विद्वदुपाध्यायविरचितः तारिणीपारिजातः

विद्वदुपाध्यायविरचितः तारिणीपारिजातः

अथ तारिणीपारिजातः । ॐ नमो गणेशाय । सम्प्रदायाध्वना तन्त्रवचनानि विचिन्वता । शिष्टसाधकतुष्ट्यर्थं लिख्यते तारिणीक्रमः ॥

प्रातःकृत्यम्

तत्र साधकेन्द्रो ब्राह्मे मुहूर्त्ते उत्थाय मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं तेजोदण्डनिभया मूलविद्यया प्रकाशितायां शिरस्सहस्रदलकमलकर्णिकायां नीलाम्बरं नीलमाल्यानुलेपनं शङ्खाभरणभूषितं मुदितं द्विनेत्रं द्विभुजं [वराभयकरं शुभ्रं] शान्तं वामाङ्कपीठस्थितया वामहस्तघृतनीललीलाकमलया नीलवर्णया नीलवस्त्रमाल्यानुलेपनया शक्त्या दक्षकरेणालिङ्गितं गुरुं स्मृत्वा प्रणमेत् । ततः स्वीयहृत्पद्माष्टदलकमलकर्णिकायां खर्वमूर्त्तिं नीलवर्णां वर्तुलारक्तविशालनेत्रत्रयां पञ्चमुद्रालाञ्छितां वामाधःकरमारभ्य वामोर्ध्वकरपर्यन्तं कपालकर्तृकाखङ्गेन्दीवरहस्तां व्यालबद्धजटाजूटां व्यालभूषणां नवयौवनां पीनोन्नतपयोधरां मदाघूर्णितलोचनां देवीं सञ्चिन्त्य वीरहंसमहाविद्यासङ्कल्पं कुर्यात् । ओँ अद्येहाराध्यदेवताप्रसादकामो यथाविभागं हंसमहाविद्याजपार्पणमहं करिष्य इति सङ्कल्प्य हंस इति मन्त्रेण प्राणायामत्रयं कृत्वा, शिरसि अस्य श्रीहंसमहाविद्याया हंसाय ऋषये नमः, मुखे अव्यक्तगायत्रीछन्दसे नमः, हृदि श्रीपरमहंसाय देवतायै नमः, गुह्ये हं बीजाय नमः, पादयोः सः शक्तये नमः, सर्वाङ्गे सोऽहं कीलकाय नमः, कण्ठे उदात्ताय स्वराय नमः, मम मोक्षार्थे विनियोग इति कृताञ्जलिरुक्त्वा ह्साँ सूर्यात्मने हृदयाय नमः, ह्सीँ सोमात्मने शिरसे स्वाहा, ह्सूँ निरञ्जनात्मने शिखायै वषट्, ह्सैँ निराभासात्मने कवचाय हूँ, ह्सौँ अव्यक्तात्मने नेत्रत्रयाय वौषट्, ह्सः अनन्तात्मने अस्त्राय फट् इति मन्त्रान् अङ्गुष्ठादितलान्तं करयोर्हृदयाद्यस्त्रान्तं षडङ्गेषु च विन्यस्य ध्यायेत् । द्यां मूर्धानं यस्य विप्रा वदन्ति खं वै नाभिं चन्द्रसूर्यौ च नेत्रे । दिग्भिः श्रोत्रे यस्य पादौ क्षितिश्च ध्यातव्योऽसौ सर्वभूतान्तरात्मा ॥ एवं ध्यात्वाऽहोरात्रेण कृतं जपं समर्पयेत् । तद्यथा - गुदमेढ्रयोरन्तराले स्वर्णवर्णं चतुर्दलं वादिवर्णचतुष्टयलाञ्छितं मूलाधारचक्रं विचिन्त्य तस्मिन् सिद्धिगणेशौ विभाव्य तस्मै सशक्तिकाय गणेशाय षट्शतसङ्ख्याकमजपाजपं समर्पयामि नमः । ततो लिङ्गमूले विद्युद्वर्णं षड्दलं बादिषड्वर्णलाञ्छितं स्वाधिष्ठानचक्रं विचिन्त्य तस्मिन् सावित्रीब्रह्माणौ विभाव्य सशक्तिकाय तस्मै ब्रह्मणे षट्सहस्रसङ्ख्याकमजपाजपं समर्पयामि नमः । ततो नाभिस्थाने मेघवर्णं दशदलं डादिदशवर्णलाञ्छितं मणिपूरचक्रं विचिन्त्य तस्मिन् लक्ष्मीनारायणौ विभाव्य सशक्तिकाय तस्मै नारायणाय षट्सहस्रसङ्ख्याकमजपाजपं समर्पयामि नमः । ततो हृदये विद्रुमवर्णं द्वादशदलं कादिद्वादशवर्णलाच्छितमनाहतचक्रं विचिन्त्य तस्मिन्नुमामहेश्वरौ विभाव्य सशक्तिकाय तस्मै महेश्वराय षट्सहस्रसङ्ख्याकमजपाजपं समर्पयामि नमः । ततस्तालुमूले धूम्रवर्णं षोडशदलमकारादिषोडशस्वरलाञ्छितं विशुद्धिचक्रं विचिन्त्य तस्मिन् प्राणशक्तिजीवात्मानौ विभाव्य सशक्तिकाय तस्मै जीवात्मने सहस्रसङ्ख्याकमजपाजपं समर्पयामि नमः । ततो भ्रूमध्ये चन्द्रवर्णं द्विदलं हक्ष इति वर्णद्वयलाञ्छितमाज्ञाचक्रं विचिन्त्य तस्मिन् परापरमात्मानौ विभाव्य सशक्तिकाय तस्मै परमात्मने सहस्रसङ्ख्याकमजपाजपं समर्पयामि नमः । ततो ब्रह्मरन्ध्रे हिमवर्णं नित्यामृतमयमातृकासङ्घलाञ्छितं सहस्रदलं कमलं विचिन्त्य तस्मिन् नीलात्मकं गुरुं विभाव्य तस्मै गुरवे सहस्रसङ्ख्याकमजपाजपं समर्पयामि नमः । इत्यर्पयेत् । अजपाजपार्पणप्रयोगा एते मानसा बोध्याः । ततः शय्यात उत्थाय, ओँ समुद्रमेखले देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तेऽस्तु पादस्पर्शं क्षमस्व मे ॥ इति पृथिवीं सप्रणामं प्रार्थयित्वा दक्षिणपादपुरस्सरमात्मश्वासानुसारेण बहिर्गत्वा देहशौचं विधाय दन्तकाष्टं ``क्लीँ कामदेवाय सर्वजनप्रियाय नमः'' इत्यभिमन्त्र्य तेन दन्तान् विशोध्य तदनर्हदिनेऽष्टादशगण्डूषाननुकल्पं कृत्वा मूलेन मुखं प्रक्षाल्य तेनैवाचम्य भस्मस्नानं कुर्यात् । ``ऐँ क्लीँ श्रीँ हसखफ्रेँ हसक्षमलवरयूँ आनन्दभैरव हसखफ्रेँ अमुकानन्दनाथश्रीपादुकाममुकाम्बाश्रीपादुकां स्मरामि'' इति गुरुमन्त्रं दशकृत्वस्त्रिर्वा प्रजप्य श्रीगुरोर्दक्षिणे करे समर्पयेत् । ततो मूलमष्टोत्तरसहस्रमष्टोत्तरशतं वा जपित्वा देव्या वामहस्ते तथैव समर्पयेत् । [प्रातः कृत्यमकृत्वा तु यो देवीं भक्तितोऽर्चयेत् । पूजा च विफला तस्य शौचहीना यथा क्रिया ॥ इति रुद्रयामलवचनात्तस्यावश्यकत्वम् । भक्तितोऽर्चयेत्, भक्तितोऽप्यर्चयेदित्यर्थः । ] इति प्रातःकृत्यम् ॥

