनिमपघृणो हन्तुकामो निकामम् । क्रोधात्स्फूर्जन्नवजलमुचः कालिमानं दधानः तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः ॥ ९॥ (Megha 3a) var केतकाधानहेतोः किञ्चित्पश्यन्मुनिपमनघं स्वात्मयोगे निविष्टं गाढासूयां मनसि निदधत्तद्वधोपायमिच्छन् । क्रूरो मृत्युः स्वयमिव वहन् स्वेदबिन्दून् स रोषात् अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ॥ १०॥ (Megha 3b) मेघैस्तावत्स्तनितमुखरैर्विद्युदुद्योतहासैः चित्तक्षोभान्द्विरदसदृशैरस्य कुर्वे निकुर्वन् । पश्चाच्चैनं प्रचलितधृतिं ही हनिष्यामि चित्रं मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः ॥ ११ ॥ (Megha 3c) ध्यायन्नेवं मुनिपमभणीन्निष्ठुरालापशौण्डो भो भो भिक्षो भाणतु स भवान् स्वान्तमन्तर्निरुन्धन् । क्षीणाक्लेशे सिपिधुषि मतिं किं निधत्तेऽङ्गितत्वे कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १२॥ (Megha 3d) इत्युक्त्वाऽदो मुहुरुपववहन् निश्चितात्मोपसर्गो बद्धक्रोधः सरभसमसौ भीमजीमूतमायाम् । स्रागस्राक्षीन्मुनिपमभितो नोमनागप्यसूरिः प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी ॥ १३ ॥ (Megha 4a) var मनसि, दयिताजीवितालम्बनार्थां,दयिताजीवितालम्बनार्थं विद्युन्मालास्फुरितरुचिरे मेघजाते नताशे स्फूर्जद्वज्रे झटिति कमठो वृष्टिपातं ससर्ज । कालेनाऽसौ किल जलभृतां योगिनं तं वितन्वन् जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥ १४ ॥ (Megha 4b) एवं प्रायां निकृतिमधमः कर्तुमारब्ध भूयो मायाशीलश्चिरपरिचिताद्वैरबन्धात् प्रकुप्यन् । सिद्धैस्तान्निष्क्रमणसमये योगिने भक्तिनम्रैः स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै ॥ १५ ॥ (Megha 4c) var सम्प्रत्यग्रैः पर्जन्यानां ध्वनिमनु सकः स्फावयन् सिंहनादान् आक्रोशैः स्वैर्मुनिपरिसरात् तर्जयन्नाशदैत्यः । हा धिङ् मूढं भगवति मुनौ पूर्वबन्धौ न चोच्चैः - प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १६ ॥ (Megha 4d) क्वाऽयं योगी भुवनमहितो दुर्विलङ्घ्यस्वशक्तिः क्वाऽसौ क्षुद्रः कमठदनुजः क्वेभराजः क्व दंशः। क्वाऽऽसद्ध्यानं चिरपरिचितध्येयमाकालिकोऽसौ धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः ॥ १७ ॥ (Megha 5a) क्वाऽयं देवो विलसदणिमाद्यष्टभेदस्थितर्द्धिः क्वाल्पार्द्धित्वाद्गुरुसुरपशुः क्वाद्रिराट् क्वोपलौघः । क्वास्योद्योगः क्व नु मुनिगुणो दुर्विभेदाः क्व मूकः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ॥ १८ ॥ (Megha 5b) सत्यप्येवं परिभवपथे योजयन् स्वं दुरात्मा मत्यौद्धत्यात् स्वयमुपवहन् वारिवाहच्छलेन । मायायुद्धं मुनिपमुपमाक्षीणको दुर्जयोऽयं इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे ॥ १९॥ (Megha 5c) जाता रम्या सपदि विरलैरिन्द्रगोपैस्तदा भूः सेव्या केकिध्वनितमसुरा भूभृतां कुञ्जदेशा:। योगी तस्मिञ्जलदसमये प्रास्खलन्नात्मधैर्यात् कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ २० ॥ (Megha 5d) ऊर्ध्वज्ञुं तं मुनिमतिघनैः काळमेघैः प्रयुक्तो धारासारो भुवि नमयितुं नाशकद् दुःसहोऽपि । जात्याश्वानामिव बहुगुणे भूभृतामुग्रनाम्नां जातं वंशे भुवनविदिते पुष्करावर्तकानाम् ॥ २१ ॥ (Megha 6a) भूयः क्षोभं गमयितुमनाः स्वान्तवृत्तिं मुनीन्दो- र्वाचाटत्वं प्रचिकटयिषुर्धीरमेवं जजृम्भे। भो भो वीर स्फुटमिति भवाण् मय्यगादल्पमृत्युं जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ॥ २२ ॥ (Megha 6b) येनाऽमुष्निन्भवजलनिधौ पर्यटन् नैकधा मां स्त्र्यर्थेस्त्र्यर्थेपरिभवपदं प्रापिपस्त्वं प्रमत्तम् । कृच्छ्राल्लब्धे पुनरिति चिराद्वैरनिर्यातनायां तेनाऽर्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहम् ॥ २३ ॥ (Megha 6c) तस्माद्वीरप्रथमगणनामाप्तुकास्त्वकं चेत् पूर्वप्रीत्या सुभट ! सफलां प्रार्थनां मे विधत्स्व । कालाद्याचेपरमपुरुषं त्वाऽभियायाऽद्य युद्धं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ २४॥ (Megha 6d) जेतुं शक्तो यदि च समरे मामभीक प्रहृत्य स्वर्गस्त्रीणामभयसुभगं भावुकत्वं निरस्यन् । पृथ्व्या भक्त्या चिरमिह वहन् राजयुद्ध्वेति रूढिं सन्तप्तानां त्वमसि शरणं तत् पयोदप्रियायाः ॥ २५ ॥ (Megha 7a) याचेदेवं मदसिहतिभिः प्राप्य मृत्युं निकारात् मुक्तो वीरश्रियमनुभव स्वर्गलोकेऽप्सरोभिः। नैवं दाक्ष्यं यदि तव ततः प्रेष्यतामेत्य तूर्णीं सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ॥ २६ ॥ (Megha 7b) आद्यः कल्पस्तव न सुकरो दुर्घटस्त्वान्न चान्त्यः श्लाघ्यो दैन्यान्मुनिमत ततो मध्यकल्पाश्रयस्ते। श्रेयांस्तस्मिन् सुखमनुभवेरप्सरोभिस्तदुच्चै: गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ॥ २७ ॥ (Megha 7c) यस्यां रात्रेरपि च विगमे दम्पतीनां विधत्ते प्रीतिं प्रातस्तननिधुवनग्लानिमुच्चैर्हरन्ती । दृष्टा सास्रं सततविरहोत्कण्ठितैश्चक्रवाकैः बाह्योद्यानस्थितहरशिरश्चन्द्रिका धौतहर्म्या ॥ २८ ॥ (Megha 7d) मत्तो मृत्युं समधिगतवान् यास्यसीष्टां गतीं तां यस्मिन् काले विधुतसकलोपप्लवस्त्वं सुखेन । द्रष्टारोऽधोनियमितदृशो दिव्ययोषास्ततोषा: त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः ॥ २९ ॥ (Megha 8a) दिव्ये याने त्रिदिववनितालिङ्गितं व्योममार्गे सन्माणिक्याभरणकिरणाद्योतिताङ्गं तदानीम् । गां गच्छन्दं नवजलधराशङ्कयाऽधः स्थितास्त्वां प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ॥ ३० ॥ (Megha 8b) स्यादाकूतं मम न पुरतः स्वस्थवीराग्रणीर्यः तिष्ठेदेकं क्षणमिति न तं साम्प्रतं हन्तुमीशः। नन्वेषोऽहं वद भटमतः कीर्तिलक्ष्मीप्रियो वा कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ॥ ३१ ॥ (Megha 8c) श्रुत्वाऽप्येवं बहुनिगतितं जोपमेवाऽयमासेत् योगीयोगान्न चलतितरां पश्य धीरत्वमस्य । स्त्रीम्मन्यो वाभयपरवशः सोऽयमास्ते धिगस्तु न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ३२॥ (Megha 8d) वित्तनिघ्नः स्मरपवशां वल्लभां काञ्चिदेकां ध्यानव्याजात् स्मरति रमणीं कामुको नूनमेषः । अज्ञातं वा स्मरति सुदती यामयादूषिताऽऽसीत् तां चाऽवश्यं दिवसगणनातत्परामेकपत्नीम् ॥ ३३॥ (Megha 9a) जानासि त्वं प्रथमवयसि स्वीकृतां तां नवोढां त्यक्त्वा यास्यस्यवनिपतिना साकमेकाकिनीं यन् । प्रत्यावृत्तः कथमपि सतीं जीवितं धारयन्ती- मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ॥ ३४॥ (Megha 9b) चित्रं तन्मे यदुपयमनानन्तरं विप्रयुक्ता त्वत्तः साध्वी सुरतरसिका सा तदा जीवति स्म । मन्ये रक्षत्यसुनिरसनाद्धातुमापद्गतानां आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् ॥ ३५॥ (Megha 9c) तच्चाश्चर्यं यदहमभजं त्वद्वियोगेऽपि कामान् प्राणैरार्तः किमनुकुरुते जीवलोको हताशः । पुंसां धैर्य: किमुद सुहृदां किं पुनःसङ्गमाशा सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ?॥ ३६॥ (Megha 9d) इत्युक्ताऽथो पुनरपि सुरः सामभेदौ व्यतानीत् योऽन्तःस्नेहस्त्वयि चिरमभूत्पूर्वबन्धोस्तदा मे । धिक्कारस्तं तिरयतितरां त्वत्कृतोऽस्मान् स हन्तुम् । मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥ ३७॥ (Megha 10a) तस्माद्योगं शिथिलय मुने देहि युद्धक्षणं मे दानादन्यन्न खलु सुकृतं देहिनां श्लाघ्यमस्ति । शंसन्तीदं ननु वनगजा दानशीलास्तथाब्दा वामश्चायं नदति मधुरं चातकस्ते सगन्धः ॥ ३८॥ (Megha 10b) युद्धे शौण्डो यदि च भगवान् वीरशय्यां श्रितः स्याः स्वर्गस्त्रीणामहमहमिकां संविधास्यंस्तदा त्वाम् । विद्याधर्यो नभसि वृणते पुण्यपाकाद्विनङ्क्ष्य- द्गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः ॥ ३९॥ (Megha 10c) मूर्च्छासुप्तं त्रिदशनिहिताम्लानमन्दारमालं तूर्यध्वानस्तनितमुखरं दिव्ययानाधिरूढम् । द्यामुद्यन्तं सजलजलदाशङ्कयाऽऽबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ४० ॥ (Megha 10d) योगिन् पश्यंस्त्वदतुलधृतेर्भङ्गहेतून् पयोदां- स्तद्गम्भीरध्वनितमपि च श्रोतुमर्हस्यकाले। केकोद्ग्रीवाञ्शिखरिषु चिरं नर्तयेयन्मयूरान् कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम् ॥ ४१॥ (Megha 11a) पश्योत्त्रस्ता धवलितदिशो मन्दमन्दं प्रयान्तः दृश्यन्तेऽमी गगनमभितो मन्दसानाः स्वनन्तः । बद्धोत्कण्ठोद्विगलितमदाः प्रावृषेण्याम्बुदानां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ॥ ४२॥ (Megha 11b) ते चाऽवश्यं नवजलधरैरुन्मनीभूय हंसा मत्प्रामाण्यात्तव जिगमिषोर्धाम यक्षेश्वराणाम् । सङ्गच्छन्ते पथि जलमुचामापतन्तः समन्तात् आकैलासाद्बिसकिसलयच्छेदपाथेयवन्तः ॥ ४३॥ (Megha 11c) स्फीतोत्कण्ठाविगलितमदा मन्दमन्दायमाना मूकीभूताः स्खलितगयोऽनुन्मुखास्सन्तताशाः । त्वामन्वेते पवनपदवीमाश्रयन्तोऽनुरूपाः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ४४॥ (Megha 11d) भोक्तुं दिव्यश्रियमनुमतां यातुकामो द्युलोकं कालक्षेपदुपरम रणे मङ्क्षु सन्नह्य भिक्षो । येनाऽमुत्र स्पृहयसि दिवे यश्च संरक्षति त्वां आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् ॥ ४५॥ (Megha 12a) भूयश्चानुस्मर सिषिधुषः कार्यसिद्ध्यै प्रयत्य प्रायेणेष्टा महति विधुरे देवतानुस्मृतिर्नः । सिद्धिक्षेत्रं शरणमथवा गच्छ तं रामशैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ॥ ४६॥ (Megha 12b) स्नातो धौताम्बरनिवसनो दिव्यगन्धानुलिप्तः स्रग्वी दन्तच्छदविरचितारक्तताम्बूलरागः । खड्गी युद्धे कृतपरिकरः क्षालितागःपरागः काले काले भवति भवतो यस्य संयोगमेत्य ॥ ४७॥ (Megha 12c) पश्चात्तापाद्व्युपरितमहो मय्यपि प्रीतिमेहि भ्रातः प्रौढप्रणयपुलको मां निगूह् स्वदोर्भ्याम् । तत्ते स्निग्धे मयकि जनितता श्लाघनीया जनैः स्यात् स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ ४८॥ (Megha 12d) किं वा वैरीन्धनदहि मयि प्रौढमानस्त्वमेत- न्नाभिप्रेयाः किमपरमहो नो विलम्बेन तिष्ठ । त्वामद्यैवान्तकमुखबिलं प्रापयामि त्वकं मे मार्गं मत्तः श्रुणु कथयतस्त्वत्प्रयाणानुरूपम् ॥ ४९॥ (Megha 13a) var* तावच्छृणु श्रेयोमार्गान्न हि जिनमताद्भ्रंशितस्यैक एव मार्गोऽसह्यादसुखविषधेर्नारकात्तारको यः । तं मुक्त्वा ते श्रुतिसुखपदं वच्मि यत्र प्रियायाः सन्देशं मे तदनु जलद श्रोष्यसि श्रव्यबन्धम् ॥ ५०॥ (Megha 13b) var श्रोत्रपेयम् तत्राऽप्येकोऽनृजुरृजुरतः कोऽपि पन्थास्तयोर्यो वक्रोऽपि त्वा नयति सुखतस्तं श‍ृणु प्रोच्यमानम् । नानापुष्पद्रुमसुमनसां सौरभेणाततेषु खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र ॥ ५१॥ (Megha 13c) यस्मिन् रम्याः कृतकगिरयः सेव्यसानुप्रदेशाः नानावीरुद्विततिसुभगा: पुष्पशय्याचितान्ताः । तेन व्रज्या तव सुखकरी तत्र यायाः सुखेन क्षीण: क्षीणः परिलघुपयः स्रोतसां चोपभुज्य ॥ ५२॥ (Megha 13d) कामं यायाः पथि निगदिते कामगत्या विमानं प्रीत्यारूढः प्रथितमहिमा वारिवाहीव बन्धो । दृष्टोद्योगे नभसि विरहन् खेचरीभिस्त्वमुच्चै- रद्रेः श‍ृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि: ॥ ५३॥ (Megha 14a) मय्यामुक्तस्फुरितकवचे नीलमेघायमाने मन्ये युक्तं मदनुकृतये वारिवाहायितं ते । मेघीभूतो व्रज लघु ततः पातशङ्काकुलाभिः दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ॥ ५४॥ (Megha 14b) तस्माद्विद्युत्प्रसवसमये प्राप्य सिद्धिं वधूनां सद्यः कृत्वा समुचितमदो दिव्यजीमूतरूपम् । दिव्यान्भोगान् समनुभवितुं कामुकः कामचारे स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खम् ॥ ५५॥ (Megha 14c) दिग्भ्यो बिभ्यत्कथमिव पुमान् भीलुकस्तत्र गच्छे- दुल्लङ्घ्याद्रीन् विषमसरितो दुर्गमांश्च प्रदेशान् । तन्मा रोदीर्व्रज सुनिपुणं व्योममार्गानुसारी दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ ५६॥ (Megha 14d) प्रस्थाने ते विरचितमितस्तोरणं नूनमुच्चैः काञ्चीदाम श्लथितमथवा स्वर्गलक्ष्म्या किमेतत् । वर्णोपघ्नं धनुरुत समाविर्भवत्यत्युदग्रं रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् ॥ ५७॥ (Megha 15a) नूनं भूम्यान्तरितविसरं भोगिमूर्धन्यरत्न- ज्योतिश्चक्रं वियति किमितो दृश्यते भूमिरन्ध्रात् । प्रायेणेदं दिनकरकराश्लिष्टमेघाश्रितं यद्- वल्मीकाग्रात्प्रभवति धनु: खण्डमाखण्डलस्य ॥ ५८॥ (Megha 15b) खड्गस्यैकं कथमपि दृढं मे सहस्व प्रहारं वक्षोभागे कुलिशकठिने प्रोच्छलद्रक्तधारम् । विद्युद्दण्डस्फुरितरुचिना वारिदस्येव भूयो येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते ॥ ५९॥ (Megha 15c) शङ्कोरेकं प्रहृतमथवा धत्स्व शूराग्रणिर्मे पिच्छोपाग्रप्रततिरुचिरं येन शोभाऽतिका ते । क्रीडाहेतोर्विरचिततनोरिन्द्रनीलत्विष: स्याद् बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ ६०॥ (Megha 15d) आस्तां तावत्प्रहरणकथा स्वर्ययाऽर्ज्य तवाऽयं मार्गः स्वर्जो वियदभिपतेः प्रागमुष्मात्प्रदेशात् । जीमूतत्वं दधदनुगतः क्षेत्रिणां दृष्टिपातैः त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः ॥ ६१॥ (Megha 16a) विद्युन्मालाकृतपरिकरो भास्वदिन्द्रायुधश्री- रुद्यन्मन्द्रस्तनितसुभगः स्निग्धनीलाञ्जनाभः । शीघ्रं यायाः कृतकजलद त्वत्पयोबिन्दुपात- प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ॥ ६२॥ (Megha 16b) दृश्यान्देशाञ्जलद सकलान्प्रेक्ष्य सिंहावलोकात्- तत्रत्यानां जनपदभुवां तापमाहृत्य पश्चात् । प्रीत्यासन्नं जनपदमिमं लङ्घयालं विलम्ब्य सद्यःसीरोत्कषणसुरभिक्षेत्रमारुह्य मालम् ॥ ६३॥ (Megha 16c) यद्यौत्सुक्यं तव जनपदप्रेक्षणे दीर्घकालं प्रत्यावृत्तस्वविषयरतेरस्ति भिक्षो कदाचित् । तत्पेपीयस्व परिसरितं दक्षिणाशां भ्रमित्वा किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ ६४॥ (Megha 16d) वक्ष्यत्युच्चैः पथगतिपरिश्रान्तितान्तं नितान्तं तुङ्गोऽद्रिः स्वैर्बहुविलसितैर्निर्झरैरात्तकान्तिः । प्रत्युद्यातो धुततटवनोपान्तदेशैर्मरुद्भिः त्वामासारप्रशमितवनोपद्रवं साधु मूर्ध्ना ॥ ६५॥ (Megha 17a) var वनोपप्लवं त्वय्यासन्ने विरलविरलान् प्रावृषेण्योदबिन्दून् वस्त्रक्नोपं विसृजति तथाऽप्यश्मवेश्मोदरेषु । सिद्धद्वन्द्वं सुरतरसिकं प्रान्तपर्यस्तवीणं वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ॥ ६६॥ (Megha 17b) त्वामुत्तुङ्गैः शिखरतरुभिः सङ्ग्रहीष्यत्यवश्यं विश्रान्त्यर्थ प्रियमुपगतं सोऽचलस्तुङ्गवृत्तिः। प्राप्तं काले प्रणयिनमहो कर्तुमर्हत्यपाशं न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ॥ ६७॥ (Megha 17c) मन्ये मैत्रीं गुरुभिरचलैर्वारिदानामहार्या यं प्रत्येति विदधति धृतिं तस्य ते बन्धुकृत्यम् । कुर्यादद्रिर्भृशमसुहृदोऽत्युत्तमस्निग्धवृत्तिः प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ ६८॥ (Megha 17d) सेव्यः सोऽद्रिः खचरवनिताध्यासिदोदग्रशॄङ्गः त्वां विश्रान्त्यै त्वरयति पुरा रम्यसानुप्रदेशः । सिद्धोपास्यः कुसुमितलतावीरुधां सन्निवेश्यः छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः ॥ ६९॥ (Megha 18a) कृष्णाहिः किं वलयिततनुर्मध्यमस्यातिशेते किं वा नीलोत्पलविरचितं शेखरं भूभृतः स्यात् । इत्याशङ्कां जनयति पुरा मुग्धविद्याधरीणां त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ॥ ७०॥ (Megha 18b) अध्यासीनः क्षणमिव भवानस्य शैलस्य कुञ्जं लक्ष्मीं रम्यां मुहुरुपहरन्निद्रनीलोपलस्य । खेनोन्मुक्तो भुवमिव गतः श्लक्ष्णनिर्मोकखण्डो नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम् ॥ ७१॥ (Megha 18c) त्वय्यानीलत्विपि गिरिरसौ शेखरत्वं दधाने शोभामेष्यत्यमरमिथुनश्लाघनीयां तदानीम् । नानापुष्पद्रुमशबलितोपत्यकः सोतिमात्रं मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ ७२॥ (Megha 18d) रम्यश्रोणीर्विकटदशनाः प्रोथिनीदर्घिघोणा: पीनोत्तुङ्गस्तनतटभरान्मन्दमन्दं प्रयान्तीः। ग्रावक्षुण्णाप्रशिथिलनखा वाजिवक्त्राः प्रपश्ये तस्मिन् स्थित्वा वनचरवधूभुक्तकुञ्जे मुहूर्तम् ॥ ७३॥ (Megha 19a) var स्थित्वा तस्मिन् तस्मादद्रेः कथमपि भवान्मुक्तकुञ्जः प्रयायात् रम्यस्थनं त्यजति न मनो दुर्विधानं प्रतीहि । कालक्षेपं विसृज गरिमालम्बनं याहि सद्यः तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ॥ ७४॥ (Megha 19b) गत्वोदीचीं भुव इव पृथुं हारयष्टिं विभक्तां वन्येभानां रदनहतिभिर्भिन्नपर्यन्तवप्राम् । वीनां वृन्दैर्मधुरविरुतैरात्ततीरोपसेवां रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् ॥ ७५॥ (Megha 19c) तां तस्याद्रेरुपतटवनं विप्रकीर्णप्रवाहां तीरोपान्तस्खलनविषमोद्वृत्तफेनां समीनाम् । पश्य प्रीत्या गिरितटगजक्षोभभिन्नोर्मिमालां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ ७६॥ (Megha 19d) दत्तं वन्यैरिव कलभकैः पुष्करेणोत्क्षिपद्भिः प्रायोग्यं ते मुनिमत चिरं वासनावासितस्य । ग्रावच्चुण्णोच्चलितमथवा त्वं हरेर्वार्यवार्य यस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः ॥ ७७॥ (Megha 20a) var तस्यास्तिक्तैः तत्स्वादीयः सुरभि शिशिरं प्रार्थनीयं मुनीनां निजन्तुत्वादुपलनिपतन्निर्झराम्भ:प्रकाशम् । तस्याः क्षुण्णं वनकरिकराघट्टनैरप्यजस्रं जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः॥ ७८॥ (Megha 20b) हृत्वा तस्या रसमपहृताशेषमार्गश्रमस्त्वं व्योमव्रज्यां पुनरविहतप्रक्रमां सन्दधीथाः। प्राप्तस्थैर्य सपदि जलवानप्यसौ यद्गरीयान् अन्तःसारं घन तुलयितुं नाऽनिलः शक्ष्यति त्वाम् ॥ ७९॥ (Megha 20c) मार्गे मार्गे पुनरपि जलान्याहरेस्त्वं धुनीनां येन स्थेमा भवति भवतो वीर दूरं प्रयातः । उत्सृज्यालं लघिमघटितां रिक्ततामेधि पूर्णो रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ ८०॥ (Megha 20d) कार्याल्लिङ्गात् स्वयमधिगतात् कारणस्याऽनुमानं रूढं येषां तदियमभिमा क्तरुपेति मन्ये । त्वत्सान्निध्यं यदनुमिमते योषितः प्रोषितानां नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैः ॥ ८१॥ (Megha 21a) मध्येविन्ध्यं वनभुवमिया यत्र दृष्ट्वा शिलीन्ध्रान् अध्यारूढाननुवनममी पर्वतीया मनुष्याः । त्वामायातं कलयितुमलं त्वत्पयोबिन्दुपातैः आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ॥ ८२॥ (Megha 21b) त्वामासन्नं सपदि पथिका ज्ञातुमर्हन्त्यकाले श्रुत्वा केकाध्वनिमनुवनं केकिनामुन्मदानाम् । बर्हक्षेपं नटितमपि च प्रेक्ष्य तेषां सलीलं दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः ॥ ८३॥ (Megha 21c) पुष्पामोदैरविरलममी सम्पतन्तो वनान्ते बद्धौत्सुक्यात् सरसविदलत्कन्दलैश्चानुकुञ्जम् । दग्घारण्यस्थलपरिमलैश्चानुकृष्टा यथास्त्वं सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ ८४॥ (Megha 21d) गम्भीरत्वं यदिदमधुना लक्ष्यते ध्यानहेतोः सङ्क्षोभाणां विरचनशतैरप्यधृष्यं मदीयैः। तद् दृष्ट्वाऽहं तव घनतया मान्द्यमेवाऽतिधैर्या- दुत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः ॥ ८५॥ (Megha 22a) भूयश्चाहं नवजलधराधौतसानुप्रदेशे नृत्यत्केकिध्वनिमुखरिते स्वागतं तन्वतीव । पाद्यं चोच्चैर्वहति शिरसा निर्झराम्भोऽभिशङ्के कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ॥ ८६॥ (Megha 22b) निःसङ्गोऽपि व्रजितुमनलं तत्र तत्र क्षितिध्रे लब्धातिथ्यः प्रिय इव भवानुह्यमानः शिरोभिः। अभ्युद्यातैस्त्वदुपगमनादुन्मनीभूय भूयः शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः ॥ ८७॥ (Megha 22c) तस्योत्कण्ठाविरुतिमुखरस्योत्पतिष्णोः कथञ्चित् प्रत्यासन्नत्वदुपगमनस्याऽन्तरार्द्रस्वभावे। स्नेहव्यक्तिं त्वयि घनयतः केकिवृन्दस्य मन्ये प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ ८८॥ (Megha 22d) विन्ध्योपान्तात्तव गतवतो नाऽतिदूरे दशार्णाः रम्यारामा नयनविषये सम्पतिष्यन्ति सद्यः। त्वत्सान्निध्यात् कलुषितपयःपूर्णशालेयवप्राः पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः ॥ ८९॥ (Megha 23a) तेषामाविष्कृतजललवे त्वय्युपासन्नवृत्तौ सीमोद्देशा नयनसुभगाः सामिसंरूढसस्याः । सञ्जायेरन्नवपरिकरा मूकपुंस्कोकिलाश्च नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ॥ ९०॥ (Megha 23b) भूयस्तेषामुपवनभुवस्तुङ्गशाखाग्रघृष्ट- व्योमोत्सङ्गैर्निजतरुवरैरात्तशोभाः फलाढ्याः । सम्पद्येरन्विविधविहगैराकुला नीडकृद्भिः त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः ॥ ९१॥ (Megha 23c) इत्यभ्यर्णे भवति विलसद्विद्युदुद्दामहासे मुक्तासारप्रकटितरवे केकिनामुन्मदानाम् । नृत्यारम्भं घटयति मुहुर्नूनमुद्भूतपङ्काः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ ९२॥ (Megha 23d) गत्वा पश्येः पवनविचलत्केतुहस्तैरभीक्ष्णं दूरादुच्चैर्भवनशिखरैराह्वयन्तीमिव त्वाम् । सालोदग्रां श्रियमिव भुवो रूपिणीं नाभिभूतां तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीम् ॥ ९३॥ (Megha 24a) सौधोत्सङ्गे क्षणमुपनिषत्तृष्ण तूण्णीं निषण्णो जालोद्गीर्णैः सुरभिततनुर्धूपधूमैर्मनोज्ञैः । वारस्त्रीणां निधुवनरतिं प्रेक्षमाणस्त्वमेनां गत्वा सद्यः फलमपि महत्कामुकत्वस्य लब्धा ॥ ९४॥ (Megha 24b) var* फलमविकलं विश्रान्तिस्ते सुभग विपुला तत्र यातस्य मन्ये कल्हाराङ्कं सुरभि शिशिरं स्वच्छमुत्फुल्लपद्मम् । वाताकीर्णैः कुवलयदलैर्वासितं दीर्घिकाम्भः तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्र ॥ ९५॥ (Megha 24c) var यस्मात् , यत्तत् पातव्यं ते रसिक सरसं प्राणयात्रानिमित्तं तस्यां लीलास्फुरितशफराघट्टनैरात्तपङ्कम् । रोधःप्रान्ते विहगकलभैर्बद्धडिण्डीरपिण्डं सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ ९६॥ (Megha 24d) पीत्वा तस्यां सलिलममलं जीविकां कृत्य किञ्चित् नीत्वाऽहस्त्वं क्वचिदनुमते हर्म्यपृष्ठेनिषण्णः । दृष्ट्वा दृश्यं विलसितमदो नागराणां दिनान्ते नीचैराख्यं गिरिमधिवसेस्तत्र विश्रान्तिहेतोः ॥ ९७॥ (Megha 25a) var विश्रामहेतोः त्वं सेवेथाः शिखरिणममुं तां निशां मुक्तशङ्को विद्युद्दामस्फुरितरुचिमद्दीपिकाद्योतिताशः। सिद्धस्त्रीणां रतिपरिमलैर्वासिताधित्यकान्तं त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥ ९८॥ (Megha 25b) सोऽसावद्रिर्भवतु नितरां प्रीतये ते समग्र- ग्रावोपाग्रैर्ग्रहगणमिवोपगृहीतुं खमुद्यन् । भोगेद्रेकं कथयति लतावेश्मकैः सोपहारैः यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम् ॥ ९९॥ (Megha 25c) प्रेमाऽमुष्मिंस्तव समुचितं विद्धि शैले शिलाग्रैः व्योमोत्सङ्गं परिमृजति वा पुशय्याचितान्तैः। स्रस्तस्रग्भिर्निधुवनविधौ क्रीडतां दम्पतीनां उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ १००॥ (Megha 25d) रम्योत्सङ्गे शिखरनिपतन्निर्झरारावहृद्ये पर्यारूढद्रुमपरिगतोपत्यके तत्र शैले । विश्रान्तः सन्व्रज वननदीतीरजानां निपिञ्च- (Megha 26a) var* तीरजातानि सिञ्चन् न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ॥ १०१॥ (Megha 26b) अध्यारूढेतपति तपने पुष्प्गुल्मावकीर्णा तस्यास्तीरक्षितिमतिपतेर्नातिवेगाद्दयालु: । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां (Megha 26c) छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ १०२॥ (Megha 26d) वक्रोऽप्यध्वा जगति स मतो यत्र लाभोऽस्त्यपूर्वो यातुं शक्यं ननु वनपथात् कासिकाग्रार्जुनान्तात् । वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां (Megha 27a) सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ॥ १०३॥ (Megha 27b) जैत्रैर्बाणैः कुसुमधनुषो दूरपातैरमोघैः मर्माविद्भिर्दृढपरिचितभ्रूधनुर्यष्टिमुक्तैः । विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां (Megha 27c) var चकितैस्तत्र लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितः स्याः ॥ १०४॥ (Megha 27d) var लोचनैर्वञ्चितोऽसि स्रोतः पश्यन् व्रज पथि लुठन्मीनलोलायताक्ष्याः निर्विन्ध्यायाः किमपि किमपि व्यञ्जिताकूतवृत्तिः। वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः (Megha 28a) संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ॥ १०५॥ (Megha 28b) त्वय्यौत्सुक्यं स्फुटमिव विनाऽप्यक्षरैर्व्यञ्जयन्त्याः किञ्चिल्लञ्जावलितमिव सन्दर्शिताप्तागमायाः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य (Megha 28c) स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ १०६॥ (Megha 28d) हंसश्रेणीकलविरुतिभिस्त्वामिवोपाह्वयन्ती धृष्टा मार्गे शिथिलवसनेवाङ्गना दृश्यते ते । वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः (Megha 29a) var सावतीतस्य पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ॥ १०७॥(Megha 29b) क्षामाऽऽपाण्डुः प्रतनुसलिला वेणिकां धारयन्ती हंसस्वानैरिव विदधती प्रार्थनाचाटुमेषा । सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती (Megha 29c) कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ १०८॥ (Megha 29d) सत्यप्येवं पथि बहुविधे संविधानानुषङ्गे मुख्यस्वार्थप्रतिहतिभयादाशु गत्वाऽध्वशेषम् । प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् (Megha 30a) पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ॥ १०९॥ (Megha 30b) व्यावर्ण्यालं भुवनमहितां तां पुरीमुत्तमार्द्धि लक्ष्म्याः शश्वन्निवसनभुवं सम्पदामेकसूतिम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां (Megha 30c) शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ११०॥ (Megha 30d) यस्यामुच्चैरुपवनतरून्नामयन्मातरिश्वा वीचीक्षोभादधिकशिशिरः सञ्चरत्यप्कणौधैः । दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां (Megha 31a) प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥ १११॥ (Megha 31b) कल्लोलान्तर्वलनशिशिरः शीकरासरवाही धूतोद्यानो मदमधुलिहां व्यञ्जयन् सिञ्चितानि । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः (Megha 31c) शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ११२॥ (Megha 31d) var सिप्रावातः तीक्ष्णस्याऽरेः स किल कलहे युद्धशौण्डो मुरुण्डः प्रद्योतस्य प्रिय ! दुहितरं वत्सर्जोऽत्र जह्रे । (Megha 33a) हैमं तालद्रुमभवनमभूदत्र तस्यैव राज्ञ (Megha 33b) हासालापैरिति रमयति स्त्रीजनो यत्र बालान् ॥ ११३॥ शैलं शैलप्रमितवपुषा पीडयन्नुन्मदिष्णून् निघ्नन् व्यालान् कुपितसमवर्तीव मेघं मरुद्वत् । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा- (Megha 33c) दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ११४॥ (Megha 33d) यस्यां बिभ्रत्यवनिपपथा रत्नराशीनुदग्राञ्- शूर्पोन्मेयाञ्जलधय इवापीततोया युगान्ते । हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्कशुक्तीः (Megha 32a) शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ॥ ११५॥ (Megha 32b) भूयो नानाभरणरचनायोग्यरत्नप्रवेकाञ्- ज्योतिर्लेखारचितरुचिमच्छक्रचापानुकारान् । दृष्ट्वा यस्या विपणिरचितान्विद्रुमाणां च भङ्गान् (Megha 32c) संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ११६॥ (Megha 32d) विश्रम्योच्चैर्वलभिषु पुरीं प्राप्य तामुत्तमार्द्धि स्वर्गावासप्रणयमुररीकृत्य सौधैस्तथाऽस्याः । जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै- (Megha 34a) र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्त्योपहारः ॥ ११७॥ (Megha 34b) स्वःसौधेषु प्रणयमचिरात्संहरिष्यस्यवश्यं मन्द्रातोद्यध्वनिषु सततारब्धसङ्गीतकेषु । हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा (Megha 34c) var कुसुमसुरभिष्वध्वखेदं नयेथा नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ११८॥ (Megha 34d) var नीत्वा रात्रिं, लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनचार्यविरचितमेघदूतवेष्टिते पार्श्वाभ्युदये भगवत्कैवल्यवर्णनं नाम प्रथमः सर्गः ॥

॥ अथ द्वितीयः सर्गः ॥

विश्रम्याऽथ क्षणमिव भवान् पर्यतेत्सन्दिदृक्षुः शोभां तस्यां शतमखपुरीं ह्रेपयन्त्याः स्वभूत्याः। स्निग्धश्यामं वपुरुपवहन्नागराणां फणाभृ- द्भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः ॥ १ ॥ (Megha 35a) पूर्वं तावद्धवलितनभोभागमभ्रंलिहाग्रं कैलासाद्रिश्रियमिव हसन्मोहशत्रोर्निहन्तुः। कर्मारीणां विजितमदनस्याऽर्हत: सञ्चिचीषु: पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ॥ २ ॥ (Megha 35b) तं सेवेथाः कृतपरिगतिर्व्याकिरन्पुष्पवर्षं स्तोत्रीकुर्वन् स्तनितमभितो दुन्दुभिस्वानमन्द्रम् । वातोद्धूतैरनिभृततरैरुत्तरङ्गैः पयोभि- र्धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्याः ॥ ३ ॥ (Megha 35c) सत्यन्यस्मिन् सुरभिशिशिरस्वच्छतोयह्रदादौ नानास्वादौ पयसि पविते पीतनस्त्वद्विनोदः । व्याधूतैस्तैः कथमिव भवेद्वारिभिर्गन्धवत्याः तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ४॥ (Megha 35d) द्रष्टुं वाञ्छा यदि च भवति प्रेतगोष्ठीं विचित्रां तिष्ठातिष्ठन्नुपरिनिपतद्गृध्रवद्धान्धकारे । दोषामन्येऽप्यहनि नितरां प्रेतगोष्ठीति रात्रे- रप्यन्यस्मिञ्जलधर ! महाकालमासाद्य काले ॥ ५ ॥ (Megha 36a) तस्माज्जीर्णद्रुमशतबृहत्कोटरान्तःप्रबद्ध- ध्वानोलूकप्रतिभयरवे प्रेतशोफातिरौद्रे । तस्योपान्ते परिणतशिवारब्धसांराविणोग्रे स्थातव्यं ते नयनविषयं यावदत्येति भानुः ॥ ६ ॥ (Megha 36b) विद्यासिद्धिं प्रति नियमिनो धौतवस्त्रस्य मन्त्रै- र्ह्रुंफुङ्कारैः पितृवनमभि भ्राम्यतः स्वैर्विरिब्धैः। पूजामाप्तास्यनघमधुरैः साधकौघस्य तस्मिन् कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् ॥ ७ ॥ (Megha 36c) तत्राऽस्त्यन्तर्वणमपभियामासितं सन्मुनीनां जैनं वेश्म स्तुतिकलकलादात्ततन्नामरूढि । तं सेवित्वा स्तनितपहैरुच्चरर्द्भिस्तमुच्चै- रामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ८॥ (Megha 36d) सायाह्ने चेत्तदुपगतवान् धाम तत्कालपूजा- सङ्गीतान्ते श्रमजलकणैराचिताङ्गीः सुकण्ठीः । मन्दं यान्तीश्चतुरगणिकाः शीकरैः सन्नयेस्त्वं पादन्यासक्वणितरसनास्तत्र लीलावधूतै ॥ ९ ॥ (Megha 37a) var पादन्यासैः क्वणितरशना तास्तत्राहर्मणीमयरणन्नूपुराः पण्ययोषाः प्रोद्गायन्तीः सुललितपदन्यासमुद्भ्रूविलासाः । पश्योत्पश्या नवजलकणद्वित्रसिक्ता विलोला रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ॥ १० ॥ (Megha 37b) त्वां तत्राऽर्हद्भवनवलभेरूर्ध्वभागे निषण्णं सन्ध्यारागच्छुरितवपुषं विद्युदुद्भासिदण्डम् । द्रक्ष्यन्ते ता विरचितमिव व्योम्नि लीलावितानं वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् ॥ ११ ॥ (Megha 37c) भूयश्च त्वत्स्तनितचकिताःकिंस्विदित्यात्तशङ्काः किञ्चित्तिर्यग्वलितवदनास्तत्र पण्याङ्गनास्ता: । बद्दोत्कम्पस्तनतटलुठल्लोलहाराः सलीलान् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ १२॥ (Megha 37d) इत्थं भक्तिप्रकटनपटुस्तत्र चातोद्यगोष्ठीं कृत्वा मन्द्रस्तनितमुरवध्वानमाविर्वितन्वन् । वन्दारूणां श‍ृणु सुनिभृतः स्तोत्रपाठं मुनीनां पश्चादुच्चैर्भुजतरुवनं मण्डलेनाऽभि लीनः ॥ १३ ॥ (Megha 38a) var मण्डलेनाभिलीनः तस्मिन्काले जलधरपथे स्वं वितत्य प्रहर्षा- द्विद्युद्दीपैर्जिनमुपहरन्भक्तिभारावनम्रः । द्रष्टासि त्वं दधदिव मुहुः स्वामिसेवानुरागं सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ॥ १४ ॥ (Megha 38b) भक्तिं कुर्वञ्शतमख इवाऽऽविर्भवद्दिव्यरूप- श्चित्रां वृत्तिं स्वरसरचितां शैखिनीं वा मनोज्ञाम् । कण्ठच्छायां स्ववपुषि वहन्मा यन् साधुवादं नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम् ॥ १५ ॥ (Megha 38c) नाट्यं तन्वन्सुरुचिरतनुर्नाटय व्योमरङ्गे तारापुष्पप्रकररुचिरे सौम्यविद्युन्नटीं ताम् । नायं रौद्रो मृदुरिति चिरं साधुवादैः प्रियान्ते शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ १६॥ (Megha 38d) text of shloka No. 17 not visible cearly in page 155 of the book गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तम् ॥ १७ ॥ (Megha 39a) गर्जत्युच्चैर्भवति पिहितव्योममार्गे रमण्यो गाढोत्कण्ठा मदनविवशाः पुंसु सङ्केतगोष्ठीम् । एकाकिन्यः कथमिव रतौ गन्तुमीशा निशीथे रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥ १८ ॥ (Megha 39b) text of shlokam No. 19 not visible cearly in page 157 of the book सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीम् ॥ १९ ॥ (Megha 39c) क्रीडाहेतोर्यदि च भवतो गर्जनेनोत्सुकत्वं मन्दं मन्दं स्तनय वनितानूपुरारावहृद्यम् । तासामन्तर्मणितसुभगं सम्भृतासारधारः तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ २०॥ (Megha 39d) भ्रान्त्वा कृत्स्नां पुरमिति चिरं रात्रिसम्भोगधूपै- र्लब्धामोदः सुखमनुभव त्वं गरीयानशेषाम् । तां कस्याञ्चिद्भवनवलभौ सुप्तपारावताया (Megha 40a) नीत्वा रात्रीं चिरविलसनात् खिन्नविद्युत्कलत्रः ॥ २१॥ (Megha 40b) यद्यप्यस्यां क्षणपरिचयः स्वर्गवासातिशायी तत्राऽऽसक्तिं सपदि शिथिलीकृत्य वैरं च योगात् । दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशिष्टं (Megha 40c) var वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ २२॥ (Megha 40d) रुद्रे भानौ नयनविषयं नोपयाति त्वयाऽसौ भासो भङ्गादघनिरसनं मा स्म भूत्त्वन्निमित्तम् । तस्मिन्काले नयनसलिलं योषितां खण्डितानां (Megha 41a) शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ॥ २३॥ (Megha 41b) अन्यच्चान्यव्यसनविधुरेणाऽऽर्य मित्रेण भाव्यं तन्मा भानोः प्रियकमलिनीसंस्तवं त्वं निरुन्धाः । प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः (Megha 41c) प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ २४॥ (Megha 41d) गम्भीरेति त्वमपि सुभगां तां धुनीं माऽवसंस्थाः गत्वा तस्या रसमनुभव त्वय्यतिस्वच्छवृत्तेः । गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने (Megha 42a) छायात्माऽपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ॥ २५॥ (Megha 42b) तस्मादेवं प्रणयपरतां त्वय्यभिव्यञ्जयन्ती लीलाहासानिव विदधती सा धुनी शीकरोत्थान् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या- (Megha 42c) var तस्मात् तस्याः न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ २६॥ (Megha 42d) ज्ञास्यस्युच्चैःपुलिनजघनादुच्चरन्पक्षिमाला- भास्वत्काञ्चीमधुररणितात् कामसेवाप्रकर्षम् । तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं (Megha 43a) हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ॥ २७॥ (Megha 43b) var नीत्वा तामुत्फुल्लप्रततलतिकागूढपर्यन्तदेशां कामावस्थामिति बहुरसं दर्शयन्तीं निपद्य । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि (Megha 43c) ज्ञातास्वादो विवृतजघना को विहातुं समर्थः ॥ २८॥ (Megha 43d) var विवृतजघनां उत्तीर्यामूं कथमपि ततो गन्तुमुद्यच्छमानं त्वामुन्नेप्यत्यनुवनमसौ गन्धवाहः सुगन्धः । त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः (Megha 44a) स्रोतोरन्ध्रध्वनितमधुरं दन्तिभिः पीयमानः ॥ २९॥ (Megha 44b) var स्रोतोरन्ध्रध्वनितसुभगं गत्वा किञ्चिच्छ्रमपरिजुषस्त्वत्क्लमच्छेददक्षः प्रत्युद्यासुः प्रियसुहृदिवारूढसौगन्ध्ययोगः । नीचैर्वास्यत्युपजिगमिषोर्देव पूर्वं गिरिं ते (Megha 44c) शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ३०॥ (Megha 44d) ईशोमाभ्यामपचितपदं तं पुपुत्रीयिपुभ्यां पूजां जैनीं विरिरचयिपुं स्वौकसि प्राज्यभक्त्या । तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा (Megha 45a) पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ॥ ३१॥ (Megha 45b) पूज्यं देवैर्जिनपतिमजं पूजयन्तं सदैनं दृष्ट्वा पूतं त्वमपि भवताद्देववृन्दे दिवाऽग्न्यम् । रक्षाहेतोर्नवशशिभृता वासवीनां चमूना- (Megha 45c) मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ३२॥ (Megha 45d) सोऽपि त्वत्तः श्रुतिपथसुखं गर्जितं प्राप्य बर्ही तुष्टः केकाः प्रतिविकुरुते वाहनं तस्य भर्तुः । ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी (Megha 46a) पुत्रप्रेम्णा कुवलयपदप्रापि कर्णे करोति ॥ ३३॥ (Megha 46a) यः सद्धर्मात्सकलजगतां पावकाल्लब्धजन्मा तस्य प्रीत्या प्रथममुचितां सत्सपर्या विधेहि । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं (Megha 46c) पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ३४॥ (Megha 46d) हृद्ये स्वच्छेसरसि विपुले धर्मसञ्ज्ञे भवत्वा- ल्लब्धाभिख्यं भुवनजनतामाननीयं व्रजाऽऽशु । आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा (Megha 47a) सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ॥ ३५॥ (Megha 47b) गत्वा तस्मादविरलगलन्निर्झरान्तर्मलां तां प्राप्याऽकीर्ति जनवदनजां क्षालयन्पुण्यतोयैः। व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् (Megha 47c) स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ३६॥ (Megha 47d) तस्या मध्येजलमुपजिताम्भोनिकाये मुहूर्त छायां कृष्णाजिनमदहरां सन्दधाने समग्राम् । मन्ये युक्तं सरिति सुतरां तत्र चर्मण्वतीति त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे ॥ ३७॥ (Megha 48a) त्वय्यभ्यर्णे हरति सलिलं तत्र राहोस्सवर्णे नूनं ज्योत्स्नाविसरविमलं तर्कयेयुर्नभोगा: । मध्ये नीलं सितमिव दुकूलोत्तरीयं पृथिव्याः तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ॥ ३८॥ (Megha 48b) two pages in the original text (pages 182, 183) missing, so unable to get the shloka-s 39 and 40; the fourth lines of the missing shlokams are given below प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीः ॥ ३९॥ (Megha 48c) एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४०॥ (Megha 48d) एवम्प्रायां सलिलविहृतिं तत्र कृत्वा मुहूर्तं वारां पुण्यां सुरगज इव व्योममार्गानुसारी । लीलां पश्यन् प्रजविपवनोद्धूतवीचीचयानां तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणाम् ॥ ४१॥ (Megha 49a) तस्याः सिन्धोरनुवनमुदक्तीरभाजां लताना- मुत्फुल्लानां ततमधुलिहां मुक्तधारां प्रवर्षन् । सीतापूरं व्रज लघु ततो जातहार्दस्तु मानात् पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् ॥ ४२॥ (Megha 49b) गच्छन्मार्गे प्रियमुपहरेः प्राणनाथोपयान- प्रत्याश्वासाद्वियति सुदृशां कृष्णशारोदराणाम् । लक्षीकुर्वन् पथिकवनितालोचनोल्लासकानां कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बम् ॥ ४३॥ (Megha 49c) तस्मिन्नध्वन्यनतिचिरयन्नध्वनीनः प्रयायाः यस्मिन्यात्राफलमविकलं लप्स्यसे दैवयोगात् । जैत्रेषूणामिव हृदिशयस्यायतानां स्वबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४४॥ (Megha 49d) रम्यान्देशानिति बहुविधान्सादरं वीक्षमाणः देशातिथ्यं व्रजतु स भवांस्तत्र तत्राऽपि वर्षन् । सस्यक्षेत्रे गिरिषु सरितामन्तिके च स्थले च ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः ॥ ४५॥ (Megha 50a) var जनपदमधश्छायया यस्मिन्नद्यः क्षतजकलुषाः कौरवीणां चमूनां प्रावर्तन्त प्रतियुयुधिरे यत्र चामोघशस्त्राः। पाण्डोः पुत्राः प्रतिहननतः पापभीताः सशङ्कं क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ॥ ४६॥ (Megha 50b) वीरक्षोणीं भुवनविदितां तां क्षणेन व्यतीयाः क्षात्रं तेजः प्रतिभयभटस्तम्भनैः सूचयन्तीम् । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा (Megha 50c धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ४७॥ (Megha 50d) पुण्यक्षेत्रं तदपि भजनीयं हि तस्योपकण्ठे यस्मिन्सोऽस्थात्तपसि हलभृत् प्रात्तराजर्षिवृत्तः । शार्ङ्गिण्यस्तं गतवति महीनिःस्पृहो मन्मथीयां हित्वा हालामभिमतरसां रेवतीलोचनाङ्काम् ॥ ४८॥ (Megha 51a) तास्ते पुण्यं विदधति पुरा भूमयो दृष्टमात्राः वन्द्याः पुंसां परिगमनतस्त्वां पुनन्त्येव सद्यः । पृथ्वीमेनां स किल विहरन्नात्तदीक्षः प्रजासु बन्धुस्नेहात्समरविमुखो लाङ्गली याः सिषेवे ॥ ४९॥ (Megha 51b) var बन्धुप्रीत्या सद्भिस्तीर्णाः प्रविमलतराः पुष्कलाः सुप्रसन्नाः हृद्याः सद्यः कलिमलमुषो याः सतीनां सदृक्षाः । कृत्वा तासामभिगममपां सौम्य सारस्वतीनां (Megha 51c) अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५०॥ (Megha 51d) यास्ता नद्यः कुलगिरिभवाः स्वर्धुनीरूढिभाजः तासामेताः प्रतिनिधितया तत्समाख्याः कुनद्यः। तीर्थालोके त्वमुपसर तां जाह्नवीं यन्मयोक्तं तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णाम् ॥ ५१॥ (Megha 52a) मोपेक्षिष्ठास्त्वामुपनदिकेत्याशु गत्वा प्रविश्य प्राहुस्तीर्थप्रतिनिधिमपि क्षालनं कश्मलानाम् । तां सेवेथाः सुभग सुरसां लोकरूढेः प्रतीतां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ॥ ५२॥ (Megha 52b) तामेवैनां कलय सरितं त्वं प्रपाते हिमाद्रेः गङ्गादेव्याः प्रतिनिधिगतस्यादिदेवस्य भर्तुः । गौरी वक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः (Megha 52c) शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५३॥ (Megha 52d) स्वादु स्वच्छं शुचि हिमशिलासम्भवं हारि नीरं प्राप्तामोदं तटवनपतत्पुपकिञ्जल्कवासैः। अध्वश्रान्तिं श्लथयितुमधः प्राप्तमात्रोऽध्यवस्येः तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी ॥ ५४॥ (Megha 53a) तीव्रोदन्याश्रमपरिगतो न त्वकं चेत्तदनीं तूष्णीं स्थित्वा क्षणमिव गताध्वश्रमो जातवर्षः । मध्येगङ्गं हृदमधिवसेर्भूरि तस्याः प्रपातुं त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ॥ ५५॥ (Megha 53b) तिष्ठत्वेकं क्षणमिव भवानिद्रनीलस्य लक्ष्मी- मातन्वानः स्ववपुषि भृशं पीततोयोऽपि येन । संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा (Megha 53c) var छाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५६॥ (Megha 53d) पुण्याम्बूनामिति भृतितरं चर्मपूरं प्रपूर्णः किञ्चिद्गत्वा हिमवदचलस्याऽनुपादं निषीद । तत्पर्यन्ते वनपरिकरं प्रेक्षणियं प्रपश्य- न्नासीनानां सुरभितशिलं नाभिगन्धैर्मृगाणाम् ॥ ५७॥ (Megha 54a) विश्रम्याऽथो घन घनपथोल्लङ्घिकूटं हिमाङ्कं पश्योदग्रेः शिखरतरुभिस्त्वाभिवोपान्तयन्तम् । स्वस्याःकीर्तेरिव विधुरुचो नाकभाजां स्रवन्त्या- स्तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ॥ ५८॥ (Megha 54b) आरुह्याविर्मदकलमयूरारवैः कृष्यमाणः कुञ्जे कुञ्जे दधि घनमिव प्रेक्षमाणो हिमानीम् । वक्ष्यस्यध्वश्रमविनयने तस्य श‍ृङ्गे निषण्णः (Megha 54c) शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५९॥ (Megha 54d) अध्वक्षामं शिथिलिततनुं शैलमार्गाधिरोहा- त्वामौल्लङ्घ्ये घटयितुमसौ शक्नुयादेव वह्निः । धूमैः सान्द्रैर्वनविटपिजैर्नातिवर्षन्नुपेयाः तं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा ॥ ६०॥ (Megha 55a) आश‍ृङ्गाग्रं कवचितमिवारूढमूर्तिं हिमान्या त्वत्सान्निध्यादुपहितरसैश्चौषधीनां सहस्रैः। आकीर्णान्तं सरसगहनं शैलराजं न चैनं बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ॥ ६१॥ (Megha 55b) त्वत्तो निर्यन्स यदि सहसा विद्युतो जातवेदाः प्रालेयाद्रिं सतुहुनवनं निर्दिधक्षेत्तदा स्वैः। अर्हस्येनं शमयितुमलं वारिधारासहस्रै- (Megha 55c) रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ ६२॥ (Megha 55d) मोच्चैस्तत्र स्तनितनिनदानाद्रिकुञ्जे तथास्त्वं मैषां तद्भूद्भयमसुहरं शौर्यदर्पोद्धुराणाम् । ये संरम्भोत्पतनरभसास्स्वाङ्गभङ्गाय तस्मिन् (Megha 56a) मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ॥ ६३॥ (Megha 56b) यद्यप्येते स्तनितरभसादुत्पतेयुर्भवन्तं तैर्यग्योना भृशमपधियः स्वाङ्गभङ्गैकनिष्ठाः । तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् (Megha 56c) केषां न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ६४॥ (Megha 56d) var के वा न स्युः तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले- (Megha 57a) रर्च्यं भर्तिस्त्रिभुवनगुरोरर्हतः सत्सपर्यैः। शश्वत्सिद्धैरुपहृतबलिं भक्तिनम्रः परीयाः (Megha 57b) पापापाये प्रथममुदितं कारणं भक्तिरेव ॥ ६५॥ यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः (Megha 57c) सिद्धक्षेत्रं विदधति पदं भक्तिभाजस्तमेनम् । दृष्ट्वा पूतस्त्वमपि भवताद्वै पिनर्दूरतोऽमुं कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ६६॥ (Megha 57d) var संकल्पन्ते तस्योपन्ते रिरचयिपवो नूनमातोद्यगोष्ठीं शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः (Megha 58a) तत्रासेवां वितितनुषुभिर्लोकभर्तुर्जिनस्य संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः ॥ ६७॥ (Megha 58b) वेणुष्वेषु स्फुटमिति तदा मन्द्रतारं ध्वनत्सु प्रोद्गायन्तीष्वतिकलकलं तज्जयं किन्नरीषु । निर्ह्रादी ते मुरव इव चेत्कन्दरीषु ध्वनिः स्यात् (Megha 58c) var मुरज इव चेत्कन्दरीषु सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्तः ॥ ६८॥ (Megha 58d) var समग्रः प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् (Megha 59a) तस्याऽदूरे कुकविताकल्पितं तत्र्प्रतीया: । हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् । (Megha 59b) दण्डेनाऽऽविष्कृतमिव गुहाद्वारकं वैजयार्धम् ॥ ६९॥ बह्वाश्चर्ये हिमवति कृतालोकनत्वादसङ्गः तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी । (Megha 59c) कृष्णः सर्पो गुरुरिव गिरेर्गह्वरानिष्पताशु श्यामः पादो बलिनियमनेऽभ्युद्यतस्येव विष्णोः ॥ ७०॥ (Megha 59d) तस्माद्धूमप्रचय इव निःसृत्य शैलस्य रन्ध्राद्- गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः । (Megha 60a) शुभ्रादभ्रस्फटिकघटनाशोभिगण्डोपलस्य कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ॥ ७१॥ (Megha 60b) क्षीरादच्छच्छविभिरभितः प्रोच्चलन्निर्झरौघैः श‍ृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खम् । (Megha 60c) नृत्तारम्भे प्रतिकृतिगतस्यादिभर्तुः पुरस्ताद्- राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ७२॥ (Megha 60d) उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे (Megha 61a) शोभामद्रेर्वटतरुमतो मण्डलभ्राजितस्य । सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य (Megha 61b) प्रालेयांशोर्ग्रसितुमनसा राहुणेवाश्रितस्य ॥ ७३॥ त्वय्यरूढेशिखरमभितिऽधित्यकां तस्य मन्ये पार्श्वाग्रे वा पुनरपि दशास्यावतारप्रपञ्चम् । लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री- (Megha 61c) var var शोभामद्रेः मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ७४॥ (Megha 61d) तस्मिन्हित्वा भुजगवलयं शम्भुना दत्तहस्ता (Megha 62a) var हित्वा तस्मिन् सम्प्राप्योच्चैर्विरचित इवानीलरत्नस्त्वयीम् । क्रीडाशैले यदि च विहरेत्पादचारेण गौरी (Megha 62b) var विचरेत् मा स्म स्फूर्जः सितिफणिभयान्मा स्म सङ्क्लेदिनी भूत् ॥ ७५॥ इन्द्राणी चेदुपगतवती जैनगेहानुपातं तस्मिन्निज्यां रचयितुमना देवभक्त्या तदास्याः। भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः (Megha 62c ) सोपानं त्वं कुरु मणितटारोहणायाग्रचारी ॥ ७६॥ (Megha 62d) var मणितटारोहणायाग्रयायी अन्तस्तोयोच्चलनसुभगां भाविनीं तामवस्थां मन्वानांस्तास्सुनिभृततरं सानुदेशे निषण्णम् । तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं (Megha 63a) नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ॥ ७७॥ (Megha 63b) आकर्षन्तयो दृतिमिव सरस्तोयपूर्णामधस्तात् क्रीडिष्यन्ति त्रिदशवनितास्त्वामितश्चामुतश्च । ताभ्यो मोक्षो यदि तव सखे घर्मलब्धस्य न स्यात् (Megha 53c) var मोक्षस्तव यदि सखे क्रीडालोलाः श्रवणपरुषैर्गर्जितैभीषयेस्ताः ॥ ७८॥ (Megha 63d) var भार्ययेस्ताः कृच्छ्रान्मुक्तो विविधकरणैस्तत्र रन्त्वाऽथ ताभि- र्भूयः शैले विहर गमितो वायुनाऽऽप्तव्रणाङ्गम् । हेमाम्भोजप्रसवि सलिलं मानसस्याऽऽददानः (Megha 64) कुर्वन्कामं क्षणमुखपटप्रीतिमैरावणस्य ॥ ७९॥ (Megha 64b) var कुर्वन्कामात्, ऐरावतस्य क्रीडाद्रीणां कनकशिखराण्यावसंस्तत्र पश्यन् स्वर्गस्त्रीणां निधुवनलतागेहसम्भोगदेशान् । धुन्वन्कल्पद्रुमकिसलयान्यंशुकानि स्ववातैः(Megha 64c) var अशुकानीव वातैः नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥८०॥ (Megha 64d) विद्युद्दाम्ना वलयिततनुस्तत्र वर्ध्र्येव रिद्धो दीर्घं स्तित्वा सरति पवने मन्दमन्दं दिनान्ते । तस्मादद्रेरवतर पुरीं स्वेष्टकामो धनीशां तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलाम् ॥ ८१॥ (Megha 65a) दृष्टाध्यात्मस्थितिरधिगताशेषवेद्यः सविद्यः योगाभ्यासाद्भुवनमखिलं सञ्चरन्दूरदर्शी । लक्ष्म्या सूतिं भुवनविदितां तां पुरीं तत्र साक्षा- न्न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ॥ ८२॥ (Megha 65b) निर्वाणार्थ तितिपसिषवोऽमी स्वयं क्लेशयन्ति व्यर्थोद्योगा मयि तु वितृषः किन्नु मत्तोऽधिकं तत् । इत्याकूताद्विहसितमिवाम्भोमुचामिन्दुशुभ्रं या वः काले वहति सलिलोद्गारमुच्चैर्विमाना ॥ ८३॥ (Megha 65c) सौधेयाग्रैर्गगनपरिषत्केतुमालाबलाकं रत्नोदग्रद्युतिविरचितेन्द्रायुधं प्रावृषेण्यम् । धत्ते याऽसौ सजलकणिकासारमभ्रंलिहैः स्वैः मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ८४॥ (Megha 65d) यत्रानीलं हरिमणिमयाः क्षुद्रशैला नभोगं प्रोद्यद्देवद्रुमपरिसरद्धूपधूमानुबन्धाः । प्रासादाश्च प्रथयितुमलं सर्वदा मेघकालं विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः ॥ ८५॥ (Megha 66a) प्रोच्चैः केकारवमुखरितान्नर्तयन्तो मयूरान् हंसानुद्यत्करुणविरुतान्मानसे म्लानयन्तः । यत्राऽकाले विदधनितरां देवदिण्ण्येषु सन्ध्या- सङ्गीताय प्रहतमुरजाः स्निग्धपर्जन्यघोषम् ॥ ८६॥ (Megha 66b) var स्निग्धगम्भीरघोषम् यत्राकीर्ण विततशिखराः सानका मन्द्रघोषं विद्युद्भासा विरचिततनुं रत्नदीपानुयाताः। सौधाभोगास्तुलयितुमलं शश्वदोघं घनाना- मन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः ॥ ८७॥ (Megha 66c) कूटोच्छायैस्तुहिनविशदैः शारदानम्बुदौघान् मन्द्रातोद्यध्वनिभिरुदधीनुच्चरद्वारिवेलान् । रत्नोदंशुप्रसररुचिरैर्भित्तिभागैः कुलाद्रीन् प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ८८॥ (Megha 66d) पङ्कीभूताः श्रमजलकणैराद्रतप्रस्तरान्ता बद्धोत्कण्ठस्तनतटपरामृष्टवर्णाविशीर्णाः। सम्भोगान्ते श्रममुपचितं सूचयन्त्यङ्गरागाः यत्र स्त्रीणां प्रियतमभुजोच्छासितालिङ्गितानाम् ॥ ८९॥ (Megha 75a) var प्रियतमभुजालिङ्गनोच्छ्वासितानां यस्यामिन्दोरनतिचरतो नातिसान्द्रं पतन्तो गौरीभर्तुर्विरचितजटामौलिभाजो मयूखाः। नेतुं सद्यो विलयममलाः शक्नुयुर्दम्पतीना- मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ॥ ९०॥ (Megha 75b) एकाकिन्यो मदनविवशा नीलवासोवगुण्ठाः प्राप्ताकल्पा रमणवसतीर्यातुकामास्तरुण्यः। यत्रापास्ते तमसि विपणीराश्रयन्त्युत्पथेभ्य- स्त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे ॥ ९१॥ (Megha 75c) तासां पाद्यं वितरितुमिवोपह्वरे निष्कुटानां धौतोपान्ता भवनवलभेरिन्दुपादाभिवर्षात् । यस्यां रात्रौ श्रममपथके प्रस्तुताः कामुकीनां व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ९२॥ (Megha 75d) स्ंलक्ष्यन्ते चिरयति मनोवल्लभे कामिनीनां गच्छन्तीनां स्खलितविषमं रात्रिसम्भोगहेतोः। सौभाग्याङ्कैरिव विलसितैरातता राजमार्गाः गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः ॥ ९३॥ (Megha 76a) यत्रोद्याने कुसुमितलतामण्डपेषु स्थितानां शय्योपान्तैर्विततमधुपैरात्तसम्भोगगन्धैः। नीलोत्तंसैर्निधुवनपदं सूच्यते दम्पतीनां क्लृप्तच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ॥ ९४॥ (Megha 76b) var पत्रच्छेदैः मन्दाकिन्यास्तटवनमनु क्रीडतां दम्पतीनां पुष्पास्तीर्णाः पुलिनरचिता यत्र सम्भोगदेशाः। संसूच्यन्ते बहुतरफलैः कुङ्कुमारक्तशोभै- र्मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारैः ॥ ९५॥ (Megha 76c) गत्यायासाद्गलितकबरीबन्धमुक्तैः सभृङ्गैः कीर्णैः पुष्पैः कुसुमधनुषो बाणपातायमानैः । लाक्षारागैश्चरणनिहितैरप्यधिक्षोणि यस्यां नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ९६॥ (Megha 76d) मन्ये यस्या जगति सकलोऽप्यस्ति नौपम्यमन्य- त्सर्वौपम्यप्रणिहितधिया वेधसा निर्मितायाः । यामध्यास्ते कमलनिलया सम्पदश्च प्रजाना- मानन्दोत्थं नयनसलिलं यत्र नाऽन्यैर्निमित्तैः ॥ ९७॥ (Megha 70a) यत्रत्यानां न परपरता चित्तभर्तुः परत्र नान्यो भङ्गः प्रणयिनि जने मानभङ्गं विहाय । नाऽन्यो बन्धः प्रियजनतया सङ्गमाशानुबन्धा- न्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ॥ ९८॥ (Megha 70b) यत्राकल्पान्निधिषु सकलानेव सम्पादयत्सु नार्थी कश्चिन्न खलु कृपणो नापि निःस्वो जनोऽस्ति । धर्मः साक्षान्निवसति सतीं यामलङ्कृत्य यस्मा- न्नाप्यन्यत्र प्रणयकलहाद्विप्रयोगोपपत्तिः ॥ ९९॥ (Megha 70c) var नाप्यन्यस्मात् यस्यै शक्रः स्पृहयतितरामिष्टसर्वार्द्धिभाजे यत्रासीनाः शतमखपुरीं विस्मरन्त्येव सद्यः । नान्यच्चिन्त्यं विहरणभयाद्यत्र मृत्युञ्जयानां वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ १००॥ (Megha 70d) नूनं कल्पद्रुमसहचरास्तत्सधर्माण एते सञ्जाताः स्युः षदृतुकुसुमान्येकशो यत्प्रदद्युः। अक्षीणर्द्धि ध्रुवमुपगताः पल्लवोल्लासिता ये यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पाः ॥ १०१॥ (Megha 69a) तत्सान्निध्यादिव वनलताः शिक्षितास्तन्नियोगं नानाभेदं वितरितुमलं ताश्च दिव्यं प्रसूनम् । ताभिः स्पर्धांमिव च गमिता यत्र भृङ्गोपगीता हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ॥ १०२॥ (Megha 69b) यस्यां नित्यप्रहतमुरवाम्भोदनादैः प्रतीता नृत्यन्त्युच्चैर्विरचितलयं ताण्डवैश्चित्रपिच्छाः। नाणारत्नैरिव च निधयो निर्मिता जङ्गमास्ते केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापाः ॥ १०३॥ (Megha 69c) ज्योत्स्नंमन्येष्वमरवसतिं व्याहसत्सु स्वभूत्या हर्म्येषूद्यद्वलभिषु सुधापङ्कधौतेषु यस्याः । निर्विश्यन्ते निधिभुगधिपैः स्त्रीसहायैर्वितन्व- न्नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ १०४॥ (Megha 69d) var नित्यज्योत्स्नाः प्रतिहत दृष्ट्वा यस्याः प्रकृतिचतुरामाकृतिं सुन्दरीणां त्रैलोक्येऽपि प्रथमगणनामीयुषीं जातलज्जा। मन्ये लक्ष्मीः सपदि विसृजेदेव संलुच्य केशान् हस्ते लीलाकमलमलके बालकुन्दानुविद्धम् ॥ १०५॥ (Megha 68a) यत्र स्त्रीणां स्मितरुचिलसज्ज्योत्स्नयाऽऽबद्धशोभा प्रालेयांशोः श्रियमुपहसत्यस्तदोषाऽकलङ्का । भूयो लक्ष्मीं हिममहिमजां मानयन्तीभिराभि- र्नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ॥ १०६ ॥ (Megha 68b) var पाण्डुतामानने श्रीः यत्राकल्पे स्वरुचिरचिते कल्पवृक्षप्रसूते सत्येव स्यात्प्रियमभिनवप्रीतिमादृत्य किञ्चित् । यक्षस्त्रीणां यदुपनिहितं ताभिरात्तानुरागं चूडापाशे नवकुरबकं चारु कर्णे शिरीषम् ॥ १०७ ॥ (Megha 68c) पाणौ पद्मं कुरबकयुतं स्वोचिते धाम्नि कुन्दं लौध्रो रेणुः स्तनपरिसरे हारि कर्णे शिरीषम् । व्यक्तिव्यक्तं व्यतिकरमहो तत्र षण्णामृतूनां सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ १०८ ॥ (Megha 68d) शक्रम्मन्याः परिणतशरच्चन्द्रिकानिर्मलानि प्रोत्तुङ्गानि प्रणयविवशाः स्वापतेयोष्मवन्ति । आक्रीडन्ते प्रिययुवतिभिः सर्वकामाभितृप्ता यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ॥ १०९ ॥ (Megha 71a) यत्र ज्योत्स्नाविमलिततलान्याश्रिताः कुट्टिमानि प्रासादानां हरिमणिमयान्यासवामोदवन्ति । रंरम्यन्ते द्रविणपतयः पूर्णकामाः निकामं ज्योतिश्छायाकुसुमरचनान्युत्तमस्त्रीसहायाः ॥ ११० ॥ (Megha 71b) var कुसुमरचितान्युत्तमस्त्रीसहायाः लोलापाङ्गाः सुरसरसिकाः प्रोन्नतभ्रूविकाराः प्राणेशानां रहसि मदनाचार्यकं कर्तुमीशाः। स्वाधीनेऽर्थे विफलमिति वा वामनेत्रा न यस्या- मासेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतम् ॥ १११ ॥ (Megha 71c) गेहे गेहे धनदसचिवैर्यत्र धर्मानुरागात् दिव्यैर्गन्धैः सुरभिकुसुमैः साक्षतैर्धूपदीपैः। सङ्गीताद्यैरपि जिनमहो वर्त्यते पुण्यकामै- स्त्वद्गम्भीरध्वनिषु मधुरं पुष्करेष्वाहतेषु ॥ ११२ ॥ (Megha 71d) var स्त्वद्गम्भीरध्वनिषु शनकैः वासः क्षौमं जिगलिषु शनैर्नूनमादेष्टुकामं यूनां कामप्रसवभवनं हारि नाभेरधस्तात् । काञ्चीदाम्ना किमपि विधृतं लक्ष्यते कामिनीनां नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणाम् ॥ ११३ ॥ (Megha 73a) यस्यां कामद्विपमुखपटच्छायमास्रस्तनीवी श्रीमच्छ्रोणीपुलिनवरणं वारि काञ्चीविभङ्गम् । पूर्वं लज्जा विगलति ततो घर्मतोयं वधूनां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ॥ ११४ ॥ (Megha 73b) आक्षित्पेषु प्रियतमकरैरंशुकेषु प्रमोहा- दन्तर्लीलातरलितदृशो यत्र नाऽलं नवोढाः। शय्योत्थायं वदनमरुताऽपासितुं धावमाना अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ॥ ११५ ॥ (Megha 73c) var अर्चिष्टुङ्गानभिमुखमपि वस्त्रापाये जघनमभितो दृष्टिपातं निरोद्धुं यूनां क्लृप्ता सुरभिरचिता यत्र मुग्धाङ्गनानाम् । कम्पायत्तात्करकिसलयादन्तराले निपत्य ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ११६ ॥ (Megha 73d) var विफलप्रेरणच्चूर्णमुष्टिः प्रत्यासन्नैः शिखरखचितैरुन्मयूखैर्विचित्रै- श्चित्रा रत्नैर्नभसि वितताः शक्रचापानुकारैः । बिभ्रत्युच्चैः सजलजलदा सद्वितानस्य लीलां नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः ॥ ११७ ॥ (Megha 74a) अध्यासीना भवनवलभिं शारदी मेघमाला यत्राऽऽमुक्तप्रतनुविसरच्छीकरासारधारा । भीत्वेवाऽऽलं व्रजति विलयं पश्यतामेव साक्षात् आलेख्यानां स्वजलकणिकादोषमुत्पाद्य सद्यः ॥ ११८ ॥ (Megha 74b) var नवजलकणैर्दोषमुत्पाद्य ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनचार्यविरचितमेघदूतवेष्टिते पार्श्वाभ्युदये भगवत्कैवल्यवर्णनं नाम द्वितीयः सर्गः ॥

॥ अथ तृतीयः सर्गः ॥

वेगासन्तर्भवनवलभेः सम्प्रविष्टाः कथञ्चित् सूक्ष्मीभूताः सुरतरसिकौ दम्पती तत्र दृष्ट्वा। शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै- (Megha 74c) var जालमार्गैः र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ १॥ (Megha 74d) स्त्रीभिः सार्धं कनककदलीषण्डभाजामुपान्ते क्रीडाद्रीणां निधिभुगधिपा यत्र दीव्यन्त्यभीक्ष्णम् । मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः (Megha 72a) मन्दाराणां तटवनरुहां छायया वारितोष्णाः ॥ २॥ (Megha 72b) var मन्दाराणामनुतटरुहां सौन्दर्यस्य प्रथमकलिकां स्त्रीमयीं सृष्टिमन्यां व्यातन्वाना जयकदलिका मीनकेतोर्जिगीषोः । अन्वेष्टव्यैः कनकसिकतमुष्टिनिक्षेपगूढैः (Megha 72c) सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ३॥ (Megha 72d) इष्टान् कामानुपनयति यः प्राक्तनं पुण्यपाकं तं शंसन्ति स्फुटमनुचरा राजराजस्य तृप्ताः। अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै- (Megha 77a) रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ॥ ४॥ (Megha 77b) यस्यां मन्द्रानकपटुरवैर्बोधिता वित्तभर्तु- र्भृत्या भृङ्गैः सममुपहितप्रीतयः कामदायि । वैभ्राजाख्यं विबुधवनितावारमुख्यासहायाः (Megha 77c) बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ५ ॥ (Megha 77d) यस्मिन् कल्पद्रुमपरिकरः सर्वलोकोपभोग्या - निष्टान्भोगान्सुकृतिनि जने शम्फलान्पम्फुलीति । वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं (Megha 78a) पुष्पोद्भेदं सह किसलयैर्भूषणानं विकल्पम् ॥ ६ ॥ (Megha 78b) रुच्याहारं रसमभिमतं स्रग्विकल्पं विपञ्ची- माहार्याणि स्वरुचिरचितान्यंशुकान्यङ्गरागम् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्मिन् (Megha 78c) var यस्यां एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७ ॥ (Megha 78d) भूमिं स्प्रष्टुं द्रुतमुखखुरा गह्लमाना इवाऽमी पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः (Megha 67a) मन्दाक्रान्ता दिगिभविभुभिः स्पर्धमाना इवोच्चैः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् ॥ ८॥ (Megha 67b ) मन्ये तेऽपि स्मरपरवशाः कामिनीदृष्टिबाणै- र्जायेरन्ये त्वमिव मुनयो धीधना यत्र केऽमी । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः (Megha 67c) प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ ९॥ (Megha 67d) कामस्यैवं प्रजननभुवं तां पुरीं पश्य गत्वा मिथ्या लोको वदति जडधीर्नान्विदं लोकमूढम् । मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं (Megha 79a) प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ॥ १०॥ (Megha 79b) स्याद्वा सत्यं कुकविरचितं काव्यधर्मानुरोधात् सत्यप्येवं सकलमुदितं जाघटीत्येव यस्मात् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै- (Megha 79c) स्तस्याऽऽरम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ११॥ (Megha 79d) स्यादारेका बहुनिगतितं कस्तवेदं प्रतीयात् सद्वाऽसद्वा तदिति ननु भो: प्रत्ययं ते करोमि । तत्रागारं धनपतिगृहानुत्तरेणाऽस्मदीयं (Megha 80a) दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ॥ १२॥ (Megha 80b) पुष्पोद्गन्धिर्मृदुकिसलयो भृङ्गसङ्गीतहारी सान्द्रच्छायः सलिलधरणोपान्तपुस्तैणशावः। यस्योद्याने कृतकतनयो वर्द्धितः कान्तया मे (Megha 80c) var यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १३॥ (Megha 80d) नाऽहं दैत्यो न खलु दिविजः किन्नरः पन्नगो वा वास्तव्योऽहं धनदनगरे गुह्यकोऽयं मदीया। वापी चाऽस्मिन्मरकतशिलाबद्धसोपानमार्गा (Megha 81a) हैमैः स्फीता विकचकमलैर्दीर्घवैदूर्यनालैः ॥ १४॥ (Megha 81b) var हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः तां जानीयाः कमलरजसा ध्वस्ततापं ततापां मत्पुण्यानां सृतिमिव सतीं वापिकां विस्तृतोर्मीम् । तस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं (Megha 81c) var यस्यास्तोये नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ १५॥ (Megha 81d) var न ध्यास्यन्ति अन्यच्चास्मिन्नुपवनघने मद्गृहोपान्तदे स्यादाख्येयं मयकि सुतरां प्रत्ययो येन ते स्यात् । तस्यास्तीरे विहिशिखरः पेशलैरिन्द्रनीलैः (Megha 82a) var रचितशिखरः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ॥ १६॥ (Megha 82b) रत्याधारो रतिकर इवोत्तुङ्गमूर्तिर्विनीलः शैलो मूले कनकपरिधिर्मे मनोऽद्याऽनुशासात् । मद्गेहिन्या प्रिय इति सखे चेतसा कातरेण (Megha 82c) प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ १७॥ (Megha 82d) तन्मे वाक्यादपगतभयस्त्वं व्यवस्याऽऽत्मनीनं तीर्थे ध्वाङ्क्ष स्थितमपनुदन्स्याः स्थिरात्मा मदुक्ते । तत्रैवाऽऽस्ते तव च दयिता लप्स्यते लब्धजन्मा तन्वी श्यामा शिखरदशना पक्कबिम्बाधरोष्ठी ॥ १८॥ (Megha 87a) var पक्वबिम्बाधरोष्ठी यस्या हेतोस्तव च मम च प्रग्भवेऽभूद्विरोधः तत्रोत्पन्ना निवसति सती साऽधुना किन्नराणाम् । दृष्टा सौम्यं सजलनयना त्वं स्मरन्ती स्मरार्ता मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥ १९॥ (Megha 87b) दृष्टा भूयः स्मरपरवशा चन्द्रकान्तोपलान्ते ध्यायन्ती त्वां सहसहचरं सन्दिदृक्षुर्लिखित्वा । यान्ती तस्मान्नयनसलिलैर्दृष्टिमार्गे निरुद्धे श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम् ॥ २०॥ (Megha 87c) कामावस्थामिति बहुतिथीं धारयन्ती त्वयाऽसौ ज्ञेया साक्षाद्रतिरिव मनोहारिणी तत्र गत्वा। नानावेषे बहुविलसिते किन्नरस्त्रीसमाजे या तत्र स्याद्युवतिविषया सृष्टिराद्येव धातुः ॥ २१॥ (Megha 87d) साध्वीं चित्ते विधिनियमितामन्यपौंस्ने निराशां कन्यावस्थां त्वदुपगमने बद्धकामां सखीनाम् । भ्रातुर्वाक्यात्प्रणयविवशां त्वं वितर्क्यान्याथाऽलं तां जानीयाः परिमितकथां जीवितं मे द्वितीयम् ॥ २२॥ (Megha 88a) var जानीथाः सख्यानीतैः सरसकदलीगर्भपात्रोपवीज्यैः लब्ध्वाश्वासं किमपि किमपि म्लिष्टवर्णं लपन्तीम् । शीर्णप्रायां विरहविधुरामावयोर्बद्धसाम्या- द्दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ॥ २३॥ (Megha 88b) मय्यायाते करकिसलयन्यस्तवक्त्रेन्दुमुग्धा त्वामेवाहर्निशमभिमनाश्चिन्तयन्ती वियोगात् । याता नूनं बत तव दशामाशु मर्तव्यशेषां गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बाला ॥ २४॥ (Megha 88c) var गाढोत्कण्ठा गुरुषु तस्याः पीनस्तनतटभरात्सामिनम्राग्रभागा निश्वासोष्णप्रदवितमुखाम्भोजकान्तिर्विरूक्षा । चित्तावेशात्तनुरपचिता सालसापाङ्गवीक्षा जाता मन्ये शिशिरमथितां पद्मिनीवान्यरूपा ॥ २५॥ (Megha 88d) var पद्मिनीं वान्यरूपाम् निद्रापायाद्रजनिषु मुहुस्तावकं सम्प्रयोगं दिध्यासोः स्याद्वदनमपरं त्विन्दुबिम्बानुकारि । नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां (Megha 89a) var प्रियाया निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ॥ २६॥ (Megha 89b) var निःश्वासानामशिशिरतया त्वां ध्यायन्त्या विरहशयनाभोगमुक्ताखिलाङ्ग्याः शङ्के तस्या मृदुतलमवष्टभ्य गण्डोपधानम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा- (Megha 89c) दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥ २७॥ (Megha 89d) var त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति तस्याः पीडां रहयितुमलं तौ च मन्ये मृगाक्ष्याः मद्गेहिन्याः सह सहचरी सेवते यौ द्वितीया। रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः (Megha 83a) प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ॥ २८॥ (Megha 83b) कामस्यैकं प्रसवभवनं विद्धि तौ मन्निवेशे मद्गेहिन्या विरचिततलौ सेवनीयौ प्रियायाः । एकः सख्यास्तव सह मया वामपादाभिलाषी (Megha 83c) काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ २९॥ (Megha 83d) मूलं वोच्चैर्मनसि निहितं लक्ष्यते त्वद्वियोगा- त्तस्या साद्याध्यवसितमृतेर्बर्हिणाधिष्ठिताग्रा। तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि- (Megha 84a) र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥ ३०॥ (Megha 84b) तां कामिन्याः कुसुमधनुषो वैजयन्तीमिवैकां मत्वार्चन्ति प्रबलरुदिता सापि साध्वी त्वदाप्त्यै । तालैः शिञ्जावलयसुभगैः कान्तया नर्तितो मे (Megha 84c) var शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ३१॥ (Megha 84d) प्रीतिस्तस्या मम च युवतेर्निर्विवेका ततोऽहं जानाम्येनां व्यसनपतितां मद्गृहे तच्चरोऽहम् । एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथाः (Megha 85a) द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ॥ ३२॥ (Megha 85b) तस्या दुःखप्रशमनविधौ व्यापृते मत्कलत्रे मूकीभूतेऽप्यनुचरजने मन्दमन्दायमाने । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं (Megha 85c) सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ३३॥ (Megha 85d) पश्यामुष्यामुपवनभुवि प्रेयसीं तां दधाना- माधिं त्वत्तो विरहविधुरां मद्वचःप्रत्ययेन । गत्वा सद्यः कलभतनुता शीघ्रसम्पातहेतोः (Megha 86a) var कलभतनुतां क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ॥ ३४॥ (Megha 86b) var रम्यसाणौ नो चेदन्तर्गृहमधिवसेत्सा दशामुद्वहन्ती गूढं दृष्टुं समभिलषितां तां तदा तत्स्थ एव । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं (Megha 86c) खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ३५॥ (Megha 86d) आलोके ते निपतति पुरा सा बलिव्याकुला वा (Megha 90a) त्वत्सम्प्राप्त्यै विहितनियमान् देवताभ्यो भजन्ती । बुद्ध्यारूढं चिरपरिचितं त्वद्गतं ज्ञातपूर्वं मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ॥ ३७॥ (Megha 90b) आलिख्याऽतो भवदनुकृतिं चक्षुरुन्मील्य कृच्छ्रा- त्पश्यन्ती वा सजलनयनं प्राक्तनीं मन्यमाना। पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां (Megha 90c) var शारिकां कच्चित्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ३७॥ (Megha 90d) उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां (Megha 91a) var सोम्य गाढोत्कण्ठं करुणविरुतं विप्रलापायमानम् । मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । (Megha 91b) त्वामुद्दिश्य प्रचलदलकं मूर्च्छनां भावयन्ती ॥ ३८॥ तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथञ्चित् (Megha 91c) var तन्त्रीमार्द्रां स्वाङ्गुल्यग्रैः कुसुममृदुभिर्वल्लकीमास्पृशन्ती । ध्यायं ध्यायं त्वदुपगमनं शून्यचिन्तानुकण्ठी भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ३९॥ (Megha 91d) शेषान्मासान् विरहदिवसस्थापितस्याऽवधेर्वा (Megha 92a) जन्मान्यत्वेऽप्यधिगतिमितान् देवभावानुभावात् । विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः (Megha 92b) var देहलीदत्तपुष्पैः स्मृत्यारूढान् स्फुटयितुमिव स्वात्मनो मृत्युसन्धीन् ॥ ४०॥ बुध्यध्यासात् स्वपन इव विस्पष्टभूयं त्वयाऽमा सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती । (Megha 92c) var (संयोगं) मत्सङ्गं वा मूर्च्छासुप्ता सभयमथवाऽऽश्वास्यमाना सखीभिः प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ४१॥ (Megha 92d) [षड्भिः कुलकम्] सव्यालापैः सुखविरुतिभिस्तद्विनोदैस्तथाऽन्यैः सव्यापारामहनि न तथा पीडयेद्विप्रयोगः । (Megha 93a) var पीडयेन्मद्वियोगः स्वापापायाद्धृदयनिहितं त्वामजस्रं स्मरन्ती शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ॥ ४२॥ (Megha 93b) एवं प्रायैस्त्वयि सुभगतां व्यञ्जयद्भिर्यथार्थै- र्मत्सन्देशैः सुखयितुमतः पश्य साध्वीं निशीथे । (Megha 93c) var सुखयितुमलं पर्यस्ताङ्गीं कुसुमशयने निस्सुखामाधिरुद्धां तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ४३॥ (Megha 93d) चित्रन्यस्तामिव सवपुषं मन्मथीयामवस्था- माधिक्षामां विरहशयने सन्निषण्णैकपार्श्वाम् । (Megha 94a) तापापास्त्यै हृदयनिहितां हारयष्टीं दधानं प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ॥ ४४॥ (Megha 94b) मत्कामिन्या प्रणयरसिकैः सन्निधौ त्वत्प्रियाया नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या । (Megha 94c) var क्षणमिव निद्राद्विड्भिर्मुहुरुपचितैः पक्ष्मरुद्भिर्गलद्भि- स्तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ ४५॥ (Megha 94d) अन्तस्तापं प्रपिशुनयतया स्वं कवोष्णेन भूयो निःश्वासेनाऽधरकिसलयक्लेशिना विक्षिपन्तीम् । (Megha 96a) शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बं (Megha 96b) विश्लिष्टं वा हरिणरचितं लाञ्छनं तन्मुकेन्दोः ॥ ४६॥ मद्विश्लेषादुपहितशुचो दूरदेशस्थितस्य प्राणेशस्य स्वयमनुचितानङ्गबाधस्य जातु । मत्सम्योगः कथमुपनमेत् स्वप्नजोऽपीति निद्रा- (Megha 96c) var मत्सम्भोगः कथमुपनयेत् माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ४७॥ (Megha 96d) आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा (Megha 97a) जन्मन्यस्माद्व्यवहिततरे वेणिका स्मर्यमाणा । शापस्याऽन्ते विगलितशुचा तां मयोद्वेष्टनीयां (Megha 97b) स्वां निन्दन्तीं विरहवपुषं सङ्गमं वा विहाय ॥ ४८॥ तां वक्त्रेन्दुग्रसनरसिकां राहुमूर्तिं श्रितं वा व्योमच्छायां मदनशिखिनो धूमयष्टीयमानाम् । स्पर्शक्लिष्टामयमितनखेनाऽसकृत्सारयन्तीं (Megha 97c) var स्पर्शद्विष्टामयमितनखेनासकृत् गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ४९॥ (Megha 97d) पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा- (Megha 95a) निष्टान्बन्धूनिव मृगयितुं संश्रितान् सङ्ग्रहीतुम् । पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव (Megha 95b) प्रत्याहृत्य स्वनयनयुगं चेतसा धूयमानाम् ॥ ५०॥ भूयोभूयः शिशिरकिरणे स्वान्कराञ्जालमार्गै- रातन्वाने पुनरपि गताभ्यागतैः क्लिश्यमानम् । खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं (Megha 95c) var चक्षुः खेदात् साभ्रेऽह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् ॥ ५१॥ (Megha 95d) var न प्रबुद्धां न सुप्ताम् [नवभि कुलकम् ] सा सन्यस्ताभरणमबला पेलवं धारयन्ती (Megha 98a) var पेशलं वीताहारा नयनसलिलैराप्लुतापाण्डुगण्डम् । शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रं (Megha 98b) त्वामप्यन्तर्विचलितधृतिं तां दशां नेतुमर्हेत् ॥ ५२॥ शय्योपान्ते भृशमपसुखा मत्स्यलोलं लुलन्ती बद्धोत्कम्पश्वसितविवशा कामपात्रायिता सा । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं (Megha 98c) प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ५३॥ (Megha 98d) बन्धुप्रीतिं गुरुजन इवादृत्य कान्ताद्वितीये जाने सख्यास्तव मयि मनः संम्भृतस्नेहमस्मात् । (Megha 99a) संवासाच्च व्यतिकरमिमं तत्त्वतो वेद्मि तस्मा- दित्थम्भूतां प्रथमविरहे तामहं तर्कयामि ॥ ५४॥ (Megha 99b) तन्मे सत्यं सकलमुदितं निश्चिनु स्वार्थसिद्ध्यै स्निग्धां वृत्तिं मनसि घटयन् येन साध्यानुविद्धम् । वाचालं मां न खलु सुभगम्मन्यभावः करोति (Megha 99c) प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ५५॥ (Megha 99d) भूयः प्रीत्यै भवतु सुदती सा मदाज्ञाकृतस्ते स्निग्धं चक्षुस्त्वयि निदधती दृष्टमात्रे पुरा यत् । रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं (Megha 100a) प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ॥ ५६॥ (Megha 100b) मत्प्रामाण्यादसुनिरसने निश्चितात्मा त्वमेनां भोक्तुं याया धनदनगरीं तत्प्रमाणाय सज्जे । त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या (Megha 100c) मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ५७॥ (Megha 100d) इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचिते मेघदूतवेष्टितवेष्टिते श्रीपार्श्वाभ्युदये भगवत्कैवल्यवर्णनं नाम तृतीयः सर्गः ।

॥ अथ चतुर्थः सर्गः ॥

सन्दिष्टं च प्रणयमधुरं कान्तया मे द्वितीयैः प्राणैः प्राणा नवनववरः सन्नितिः त्वां प्रतीदम् । तत्कर्तुं त्वं त्वरय लघु नः किं किमेवं न कुर्याः वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः ॥ १॥ (Megha 101a) भोभो भिक्षो मयि सहरुषि क्व प्रयास्यस्यवश्यं त्वामुद्धेतिप्रणिपतनकैः सारयिष्ये तदग्रम् । न प्राणान्स्वान्घटयितुमलं तावको निर्णयो वा मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ॥ २॥ (Megha 101b) किं ते वैरिद्विरदनघटाकुम्भसम्भेदनेषु प्राप्तस्थेमा समरविजयी वीरलक्ष्म्याः करोऽयम् । नाऽस्मत्खड्गः श्रितिपथमगाद्रक्तपानोत्सवानां सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् ॥ ३॥ (Megha 101c) अस्युद्गीर्णे मयि सुरभटास्तेऽपि बिभ्यत्यसभ्यः कस्त्वं स्थातुं भण मम पुरः किं न जिह्वेपि भिक्षो । भावत्कोऽयं मदसिवितताखण्डनात्तत्पुरस्ताद्- यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ४॥ (Megha 101d) यस्मिन्पुंसां परिभवकलङ्काङ्कनं स्यद्विपक्षा- द्वीरालापे सति मदवतो वीरगोष्ठीषु वक्त्रम् । विद्वन्मन्यो भणतु स भवानेव मानोन्नतानां तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्यात् ॥ ५॥ (Megha 102a) या ते बुद्धिर्मदपचरिताद्बिभ्यती लुप्तसञ्ज्ञा मूकावस्थां त्वयि विदधती रुन्धती सत्त्ववृत्तिम् । सावष्टम्भं भव भटतरो वार्धयुद्धेऽस्थिरः स- न्न्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ॥ ६॥ (Megha 102b) माभूद्भीतिस्तव सुरभटत्रासिगर्जोर्जितेऽसि- प्राप्ते योद्धुं मयि किमभियाने मृतिर्वीरलक्ष्म्याः। वीरम्मन्ये त्वयि मयि तथाऽन्यत्र वा प्रेमभङ्गो मा भूदस्याः प्रणयिनि जने स्वप्नलब्धे कथञ्चित् ॥ ७॥ (Megha 102c) var प्रणयिनि मयि निस्सङ्गस्त्वं न हि भुवि भयस्याऽङ्गमङ्गाङ्गसङ्गात् किं वा जीवन्मतक भवतोऽप्यस्ति भीरङ्गनानाम् । कृत्वा युद्धे विदधति मतिं नान्विमे योधमुख्याः सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ८॥ (Megha 102d) लक्ष्मीं क्षीणां स्ववपुषि सतीमुद्यमाख्येन दोषा प्रोत्थाप्याऽलं भव युधि सतामाश्रितानुग्रहोऽर्थः । शंसन्तीदं ननु नवघना धर्मतप्तक्षतां क्ष्मां प्रोत्थाप्यैनां स्वजलकणिकाशीतलेनाऽनिलेन ॥ ९॥ (Megha 103a) var तामुत्थाप्य कीर्तिं च स्वां कुरु कुसुमितां स्वोद्यमाम्बुप्रसेकैः सद्वल्लीं वा प्रधनविषयैरुन्नतानां क्रमोऽयम् । कुर्यात् किन्नो नवजलमुचां कुं क्षतान्तामनेहा प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥ १०॥ (Megha 103b) मत्प्रातीप्यं समरशिरसि प्राप्य दृष्टावदानः क्षीणायुस्त्वं कुरु सुरवधूं काञ्चिदापूर्णकामाम् । द्यामारोहन्सहजमणिभाभूषितोऽम्भोद या विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे ॥ ११॥ (Megha 103c) यद्येतत्तेऽध्यवसितमतिप्रौढमानोद्धुरस्य ध्यानाभ्यासं शिथिलय ततो योद्धुकामो निकामम् । अस्युत्खातः पटुतरगिरं प्रोज्झ्य वाचंयमत्वं वक्तुं धीरं स्तनितवचनो मानिनीं प्रक्रमेथाः ॥ १२॥(Megha 103d) var धीरस्तनितवचनैर्मानिनीं भीते शस्त्रं यदि भटमते वावहीम्यस्त्रशून्ये स्त्रीम्मन्ये वा चरणपतिते क्षीणके वा स कश्चित् । पादस्पृष्ट्या शपथयति वा जातु हिंसां भुजिष्यं भर्तुर्मित्रं प्रियमभिदधे विद्धि मामम्बुवाहम् ॥ १३॥(Megha 104a) var प्रियमविधवे तन्मा भैषीर्विहतगरिमा हस्तमुत्क्षिप्य पादा- वाश्लिष्य त्वं मम यदि च ते जीवनेऽस्त्युत्सुकत्वम् । किञ्चित्प्रीत्यै प्रिययुवतितो माऽन्यथा त्वं गृहीर्मा तत्सन्देशैर्मनसि निहितैरागतं त्वत्समीपम् ॥ १४(Megha 104b) var तत्सन्देशैहृदयनिहितैरागतं सद्यः कॢप्तो जलदसमयो यो मयाकालमेघै- रारुद्धद्युर्व्यवधि सहसा सोऽप्यनेनात्मशक्त्या। ध्वान्तस्यैव प्रतिनिधिरहो योषितां जीवनार्थं यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम् ॥ १५॥ (Megha 104c) सोऽयं योगी प्रकटमहिमा लक्ष्यते दुर्विभेदो विद्यासिद्धो ध्रुवमभिमना यन्ममाप्यात्तनाशा । कर्तुं शक्ता नवघनघटा या मनांस्यध्वगानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ १६॥ (Megha 104d) इत्याध्यायन्पुनरपि मुनिं सोऽभणीद्युद्धशौण्डो वीरश्रीस्त्वामिह वनतरौ मन्मथाक्लेशमुक्ता । पश्यन्त्यास्ते दशमुखपुरोद्यानवृक्षे सती स्या- दित्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ॥ १७॥ (Megha 105a) सङ्ख्ये सङ्ख्यं सुभटविषयां पूरयन्नस्मदीये हित्वा भीतिं त्वमधिशयितो वीरशय्यां यदा स्याः । प्रत्यासीदत्यपिहितरसा वीरलक्ष्मीस्तदैषा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ॥ १८॥ (Megha 105b) मन्ये श्रोत्रं परुषपवनैर्दूषितं ते मदुक्तां व्यक्ताकूतां समरविषयां सङ्कथां नो श‍ृणोति । तत्पारुष्यप्रहरणमिदं भेषजं विद्धि गेयं श्रोष्यत्यस्मात्परमवहितं सौम्य सीमन्तिनीनाम् ॥ १९॥ (Megha 105c) var श्रोष्यत्यस्मात्परमवहिता श्रव्यं गेयं नयनसुभगं रूपमालोकनीयं पेयस्तासां वदनसुरभिः स्पृश्यमाघ्रायमङ्गम् । कामाङ्गं ते समुचितमिदं सङ्गमं सानुबन्धं कान्तोपान्तात्सुहृदुपगमः सङ्गमात्किञ्चिदूनः ॥ २०॥ (Megha 105d) var कान्तोदन्तः सुहृदुपनतः तस्माद्वासः किसलयमृदु त्वं मुखस्थायि दिव्यं ताम्बूलं च प्रणयमचिराद्योषितां मानयोच्चैः। व्यर्थक्लेशां विसृज विरसामार्यवृत्तिं मुनीनां तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुम् ॥ २१॥ (Megha 106a) श्रेयोमार्गः किल मुनिवरैः सेव्यते मोक्षहेतोः सौख्यं द्वेधा सुरयुवतिजं मुक्तिलक्ष्म्याश्रयं च । दूरे मुक्तिः सुलभमितरत्सेवमन्योऽपि विद्वान् ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ॥ २२॥ (Megha 106b) विद्युद्वल्लीविलसितनिभाःसम्पदश्चञ्चलत्वात् लब्धाभोगाः नियतविपदस्तत्क्षणादेव भोगाः । तस्माल्लोकः प्रणयिनि जने स्थास्नुभावव्यपायात् अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः ॥ २३॥ (Megha 106c) तद्भोक्तव्ये स्वयमुपनते शीतकत्वं समुज्झे- र्मृत्युव्याघ्रो द्रुतमनुपदी वाममन्विच्छतीत: । आयुष्मत्वं कुशलकलितं नन्विहाशाधि नित्यं पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ २४॥ (Megha 106d) var पूर्वाभाष्यं सैषा बाला प्रथमकथिता पूर्वजन्मप्रिया ते पश्यायाता रहसि परिरभ्याऽनुमोदं नयेत्त्वाम् । अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं (Megha 107a) var प्रतनु तनुना सास्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ॥ २५॥ (Megha 107b) var सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन दूरागाढ्प्रणयदिवसो मन्मथेनाऽतिभूमिं नीतो बिभ्यत्त्वदभिसरणादुत्सुकः स्त्रीजन्स्त्वाम् । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती (Megha 107c) सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ २६॥ (Megha 107d) सोऽयं त्वत्तः प्रणयकणिकामप्यलब्ध्वा विलक्षो दूरात्सेवां तव वितनुते पश्य सार्थो वधूनाम् । शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् (Megha 108a) कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ २७॥ (Megha 108b) योऽसौ स्त्रीणां प्रणयमधुरो भावगम्योऽधिकारः कामाभिख्यां दधदविरतं लोकरूढा प्रसिद्धिः। सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट- (Megha 108c) स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ २८॥ (Megha 108d) योगिन् ! योगप्रणिहितमनाः किन्तरां ध्येयशून्यं ध्यायस्येवं स्मर ननु धियाऽद्यक्षवेद्यं मतं नः । श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं (Megha 109a) वक्त्रच्छाया शशिनि शिखिनां बर्हभारेषु केशान् ॥ २९॥ (Megha 109b) var वक्त्रच्छायां पश्याऽऽमुष्मिन्नवकिसलये पाणिशोभां नखानां छायामस्मिन् कुरवकवने सप्रसूने स्मितानाम् । लीलामुद्यत्कुसुमितलतामञ्जरीष्वस्मदीया- मुत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् ॥ ३०॥ (Megha 109c) सादृश्यं नः स्फुटमिति यथा दृश्यते सर्वगामि ध्येयं साक्षात्सुखफलमिदं योगिनां कामदायि । मिथ्याध्यातेर्मुनिषु विधये हे तपोलक्ष्मि तद्वद् हन्तैकस्थं क्वचिदपि न ते चण्डि सादृर्श्यमस्ति ॥ ३१॥ (Megha 109d) var हन्तैकस्मिन्क्वचिदपि न ते चण्डि साद्र्श्यमस्ति हा धिङ् मूढिं यदयमृषिपः त्वामसाध्वीमजानन् त्वय्यासक्तिं मुहुरुपगतोऽस्मास्वनादर्यभूच्च । चेतोमय्यां यदनुकमितां ध्यायति प्रेयसीं वा त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् ॥ ३२॥(Megha 110a) var प्रणयकुपिता भो भो साधो मम कुरु दयां देहि दृष्टिं प्रसीद प्रायः साधुर्भवति करुणार्द्रीकृतस्वान्तवृत्तिः । योगं तावच्छिथिलय मनाक् प्रार्थनाचाटुकारैः आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ॥ ३३॥ (Megha 110b) त्वत्सादृश्यं मनसि गुणितं कामुकीनां मनोहृत् कामाबाधां लघयितुमथो द्रष्टुकामा विलिख्य । यावत्प्रीत्या किल बहुरसं नाथ पश्यामि कोष्णै- रस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे ॥ ३४॥ (Megha 110c) तीव्रावस्थे तपति मदने पुष्पबाणैर्मदङ्गं तल्पेऽनल्पं दहति च मुहुः पुष्पभेदैः प्रकॢप्ते । तीव्रापाया त्वदुपगमनं स्वप्नमात्रेऽपि नाऽऽपं क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ३५॥ (Megha 110d) मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- (Megha 111a) रुत्तिष्ठासुं त्वदुपगमनप्रत्ययात्स्वप्नजातात् । सख्यो दृष्ट्वा सकरुणमृदुव्यावहासीं दधानाः कामोन्मुग्धाःस्मरयितुमहो संश्रयन्ते विबुद्धाम् ॥ ३६॥ निद्रासङ्गादुपहितरतेर्गाढमाश्लेषवृत्ते - र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु (Megha 111b) विश्लेषस्स्याद्विहितरुदितैराधिजैराशुबोधैः कामोऽसह्यं घटयतितरां विप्रलम्भावताराम् ॥ ३७॥ तां तां चेष्टां रहसि निहितां मन्मथेनाऽस्मदङ्गे त्वत्सम्पर्कस्थिरपरिचयावाप्तये भाव्यमानाम् । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां (Megha 111c) मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ३८॥ (Megha 111d) सङ्क्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा (Megha 113a) var क्षण इव प्राणाधीशे विधिविघटिते दूरवर्तिन्यभीष्टे । इत्थं कामाकुलितहृदया चिन्तयन्ती भवन्तं प्राणारक्षं श्वसिमि बहुशश्चक्रवाकीव तप्ता ॥ ३९॥ ज्योत्स्नापातं मम विपहितुं नोतरां शक्नुवन्त्याः सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । (Megha 113b) आचित्तेशप्रथमपरिरम्भोदयादित्यभीक्ष्णं ध्यायामीदं मदनपरतासर्वचिन्तानिदानम् ॥ ४०॥ कामावेशो महति विहितोत्कण्ठमाबाधमाने त्वय्यासक्तिं गतमनुगतप्राणमेतद्द्वयं च । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे (Megha 113c) गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ४१॥ (Megha 113d) var गाढोष्माभिः तानप्राक्षं मदनविवशा युष्मदीयप्रवृत्तिं प्रत्यावृत्तान् हिमवदनिलान् कातरा मत्समीपम् । भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां (Megha 112a) ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ॥ ४२॥ (Megha 112b) इष्टे वस्तुन्यतिपरिचितं यत्तदप्यङ्गनानां प्रीतेर्हेतुर्भवति नियतं यत्त्वदङ्गानुरोधात् । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः (Megha 112c) पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४३॥ (Megha 112d) var पूर्वस्पृष्टं तन्मे वीर प्रतिवचनकं देहि युक्तं वृथाशां मा कार्षीर्मा यदि च रुचितं ते तदाभाष्यमेतत् । नन्वात्मानं बहु विगणयन्नात्मनैवाऽवलम्बे (Megha 114a) तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ॥ ४४॥ (Megha 114b) एवं प्रायां निकृतिमसुरः स्त्रीमयीमाशु कुर्वन् व्यर्थोद्योगः समजनि मुनौ प्रत्युताऽगात्स दुःखम् । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा (Megha 114c) var कस्यात्यन्तं नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४५॥ (Megha 114d) यस्मिन्काले समजनि मुनेः केवलज्ञानसम्प- द्यस्मिन्दैत्यो गिरिमुदहरन्मूर्ध्नि चिक्षेप्सुरस्य । तत्काले सा शरदुदभवद्वक्तुकामेति वोच्चैः शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ ॥ ४६॥ (Megha 115a) ज्योत्स्नाहासं दिशि दिशि शरत्तन्वती प्रादुरासी- द्दैत्यस्याऽस्य प्रहसितुमिवाज्ञानवृत्तिं दुरन्ताम् । वैमल्येन स्फुतमिति दिशां रुन्धतीवोष्णकालं मासानन्यान्गमय चतुरो लोचने मीलयित्वा ॥ ४७॥ (Megha 115b) var शेषान्मासान् गमय जाताकम्पासननियमितः सावधिर्नागराजः कान्तां स्माऽऽह प्रथममधिपं पूजयावोऽद्य गत्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं (Megha 115c) निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४८॥ (Megha 115d) प्रस्थानेऽस्य प्रहतपटहे दिव्ययानावकीर्णे कश्चित्कान्तां तदनुगजनः सस्मितं वीक्षते स्म । भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे (Megha 116a) निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा ॥ ४९॥ (Megha 116b) यत्तद्वृत्तं स्मरसि मामुपालब्धुकामा मन्ये त्वीषत्कुपितमिव मे दर्शयन्ती प्रपासि । सान्तर्हासं कथितमसकृत्पृच्छतोऽसि त्वया मे (Megha 116c) var कथितमसकृत्पृच्छतश्च द्र्ष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ५०॥ (Megha 116d) दृष्ट्वाऽहीन्द्रं स्थितमधिजिनं सत्सपर्य सजानिं प्रारेभेऽसौ सभयमसुरो मुक्तशैलोऽपयतुम् । रुद्धश्चैवं धरणपतिना भो भवान्माऽपयासी- देतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा ॥ ५१॥ (Megha 117a) देवस्याऽस्य प्रियसहजकः पूर्वजन्मन्यभूस्त्वं स्त्रीकाम्यंस्तं प्रसभमवधीर्वैरकाम्यंस्तदैनम् । तत्ते मौढ्यात्कृतमनुचितं मर्षितं न त्वयाऽपि मा कौलीनादसितनयने मय्यविश्वासिनी भूः ॥ ५२॥ (Megha 117b) var कौलीनाच्चकितनयने धिक्कृत्यैनं मुहुरथ सजूकृत्य तं सोऽहिराजो भक्त्या भर्तुश्चरणयुगले प्राणमत्स्नेहनिघ्नः । स्नेहानाहुः किमपि विरहे ह्रासिनस्तेऽप्यभोगा- (Megha 117c) var ध्वंसिनस्ते त्वभोगाद् दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ५३॥ (Megha 117d) सङ्क्षेपाच्च स्तुतिमुरगराट् कर्तुमारब्ध भर्तुः श्रेयस्सूते भवति भगवन्भक्तिरल्पाप्यनल्पम् । श्रेयस्कामा वयमत इतो भोगिनी नोऽनुकूला- माश्वास्यैनां प्रथमविरहे शोकदष्टं सखीं ते ॥ ५४(Megha 118a) var आश्वास्यैवं प्रथमविरहोदग्रशोकां सैषा सेवां त्वयि विदधतः श्रेयसे मे दुरापं यन्माहात्म्यात्पदमधिगतं कान्तयाऽमा मयेदम् । यस्माच्चैनं तदनुचरणेनाऽहमुज्झन्विहारं तस्मादद्रेस्त्रिनयनवृषोत्खातकूटान्निवृत्तः ॥ ५५॥(Megha 118b) var शैलादाशु त्रिनयवृषोत्खातकूटान्निवृत्तः तन्मे देव श्रियमुपरिमां तन्वतीयं त्वदङ्घ्र्यो- र्भक्तिर्भूयान्निखिलसुखदा जन्मनीहाऽप्यमुत्र । कान्तासङ्गैरलमघवशाद् गृध्नुतं वर्धयद्भिः साभिज्ञानं प्रहितवचनैस्तत्र युक्तैर्ममाऽपि ॥ ५६॥ (Megha 118c) var साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि भूयो याचे सुरनुत मुने त्वामुपारूढभक्तौ दैत्ये चाऽस्मिन्प्रणयमधुरां देहि दृष्टिं प्रसीद । चित्तोद्वेगैरनुशयकृतैश्चास्य गात्रात्प्रपित्सु प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेदम् ॥ ५७॥ (Megha 118d) स्तुत्यन्तेऽसौ व्यरचयदिव च्छत्रमुच्चैः फणालिं भर्तुर्भक्त्या दधदधिशिरः स्वां वितत्य प्रमोदात् । व्यात्तैर्वक्त्रैर्ध्रुवमिति मुनिं वक्तुकामस्तदानीं कच्चित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे ॥ ५८॥ (Megha 119a) देवी चाऽस्य प्रचलदलका लोलनेत्रेन्दुवक्त्रा दिव्यं छत्रं व्यरचदहो धैर्यमित्यालपन्ती । दैत्यस्याऽद्रेर्यदभिदलनं शक्तियोगेऽपि कर्तुं प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ॥ ५९॥ (Megha 119b) तच्छायायां समधिकरुचिं देवमुत्पन्नबोधं बद्धास्थानं शरणमकृत त्यक्तवैरः स दैत्यः। श्रेयोऽस्मभ्यं समभिलषितं वारिवाहो यथा त्वं निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः ॥ ६०॥ (Megha 119c) प्रत्युत्कीर्णो यदि च भगवन्भव्यलोकैकमित्रात् त्वत्तः श्रेयः फलमभिमतं प्राप्नुयादेव भक्तः । प्रत्युक्तैः किं फलति जगते कल्पवृक्षः फलानि प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ६१॥ (Megha 119d) सह्रीकस्ते कथमपि पुरो वर्तितुं सन्धटेऽहं दूराद्वक्तुं निकृतिबहुलः पापकृद्वैरदग्धः । सौजन्यस्य प्रकटय परां कोटिमात्मन्यसङ्गात् एतत्कृत्वा प्रियमनुचितं प्रार्थनादात्मनो मे ॥ ६२॥ (Megha 120a) var प्रियमनुचितप्रार्थनावर्त्मनो अत्राणं मामपघृणमतिप्रौढमायं दुरीहं पश्चात्तापाच्चरणपतितं सर्वसत्त्वानुकम्प । पापापेतं कुरु सकरुणं त्वाऽद्य याचे विनम्रः सौहर्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ॥ ६३॥ (Megha 120b) इत्थङ्कारं कमठदनुजः स्वापकारं प्रमार्जन् भूयः स्माऽऽह प्रकटितमहाभोगभोगीन्द्रगूढः। लोकाह्लादी नव इव घनो देव धर्माम्बु वर्ष- न्निष्टान्देशान्विचर जलद प्रावृषा संभृतश्रीः ॥ ६४॥ (Megha 120c) यत्तन्मौढ्याद्बहुविलसितं न्यायमुल्लङ्घ्य वाचां तन्मे मिथ्या भवतु च मुने दुष्कृतं निन्दितस्वम् । भक्त्या पादौ जिन विनमतः पार्श मे तत्प्रसादात् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ ६५॥ (Megha 120d) Here ends the SamasyA part from MeghadUtam अनुनयति सतीथं भक्तिनम्रेण मूर्ध्ना कमठदनुजनाथे नागराजन्यसाक्षात् । ध्रुवमनुशयतप्ताद्वैरबन्धश्चिरात्तः स्म गलति निजचित्तात्सन्तताश्रुच्छलेन ॥ ६६॥ अथ सुरभिसमीरान्दोलितैः कल्पवृक्षैः समममरनिकायाः पुष्पवृष्टिं वितेनुः। अविरलनिपतद्भिः स्वर्विमानैर्निरुद्धा नवजलदविलिप्तेवेक्ष्यताऽसौ तदा द्यौः ॥ ६७॥ सपदि जलदमुक्तैः सान्द्रगन्धाम्बुपातैः मधुपगणविकीर्णैराश्वसत्क्ष्मा क्षतोष्मा- वियति मधुरमुच्चैर्दुन्दुभीनां च नादः सुरकरतलगूढास्फालितानां जजृम्भे ॥ ६८॥ इति विदितमहार्द्धिं धर्मसाम्राज्यमिन्द्राः जिनमवनतिभाजो भेजिरे नाकभाजाम् । शिथिलितवनवासाः प्राक्तनीं प्रोज्झ्य वृत्तिं शरणमुपयुयुस्तं तापासा भक्तिनम्राः ॥ ६९॥ इति विरचितमेतत्काव्यमावेष्ट्य मेघं बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठतादाशशाङ्कं भुवनमवतु देवस्सर्वदा घवर्षः ॥ ७०॥ श्रीवीरसेनमुनिपादपयोजभृङ्गः श्रीमानभूद्विनयसेनमुनिर्गरीयान् । तच्चोदितेन जिनसेनमुनीश्वरेण काव्यं व्यधायि परिवेष्टितमेघदूतम् ॥ ७१॥ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनचार्यविरचितमेघदूतवेष्टिते श्रीपार्श्वाभ्युदये भगवत्कैवल्यवर्णनो नाम चतुर्थः सर्गः ॥ Based on this work, the following is the version of KAlidAsa's MeghadUtam, that was vogue during that period. Here, ᳚Megha᳚ refers to the book: ᳚Complete Works of Kalidasa᳚, edited by V P Joshi कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः ॥ १ ॥ (Megha 1a) शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ॥ २ ॥ (Megha 1b) यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु ॥ ३ ॥ (Megha 1c) स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ ४॥ (Megha 1d) तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी ॥ ५॥ (Megha 2a) नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥६॥ (Megha 2b) आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुम् ॥ ७॥ (Megha 2c) वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ८॥ (Megha 2d) तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतोः ॥ ९॥ (Megha 3a) अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ॥ १०॥ (Megha 3b) मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः ॥ ११ ॥ (Megha 3c) कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १२॥ (Megha 3d) प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी ॥ १३ ॥ (Megha 4a) जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥ १४ ॥ (Megha 4b) स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै ॥ १५ ॥ (Megha 4c) प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १६ ॥ (Megha 4d) धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः ॥ १७ ॥ (Megha 5a) सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ॥ १८ ॥ (Megha 5b) इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे ॥ १९॥ (Megha 5c) कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ २० ॥ (Megha 5d) जातं वंशे भुवनविदिते पुष्करावर्तकानाम् ॥ २१ ॥ (Megha 6a) जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ॥ २२ ॥ (Megha 6b) तेनाऽर्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहम् ॥ २३ ॥ (Megha 6c) याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ २४॥ (Megha 6d) सन्तप्तानां त्वमसि शरणं तत् पयोदप्रियायाः ॥ २५ ॥ (Megha 7a) सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ॥ २६ ॥ (Megha 7b) गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ॥ २७ ॥ (Megha 7c) बाह्योद्यानस्थितहरशिरश्चन्द्रिका धौतहर्म्या ॥ २८ ॥ (Megha 7d) त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः ॥ २९ ॥ (Megha 8a) प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ॥ ३० ॥ (Megha 8b) कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ॥ ३१ ॥ (Megha 8c) न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ३२॥ (Megha 8d) तां चाऽवश्यं दिवसगणनातत्परामेकपत्नीम् ॥ ३३॥ (Megha 9a) मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ॥ ३४॥ (Megha 9b) आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानाम् ॥ ३५॥ (Megha 9c) सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ?॥ ३६॥ (Megha 9d) मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥ ३७॥ (Megha 10a) वामश्चायं नदति मधुरं चातकस्ते सगन्धः ॥ ३८॥ (Megha 10b) द्गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः ॥ ३९॥ (Megha 10c) सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ४० ॥ (Megha 10d) कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम् ॥ ४१॥ (Megha 11a) तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः ॥ ४२॥ (Megha 11b) आकैलासाद्बिसकिसलयच्छेदपाथेयवन्तः ॥ ४३॥ (Megha 11c) सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ४४॥ (Megha 11d) आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् ॥ ४५॥ (Megha 12a) वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ॥ ४६॥ (Megha 12b) काले काले भवति भवतो यस्य संयोगमेत्य ॥ ४७॥ (Megha 12c) स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ ४८॥ (Megha 12d) मार्गं मत्तः श्रुणु कथयतस्त्वत्प्रयाणानुरूपम् ॥ ४९॥ (Megha 13a) सन्देशं मे तदनु जलद श्रोष्यसि श्रव्यबन्धम् ॥ ५०॥ (Megha 13b) खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र ॥ ५१॥ (Megha 13c) क्षीण: क्षीणः परिलघुपयः स्रोतसां चोपभुज्य ॥ ५२॥ (Megha 13d) रद्रेः श‍ृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि: ॥ ५३॥ (Megha 14a) दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ॥ ५४॥ (Megha 14b) स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खम् ॥ ५५॥ (Megha 14c) दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ ५६॥ (Megha 14d) रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् ॥ ५७॥ (Megha 15a) वल्मीकाग्रात्प्रभवति धनु: खण्डमाखण्डलस्य ॥ ५८॥ (Megha 15b) येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते ॥ ५९॥ (Megha 15c) बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ ६०॥ (Megha 15d) त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः ॥ ६१॥ (Megha 16a) प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ॥ ६२॥ (Megha 16b) सद्यःसीरोत्कषणसुरभिक्षेत्रमारुह्य मालम् ॥ ६३॥ (Megha 16c) किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ ६४॥ (Megha 16d) त्वामासारप्रशमितवनोपद्रवं साधु मूर्ध्ना ॥ ६५॥ (Megha 17a) वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ॥ ६६॥ (Megha 17b) न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ॥ ६७॥ (Megha 17c) प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ ६८॥ (Megha 17d) छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैः ॥ ६९॥ (Megha 18a) त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ॥ ७०॥ (Megha 18b) नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थाम् ॥ ७१॥ (Megha 18c) मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ ७२॥ (Megha 18d) तस्मिन् स्थित्वा वनचरवधूभुक्तकुञ्जे मुहूर्तम् ॥ ७३॥ (Megha 19a) तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ॥ ७४॥ (Megha 19b) रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णाम् ॥ ७५॥ (Megha 19c) भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ ७६॥ (Megha 19d) यस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः ॥ ७७॥ (Megha 20a) जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः॥ ७८॥ (Megha 20b) अन्तःसारं घन तुलयितुं नाऽनिलः शक्ष्यति त्वाम् ॥ ७९॥ (Megha 20c) रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ ८०॥ (Megha 20d) नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैः ॥ ८१॥ (Megha 21a) आविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ॥ ८२॥ (Megha 21b) दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः ॥ ८३॥ (Megha 21c) सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ ८४॥ (Megha 21d) दुत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः ॥ ८५॥ (Megha 22a) कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ॥ ८६॥ (Megha 22b) शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः ॥ ८७॥ (Megha 22c) प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ ८८॥ (Megha 22d) पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः ॥ ८९॥ (Megha 23a) नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः ॥ ९०॥ (Megha 23b) त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः ॥ ९१॥ (Megha 23c) सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ ९२॥ (Megha 23d) तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीम् ॥ ९३॥ (Megha 24a) गत्वा सद्यः फलमपि महत्कामुकत्वस्य लब्धा ॥ ९४॥ (Megha 24b) तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्र ॥ ९५॥ (Megha 24c) सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ ९६॥ (Megha 24d) नीचैराख्यं गिरिमधिवसेस्तत्र विश्रान्तिहेतोः ॥ ९७॥ (Megha 25a) त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ॥ ९८॥ (Megha 25b) यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणाम् ॥ ९९॥ (Megha 25c) उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ १००॥ (Megha 25d) विश्रान्तः सन्व्रज वननदीतीरजानां निपिञ्च- (Megha 26a) न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ॥ १०१॥ (Megha 26b) गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां (Megha 26c) छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ १०२॥ (Megha 26d) वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां (Megha 27a) सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ॥ १०३॥ (Megha 27b) विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां (Megha 27c) लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितः स्याः ॥ १०४॥ (Megha 27d) वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः (Megha 28a) संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ॥ १०५॥ (Megha 28b) निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य (Megha 28c) स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ १०६॥ (Megha 28d) वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः (Megha 29a) पाण्डुच्छायातटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ॥ १०७॥(Megha 29b) सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती (Megha 29c) कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ १०८॥ (Megha 29d) प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् (Megha 30a) पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ॥ १०९॥ (Megha 30b) स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां (Megha 30c) शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ११०॥ (Megha 30d) दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां (Megha 31a) प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ॥ १११॥ (Megha 31b) यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः (Megha 31c) शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ११२॥ (Megha 31d) प्रद्योतस्य प्रिय ! दुहितरं वत्सर्जोऽत्र जह्रे । (Megha 33a) हैमं तालद्रुमभवनमभूदत्र तस्यैव राज्ञ (Megha 33b) अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा- (Megha 33c) दित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥ ११४॥ (Megha 33d) हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्कशुक्तीः (Megha 32a) शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान् ॥ ११५॥ (Megha 32b) दृष्ट्वा यस्या विपणिरचितान्विद्रुमाणां च भङ्गान् (Megha 32c) संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ ११६॥ (Megha 32d) जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै- (Megha 34a) र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्त्योपहारः ॥ ११७॥ (Megha 34b) हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा (Megha 34c) नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ११८॥ (Megha 34d) द्भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः ॥ १ ॥ (Megha 35a) पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ॥ २ ॥ (Megha 35b) र्धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्याः ॥ ३ ॥ (Megha 35c) तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ४॥ (Megha 35d) रप्यन्यस्मिञ्जलधर ! महाकालमासाद्य काले ॥ ५ ॥ (Megha 36a) स्थातव्यं ते नयनविषयं यावदत्येति भानुः ॥ ६ ॥ (Megha 36b) कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयाम् ॥ ७ ॥ (Megha 36c) रामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ८॥ (Megha 36d) पादन्यासक्वणितरसनास्तत्र लीलावधूतै ॥ ९ ॥ (Megha 37a) रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ॥ १० ॥ (Megha 37b) वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् ॥ ११ ॥ (Megha 37c) आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ १२॥ (Megha 37d) पश्चादुच्चैर्भुजतरुवनं मण्डलेनाऽभि लीनः ॥ १३ ॥ (Megha 38a) सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ॥ १४ ॥ (Megha 38b) नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम् ॥ १५ ॥ (Megha 38c) शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ १६॥ (Megha 38d) गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तम् ॥ १७ ॥ (Megha 39a) रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ॥ १८ ॥ (Megha 39b) सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीम् ॥ १९ ॥ (Megha 39c) तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ २०॥ (Megha 39d) तां कस्याञ्चिद्भवनवलभौ सुप्तपारावताया (Megha 40a) नीत्वा रात्रीं चिरविलसनात् खिन्नविद्युत्कलत्रः ॥ २१॥ (Megha 40b) दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशिष्टं (Megha 40c) मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ २२॥ (Megha 340d) तस्मिन्काले नयनसलिलं योषितां खण्डितानां (Megha 41a) शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ॥ २३॥ (Megha 41b) प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः (Megha 41c) प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ २४॥ (Megha 41d) गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने (Megha 42a) छायात्माऽपि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ॥ २५॥ (Megha 42b) तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या- (Megha 42c) न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ २६॥ (Megha 42d) तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं (Megha 43a) हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ॥ २७॥ (Megha 43b) प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि (Megha 43c) ज्ञातास्वादो विवृतजघना को विहातुं समर्थः ॥ २८॥ (Megha 43d) त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः (Megha 44a) स्रोतोरन्ध्रध्वनितमधुरं दन्तिभिः पीयमानः ॥ २९॥ (Megha 44b) नीचैर्वास्यत्युपजिगमिषोर्देव पूर्वं गिरिं ते (Megha 44c) शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ३०॥ (Megha 44d) तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा (Megha 45a) पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ॥ ३१॥ (Megha 45b) रक्षाहेतोर्नवशशिभृता वासवीनां चमूना- (Megha 45c) मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ३२॥ (Megha 45d) ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी (Megha 46a) पुत्रप्रेम्णा कुवलयपदप्रापि कर्णे करोति ॥ ३३॥ (Megha 46a) धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं (Megha 46c) पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ३४॥ (Megha 46d) आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा (Megha 47a) सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ॥ ३५॥ (Megha 47b) व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् (Megha 47c) स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ३६॥ (Megha 47d) त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे ॥ ३७॥ (Megha 48a) तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ॥ ३८॥ (Megha 48b) प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीः ॥ ३९॥ (Megha 48c) एकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४०॥ (Megha 48d) तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणाम् ॥ ४१॥ (Megha 49a) पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् ॥ ४२॥ (Megha 49b) कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बम् ॥ ४३॥ (Megha 49c) पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४४॥ (Megha 49d) ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः ॥ ४५॥ (Megha 50a) क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः ॥ ४६॥ (Megha 50b) राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा (Megha 50c धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ४७॥ (Megha 50d) हित्वा हालामभिमतरसां रेवतीलोचनाङ्काम् ॥ ४८॥ (Megha 51a) बन्धुस्नेहात्समरविमुखो लाङ्गली याः सिषेवे ॥ ४९॥ (Megha 51b) कृत्वा तासामभिगममपां सौम्य सारस्वतीनां (Megha 51c) अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५०॥ (Megha 51d) तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णाम् ॥ ५१॥ (Megha 52a) जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ॥ ५२॥ (Megha 52b) गौरी वक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः (Megha 52c) शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५३॥ (Megha 52d) तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी ॥ ५४॥ (Megha 53a) त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ॥ ५५॥ (Megha 53b) संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा (Megha 53c) स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५६॥ (Megha 53d) न्नासीनानां सुरभितशिलं नाभिगन्धैर्मृगाणाम् ॥ ५७॥ (Megha 54a) स्तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ॥ ५८॥ (Megha 54b) वक्ष्यस्यध्वश्रमविनयने तस्य श‍ृङ्गे निषण्णः (Megha 54c) शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५९॥ (Megha 54d) तं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा ॥ ६०॥ (Megha 55a) बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः ॥ ६१॥ (Megha 55b) अर्हस्येनं शमयितुमलं वारिधारासहस्रै- (Megha 55c) रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ ६२॥ (Megha 55d) ये संरम्भोत्पतनरभसास्स्वाङ्गभङ्गाय तस्मिन् (Megha 56a) मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ॥ ६३॥ (Megha 56b) तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् (Megha 56c) केषां न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ६४॥ (Megha 56d) तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौले- (Megha 57a) शश्वत्सिद्धैरुपहृतबलिं भक्तिनम्रः परीयाः (Megha 57b) यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः (Megha 57c) कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ६६॥ (Megha 57d) शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः (Megha 58a) संरक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः ॥ ६७॥ (Megha 58b) निर्ह्रादी ते मुरव इव चेत्कन्दरीषु ध्वनिः स्यात् (Megha 58c) सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समस्तः ॥ ६८॥ (Megha 58d) प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् (Megha 59a) हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् । (Megha 59b) तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी । (Megha 59c) श्यामः पादो बलिनियमनेऽभ्युद्यतस्येव विष्णोः ॥ ७०॥ (Megha 59d) गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः । (Megha 60a) कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ॥ ७१॥ (Megha 60b) श‍ृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खम् । (Megha 60c) राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ७२॥ (Megha 60d) उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे (Megha 61a) सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य (Megha 61b) लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री- (Megha 61c) मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ७४॥ (Megha 61d) तस्मिन्हित्वा भुजगवलयं शम्भुना दत्तहस्ता (Megha 62a) क्रीडाशैले यदि च विहरेत्पादचारेण गौरी (Megha 62b) भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः (Megha 62c ) सोपानं त्वं कुरु मणितटारोहणायाग्रचारी ॥ ७६॥ (Megha 62d) तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं (Megha 63a) नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ॥ ७७॥ (Megha 63b) ताभ्यो मोक्षो यदि तव सखे घर्मलब्धस्य न स्यात् (Megha 53c) क्रीडालोलाः श्रवणपरुषैर्गर्जितैभीषयेस्ताः ॥ ७८॥ (Megha 63d) हेमाम्भोजप्रसवि सलिलं मानसस्याऽऽददानः (Megha 64) कुर्वन्कामं क्षणमुखपटप्रीतिमैरावणस्य ॥ ७९॥ (Megha 64b) धुन्वन्कल्पद्रुमकिसलयान्यंशुकानि स्ववातैः(Megha 64c) नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥८०॥ (Megha 64d) तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलाम् ॥ ८१॥ (Megha 65a) न्न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ॥ ८२॥ (Megha 65b) या वः काले वहति सलिलोद्गारमुच्चैर्विमाना ॥ ८३॥ (Megha 65c) मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ८४॥ (Megha 65d) विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः ॥ ८५॥ (Megha 66a) सङ्गीताय प्रहतमुरजाः स्निग्धपर्जन्यघोषम् ॥ ८६॥ (Megha 66b) मन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः ॥ ८७॥ (Megha 66c) प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ८८॥ (Megha 66d) यत्र स्त्रीणां प्रियतमभुजोच्छासितालिङ्गितानाम् ॥ ८९॥ (Megha 75a) मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ॥ ९०॥ (Megha 75b) स्त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे ॥ ९१॥ (Megha 75c) व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ९२॥ (Megha 75d) गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः ॥ ९३॥ (Megha 76a) क्लृप्तच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ॥ ९४॥ (Megha 76b) र्मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारैः ॥ ९५॥ (Megha 76c) नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ९६॥ (Megha 76d) मानन्दोत्थं नयनसलिलं यत्र नाऽन्यैर्निमित्तैः ॥ ९७॥ (Megha 70a) न्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात् ॥ ९८॥ (Megha 70b) न्नाप्यन्यत्र प्रणयकलहाद्विप्रयोगोपपत्तिः ॥ ९९॥ (Megha 70c) वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ १००॥ (Megha 70d) यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पाः ॥ १०१॥ (Megha 69a) हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः ॥ १०२॥ (Megha 69b) केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापाः ॥ १०३॥ (Megha 69c) न्नित्यज्योत्स्नाप्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥ १०४॥ (Megha 69d) हस्ते लीलाकमलमलके बालकुन्दानुविद्धम् ॥ १०५॥ (Megha 68a) र्नीता लोध्रप्रसवरजसा पाण्डुतामाननश्रीः ॥ १०६ ॥ (Megha 68b) चूडापाशे नवकुरबकं चारु कर्णे शिरीषम् ॥ १०७ ॥ (Megha 68c) सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ १०८ ॥ (Megha 68d) यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ॥ १०९ ॥ (Megha 71a) ज्योतिश्छायाकुसुमरचनान्युत्तमस्त्रीसहायाः ॥ ११० ॥ (Megha 71b) मासेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतम् ॥ १११ ॥ (Megha 71c) स्त्वद्गम्भीरध्वनिषु मधुरं पुष्करेष्वाहतेषु ॥ ११२ ॥ (Megha 71d) नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणाम् ॥ ११३ ॥ (Megha 73a) क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ॥ ११४ ॥ (Megha 73b) अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ॥ ११५ ॥ (Megha 73c) ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ११६ ॥ (Megha 73d) नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीः ॥ ११७ ॥ (Megha 74a) आलेख्यानां स्वजलकणिकादोषमुत्पाद्य सद्यः ॥ ११८ ॥ (Megha 74b) शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै- (Megha 74c) र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ १॥ (Megha 74d) मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिः (Megha 72a) मन्दाराणां तटवनरुहां छायया वारितोष्णाः ॥ २॥ (Megha 72b) अन्वेष्टव्यैः कनकसिकतमुष्टिनिक्षेपगूढैः (Megha 72c) सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ३॥ (Megha 72d) अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै- (Megha 77a) रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ॥ ४॥ (Megha 77b) वैभ्राजाख्यं विबुधवनितावारमुख्यासहायाः (Megha 77c) बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ५ ॥ (Megha 77d) वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं (Megha 78a) पुष्पोद्भेदं सह किसलयैर्भूषणानं विकल्पम् ॥ ६ ॥ (Megha 78b) लाक्षारागं चरणकमलन्यासयोग्यं च यस्मिन् (Megha 78c) var यस्यां एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ७ ॥ (Megha 78d) पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः (Megha 67a) शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् ॥ ८॥ (Megha 67b ) योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः (Megha 67c) प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ ९॥ (Megha 67d) मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं (Megha 79a) प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ॥ १०॥ (Megha 79b) सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै- (Megha 79c) स्तस्याऽऽरम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ११॥ (Megha 79d) तत्रागारं धनपतिगृहानुत्तरेणाऽस्मदीयं (Megha 80a) दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ॥ १२॥ (Megha 80b) यस्योद्याने कृतकतनयो वर्द्धितः कान्तया मे (Megha 80c) हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १३॥ (Megha 80d) वापी चाऽस्मिन्मरकतशिलाबद्धसोपानमार्गा (Megha 81a) हैमैः स्फीता विकचकमलैर्दीर्घवैदूर्यनालैः ॥ १४॥ (Megha 81b) तस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं (Megha 81c) नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ १५॥ (Megha 81d) तस्यास्तीरे विहिशिखरः पेशलैरिन्द्रनीलैः (Megha 82a) क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ॥ १६॥ (Megha 82b) मद्गेहिन्या प्रिय इति सखे चेतसा कातरेण (Megha 82c) प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ १७॥ (Megha 82d) तन्वी श्यामा शिखरदशना पक्कबिम्बाधरोष्ठी ॥ १८॥ (Megha 87a) मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥ १९॥ (Megha 87b) श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम् ॥ २०॥ (Megha 87c) या तत्र स्याद्युवतिविषया सृष्टिराद्येव धातुः ॥ २१॥ (Megha 87d) तां जानीयाः परिमितकथां जीवितं मे द्वितीयम् ॥ २२॥ (Megha 88a) द्दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ॥ २३॥ (Megha 88b) गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बाला ॥ २४॥ (Megha 88c) जाता मन्ये शिशिरमथितां पद्मिनीवान्यरूपा ॥ २५॥ (Megha 88d) नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां (Megha 89a) निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ॥ २६॥ (Megha 89b) हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा- (Megha 89c) दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥ २७॥ (Megha 89d) रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः (Megha 83a) प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ॥ २८॥ (Megha 83b) एकः सख्यास्तव सह मया वामपादाभिलाषी (Megha 83c) काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ २९॥ (Megha 83d) तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि- (Megha 84a) र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥ ३०॥ (Megha 84b) तालैः शिञ्जावलयसुभगैः कान्तया नर्तितो मे (Megha 84c) यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ३१॥ (Megha 84d) एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथाः (Megha 85a) द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ॥ ३२॥ (Megha 85b) क्षामच्छायं भवनमधुना मद्वियोगेन नूनं (Megha 85c) सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ३३॥ (Megha 85d) गत्वा सद्यः कलभतनुता शीघ्रसम्पातहेतोः (Megha 86a) क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ॥ ३४॥ (Megha 86b) अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं (Megha 86c) खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ३५॥ (Megha 86d) आलोके ते निपतति पुरा सा बलिव्याकुला वा (Megha 90a) मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ॥ ३७॥ (Megha 90b) पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां (Megha 90c) कच्चित्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ ३७॥ (Megha 90d) उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां (Megha 91a) मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । (Megha 91b) तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथञ्चित् (Megha 91c) भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ३९॥ (Megha 91d) शेषान्मासान् विरहदिवसस्थापितस्याऽवधेर्वा (Megha 92a) विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः (Megha 92b) सम्भोगं वा हृदयनिहितारम्भमास्वादयन्ती । (Megha 92c) प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ४१॥ (Megha 92d) सव्यापारामहनि न तथा पीडयेद्विप्रयोगः । (Megha 93a) शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ॥ ४२॥ (Megha 93b) र्मत्सन्देशैः सुखयितुमतः पश्य साध्वीं निशीथे । (Megha 93c) तामुन्निद्रामवनिशयनां सौधवातायनस्थः ॥ ४३॥ (Megha 93d) माधिक्षामां विरहशयने सन्निषण्णैकपार्श्वाम् । (Megha 94a) प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ॥ ४४॥ (Megha 94b) नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या । (Megha 94c) स्तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ ४५॥ (Megha 94d) निःश्वासेनाऽधरकिसलयक्लेशिना विक्षिपन्तीम् । (Megha 96a) शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बं (Megha 96b) मत्सम्योगः कथमुपनमेत् स्वप्नजोऽपीति निद्रा- (Megha 96c) माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ४७॥ (Megha 96d) आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा (Megha 97a) शापस्याऽन्ते विगलितशुचा तां मयोद्वेष्टनीयां (Megha 97b) स्पर्शक्लिष्टामयमितनखेनाऽसकृत्सारयन्तीं (Megha 97c) गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ ४९॥ (Megha 97d) पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा- (Megha 95a) पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव (Megha 95b) खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं (Megha 95c) साभ्रेऽह्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् ॥ ५१॥ (Megha 95d) सा सन्यस्ताभरणमबला पेलवं धारयन्ती (Megha 98a) शय्योत्सङ्गे निहितमसकृद् दुःखदुःखेन गात्रं (Megha 98b) त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं (Megha 98c) प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ५३॥ (Megha 98d) जाने सख्यास्तव मयि मनः संम्भृतस्नेहमस्मात् । (Megha 99a) दित्थम्भूतां प्रथमविरहे तामहं तर्कयामि ॥ ५४॥ (Megha 99b) वाचालं मां न खलु सुभगम्मन्यभावः करोति (Megha 99c) प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ५५॥ (Megha 99d) रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं (Megha 100a) प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ॥ ५६॥ (Megha 100b) त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या (Megha 100c) मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ५७॥ (Megha 100d) वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयैः ॥ १॥ (Megha 101a) मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ॥ २॥ (Megha 101b) सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम् ॥ ३॥ (Megha 101c) यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ४॥ (Megha 101d) तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्यात् ॥ ५॥ (Megha 102a) न्न्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ॥ ६॥ (Megha 102b) मा भूदस्याः प्रणयिनि जने स्वप्नलब्धे कथञ्चित् ॥ ७॥ (Megha 102c) सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ८॥ (Megha 102d) प्रोत्थाप्यैनां स्वजलकणिकाशीतलेनाऽनिलेन ॥ ९॥ (Megha 103a) प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ॥ १०॥ (Megha 103b) विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे ॥ ११॥ (Megha 103c) वक्तुं धीरं स्तनितवचनो मानिनीं प्रक्रमेथाः ॥ १२॥(Megha 103d) भर्तुर्मित्रं प्रियमभिदधे विद्धि मामम्बुवाहम् ॥ १३॥(Megha 104a) तत्सन्देशैर्मनसि निहितैरागतं त्वत्समीपम् ॥ १४(Megha 104b) यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानाम् ॥ १५॥ (Megha 104c) मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ १६॥ (Megha 104d) दित्याख्याते पवनतनयं मैथिलीवोन्मुखी सा ॥ १७॥ (Megha 105a) त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैव ॥ १८॥ (Megha 105b) श्रोष्यत्यस्मात्परमवहितं सौम्य सीमन्तिनीनाम् ॥ १९॥ (Megha 105c) कान्तोपान्तात्सुहृदुपगमः सङ्गमात्किञ्चिदूनः ॥ २०॥ (Megha 105d) तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुम् ॥ २१॥ (Megha 106a) ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ॥ २२॥ (Megha 106b) अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः ॥ २३॥ (Megha 106c) पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ २४॥ (Megha 106d) अङ्गेनाङ्गं तनु च तनुना गाढतप्तेन तप्तं (Megha 107a) सास्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ॥ २५॥ (Megha 107b) उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती (Megha 107c) सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ २६॥ (Megha 107d) शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात् (Megha 108a) कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ॥ २७॥ (Megha 108b) सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट- (Megha 108c) स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ २८॥ (Megha 108d) श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं (Megha 109a) वक्त्रच्छाया शशिनि शिखिनां बर्हभारेषु केशान् ॥ २९॥ (Megha 109b) मुत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् ॥ ३०॥ (Megha 109c) हन्तैकस्थं क्वचिदपि न ते चण्डि सादृर्श्यमस्ति ॥ ३१॥ (Megha 109d) त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायाम् ॥ ३२॥(Megha 110a) आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ॥ ३३॥ (Megha 110b) रस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे ॥ ३४॥ (Megha 110c) क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ३५॥ (Megha 110d) मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- (Megha 111a) र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु (Megha 111b) पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां (Megha 111c) मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ३८॥ (Megha 111d) सङ्क्षिप्येत क्षणमिव कथं दीर्घयामा त्रियामा (Megha 113a) सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । (Megha 113b) इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे (Megha 113c) गाढोष्णाभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ४१॥ (Megha 113d) भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां (Megha 112a) ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ॥ ४२॥ (Megha 112b) आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः (Megha 112c) पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४३॥ (Megha 112d) नन्वात्मानं बहु विगणयन्नात्मनैवाऽवलम्बे (Megha 114a) तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् ॥ ४४॥ (Megha 114b) कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा (Megha 114c) नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४५॥ (Megha 114d) शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ ॥ ४६॥ (Megha 115a) मासानन्यान्गमय चतुरो लोचने मीलयित्वा ॥ ४७॥ (Megha 115b) पश्चादावां विरहगुणितं तं तमात्माभिलाषं (Megha 115c) निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४८॥ (Megha 115d) भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे (Megha 116a) निद्रां गत्वा किमपि रुदती सस्वनं विप्रबुद्धा ॥ ४९॥ (Megha 116b) सान्तर्हासं कथितमसकृत्पृच्छतोऽसि त्वया मे (Megha 116c) द्र्ष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ५०॥ (Megha 116d) देतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा ॥ ५१॥ (Megha 117a) मा कौलीनादसितनयने मय्यविश्वासिनी भूः ॥ ५२॥ (Megha 117b) स्नेहानाहुः किमपि विरहे ह्रासिनस्तेऽप्यभोगा- (Megha 117c) दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ५३॥ (Megha 117d) माश्वास्यैनां प्रथमविरहे शोकदष्टं सखीं ते ॥ ५४(Megha 118a) तस्मादद्रेस्त्रिनयनवृषोत्खातकूटान्निवृत्तः ॥ ५५॥(Megha 118b) साभिज्ञानं प्रहितवचनैस्तत्र युक्तैर्ममाऽपि ॥ ५६॥ (Megha 118c) var प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेदम् ॥ ५७॥ (Megha 118d) कच्चित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे ॥ ५८॥ (Megha 119a) प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ॥ ५९॥ (Megha 119b) निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः ॥ ६०॥ (Megha 119c) प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ६१॥ (Megha 119d) एतत्कृत्वा प्रियमनुचितं प्रार्थनादात्मनो मे ॥ ६२॥ (Megha 120a) सौहर्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ॥ ६३॥ (Megha 120b) न्निष्टान्देशान्विचर जलद प्रावृषा संभृतश्रीः ॥ ६४॥ (Megha 120c) मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ ६५॥ (Megha 120d) Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : pArshvAbhyudayam Narrating the life of the 23rd Tirthankara Lord  PArshvanAtha
% File name             : pArshvAbhyudayam.itx
% itxtitle              : pArshvAbhyudayam meghadUtaveShTita kAvyaM (AchArya jinasenavirachitam)
% engtitle              : pArshvAbhyudayam
% Category              : major_works, jaina
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : AchArya Jinasena
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Narrating the life of the 23rd Tirthankara Lord  PArshvanAtha using meghadUta
% Indexextra            : (formatted)
% Latest update         : August 1, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org