परिव्राड् हृदयम्

परिव्राड् हृदयम्

मोक्षानन्दैकदेहो निखिलतनुभृतां पूर्णभाग्योदयार्कः तत्त्वज्ञानाब्धिचन्द्रः सकलनिगमवाङ्मौलिपीयूषपूर्णः । जीवब्रह्मैक्यरूपं निरतिशयसुखं काशयन्वेदवेद्यम सच्चित्सौख्यात्मभूमा जयति निजरुचा शङ्करोयस्तमीडे ॥ १॥ स्वीयं साम्यं विधत्ते गुरुरिति वचसा चेत आकृष्ययत्नात् वत्रे श्रीदासभक्तिं परमखिलमिदं ज्ञातवानस्मि सारम् । सत्यं स्पर्शो न कल्प्यो विदितमिति मया सद्गुरुर्नोपमेयः दृष्टान्तो नैव दृष्टस्त्रिभुवनजठरे सद्गुरुस्त्वप्रमेयः ॥ २॥ ज्योतिःसंस्पर्शयोगाभ्द्वति खलु यथा वर्तिरेव प्रदीपः आस्ते संलग्नचेता गुरूपदयुगले गौरवं तत्समेत्य । अज्ञानवध्वान्तनाशे प्रथित तरणिवद्राजतेयं चिदर्चिः पापं तापं च दैन्यं परिहरति नृणां स्वस्य संयोगलाभात् ॥ ३॥ आदर्शान्ते च दृश्यं सकलमपि मृषा विश्वमेतत्तथैव सच्चित्सौख्यात्मके, यघ्द्यविकृतमनिशं वीक्षते तत्स्वरूपम् । आयाते वा प्रयाते जलमुचि खमिव स्वान्तमायाविदूरः आचार्याल्लब्धबोधो भ्रम विधुरमना राजते राजते च ॥ ४॥ यत्सत्यासत्ययोगादखिल जगदिदं भासते तद्विचिन्त्य क्षीरं हंसो यथा तद्विचिनुत इति यः स्वात्मरूपं स धन्यः । दुग्धे गूढं यथोस्ते घृतमिति स यतिर्विश्वरूपे स्वमात्रः जीवन्नप्यद्वयो यो गुरुवचनकृपापाङ्गपीयूषदृष्टया ॥ ५॥ निष्कास्य स्वीयशक्त्या हृदिकृत निलयान् कामशङ्कूऊश्च भूयः सेवां कुर्वन्निरीहो विगलितमयतोहङ्कृतिः साधुवृत्तः । भक्त्या श्रुण्वन्मुमुक्षुः स्त्रवदमृतवचः श्रीगुरोर्ज्ञानदातुः बुध्द्वा मत्वा च धन्यो जगति विजयते ब्रह्मरूपः कृतार्थः ॥ ६॥ आत्मानात्मक्रमोऐयं प्रथममभिहितःस्वीयदेहे परस्मिन् देहोऐनित्यो ह्मनात्मा स्वपरवपुषि यो नित्य आत्मा स्वयं सः । स्वस्माद्गिन्नं च दृश्यं स्वपर वपुरपि ज्ञेयमात्रं जडं यत् यच्चैतन्याभियोगाव्द्यवहृतिपटुतां याति तत्स्वीयरूपम् ॥ ७॥ यन्त्रे विद्युद्यथौहं प्रवहति तनुषु स्वात्मभानं तथैतत् चिन्मात्रं नित्यिंसद्धं विगलितकलुषं देहसङ्गाद्विमुकतम् । तस्मात् सर्वेऐपि देहा व्यवहृतिपटवः सर्वसौभाग्यभाजः जीवोज्ञात्वा वृथैवं विषयमनुसरन्सर्वदुःखं प्रयातिम् ॥ ८॥ भुक्तं पीतं च सर्वं प्रभवति तनुतो भिन्नरूपं यदेवम् ननाधातुस्वरूपं तदिह मतिमता ज्ञायते देहयन्त्रम् । कर्ता यन्त्रस्य बाह्ये व्यवहरति तथा दृश्यते भिन्नेरूपः सामान्याद्वैपरीत्यं सकलमिह यतः सर्वमाश्चर्यमेतत् ॥ ९॥ यन्त्रस्यास्यात्र कर्ता विदितमिदमहो चालयत्यन्तरस्थः मत्वौहं यन्त्रमेवं वहति दिननिशं याति पुस्त्रीत्वमन्यत् । गच्छत्यायाति भांउक्ते वदति च कुरुते विस्मरन्नामरूपम् दारान्वित्तं च पुत्रं पतिमिह विषयान्कामयन्मूढ आस्ते ॥ १०॥ देहोयं यन्त्रमेवं व्यवहृति विधये दृश्यते नास्य यन्ता स्वान्योन्याध्यासतोस्मिन्सकलमपि भवे जायते कर्ममोहात् । गाढं दुःखं च भूयो विविधविषयतो वासनापि प्रवृध्दा कार्यात्तद्वासनास्यात्पुनरपि च तया कार्यमेवाथ जन्म ॥ ११॥ देहीहन्ता तदुत्थात्वतिशयममतापुत्रभार्यादिकेषु द्रव्यीन्यत्रापि भूयो बहुविधविषये दुःखदा नित्यमेव । पुस्त्वं वा स्त्रीत्वमन्ये न च भवति यत्स्तस्य वैकारिकेस्मिन देहे स्त्रीत्वं च पुंस्त्वं मनुत इति वृथा मौढयसंस्कारतोज्ञः ॥ १२॥ सवर्ं दुःखास्पदं यत्क्षणलवविरसं पूतिगन्धंं निष्कृष्टम् हन्तात्यन्तापवित्रंह्यतिशयकुहकं जातमात्रेण हेयम् । विण्मूत्रश्लेष्मपूर्णं खपरवपुरहो संविदित्वापि भूयः सौन्दर्याद्यैश्च भावैरनवरतमिदं मन्यते तोषहेतुम् ॥ १३॥ विस्मृत्यात्मस्वरूपं विषयसुखकृतनेकयत्नान्विधास्यन् स्वीयं महत्वातिहर्षं भजति न सहसा वेत्यहं वञ्चितोस्मि । वस्त्रालङ्कारतापि स्वपरवरपुरहो सुन्दरं भावयित्वा जीवोयं वञ्चितः सन्रमत इति वृथा नारके मुग्धचेताः ॥ १४॥ श‍ृङ्गारं वर्णयन्ति स्वपरवपुरमे नैव जानन्ति गर्ह्यम् मिथ्या स्त्रीवर्णनं यद्विकृतमिति न किं भाति तेषां कवीनाम् । चाराः कामस्य सर्वे कथमपि च जनान्वञ्चयन्तोऽत्र दुष्टाः माद्यन्तो मुग्धचित्ताः प्रथितमलमिदं भूषयन्ति स्ववाग्भिः ॥ १५॥ भोगेनात्यन्तसौख्यं यदि मतिरुदिता सूर्यते कामपुत्रम् विघ्नन्दृष्ट्वेप्सितार्थ तदनधिगमतः क्रोधाविर्भवेच्च । प्राप्तोर्थो नैव नश्येन्मनुत इति यदा मोह एतस्य नाम द्वारं स्याद्दुर्गतेश्च त्रयमिह गदितं वासुदेवेन साक्षात् ॥ १६॥ कामाख्यो दुष्किरातो निजधनुषि यदा मोहबाणान्नियोज्य लक्ष्मीकृत्याथ नारीं तरतनुमथवा निक्षिपत्यत्र चित्रम् । एकाविद्वापि युग्मं बत सपदि भवेन्नापि कोपो न हिंसा बाणैरन्यैश्च मृत्युर्विघटनमथवा मेलनं वृध्दिरेतैः ॥ १७॥ ज्ञात्वाध्यात्माधियोगादरय इति सुधीः काममोहादिकान्वै जित्वा हत्वा च भूयो निजनिरतिशयासङ्गशेस्त्रेण पूर्णः । पृथ्वी तस्य प्रभावाद्धरति जगदिदं यौवने यो विरक्तः पश्चात्तापादृते किं वयसि विगलिते साधनीयं च पश्चात् ॥ १८॥ आदौ मध्ये तथान्ते विषयविषमिदं मोहजं नाशबीजम् कामक्रोधाश्रितं यत्क्षणसुखविरसं पुष्पितं यौवनेन । नानापापैश्च पश्चाज्जनिमृतफलदं नारकं दुःखकृच्च यक्त्वा जीवन्समुक्तो भ्रमरहितमनाश्चिद्धनानन्दधामा ॥ १९॥ नो देहोनेन्द्रियं तन्मन इति न मतिः प्रापयत्यात्मरूपम् किं भूम्या किं च धान्यैरगणित धनतो गेहतो राज्यतोऽपि इष्टैमित्रैश्च पुत्रैः पशुभिरिह भवेतिङ्क तथा कामिन्नीभिः तत्प्राप्य । सर्व यत्नाद्गृहसुतवनिता क्षेत्र वित्तादि दूरम ॥ २०॥ विज्ञानज्ञानपूर्णः प्रवचननिपुणो नीतिधर्मप्रवीणः सर्वत्रात्मैकदृग्यः सकलनिगमवाग्भूषणः शान्तचित्तः । तीर्त्वामोऽहं निरिच्छः सकरुणहृदयः शब्दपीयूषपूर्णः यत्सान्निध्यात्प्रशान्तं मन इति च गुरुं संश्रयेद् ब्राह्मणन्तम् ॥ २१॥ यद्वद्गृधस्य दृष्टिर्नभसि विहरतोधो मृतप्राणीलग्ना तद्वद्वेदान्तवक्ता धनकणवनितालाभदृष्टिर्य आस्ते । शाब्दंस्याद्वर्णनं तद्विरति विरहितं तेन लाभो न दृष्टः शब्दैर्नस्यात्क्षुधान्तः क्षुधमिह स कथं वारयेदन्नशून्यः ॥ २२॥ नित्यानित्यप्रतीतिर्विर्षयविरमणं षट्कमेवं शमादेः मोक्तं वाञ्छातितीव्रा यदि भवति तदा सोधिकारी च मोक्षे । नित्योऽहं चित्सुखात्मा विदितमिति च यदृश्यमात्रन्त्वनित्यम् नित्यानित्यानुभूतिर्विलयति महाजन्मदुःखौघबीजम् ॥ २३॥ अस्मिंल्लोके यथास्यात्तनुकरणमनः प्राणसाध्यं तथान्ये लोके सौख्यन्न चान्यद्विषयभवमतः स्वर्गसौख्यं न वाञ्छेत् । नीचोच्यैः साधनैर्नो भवति विषयजं तारतम्यं सुखस्य लोकान्निर्वेदमायादकृतमिह न तत्स्यात्कृतेनात्र यस्मात् ॥ २४॥ इष्टापूर्ते वरिष्ठं न च भवति ततोएन्यः प्लवः श्रेय एवम् मत्वा स्वर्गाच्च कर्मीऐ पुनरपिजननं मृत्युलोके प्रयाति । गत्वा ब्रह्माणमिन्द्रो विरतियुतैतोवेत्स्वरूपं च तस्मात् धीरा ज्ञात्वामृतत्वं ध्रुवमिह न भवे प्रार्थयन्तध्रुवेषु ॥ २५॥ श्रेयो धीरो वृणीते विषयमनुसरन्प्रेय एवात्र मन्दः काम्यं दुःखैकबीजं क्षणविरसमथो जन्मदं मोहरूपम् । अस्माच्छेरयश्च भिन्नं सततमिह भवेदाददानस्य साधु श्रेयः स्वात्मैव साक्षान्निरतिशयसुखं निर्भयं ब्रह्मसंज्ञम् ॥ २६॥ दुःखान्तान्मोहरूपान्परिणतिविरसानिन्द्रियोत्थानशुद्वान आमृत्युब्रह्मलोकं शतशतगुणितानस्थिरान् कर्मजान्तान् । आनन्दान्स्वातिरिक्तान्कुहकसलिलवद्गासमानानसत्यम् त्यक्त्वा सर्वान्न्स्वपूर्णं निरवधि विमलं चिन्तयेदात्मसौख्यम् ॥ २७॥ सर्वेषां पातहेतुः प्रथममिह भवेत्कामरूपो विकारः दुष्पूरेणानलेन स्वमपनयनतो विव्हलोज्ञोति दुःखी । हन्यात्कामारिमेनं भवति खलु यतो विघ्न आत्मप्रतीतौ देहस्यैवात्र भानं दृढयति न ततो रूपशून्यात्मदृष्टिः ॥ २८॥ चित्सौख्यं स्वात्मनो यत्तदपनयनतः काम एषोति दुष्टः दौर्गत्यं देहयोनावहह सुखमिति स्वीय शक्त्वा युनक्ति । जातो यस्माद्धि पूर्वं तदभिलषति यो जायते तत्र भूयः जेतव्योध्यात्मयोगाज्जनिमृततिफलदः कामशत्रुश्च यूना ॥ २९॥ लब्ध्वैकं ब्रह्मचर्य भवतिहि सुतरां नान्यतो ब्रह्मलाभः तेनैवेन्द्रो ह्यवास स्वयमतिनिकटै ब्रह्मणस्तत्ततो वेत् । छान्दोग्येस्पष्ट मुक्तं कथित इति कामनाशाय मन्त्रेः लिन्दुंश्वेतं त्वदत्कं कथमपि न कदा माभिगां तद्यशो ह्म ॥ ३०॥ वेदे शास्त्रेषु पूर्णः कविरपि च तथा ग्रन्थकर्तापि भूयो यावन्नो कामजेता सततमपि भृणंस्तत्वमेषोति बध्दः । शास्त्रं भारोस्य जन्तोर्वहति यदि वृषःशर्करां तेन किं स्यात् स्वादं किं वेत्ति दर्वी मणियुतभुजगोन्तर्विपो भीषणोयम् ॥ ३१॥ सर्वात्मब्रह्मनित्यं महदपिमहतो सुक्ष्मरूपाच्च सूक्ष्मम् तत्त्वं विश्वस्य साक्षी स्वयमहमिति यत्संस्फूरत्सर्व देहे । खल्वेतद्ब्रह्मसर्वं निरवधिममलं नैव योषित्पुमान्यत् का नारी को नरो वा सुत इह च तथा कुत्र तत्कामजन्म ॥ ३२॥ सर्वं पूर्णं श्रुतेर्वागतनुविभवतो निर्गुणोकाय आत्मा सवीस्वेतासु भूमा तनुषुजपतियः सर्वदा सोऽहमेवम् । तस्मित्भूनिम्नस्वरूपे नर इति वनिता मन्यतेत्राविवेकात् यत्तदुःखस्यमूलं जनिमृतिकृदतो भावनां तां विजह्यात ॥ ३३॥ दृष्टवा देहं नरो वा युवतिरिति यदा भावनाज्ञानतःस्यात् देहादन्याश्चिदात्मा किल निरवधितो यः स तस्यावमानः । एको देवः प्रसिध्दः प्रतितनुषु यदा तस्य कस्यास्त्यपेक्षा जीवो ब्रह्मैव साक्षादयमिति विदिते का च नारी नरः कः ॥ ३४॥ स्वात्मन्यद्वैतरूपे निखिलजगदधिष्ठान भूते च भूम्नि स्त्रीत्वं वा पुंस्त्वमेतन्मनुत इति यदा देहतः स्वात्मघात्ः । येविद्वांसो न येषां निरवधिममलं स्वात्मरूपं विभाति ``तसूर्यानन्दलोका``नतिशयतमसा चावृतांस्तान्प्रयन्ति ॥ ३५॥ यास्मिंस्तत्स्वात्यरूपं निभृतविरतितः प्रस्फुटं स्यात्स्वदेहे न नो नारी स जीवो विधिरपि न तथा श्रूयते कर्मणास्य । संस्कारापीह न स्यात्स्वयमिह शुचितः प्रव्रजेत्स स्वमात्र चत्वारो ये कुमाराः सनकमुखकृता जातरूपाश्चरन्ति ॥ ३६॥ सन्यास्तास्त्रीषु गार्गी व्रजनमिति ततो वेदबाह्यं न तासाम् ``तान्येवं वावराणि'' श्रुतिरिह तनुते न्यास एवाति भूयान् । ``विद्वांसःप्रव्रजन्ते'' ``यदहरिह तदा प्रव्रजेद``यो विरक्तः ज्यायान्नो वा कनीयान्प्रभवति महिमा ब्राह्मणस्यैष नित्यः ॥ ३७॥ दिव्ये वा लौकिके वा किमपि न मनसश्चिन्तनं चापि सौख्ये स्वप्नेऽप्येवं जुगुप्सा वमनवदिह तद्गोग्यमात्रे च नित्यम् । भोग्ये पूर्णा विरक्तिः कृतसुकृतभराज्जन्मदुःखादनेकात् जन्मन्यस्मिंश्च जाता भवति स मतिमान्नयास एवाधिकारी ॥ ३८॥ संन्यासो नैव केचिद्विहित इति कलौ ख्यापयन्ते वृथैव संन्यासो भूमिकेयं बहुजननभवोदेति वैराग्यतश्च । यस्मात्स्वाभाविकीयकृतसुकृतफला मुक्तिसोपानमार्गे प्रारब्धं तत्तोस्मात्प्रचलति हि कलौ ``नैव शक्योपनेतुम``॥ ३९॥ दृष्टाः पूंर्व कुमाराःशुक इति च तथा शङ्करोन्ये ततोस्मात् जाता बाल्याद्विरक्ता बहव इह यतो ज्ञानविज्ञानपूर्णाः । ज्ञानं वैराग्यमेतत्समुदितमतुलं पूर्वसंस्कारयोगात् सूर्यश्चाहं मनुश्च श्रुतमिदमुदितं वामदेवेन गर्भे ॥ ४०॥ ज्ञात्वा निःसारमेवं जगदखिलमितः प्रव्रजेद्यो विवेकी बाल्येशक्यं स गच्छेद्विधिरिति स तदा ह्याश्रमादाश्रमं च । संन्यस्तो याज्ञवल्क्यः श्रुतिशिरसि यतो न्यास एवाति मुख्यः संन्यासः सर्वयत्नादधिगत यशसा साधनीयो विमुक्त्यै ॥ ४१॥ रज्जवज्ञानेन सर्पो जनित इह यथाभाति मन्दान्धकारे स्वात्माज्ञानात्तथास्याद्विविधविषयिणी वासना मन्दबुध्दौ । सच्चित्सौख्ये स्वरूपे कथमपि न यतोन्यद्गवेत्स्वप्रतीत्या बुध्द्वा सम्यक्स्वरूपं निजसुखकवलास्वादतृप्तः परिव्राट् ॥ ४२॥ केषाञ्चित्स्याद्विरक्तिः स्वयमिहविषये सञ्चितादेव बाल्ये तेषां ज्ञानं च पश्वाद्गुरुचरणकृपा पाङ्गसङ्गप्रसङ्गात् । पश्यन्तोन्यन्न किञ्चिज्जगति निजरुचा जन्मतो ज्ञानिनो ये तेषां नो गुर्वपेक्षा, निरतिशयसुखाः पूर्णतृप्ताः स्वसिध्दा ॥ ४३॥ बन्धायासक्तचित्तं विषयविरहितं स्याच्चचितं विमुक्त्यै भोगेच्छा सैव बन्धः श्रुतिशिरसि यतस्तांस्त्यजन्मोक्षभागी । इच्छाविद्यैव साक्षात्तदपनयनतो जीवभवस्य नाशः दृष्टादृश्याद्वि बध्दो भवति च सुतरां दृश्यशून्ये विमुक्तः ॥ ४४॥ त्यक्त्या द्वे नामरूपे जगत इह ततः शेषयित्वा स्वरूपम् सच्चित्सौख्याद्वयं यद्गवति स पुरुषो दृश्यशून्यो विमुक्तः । रज्जुःसर्पस्य बाधे स्वयमिह विगताशेषभावा यथास्ते तद्वत्स्यात्स्वीयरूपं व्यपगतसकलं सच्चिदानन्दमात्रम् ॥ ४५॥ त्यक्त्वा कार्यस्य दृष्टिं सकलजगदधिष्ठानभूतं स्वरूपम् ज्ञात्वा तत्सर्वसाम्याद्व्रजति च परितः काशयन्सूर्यवद्यः । नित्यानन्दः परात्मा निरवधिरमलोसङ्गरूपः परिव्राट् तस्मिन्सत्यस्य सत्ये जगदुखिलमिदं नाविंरासीन्न नश्येत् ॥ ४६॥ त्वङ्निर्मोकात्स्वशक्त्या बहिरहिरिव ये लब्धबोधा व्रजन्ति ज्ञानाद्वैराग्यमेषां भवति विरतितो ज्ञानलाभः परेषाम् । पारिव्राज्यं द्विधा स्यान्नियमितमसां ज्ञानवैराग्यपूर्वम् देहाद्गेहात्ततः स्यात्सकलमिदमहं ब्रह्ममात्रैकरूपम् ॥ ४७॥ त्यक्त्वादौ भोगवाञ्छा त्यजति स मतिमान्सर्वभेदात्मदृष्टिम् भावाभावौ ततोस्माच्चलति न सुतरां धीर्दृढा निर्विकल्पात् । नो सत्यं नाप्यसत्यं किमपि न मनुते स्वात्ममात्रोद्वितीयः सर्वस्यैतस्यचात्मा जगति विजयते सच्चिदानन्दमात्रः ॥ ४८॥ यत्रानन्दाश्च मोदाः प्रमुद इतिमुदा सर्व एते विशन्ति ब्रह्मानन्देत्र सर्वे स्वयममलपदे पूर्णकामा भवन्ति । भिन्नं नाप्यभिन्नं किमपि न च ततःकस्यवैशिष्ट्यमेषाम् स्वीये सच्चिद्घने यत्सकलमुपशमं याति किं चान्यदस्मात् ॥ ४९॥ जाल्मः कामोति दुष्टो मनुजमनुपदं बाधतेन्तर्निलीनः सोढुं शक्तोनुको नो सकृदपि मनुते भोगतोस्माद्विमोकम् । व्याधेर्नाशाय यद्वद्वयुपचरति तथा काममोहस्य तापः शाम्येद्गोगेन मत्वा बत विषयमतः पामरोयोत्र भुङ्क्ते ॥ ५०॥ कामःशाभ्येन्न भोगादितिगदितमतो बुध्दिमेति प्रयत्नात् अग्निर्यावांश्च भूयान्घृत इह पतिते कामतृध्दिस्तथा स्यात् । भोगैर्वृध्दश्चकामः पुनरपि च ततो भोग एवात्र भूयान् शाभ्येन्नैवास्य तृष्णा मृगजलत इतो नैव यत्नोऽपि शान्तः ॥ ५१॥ भुमौ यावध्दिरण्यं पशुयुवतिजना धान्यमेतत्समस्तम् क्रोडीकृत्यायथ दत्तं निखिलमपि च तन्नालमेकस्य तृप्त्यै । मत्वा चित्तस्य शान्त्यै शममतिसुखदं ह्याव्रजेद्यो विवेकी वाक्यं निर्दुष्टमेतद्वदति मनुरहोनावमन्येत जातु ॥ ५२॥ यश्वैतान्प्राप्नुयाद्वै जगति च सकलान्केवलान्यस्त्यजेत्तान् भोगानां प्रापणात्स्यान्मनुरिह मनुते त्याग एषां वरिष्ठः । यस्यात्कामस्य सौख्यं जगति यदपि तत्स्वर्गसौख्यं च दिव्यम् सौख्यं तृष्णायक्षयाद्यद्गवति न च कला षोडशी तस्य तत्स्यात् ॥ ५३॥ आस्ते मूर्तिर्यथैकात्वभिनवघटिता सर्व सौन्दर्यरूपा जाता मृत्कर्पटाद्यैर्निजकुटिलदृशा मोहयन्ती जनानाम् । निःसारा भोगलब्धौ नयनमतिहरा दूरतोतीव रम्या दुर्गन्धद्रव्यपूर्णा ह्यशुभतनुरहो तद्वदेवातिहेया ॥ ५४॥ जित्वा सर्वाणियत्नाज्जयति यदि न चेदिन्द्रियं चैकमस्मात् प्रज्ञा तेनैव साकं क्षरति निमिषतो वारि यावद्दृतेर्वेऐ । तस्मादादौ जयेत्तत्परममतियुतो यन्मनः सर्वमुख्यम् पश्चात्सर्वेन्द्रियाणि स्वयमिह हि वशे स्वानुभूत्या भवन्ति ॥ ५५॥ कण्डूं कण्डूयमानामतिशयसुखदां मन्यमानोऽपि नेच्छेत् तत्प्राप्त्यर्थं न यत्नः कुरुत इति तथा स्यान्न तद्वासनापि । तद्वज्ज्ञात्वेन्द्रियोत्थं सुखमपि न च तत्कामयेद्यो विवेकी कण्डतिग्रस्तचित्तो बत किमुतसुखी धान्य एवं कृती च ॥ ५६॥ त्यक्त्वा लौल्यं च कर्माण्युपरतित इतो भोगशून्यो विरक्तः जित्वा विघ्नानशेषानविकृतमनसा नित्यसौख्यात्मदृष्ट्या । नित्यं ब्रह्माहमेकं निजगुरुवचसा भावयित्वानुभूआत्या श्रध्दायुक्तो मुमुक्षुर्निरतिशयसुखस्वात्मतुष्टः कृती स्यात् ॥ ५७॥ यत्प्रीत्या प्रीतिपात्रं सकलमपि नृणां तद्गवेदात्मरूपम् आत्मार्थ स्त्री तथा स्यात्पतिरपि च ततो द्रव्यपुत्रादिकं यत् । स्विये देहेऽपि तद्वन्निजमनसि मतौ प्रीतिरात्मार्थमेव प्रोयान्यत्स्वात्मभानं त्वहमिति किमुत स्वात्मरूपं यदस्ति ॥ ५८॥ यावद्यस्मिन्प्रियत्वं प्रभवति खलु तत्सौख्यदं वस्तुतावत् सर्वस्मात्प्रीतिरात्मन्यधिकविषयिका श्रेष्ठसौख्यं स्वतःस्यात् । दातुं भोक्तुं स्वरूपेऐहमि न च किमपि स्वात्मनोन्यद्यतस्तत् सर्वस्माच्छेरष्ठसौख्यं स्वयमिह निखिले स्वार्चिषैवेति साक्षात् ॥ ५९॥ दृश्यं यद्बाह्यसृष्टौ विशदयति निजं मिन्नभिन्नाकृतेस्तत् पश्येश्चक्षुस्तथेदं विदितमिह भवेश्चेतसा तन्मनोऽपि । बुध्दिर्जानाति बुध्द्या चपलमन इदं वेत्ति यत्स्वेन भासा बुद्वेःसाक्षी स्वतोर्चिस्तमस इति तथाहं कृतेस्तत्वयं हि ॥ ६०॥ अन्यत्स्वस्माद्यदेवं जनितमिति च तन्नाशमभ्येति पश्चात् को वा बुध्येत्स्वनाशं जनमति च यदावेन्न तस्यास्ति नाशः । नाशो यस्मान्नमेस्य स्वजनिरपि तथा जातमेवेह नश्येत् नित्यं सश्चित्सुखैकं सकलतनुषु यद्ब्रह्म तेनाहमद्वा ॥ ६१॥ ब्रह्यैवाग्रे सदेकं सकलमिदमहोवेत्तदेवाहमेवम् स्वात्मानं तत्तोऐस्मादभवदिति यतः खल्विदं ब्रह्य तस्मात् । दीवानां वा ऋषीणां तदभवदिति यस्तन्नृणां प्रत्यबुध्यत् तद्ब्रह्मैवाहमस्मीत्यनुभवौदिते ब्रह्म सोत्र भुतेर्वाक् ॥ ६२॥ नाम्नाहं स्वात्मरूपं यदभवदिति तत्स्वीच्छया स्वीयशक्त्या सर्वास्वेतासु संस्थं त्वहमिति तनुषु स्वेन भासा स्वमात्रम् । यःकोप्यामन्त्रितःसन्नहमिति वदति स्वीयनामेति तस्मात् भूमात्मैकोएहमेवं व्यवहृति विधये भिन्नरूपैर्युतोऽपि ॥ ६३॥ सर्वेष्वेतेषु देहेष्वहमहमिति यः स्वेन रूपेण भाति प्राक्सर्वस्मात्स एकः स्वयमिह न तथान्यन्न किञ्चित्तदानीम् । एकाकी नैव रेमेऽपरमति न तथापश्यदत्रात्मनः सः वमावामेन भूत्वा स्वयमभवदयं पूरुषो दक्षिणेन ॥ ६४॥ प्रागेकाकी स भूत्वा विषयमनुसरन्काम्यमानोत्र जायाम् पुत्रं वित्तञ्च सर्वं ह्ययुपकरणमथो कर्म कुर्वंस्तदर्थम् । एका लाभेप्य कृत्स्नो मनुत इति तथा नान्यदस्माद्वरिष्ठम् क्लेशान्प्राणावशेषान्सहत इति ततो भूय एवात्र मुग्धः ॥ ६५॥ अस्मच्छब्दो यथैआव प्रचलति च तथा सर्व लिङ्गेषु युष्मत् त्वं वाहं भानतोयं सकलवपुषि यो लिङ्गशून्योद्वयः सः । नकारो ना विकारो निजनिरतिशयादात्मरूपं हि सर्वम् का नारी को नरः स्यादहह जगदिदं दुःखमूलं विमौऐढ्यात् ॥ ६६॥ साक्षी सर्वस्य भूमा सकलजगदधिष्ठानरूपोतिविश्वः सर्वास्वेतासु नित्यं ह्ययमिति तनुषु स्वीयरूपेण भाति । सर्वत्राद्वैतरूपो जनिमृतिरहितो नामरूपाद्विमुक्तः चिद्रूपः प्रत्यगात्मा प्रकृतिविकृतिभिर्नानुलिप्तस्त्वसङ्गः ॥ ६७॥ जाग्रब्दाल्याद्यवस्थास्वहमिति सततं व्येति तन्नैव यस्मात् भिन्नस्ताभ्योविकारी विलसति सकलेष्वेव देहेषु पूणर्ः ॥ बुद्वेः साक्षी स्वयं यः सद्सदिदमहो भासयान्निर्विशेषः सर्वेष्वेतेष्वयोग्निप्रतिम इह सदा स्वेन रूपेण दीप्तः ॥ ६८॥ ईशावास्यं श्रुतेर्वाग्जगदखिलमिदं नेहनानास्ति किञ्चित् मृत्योराप्नोति मृत्युं जगदखिलमिदं यस्तु नानेव पश्येत् । बह्मैवेदं वरिष्ठं भवति च सकलं विश्वमेतत्स्वयं यत् आंर्त स्याद्यत्ततोन्यच्छ्रतिगदितमिदं भेदतो भीश्चः मृत्युः ॥ ६९॥ ज्ञात्वा देवं तथेवं तरति भवमिमं मुच्यते सर्वपाशेऐः पन्था नान्योतिमृत्यं नयति यत इतो विद्यते नायनाय । ज्ञानादेवामृतत्वं भवति न पुनरावर्तते पूर्णकामः प्राणाः क्रामान्ति नैव क्वचन न गमनं तस्य यः स्याद्विमुक्तः ॥ ७०॥ भोक्तव्यं ज्ञस्य नास्ति स्वयमिहहि यतः पूर्णानन्दरूपः सर्वत्रावस्थितायं स्वयमनतिशयः कुत्र गच्छेत्किमर्थम् । अज्ञो देहात्मबुध्द्या विविध विषयतः कर्तृभोक्तृत्वमेत्य कर्माधोध्वर्ञ्च भोक्तुं जनित इति भवेध्द्यासतः स्वच्छयैव ॥ ७१॥ क्षीयन्तस्मिंश्च दृष्टे श्रुतमिहहि यतः सर्वकर्माणि चास्य कर्मप्राप्तं सुखं यत्तदपनयनतो नित्यसौख्यं हि विद्वान । नो शोको जन्मदुःखं मरणमपि तथानन्दमात्रात्मनोस्य ज्ञात्वा ब्रह्मैक्यमेत्य स्वयमिति स यतिःकेवलो निर्विकल्पः ॥ ७२॥ मत्वा सौख्यं स्वतोन्यत्तदनधिगमतो दुःखरूपौत्र जीवः ज्ञाते तत्त्वे स भूमा स्वयमितिहि सुखं नैव दुःखं सुखस्य । जतं क्षीयेतसाक्षी स्वयमिह सकलं वेत्ति यः सोविनाशी सौख्यं यत्स्वात्मनोन्यज्जनिमृतिमदहो स्वात्मसौख्यं नतावत् ॥ ७३॥ द्रष्टा दृश्याद्विभिन्नः श्रुति शिरसीयताश्चिद्घनः स्वेन भासा द्रष्टुर्दृष्टेर्न लोपो यदि भवति ततः केवले किं ततोन्यत् । यत्रान्यत्स्यात्तदल्पं निजनिरवधितो यत्र नान्यत्स भूमा द्रष्टत्वे जीव एवं जनिमृतिरहितः शाश्वतानन्द एव ॥ ७४॥ ज्ञात्वा बुध्देः परोऽहं सततमिति च तत्स्वात्मरूपं हि बुध्वा जह्यात्कामं स्वदृष्टया वदति यदुपतिः स्वात्मसौख्याय नित्यम् । निर्दोषं ब्रह्म नित्यं सममिहसकलेस्मिन्स्थितास्ते च मुक्ताः कस्मातैः प्रेत्यजीवन्निहहि जित इति श्रीपतिः सर्ग आह ॥ ७५॥ विक्षेपो नांस्ति यस्मान्मम न तत इह स्यात्समाधिः कदापि विक्षेपो वा समाधिर्मनस इति न मे निर्विकल्पोहमात्मा । नो कुर्वे कारयेऽपि स्वयमिह जगतः साक्ष्यतः स्वस्थ आसे स्वात्मानं वेद्यि यस्मादूपनिषदि मतं चावधूतेन गीतम् ॥ ७६॥ ज्ञात्वा स्वात्मानमेवं निजजनवनितावित्तपुत्रैषणायाः व्युत्थाय ब्राह्मणास्ते श्रुतिरिह तनुते भैक्षमेवाश्रयन्ते । जक्षन्क्रीडंश्च यानैर्युवतिभिरथवा न स्मरे तच्छरीरम् सर्वत्रायकायरूपं विमलसुखधनं वीक्षते ज्ञः स्वरूपम् ॥ ७७॥ देहात्मज्ञोविवेकी मनुत इह यतोध्यासतो देहदृष्टया नामाकारान्गुणान्यः पुरुष इति च वा स्त्री नं तस्यात्मदृष्टीः । यद्वन्मूढस्य भायाद्वपुरिति सततं तद्वदेवात्मदृग्यः तस्यैकं निर्विकारं निरतिशय सुखं सर्वतश्चित्स्वरूपम् ॥ ७८॥ प्राक्पश्चादस्ति कुम्भाद्गगनमिदमहोश्लिष्टमेवं पृथग्यत् कुम्भोत्पत्तावपीह व्यवहृति समये सर्वदा सर्वतश्च । सर्वत्रैवेह तद्वश्च्यलनविरहितं सर्वदा चित्सुखं यत् तिष्ठन्क्रीडंश्च गच्छन्मनुत इति सदा स्वीयरूपं परिव्राद् ॥ ७९॥ तावत्सर्वे तरङ्गा अतिशयतरला रूपतो भान्ति भिन्नाः यावन्न ज्ञातमेतत्सकलमपि जलं भेदशून्यं स्वमात्रम् । ज्ञानी पाथस्तरङ्गान्वयवदिहसदा सर्वमात्वैव पश्यन् आस्ते ब्रह्मैव भूत्वा ह्यविकृतमनिशं केवलं चित्सुखं यत् ॥ ८०॥ ज्ञात्वा सर्वेषु भूतेष्वहमिति सततं नो जुगुप्सेत विद्वान यस्मिन्सर्वांणि भूतान्यहमिहहि यदाभूत्तदा जानतोस्य । पार्थक्यं नापि तेम्यः क्वचिदपि न च तच्चिन्तन भिन्नदृष्टया स्यात्को मोहश्चशोकः श्रुतिगदितमिदं स्वीयमेकत्वदृष्टेः ॥ ८१॥ भूतस्थात्मानमेवं भ्रमरहितमनाः सर्वभूतानि विद्वान स्वात्मन्येवात्र पश्यन्बृहदिति परमं याति नान्येन जातु । कैवल्ये दत्तदृष्टीः स हि भवदिति यद्भूतमेवं भविष्यत् ज्ञात्वा भूमानमेवं सकलमिदमहं मन्यतेसौ परिव्राट् ॥ ८२॥ तद्ब्रह्मैवाहमस्मीत्यनुभव उदिते सर्वभेदप्रमोक्षः जीवन्मुक्तस्तुरीयो भ्रमरहित हृदा स्वात्मसौख्यावशिष्टः । रागद्वेषौ न कामः क्वचिदपि न तथा भेदबुद्विश्च तस्मिन् भायाद्वाप्यत्र तिष्ठेत्सकलमपि हुतं स्वात्मरूपे चिदग्नौ ॥ ८३॥ रूपं रूपं च भूत्वा सकल तनुषु यः प्राविशत्सोद्वयः स्यात् ``सुक्ते``दृष्टं च संर्व पुरुष इति ततः का च नारी नरः कः । अज्ञानी नैव जानन्विषयसुखकृते प्रेक्षते भेदभावान् ब्रह्मज्ञानी परिव्राट् विषयविरन्तितो भिन्नभावातिरिक्तः ॥ ८४॥ यस्मान्नैवा परं वापरमिति च तथास्तीह किञ्चिच्छ्रतेर्वाग् ज्यायो नागीय एवं न च भवति ततस्त्वेष रुद्रोत्रै सर्वः । श्रेष्ठःको वा कनिष्ठः पुरुष इति तथा स्त्री न कोप्यत्र भेदः एको निष्कम्प आत्मा श्रुतिमथितमहश्चित्सुखं ब्रह्मभिक्षूः ॥ ८५॥ सच्चत्यच्चाभवद्यन्नगनगरनरारामतोऽपि स्वयं तत् यद्भूतं यश्च भव्यं भवदिति सकलं नैव भिन्नं यतोस्मात् । वस्त्रे जिज्ञास्यमाने भवति किल यथा सूत्रमात्रावशेषम् कार्ये जिज्ञास्यमाने श्रुति शिरसिमतं खल्विदं ब्रह्मभिक्षुः ॥ ८६॥ एकः सन्भिद्यते यस्तनुकरणमनो धर्मजात्यादि भेदात् भ्रान्त्यैवेत्थं स एकः स्वयमिह बहुधा जायतेजायमानः । इन्द्रो मायाभिरेवं भवति निगमावाङ्नेह नानास्ति किञ्चित् दृष्टव्योत्रैक धैवत्वज इति सततन्नामतो रूपतोऽपि ॥ ८७॥ अग्रे ज्ञानं यदासीत्तदनुगतमिदं सर्वतः स्वेन भासा कार्यं तावज्जडं स्यादनुभव इति यो ज्ञानरूपः स सर्वः । कार्यं वातावज्जडं वा विदितमिह यतो ज्ञानरूपेण सर्वम् कार्यं स्यात्कारणं चित्स्वयमिह न ततो भिन्नमेतत्स्वतोस्ति ॥ ८८॥ चिद्वीदं सर्वमेवं श्रुतिषु निगदितं नानृतं तत्कदाचित् न स्याज्ज्ञानातिरिक्तं विदितमिह यतो ज्ञानमात्रं हि कार्यम् । कार्यं यज्ज्ञानरूपं चिदिति लसति तन्नाद्वितीयेत्र तिष्ठेत भिन्नत्वं वा बहुत्वं जनिमृतिरथवा भोग्यभोक्तृत्वमन्यत् ॥ ८९॥ स्वस्मिन्सर्वस्य पूर्वं सम्रुदितमहमित्येव सर्व ततस्तत् कार्यञ्चैत्यं जडं वा विदितमिह भवेज्ज्ञेयरूपं च दृश्यम् । पूर्व सर्वस्य यत्स्यात्प्रभवति सुतरां कारणं ह्यद्वयं तत् तप्त्वैकोऽहं बहुस्यां भवति च सकलं नान्यदेतत्ततोस्मात् ॥ ९०॥ शून्यं न प्रस्फुरेत्तत्वहमिति न तथाज्ञानमेवं जडं वा चैतन्यस्यैव भानं प्रविदितमिह तत्सर्वपूर्वं स्वमात्रम् । यत्स्यात्सर्वस्य पूर्वं निरतिशयसुखं स्वप्रभं केवलं सत् स्वात्मानं ब्रह्मचावेत्तदहमिति ततः सर्वमेतच्छ्रुतेर्वाक् ॥ ९१॥ ``तप्त्वा``शब्देन नासज्जडमिपि न तथा सश्चिदेवात्रं हेतुः यस्यस्याज्ज्ञानमेवं तप इति गदितं सर्वकार्यं चितःस्यात् । एकं ज्ञानं विशुध्दं समभवदिति यज्ज्ञानमेवेदमग्रे मध्याद्यन्तेषु कार्यं चिदिति तत इदं नैवमस्माद्विभिन्नम् ॥ ९२॥ यस्माज्जातं तदेवं भवित किल ततो भिन्नमीषन्न कार्यम् कार्यें स्वार्चिः स हेतुस्त्वविकृतमनिशं स्वीयशक्त्या ह्युदेति । पूर्णं तत्पूर्णमेतद्द्वयरहितमितः पूर्णमादाय पूर्णम् चिद्रूपं सर्वमेवं यदि भवति तदा निर्विकल्पं स्वयं तत् ॥ ९३॥ कस्मिन्ज्ञाते च सर्वं विदितमिह भवेहृह्म तत्स्वात्मरूपम् तज्जं तल्लीनमेवं तदनितिसकलं खल्विदं ब्रह्म तस्मात् । एकीकृत्येदमेवं विविधपरिणतं कार्यमात्रं परस्मिन् दृश्यं नीत्वात्वदृश्यं चिदिति सुखघनं पद्यते ब्रह्मभिक्षुः ॥ ९४॥ यश्चित्तस्तन्मयःस्यात्क्रतुमयपुरुषो ब्रह्ममत्वा तदेकम् क्षीरे क्षीरे यथा तज्जलमिति च जले शुध्दमासित्कनेवम् । तहृह्याप्येति विद्वान्श्रुतिरिहतनुते स्यन्द्रमानश्चः नद्यः हित्वा स्वं नामरूपे जलनिधिसलिलेस्तं प्रयान्तीह यद्वत् ॥ ९५॥ यद्वद्रज्ज्वावशिष्ठो भवति च भुजगो देशिकोक्त्या तथैतत् कार्यं ब्रह्मावशिष्ठं विविधपरिणतं सचितानन्दमात्रम् । यस्यैवं नैव कार्यं करणमपि तथा विद्यतेभूद्गविष्यत तद्ब्रह्मायं परिव्राट् निजगुरुवचसा काशते काशतेत्र ॥ ९६॥ सर्पो नैवास्ति रज्जुर्भुजग इति च सा रज्जुरत्रार्थ एकः रज्जौ सर्पस्य बाधः क्रियत इति ततस्तद्वदेवात्र भून्मि । कार्यं ब्रह्मैव वास्मिन्किमपि न च तथा ब्रह्माणि स्याद्धिकार्यम् एकोर्थो ब्रह्मचात्र स्वयमिह सततं केवलं नान्यदस्मात् ॥ ९७॥ तत्सत्यं यत्त्रिकाले निजनिरतिशयादेकरूपं स्वपूर्णम् जातं नो वा मृतं यत्क्कचिदपि न कदा नो विकारश्च यस्मिन । नित्यानन्न्दात्मकं यत्स्वयमतिविमलं ज्ञानमात्रं ह्यनन्तम् भिन्नं यस्मिन्न किञ्चिज्जनितमथ वसेश्चैकमेवाद्वयं यत् ॥ ९८॥ अग्रेऐद्वैते न चासीदसदपि न च सन्नेश्वरो वा तदानीम् नासीद्वैराजरूपं महदपि न तथा भूम्नि जीवो रजो वा । नाकाशो वायुरग्निर्जलमपि पृथिवी संसृतिर्नैव विश्वम् क्वानन्दे कस्य शर्मन्प्रलयजलमहो किं भवेदावरीवः ॥ ९९॥ नो मृत्युर्नोऐमृतत्वंं दिनमपि रजनी नो तथा सूर्यचन्द्रौ स्वे नैवानीदवान्त किमपि न च ततोन्यत्तदेकं तदासीत् । सृष्टेःपूर्व यथा तघ्द्यविकृतमधुना वर्तते तावदेवम् एतद्ब्रह्माविदित्वा कृपण इति भवेत्प्रैति यो मूढबुद्गिः ॥ १००॥ ज्ञेयं यत्तत्प्रवक्ष्याम्यहृमिति च वदत्बन्धमोक्षस्य हेतुम् सन्नौसन्नाषि तद्वद्वदति यदुपतिर्ब्रह्म चानादि मद्यत । नाशौ नैवाव्ययस्य क्वचन भवति वा कोऽपि कर्तुं समर्थः स्वाधारं नोपजीव्यं विदलयति यतः काशते काशतेत्र ॥ १०१॥ अद्वैते कार्यमेतन्मनुत इति यदाध्यस्यते भ्रान्तिरेषा मिथ्या भ्रान्तेस्तदानीं ह्यविकृतमनिशं स्यादधिष्ठानमेकम् । ब्रह्मादौ मध्यतोन्ते भवति यत इदं ब्रह्ममात्रं हि कार्यम् नाधिष्ठानात्कदापि क्वचिदपि च भवेद्गिन्नतातारोपितस्य ॥ १०२॥ नाभावः स्यात्सतो यत्सहज इति ग ततोभाव एवासतःस्यात् नादित्येस्त्यन्धकारोसदपि सति तथा वर्तते नो कदाचित् । कुर्यादद्वैतबुध्दिं द्वयमिह न यतो वेदवाक्यं हिताय खल्वेतद्ब्रह्म सर्वं तदिहमहमिति ब्रह्म विन्दते विद्वान ॥ १०३॥ ज्ञाते सत्येऽपिधत्ते जगदिति तदधिष्ठानभूवेत्र भूम्नि रौप्यं शुक्तौ यथा स्याज्जगदिति न ततः खल्विदं ब्रह्म सर्वम् । यद्यद्वीक्षेत विद्वान्निजनिरतिशयात्स्वीयरूपं प्रपश्येत् चित्सौख्यात्मस्वरूपे सकल जगदिदं नास्ति नासीद्गवेन्नो ॥ १०४॥ स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तः आजीव स्वर्णगर्भं श्रुतय इति जगुर्हूयते च प्रबोधे । बन्धो मोक्षश्च माया जगदिदमखिलं चापि जीवेशभेदः रज्ज्वज्ञाने यथाहि स्तदुपरि न तथा रज्जुबोधे च तिष्ठत् ॥ १०५॥ पश्यन्पूर्णात्मरूपं सकलजगदिदं शोक मोहाद्यतीतः शुध्दं ब्रह्माध्यगच्छन्निजनिरतिशयात्पूर्णकामः परिव्राट् । विस्मृत्य स्थूलसूक्ष्मे निखिलमपि च तत्स्वावृतेः कार्यभूतम् जीवन्मुक्तस्तुरीयं पदमधिगतवान् शान्तमद्वैतरूपम् ॥ १०६॥ सर्वत्रानन्दरूपं प्रसृतमिह सदा निस्तरङ्गाब्धिवद्यत् सत्तामात्रस्वरूपं चिदमलविभवं सर्वदेवैकरूपम् । सर्वेनन्दन्तु जीवा अधिगतयशसा स्वीयसच्चित्सुखाब्धौ पूर्णानन्दाः स्म एवेत्यविरतमधुना सन्तु शान्ताच्च तृप्ताः ॥ १०७॥ सर्वानर्थातिदूरं श्रुतिशिरसि मतं मङ्गलं मङ्गलानाम् सर्वत्राद्वैतरूपं सकल जगदधिष्ठानभूतं वरेण्यम् । स्मर्त्रे स्वैक्यं वितन्वन्निरवधिविमल सर्वसौभाग्यरूपम् मायाविद्यादिहीनं सुखघनमनिशं ब्रह्म तत्सर्वदाहम् ॥ १०८॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता ॥ ॥ श्री श्रीधरस्वामिना विरचितं परिव्राड् हृदयं सम्पूर्णम् ॥ parivrAj parivrAT (mahAbhArata, Apastambha dharmasUtra) m. a wandering mendicant, ascetic of the fourth and last religious order (who has renounced the world).
% Text title            : Parivrad Hridayam
% File name             : parivrADahRRidayam.itx
% itxtitle              : parivrAD hRRidayam (shrIdharasvAmIvirachitam)
% engtitle              : parivrAD hRRidayam
% Category              : major_works, shataka, upadesha, shrIdharasvAmI, hRidaya
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Shridharaswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org