अथ स्नानं

तच्च त्रिविधमौदकमान्त्रमानसभेदात् । तत्रादौ प्रधानत्वादौदकं स्नानं निरूप्यते । लौहँ दारुजं वा शङ्कुमस्त्रमन्त्रेण सम्मन्त्र्य तेन शुद्धां मृदमुत्खायास्त्रमन्त्रेणाभिमन्त्रितान् मृत्तिलकुशान् गृहीत्वा जलाशयं गच्छेत् । अस्त्रमन्त्रः फट्कारमात्रमिति सम्प्रदायः । उपास्यमन्त्रस्याङ्गन्यासीयास्त्रमन्त्र इति नव्याः । एवं शिखामन्त्रादावपि स्वगुरु सम्प्रदायात् परिच्छेदः । ततो हिरण्यरजतात्मककुशं [तर्जन्यां रजतात्मकमनामिकायां हिरण्यात्मकं कुलकुशं] धृत्वा मलापकर्षस्नानं वैदिकस्नानं च विधाय तान्त्रिकस्नानमारभेत । अस्त्रमन्त्रेण मृदभिषिच्य शिखामन्त्रेण संशोध्य मूलमन्त्रेण तां मन्त्रयित्वा तया मूर्धादिपादपर्यन्तं विलिप्य प्रक्षाल्य सम्मुखीकरणमुद्रया प्राणमार्गं निरुध्य निमज्य तूष्णीमुत्थाय नाभिमात्रे जले स्थित्वा मूलेन प्राणायामत्रयं कृत्वा षडङ्गानि विन्यस्य स्वाग्रतो जले हस्तमात्रं चतुरस्रं मण्डलं कल्पयित्वा तत्र मूलं जपन् कनिष्ठया दक्षिणावर्त्तक्रमेण स्वाग्रत्रिकोणं लिखेत् । तत ओँ अद्येहामुकगोत्रोऽमुकशर्मा श्रीमदुग्रतारार्चनयोग्यतासिद्धये प्रातःस्नानं मध्याह्नस्नानं वाहं करिष्य इति सङ्कल्प्य रविमण्डलमुदीक्ष्य - ओँ ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे । तेन सत्येन देवेश तीर्थं देहि दिवाकर ॥ इति सूर्यं सम्प्रार्थ्य ``ओँ घृणिः सूर्य आदित्यः'' इति सूर्यमन्त्रेणाङ्कुशमुद्रया सूर्यमण्डलं भित्वा सूर्यबिम्बान्निस्सरन्ति तीर्थानि ``ओँ गङ्गे च यमुने'' इत्यादिमन्त्रेणावाह्य मूलमन्त्रेण कल्पिततीर्थमण्डले संयोज्य तत्रैव - सर्वानन्दमयीमशेषदुरितध्वंसां मृगाङ्कप्रभां त्र्यक्षां चोर्ध्वकरद्वयेन दधतीं पाशं श‍ृणिं च क्रमात् । दोर्भ्यां चामृतहेमपूर्णकलशं मुक्ताक्षमालाम्बरां गङ्गासिन्धुसरिद्वरादिसहितां श्रीतोर्थशक्तिं भजे ॥ इति तीर्थशक्तिं ध्यात्वा ``ह्राँ ह्रीँ ह्रूँ ह्रैँ ह्रौँ ह्रः सर्वानन्दमये तीर्थशक्ते एह्येहि स्वाहा'' इति तीर्थशक्तिमन्त्रेण जलोपचारैस्तत्र मण्डले तीर्थशक्तिं सम्पूज्य गङ्गामन्त्रेण तत्तीर्थजलं सप्तकृत्वोऽभिमन्त्रयेत् । गङ्गामन्त्रस्तु ``ओँ नमो भगवति अम्बे अम्बिके अम्बालिके महामालिनि एह्येहि भगवति अशेषतीर्थालवाले ह्रीँ श्रीँ शिवजटाधिरूढे गङ्गे गङ्गाम्बिके स्वाहा'' इति । ततः ``ह्रीँ'' इति बीजेन तज्जलं समालोड्य ``वं'' इति बीजेन धेनुमुद्रयाऽमृतीकृत्य ``हूँ'' इति कवचेनावगुण्ठ्य ``फट्'' इत्यस्त्रेण चक्रमुद्रया संरक्ष्य मूलेनैकादशकृत्वोऽभिमन्त्र्य तत्र साङ्गां सावरणां देवतामावाह्य जलोपचारैः सम्पूज्य तीर्थजलं देवतापदद्वयनिर्गतं विभाव्य तत्र त्रिर्न्निमज्योन्मज्य मूलेन त्रिराचम्य मूलेनैवात्मानं त्रिः सम्प्रोक्ष्य कुम्भमुद्रां बध्वा तद्वर्तिजलेन मूलं जपन् स्वशिरस्त्रिरभिषिच्य ``आत्मतत्त्वेन स्थूलदेहं शोधयामि स्वाहा'' , ``विद्यातत्त्वेन सूक्ष्मदेहं शोधयामि स्वाहा'' , ``शिवतत्त्वेन परदेहं शोधयामि स्वाहा'' इति प्रतिमन्त्रमेकैकचुलुकपानं कृत्वा ``मूलान्ते श्रीतारिणीं तर्पयामि स्वाहा'' इति देव्या मुखकमले परमामृतधिया त्रिः सन्तर्प्य ``मूलान्ते श्रीतारिणीपरिवाराँस्तर्पयामि स्वाहा'' इति सकृत् सन्तर्पयेत् । इत्यौदकस्नानविधिः ॥

अथ मन्त्रस्नानं

एतच्च स्नानाक्षमे तोयाभावेऽसह्यशीतदेशे बन्धने पलायने रोगेऽपि वा कार्यम् । [अस्नातभोजित्वप्रयुक्तपापवारणाय न पुनरौदकस्नानसम्भवेऽपि । किञ्चिदवशिष्टायां रात्रौ उत्थाय हस्तौ पादौ प्रक्षाल्य आचम्य आसन स्थाने दशदिक्षु च जलविप्लुषो निक्षिप्य आसने उपविशेत् । ततः करयोरस्त्रमन्त्रं विन्यस्य उपास्यविद्याया ऋष्यादिन्यासपूर्वकं न्यासजालं कुर्यादिति । मन्त्रस्नानं न्यासरूपमेवेति । केचित्वौदकस्नानासम्भवे गुल्फाधःपादौ प्रक्षाल्य मणिबन्धादधोहस्तौ प्रक्षाल्य मुखमण्डलं च प्रक्षालयेत् । एवं कृते तन्त्रारूढं पञ्चाङ्गं स्नानं भवति, देहस्य कर्माधिकारसम्पादनायेत्यपि वदन्ति । ]

अथ मानसस्नानम् ।

मूलमन्त्रेण प्राणायामत्रयं कुर्वन् मूलमन्त्रतेज एव स्वदेहान्तर्बहिर्भावेन व्याप्तं विभावयेदेवं मानसस्नानम् । [अथ नारदोक्तध्यानस्नानम् । स्वोपास्यदेवतामाकाशमण्डले ध्यात्वा तत्पादपङ्कजान्निर्गतदिव्यया जलधारया ब्रह्मरन्ध्रमार्गेण प्रविष्टया प्रक्षालनाच्च देहं निष्कलुषं भावयेदिति ध्यानस्नानम् । ] अस्यास्तु विद्याया महाचीनक्रमेणोपास्यत्वादत्र मानसमेव स्नानं प्रधानम् । ततो जलादुत्तीर्य [शुक्ले रक्ते वा शुद्धे अनाहते] वाससी परिधाय रक्तचन्दनेन गोपीचन्दनेन वा तिलकं कुर्यात् । तच्च ``ह्रः'' इति बीजं परैरलक्ष्यं ललाटे कृत्वा [भ्रूमध्ये ``हूँ'' इति] ``ह्रीँ स्त्रीँ ह्रीँ'' इति मायासम्पुटितं तारिणीबीजं वक्षसि लिखेत् ।

अथ सन्ध्यावन्दनं

ततो मूलेन त्रिराचम्य प्राङ्मुख उपविश्य स्वशाखोक्तस्मार्त्तसन्ध्यां कृत्वा तान्त्रिकीं सन्ध्यां कुर्यात् । यथा - ``ओँ मणिधरि वज्रिणि रक्ष रक्ष हूँ फट् स्वाहा'' इति शिखां बद्ध्वा मूलेन पुनस्त्रिराचम्य षडङ्गानि विन्यस्य पुरःस्थं जलं ``वं'' इति धेनुमुद्रयामृतीकृत्य तज्जलं दक्षहस्तेनादाय वामहस्ते कृत्वा दक्षहस्तेनाच्छाद्य ``हं यं वं लं रं'' इति शिववायुजलपृथिव्यग्निमन्त्रैस्त्रिरभिमन्त्र्य वामहस्ताङ्गुलिविवरगलितोदक- बिन्दुभिस्तत्त्वमुद्रयाऽनामिकायुक्ताङ्गुष्ठात्मिकया सप्तकृत्वः स्वशिरोऽभिषिच्यावशिष्टं जलं दक्षहस्ते कृत्वा वामनासासमीपं नीत्वा तेजोरूपं तज्जलमन्तःप्रविश्य देहान्तर्गतं कलुषं प्रक्षाल्य कृष्णवर्णीभूय दक्षनासापुटान्निर्गतं विभाव्य पुरःकल्पितवज्रशिलायां ``ह्रः अस्त्राय फट्'' इति मन्त्रेणास्फालयेदित्यवमर्पणं कृत्वा ``ह्राँ ह्रीँ ह्रूँ हंसः सूर्यमण्डलस्थायै तारायै नमः'' इति मन्त्रेण सूर्याभिमुखं जलाञ्जलिं दत्वा तिष्ठन्नेव ``महोग्रायै विद्महे तारायै धीमहि । तन्नो देवी धियो यो नः प्रचोदयात्'' , ``ऐँ एकजटायै विद्महे स्त्रीँ नीलसरस्वत्यै धीमहि । ह्रीँ तन्नस्तारे प्रचोदयात्'' इति वा मन्त्रगायत्रीं दशवारमष्टबारं त्रिवारं वा जपित्वा ``ओँ गुह्यातिगुह्यगोप्त्री त्वम्'' इत्यादिमन्त्रेण देव्या वामहस्ते जलदानेन जपं समर्पयेदिति तान्त्रिकसन्ध्याविधिः । गायत्रीध्यानं तु - उद्यदादित्यसङ्काशां पुस्तकाढ्यकरां स्मरेत् । कृष्णाजिनधरां ब्राह्मीं ध्यायेत्तारकिताम्बरे ॥ तारकिताम्बरे प्रातःकाले । श्यामवर्णां चतुर्बाहुं शङ्खचक्रलसत्कराम् । गदापद्मधरां देवीं सूर्यबिम्बकृताश्रयाम् ॥ इति मध्याह्ने । सायाह्ने वरदां देवीं गायत्रीं संस्मरेद् बुधः । शुक्लां शुक्लाम्बरधरां वृषासनकृताश्रयाम् ॥ त्रिनेत्रां वरदं पाशं शूलं च नृकरोटिकाम् । इति । वरदादिचतुरायुधानि हस्तैर्दधानामिति शेषः ।

अथ तर्पणं

प्राङ्मुखः सन् ``ओँ देवाँस्तर्पयामि स्वाहा, ओँ ऋषीँस्तर्पयामि स्वाहा, ओँ पितॄँस्तर्पयामि स्वाहा'' इति सन्तर्प्य जले यन्त्रं विचिन्त्य तत्र सावरणां देवीमावाह्य उदङ्मुखो भूत्वा वायव्यादीशानान्तं पङ्क्तिरूपेण स्थितान् गुरून् स्मृत्वा दिव्यौघसिद्धौघमानवौघान् सन्तर्प्य गुरुं परमगुरुं परापरगुरुं परमेष्ठिगुरुं च तर्पयेत् । तत उदङ्मुख एव ताम्रादिपात्रे तीर्थजलं तिलपिष्टं क्षीरमक्षताँश्च निक्षिप्य ``मूलान्ते श्रीतारिणीं तर्पयामि स्वाहा'' इति देव्या मुखकमले परमामृतधियाष्टोत्तरशतसङ्ख्याकं तर्पणं कृत्वाऽशक्तश्चेत्तदर्धं तदर्धं दशकृत्वस्त्रिर्वा तर्पणं विधाय, ह्राँ एकजरायै हृदयाय नमो हृदयदेवतां तर्पयामि स्वाहा । ह्रीँ तारिण्यै शिरसे स्वाहा शिरोदेवतां तर्पयामि स्वाहा । ह्रूँ वज्रोदके शिखायै वषट् शिखादेवतां तर्पयामि स्वाहा । ह्रैँ उग्रजटे कवचाय हूँ कवचदेवतां तर्पयामि स्वाहा । ह्रौँ महाप्रतिसरे नेत्रत्रयाय वौषट् नेत्रदेवतां तर्पयामि स्वाहा । ह्रः पिङ्गौग्रैकजटे अस्त्राय फट् अस्त्रदेवतां तर्पयामि स्वाहा । इत्यङ्गदेवताः सकृत्सकृत् सन्तर्प्य प्रणवादिभिर्द्वितीयान्तं तर्पयामिस्वाहान्तैरावरणदेवतानामभिः सकृत्सकृत् सन्तर्पयेत् । अङ्गावरणेषु विस्ताराऽशक्तौ ``मूलान्ते श्रीतारिणीपरिवाराँस्तर्पयामि स्वाहा'' इति सकृदेव तर्पयेत् । अत्यन्ताशक्तस्तु ``मूलान्ते साङ्गां सपरिवारां सवाहनां सायुधां श्रीतारिणीं तर्पयामि स्वाहा'' इति देवतामेव सकृत्तर्पयेत् । इति तर्पणविधिः ॥ ततस्ताम्रादिपात्रे तीर्थोदकरक्तचन्दनरक्तपुष्पाक्षतान्निक्षिप्य तिष्ठन्नेव ``ह्रीँ हंसः मार्त्तण्डभैरवाय प्रकाशशक्तिसहितायेदमर्घ्यं स्वाहा'' इति सूर्याभिमुखं त्रिः प्रक्षिपेदिति सूर्यार्घ्यं दत्वा, ताम्रपात्रे तीर्थजलादि निक्षिप्य कुशैराच्छाद्य ``मूलान्ते उद्यदादित्यमण्डलवर्त्तिन्यै शिवचैतन्यमय्यै श्रीमदुग्रतारायै स्वाहा'' इति सूर्याभिमुखं सकृद् निक्षिपेदित्यर्घविधिं कृत्वा तीर्थानि सूर्यमण्डले विसृज्य देवतां स्वहृदि विसृज्य सूर्यं दिक्पतीँश्च प्रणम्य पूजासाधनजलपूर्णपात्रं गृहीत्वा देवतानामानि कीर्तयन् स्वपादाग्रमात्रदृष्टिर्गृहं गच्छेत् ॥

अथ पूजा

[सा च यद्यपि (१) अभिगमनम्, (२) उपादानम्, (३) इज्या, (४) अध्यायः, (५) योग इति पञ्चधा, देवतागृहस्य मार्जनलेपनादिसंस्कारोऽभिगमनम्, देवपूजासाधनानां गन्धपुष्पादीनां सङ्ग्रह उपादानम्, शास्त्रोक्तमार्गेण देवताया पीठपूजापूर्वकं साङ्गसावरणपूजनं मन्त्रार्थभावनापूर्वकं मन्त्रजपश्चेज्या, देवपूजाप्रतिपादकशास्त्रस्य शाब्द आर्थो वाभ्यासोऽध्यायः, गुरुदेवतात्मनामेकत्वेन भावना योग इति भेदात् । तथापि सर्वसङ्ग्राहकत्वेनातिविस्तृततया इज्या तावन्निरूप्यते । ] तत्र - आत्म-स्थान-मनु-द्रव्य-देवशुद्धिस्तु पञ्चमी । यावन्न क्रियते देवि तावद्देवार्चनं नहि ॥ इति कुलार्णववचनात् पूजायां पञ्चशुद्धेरावश्यकत्वेन पूर्वं स्थानशुद्धिं कुर्यात् । सा च सम्मार्जनोपलेपाभ्यां दर्पणोदरवत् कृत्वा विचित्रेण वितानेन ध्वजेन चालङ्कृत्य पञ्चवर्णरजोभी रेखाकरणेन कोष्ठपूरणेन च भवति । तत्र स्थाने साधकोऽन्तर्गतचित्तवृत्तिर्मूलं जपन् प्रविश्य ``ओँ वज्रोदके हूँ फट् स्वाहा'' इति मन्त्रेण पूजासाधनस्थूलजलपात्रं स्ववामभागे स्थापयेत् । ततः [पात्रान्तरेण जलमादाय] ``ओँ ह्रीँ स्वाहा'' इति मन्त्रेण पादौ प्रक्षाल्य ``ओँ ह्रीँ सुविशुद्धगात्रि सर्वपापानि शमयाशेषविकल्पमपनय हूँ फट् स्वाहा स्वाहा'' इति द्विराचम्य ``ओँ मणिधरि वज्रिणि शिखरिणि सर्ववशङ्करि हूँ फट् स्वाहा'' इति मन्त्रेण शिखां बध्नीयात् ।

अथ ताराचमनम्

एतदनन्तरं ताराचमनमुक्तं भैरवतन्त्रे - ताराभेदैस्त्रिभिः पीत्वा मायया क्षालयेत् करम् । स्त्रीँ हूँ ओष्ठौ द्विरुन्सृज्य फट्कारैः क्षालयेत् करौ ॥ आस्यनासेक्षणश्रोत्रनाभिवक्षःशिरोभुजान् । वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते ॥ आचम्य भैरवो भूत्वा वत्सरात्तां प्रपश्यति । इति । ``ओँ ह्रीँ स्त्रीँ हूँ फट् तारायै स्वाहा, ह्रीँ स्त्रीँ हूँ फट् एकजटायै स्वाहा, ह्रीँ स्त्रीँ हूँ नीलायै स्वाहा'' इति प्रतिमन्त्रमेकैकमाचमनं कृत्वा ``हीँ'' इति करं प्रक्षाल्य ``स्त्रीँ हूँ'' इति क्रमेण दक्षवामभागयोरोष्ठावुन्मृज्य फट् फट् फट् इति पुनः करौ प्रक्षालयेत् । ततो मुखे ओँ वैरोचनाय नमः, दक्षनासायां ओँ असिताभाय नमः, वामनासायां ओँ शङ्खनाभाय नमः (शङ्खपाण्डराय नमो वा), दक्षनेत्रे ओँ पद्मनाभाय नमः, वामनेत्रे ओँ मामकाय नमः, दक्षश्रोत्रे ओँ नामकाय नमः, वामश्रोत्रे ओँ तारकाय नमः, नाभौ ओँ पाण्डराय नमः, वक्षसि ओँ पद्मान्तकाय नमः, शिरसि ओँ यमान्तकाय नमः, दक्षभुजे ओँ विघ्नान्तकाय नमः, वामभुजे ओँ नरकान्तकाय नमः । अत्र मुखे नासिकयोश्च अङ्गुष्ठतर्जनीभ्यां, दृशोः श्रोत्रयोश्च अङ्गुष्ठानामिकाभ्याम्, नाभावङ्गुष्ठकनिष्ठाभ्याम्, वक्षसि शिरसि भुजयोश्च मध्यमाभिस्तिसृभिरङ्गुलिभिः स्पर्शः कार्यः । इति ताराचमनप्रयोगः ॥

अथ सामान्यार्घस्थापनम्

ततः पूजास्थानं वहिश्चेत् पूजावेद्याश्चतुर्हस्तान्तरे तिष्ठन् गृहे चेद् द्वारदेशे तिष्ठन् श्रीगुरुमिष्टदेवतामिन्द्रादीँश्च प्रणम्य तद्दिने दिनान्तरे वार्जितं कृतप्रायश्चित्तैरप्यनपगतं पापं स्वात्मन्यवशिष्टं धिया विमृश्य तदपनोदाय श्लोकद्वयं पठेत् । देवि त्वत्पदगं चित्तं पापाक्रान्तमभून्मम । तन्निःसारय चित्तान्मे पापं फट् फट् फट् ते नमः ॥ सूर्यः सोमो यमः कालो महाभूतानि पञ्च च । एते शुभाशुभस्येह कर्मणो नव साक्षिणः ॥ इति पठित्वा ``हूँ फट्'' इति मन्त्रं जपन् क्रोधदृष्ट्या स्वस्य पार्श्वद्वयमूर्ध्वमधश्च विलोक्य स्वान्तर्देहगतानि दृढपापानि निर्गतानि विभाव्य सुमना भूत्वा ओँ अपसर्पन्तु ते भूता ये भूता दिवि संस्थिताः । ये भूता विघ्नकर्त्तारस्ते नश्यन्तु शिवाज्ञया ॥ इति मन्त्रं पठन् सर्वतस्तिलसर्षपाक्षतान् विकीर्य स्वर्व्योमभूमिवर्त्तिनां विघ्नानामपसारणं विभाव्य मूलेनाचम्य द्वारपूजार्थं सामान्यार्घं कुर्यात् । तत्र सिन्दूरपिष्टातकरक्तचन्दनान्यतमेन पराग्रत्रिकोणवृत्तचतुरस्रात्मकं मण्डलं विधाय ओँ आधारशक्त्यै नम इति रक्तचन्दनाक्षतैस्तन्मण्डलं सम्पूज्य तत्राधारं संस्थाप्यार्घपात्रमस्त्रमन्त्रेण प्रक्षाल्याधारे निधाय ``नमः'' इति जलैः सम्पूर्य तत्र ``गङ्गे च यमुने च'' इत्यादिना तीर्थान्यावाह्य प्रणवेन गन्धपुष्पाक्षतान्निक्षिप्य धेनुमुद्रां प्रदर्शयेत् । इति सामान्यार्घस्थापनविधिः ॥ ततः सामान्यार्घोदकं पात्रान्तरेणोद्धृत्य द्वारं सम्प्रोक्ष्य पाद्यादिदानपूर्वकं देहल्या मध्यभागे गाँ गणेशाय नमः, गणेशस्य दक्षभागे वाँ वटुकाय नमः, गणेशस्य वामभागे क्षाँ क्षेत्रपालाय नमः, गणेशस्याधोभागे यां योगिनीभ्यो नमः, ततो योगिनीनामधोभागे गं गङ्गायै नमः, गङ्गाया दक्षभागे यं यमुनायै नमः, गङ्गाया वामभागे श्रीँ लक्ष्म्यै नमः, गङ्गाया अधोभागे ``ऐँ सरस्वत्यै नमः'' इति सम्पूज्य ``ओँ सर्वविघ्नानुत्सारयोत्सारय हूँ फट् स्वाहा'' इति मन्त्रेण दूर्वाक्षतान् परितो विकीर्य विघ्नान् देवगृहादपसृतान् विचिन्त्याभ्यन्तरं प्रविशेत् । बहिर्देश एव पूजायां तद्द्वारदेशस्य तत्तत्स्थानानां भावनयोक्तदेवताः पूजयेत् । ततः ``ओँ रक्ष रक्ष हूँ फट् स्वाहा'' इति मन्त्रेण कुशैर्जलसेकरूपं भूमिशोधनं विधाय ``ओँ पवित्र वज्र रक्ष रक्ष हूँ फट् स्वाहा'' इति भूमेरभिमन्त्रणं कुर्यात् । अत्र भूमेरभिमन्त्रणं तु वामकरेण तां स्पृष्ट्वोक्तमन्त्रस्य सकृत् पाठ एव ।

अथ आसनविधिः

तत्राभिमन्त्रितायां भूमौ रक्तचन्दनेन पराग्रं त्रिकोणं विलिख्य ओँ आधारशक्त्यै नमः, ओँ कूर्माय नम इति रक्तचन्दनाक्षतैः सम्पूज्य ओँ पृथिव्या मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसनोपवेशने विनियोग इति पठित्वा । ओँ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां भद्रे पवित्रं कुरु चासनम् ॥ इति पठन् रक्तकम्बलाद्यासनं प्रसार्य तदुपरि पञ्चाशतं पञ्चविंशतिं वा कुशान् आस्तीर्य ह्रीँ आधारशक्तयै कमलासनाय नम इति पुष्पाक्षतैः सम्पूज्य तन्त्र पादतलेनास्पृशन् स्वस्तिकाद्यन्यतमेनासनेनोदङ्मुख उपविश्यात्मशोधनं कुर्यात् । तच्च स्वनामाद्यक्षरस्य सानुस्वारस्य [नाभौ हृदि ललाटे] त्रिर्जपेन भवति ।

अथ प्राणायामः

प्राणायामैर्विना यद्यत् कृतं कर्म निरर्थकम् । अतो यत्नेन कर्त्तव्याः प्राणायामाश्शुभार्थिभिः ॥ इति कुम्भसम्भववचनात्तस्यावश्यकत्वम् । मूलमन्त्रस्य तन्मुख्य बीजस्य प्रणवस्य वा षोडशवारजपेन वामनासया वायुमापूर्य कनिष्ठाऽनामाङ्गुष्ठैर्नासापुटे निरुद्ध्य चतुःषष्टिवारजपेन कुम्भयित्वा द्वात्रिंशद्वारजपेन दक्षनासया रेचयेत् । इत्येकः प्राणायामः । एवं दक्षनासया वायुमापूर्य कुम्भयित्वा वामया रेचयेदिति द्वितीयः । एवं प्रथमवत् तृतीयः । अत्राशक्तस्तु चतुर्भिः पूरणं षोडशभिः कुम्भनमष्टाभी रेचनं कुर्यात् । एवं प्राणायामत्रयं कृत्वा ओँ ह्रीँ सुविशुद्धगात्रीत्यादि पूर्वोक्ताचमनमन्त्रेण द्विराचम्य ओँ शताभिषेके शताभिषेके हूँ फट् स्वाहा इति पूजासाधनपुष्पाणि स्वसमीपे संस्थाप्य ओँ पुष्पकेतु राजार्हते पुष्पे पुष्पे महापुष्पे सुपुष्पे पुष्पसम्भवे पुष्पचयावकीर्णे हूँ फट् स्वाहा इति मन्त्रं जपन् [दक्षकराग्रेण पात्रस्थपुष्पाणां स्पर्शात्] पुष्पशुद्धिं विधाय उत्तरीयाञ्चले विकिरैः सह मणिधरीत्यादिशिखाबन्धनमन्त्रेण ग्रन्थिं दत्त्वा ओँ हूँ फट् स्वाहा इति मन्त्रेण कायवाक्चित्तानि विशुद्धानि विभाव्य ओँ रक्ष रक्ष हूँ फट् स्वाहा इति मन्त्रेण हृदि हस्तदानेनात्मरक्षां कुर्यात् । विकिरास्तु- लाजचन्दनसिद्धार्थभस्मदूर्वाङ्कुराक्षताः । विकिरा इति सन्दिष्टाः सर्वविघ्नौघनाशकाः ॥ इति शारदोक्ता बोध्याः । ततो बद्धाञ्जलिपुटो भूत्वा वामपार्श्वे गुं गुरुभ्यो नमः, दक्षे गं गणपतये नमः, अग्रे श्रीमदुग्रतारिण्यै नमः इति प्रणमेत् । ततः करशुद्धिं कुर्यात् । सा यथा - हूँ इति वैष्णवमन्त्रेण सचन्दनानि त्रीणि सुगन्धिपुष्पाणि दक्षहस्तेनादाय हौँ इति प्रासादबीजेन सम्पुटितकरतलाभ्यां मृदु यथा स्यात्तथा मर्दयित्वा करौ सुरभीकृत्य तानि पुष्पाणि वामकरतले संस्थाप्य क्लीँ इति कामबीजं जपन् दक्षहस्तेन निर्मथ्य ओँ तत्सद् इति ब्रह्ममन्त्रेणाघ्रायोक्तप्रासादमन्त्रपूर्वकं- हौँ ते सर्वे विलयं यान्तु ये मां हिंसन्ति हिंसकाः । मृत्युरोगभयक्लेशाः पतन्तु रिपुमस्तके ॥ इति श्लोकरूपं मन्त्रं जपन् नाराचमुद्रया ऐशान्यां दिशि क्षिपेदिति करशुद्धिः । तत ऊर्ध्वोर्ध्वं तालत्रयं दत्वा मूलेन दिग्बन्धनं कुर्यादिति । ततः- कुल्लूकां यो न जानाति मम मन्त्रं जपन्नरः । पञ्चत्वं जायते तस्य अथवा वातुलो भवेत् ॥ इति नीलतन्त्रवचनाद् ह्रीँ स्त्रीँ हूँ इति नीलतन्त्रोक्तं त्र्यक्षरं कुल्लूकामन्त्रम्, अथवा ओँ पद्मे पद्मे महापद्मे पद्मावति ह्रीँ ह्रीँ स्वाहा इति ब्रह्मसंहितोक्तं सप्तदशाक्षरं कुल्लूकामन्त्रं गोरोचनया भूर्जपत्रे विलिख्य षट्टसूत्रेण वेष्टितं ताम्रादिधातुवेष्टितं वा शिरसि बद्ध्वा, अथवा कुल्लूकाक्षराणि केशान्ते पङ्क्त्याकारेण लिखितानि विचिन्त्य तारिण्यङ्गतया विष्णुपूजनं कुर्यात् । कुल्लूकाविद्याधारणोत्तरं विष्णुपूजाया आवश्यकत्वं तु - मन्त्रविद्यां च सन्धार्य वासुदेवं च योऽर्चयेत् । प्राप्नोति तत्फलं सम्यक् हरिसायुज्यतां व्रजेत् ॥ इति तन्त्रचूडामणिवचनात्, वासुदेवो हरो ब्रह्मा तारिणीप्रकृतिस्सदा । एकमूर्त्तिस्सदा चिन्त्या एकमूर्त्तिस्सदा स्थिता ॥ इति गन्धर्वतन्त्रवचनाच्चावगम्यते । मन्त्रविद्यां कुल्लूकाम् ।

अथ भूतशुद्धिः

स्वाङ्के उत्तानौ करौ कृत्वा हंस इति मन्त्रेण कुण्डलिनीं जीवात्मानं च परमशिवं प्रापयित्वा पृथिवीं घ्राणं गन्धं पाय्विन्द्रियं, रसनारसोपस्थसहिते जले विलाय्य, तच्चक्षूरूपपादसहिते तेजोमण्डले, तत् त्वगिन्द्रियस्पर्शविषयपाणीन्द्रियसहिते वायुमण्डले, तत् श्रोत्रेन्द्रियशब्दवागिन्द्रियसहिते नभोमण्डले, तन्मनसि, तदहङ्कारे, तन्महति, तत्प्रकृतौ, तां परमशिवे लीनां विभाव्य, वामकुक्षौ ब्रह्महत्याशिरस्कं स्वर्णस्तेयभुजद्वयं सुरापानहृदयं गुरुतल्पकटिं तत्संसर्गपदद्वयमपरपातकघटिताङ्गप्रत्यङ्गमुपपातकरोमाणं खड्गचर्मधरं रक्तनेत्रं रक्तश्मश्रुं पापपुरुषमङ्गुष्ठपरिमाणमधोमुखं विचिन्त्य नाभौ ह्रीँकारं रक्तवर्णं ध्यात्वा तस्य षोडशवारजपेन पूरकेण तद्बीजोत्थितवह्निना सपापपुरुषं शरीरं दग्धं विचिन्त्य, हृदि स्त्रीँकारं पीतवर्णं ध्यात्वा तस्य चतुःषष्टिवारजपेन कुम्भकेन तदुत्थवायुना भस्म समुत्सार्यं शिरसि श्वेतं हूँकारं ध्यात्वा तस्य द्वात्रिंशद्वारजपेन रेचकेन तदुत्थामृतधारया अस्थि प्लावयित्वा समस्तं जगदाप्लावयेत् । तत आत्मानमपगतव्यथं निर्मलं देवताया अभेदेन ध्यायेत् । तस्मिन् विश्वव्यापकजले आःकाराद्रक्तपङ्कजं तदुपरि टाँकारात् श्वेतकमलं तत्र धूम्रवर्ण हूँकारं ध्यात्वा हूँकारोत्पन्नां हूँबीजभूषितां कर्तॄं ध्यात्वा कर्तॄं परिगतं ध्यायेदात्मानं तारिणीमयमिति । ततो ध्यानं प्रत्यालीढपदामित्यादि । ललाटे श्वेतास्थिचतुष्टयान्वितकपालपञ्चतययुतां पार्श्वद्वयेन नीलोत्पलमालां नीलनागबद्धजटाजूटां रक्तनागकुण्डलां शुभ्रनागहारां दूर्वाभनागोपवीतां सरक्तमांसखण्डमण्डितमुष्टिनिविष्टजटाजूटलग्नाग्रखड्गभूषितोर्ध्वदक्षकरां तदधस्ताद् दक्षहस्तेन हूँ बीजभूषितकर्तृकाधरां वामोर्ध्वकरे त्रिजगज्जाड्यसमेतशुभ्रकपालधरामधस्ताद्रक्तनालकिञ्चिद्विकस्वरनी-लोत्पलकरां धूम्राभनागकेयूरां पीतनागकङ्कणां शवारूढां निर्भरयन्त्रणधिया शवहृदयगतसङ्कुचितदक्षिणचरणां शवपादद्वयोपरि स्थितप्रसारितवामचरणां कुन्दाभनागकटिसूत्रामीषद्रक्तनागनूपुरां सद्यःकृत्तगलद्रक्तधारान्योन्यकेशग्रथितपादलम्बितपञ्चाशन्मुण्डमालां ज्वलदनलचितामध्यस्थितां द्वीपिचर्मोपरिवस्त्रां देवीं विभाव्य देवीरूपमात्मानं विभावयेत् । तस्मिन् परमात्मनो देहे भिन्नाभिन्नतया स्थितां विद्युल्लताभासुरां शब्दब्रह्मात्मकपञ्चाशन्मातृकाप्रकृतिभूतां ह्रीँकारस्वरूपां मायापदार्थभूतां शक्तिं विचिन्त्य तस्याः सकाशादाकाशं ततो वायुस्ततोऽग्निस्तत आपोऽद्भ्यः पृथिवीति पञ्चभूतानि क्रमेणोत्पन्नानि विभाव्यैतेभ्योऽपि भूतेभ्यः स्वीयं सूक्ष्मशरीरं तेजोरूपं देवताराधनयोग्यमुत्पन्नं विभावयेत् । ततः सोऽहमिति मन्त्रेण कुण्डलिनीद्वारा जीवात्मानं हृत्कमलमानीय कुण्डलिनीं मूलाधारे स्थापयेत् । शरीराकारभूतानां भूतानां यद्विशोधनम् । अव्ययब्रह्मसंयोगात् भूतशुद्धिरियं मता ॥ इति ।* [अङ्कयोरुत्तानकरौकृत्वा पादाग्रादिजानुपर्यन्तं भूमण्डलम्, ततो नाभिपर्यन्तमपाम्, ततो हृत्पर्यन्तं तेजसः, ततो भ्रूमध्यपर्यन्तं वायोः, ततो ब्रह्मरन्ध्रपर्यन्तं गगनस्येत्येवं भूतमण्डलानि विचिन्त्य मूलाधारे हूँकारोत्थध्वनिना प्रबुद्धां यथाक्रमं संहृतभूततत्त्वां सुषुम्नाध्वना स्वाधिष्ठानादिचक्राणि भित्वा गच्छन्तीं कुण्डलिनीं विभाव्य । हंस इति मन्त्रं जपन् प्रदीपकलिकाकारं हृद्वर्त्तिनं जीवात्मानं गृहीत्वा ब्रह्मरन्ध्रोपरिगतसहस्रदलसरोजवर्त्तिनि सच्चिदानन्दरूपे परमशिवे सतत्त्वं जीवं संयोज्य तत्रैव लीनां च तां विभावयेत् । ततः - ततः पुरुषनिभं पापमनादिभवसञ्चितम् । ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् । तत्संयोगपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्मधरं क्रुद्धमङ्गुष्ठपरिमाणकम् ॥ अधोमुखं कृष्णवर्णे दक्षकुक्षौ विचिन्तयेत् । इति ज्ञानोन्नयनोक्तं पापपुरुषं विचिन्तयेत् । ततो नाभौ ह्रीँ बीजं रक्तवर्णे ध्यात्वा तद्बीजोत्थवह्निना पापदेहं शुष्कं दग्धं च विचिन्त्य, हृदये स्त्रीँ बीजं पीतवर्णे विचिन्त्य तदुत्थेन वायुना पापपुरुषभस्म बहिः प्रक्षिप्य, भ्रूमध्ये हूँ बीजं पूर्णचन्द्रनिभं ध्यात्वा रेचकेन तद्बीजाद्गलितामृतेन तद्भस्ममाप्लाव्य पिण्डीकृत्य यथापूर्वे स्थूलदेहमुत्पन्नं विभावयेत् । ततस्तयामृतवृष्ट्या समस्तां महीं प्लावयेत् । तत आत्मानं निर्लेपं निर्गुणं शुद्धं तारिणीमयं क्षणं विमृश्य अन्तरिक्षे आःकाराद्रक्तपङ्कजं तदुपरि टाङ्कारं तस्मात् श्वेतपद्मं तदुपरि नीलवर्णे हूँकारं विचिन्त्य तदुपरि कर्तृकां हूँकारबीजलाञ्छितां विचिन्त्य तस्या उपरि चिद्रूपं परमात्मनो देहं विचिन्त्य तस्मिन् परमात्मनो देहे भिन्नाभिन्नतया स्थितां विद्युल्लताभासुरां शब्दब्रह्मात्मकपञ्चाशन्मातृकाप्रकृतिभूतां ह्रीँकारस्वरूपां मायापदार्थभूतां शक्तिं विचिन्त्य तस्याः सकाशादाकाशमाकाशाद् वायुर्वायोरग्निरग्निरापोऽद्भ्यः पृथिवीति पञ्चभूतानि क्रमेणोत्पन्नानि विभाव्यैतेभ्योऽपि भूतेभ्यः स्वीयसूक्ष्मशरीर तेजोरूपं देवताराधनयोग्यमुत्पन्नं विभावयेत् । ततः परमशिवसङ्गादमृतमयं जीवात्मानं सोऽहमिति मन्त्रं जपन् कुण्डलिन्या हृदयस्थानं नीत्वा कुण्डलिनीं च मूलाधारस्थितस्वयम्भूलिङ्गेन सार्धत्रिवलयाकारेण वेष्टयित्वा स्थितां विचिन्तयेत् । इत्थं भावनासिद्धं च सूक्ष्मदेहं तारिणीरूपं भावयेदिति भूतशुद्धिः । अशक्तस्तु मूलाधारोत्थितकुण्डलिन्या हृद्वर्त्तिजीवात्मानं हंस इति मन्त्रेण ब्रह्मरन्ध्रस्थपरमशिवे संयोज्य सोऽहमिति मन्त्रेण जीवपरमात्मनोरैक्यं विचिन्त्य तस्माद् ब्रह्मणः प्रादुर्भूतं नूतनं शरीरं भावयेदिति । अन्तरिक्षे ततो ध्यायेदाःकाराद्रक्तपङ्कजम् । तस्योपरि पुनर्ध्यायेट्टाङ्कारात् श्वेतपङ्कजम् ॥ भूयस्तस्योपरि ध्यायेत् हूँकारान्नीलपङ्कजम् । तस्योपरि पुनर्ध्यायेत् कर्तृकां बीजलाञ्छिताम् ॥ कर्त्र्युपरिगतं ध्यायेदात्मानं तारिणीमयम् । श्मशानं तत्र सञ्चिन्त्य तत्र कल्पतरुं स्मरेत् ॥ तन्मूले मणिपीठं च नानामणिविभूषितम् । शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः ॥ चतुर्दिक्षु शवा मुण्डाश्चिताङ्गारास्थिभूषिताः । तन्मध्ये भावयेद्देवीं यथोक्तध्यानयोगतः ॥ प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् । खर्वो लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ ॥ नवयौवनसम्पन्नां सर्वाभरणभूषिताम् । चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ॥ खड्गकर्तृसमायुक्तसव्येतरभुजद्वयाम् । कपालोत्पलसंयुक्तसव्यपाणियुगान्विताम् ॥ पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् । बालार्कमण्डलाकारलोचनत्रयभूषिताम् ॥ ज्वलच्चितामध्यगतां घोरदंष्ट्राकरालिनीम् । सावेशस्मेरवदनां स्त्र्यलङ्कारविभूषिताम् ॥ विश्वव्यापकतोयान्तः श्वेतपद्मोपरि स्थिताम् । अक्षोभ्यो देवीमूर्धन्यस्त्रिमूर्त्तिर्नागरूपधृक् ॥ ] * इति भूतशुद्धिः ॥ * अत्र भूतशुद्धेः प्रकारद्वयं दर्शितम् । कोष्ठान्तर्गतः प्रकारः ``दु'' मातृकानुसारी विस्तरः, ``प'' मातृकानुसारी प्रकारश्च सङ्क्षिप्तः ।

अथ जीवन्यासः

अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य - शिरसि ब्रह्मविष्णुमहेश्वरेभ्य ऋषिभ्यो नमः । मुखे ऋग्यजुःसामभ्यः छन्दोभ्यो नमः । हृदये प्राणशक्त्यै देवतायै नमः । गुह्ये आं बीजाय नमः । पादयोः ह्रीँ शक्तये नमः । नाभौ क्रोँ कीलकाय नमः । इति विन्यस्य मम प्राणशक्तिप्रतिष्ठार्थे विनियोग इति कृताञ्जलिरुक्तवा - आँ ह्रीँ क्रोँ अं कं खं गं घं ङं आकाशवाय्वग्निसलिलपृथिव्यात्मने आं हृदयाय नमः । आँ ह्रीँ क्रोँ इं चं छं जं झं ञं शब्दस्पर्शरूपरसगन्धात्मने ईं शिरसे स्वाहा । आँ ह्रीँ क्रोँ उं टं ठं डं ढं णं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने ऊं शिखायै वषट् । आँ ह्रीँ क्रोँ एं तं थं दं धं नं वाक्पाणिपादपायूपस्थात्मने ऐं कवचाय हूँ । आँ ह्रीँ क्रोँ ओं पं फं बं भं मं वचनादानगमनविसर्गानन्दात्मने औं नेत्रत्रयाय वौषट् । आँ ह्रीँ क्रोँ अं यं रं लं वं शं षं सं हं क्षं मनोबुद्ध्यहङ्कारचित्तात्मने अः अस्त्राय फट् । इति मन्त्रानङ्गुष्ठादितलान्तं करयोर्विन्यस्य हृदयादिषडङ्गेष्वपि न्यसेत् । ततो नाभ्यादिपादाग्रान्तं आं नमः, कण्ठादिनाभ्यन्तं ह्रीं नमः, मूर्धादिकण्ठान्तं क्रोँ नमः । यं त्वगात्मने नमः, रं असृगात्मने नमः, लं मांसात्मने नमः, वं मेदात्मने नमः, शं अस्थ्यात्मने नमः, षं मज्जात्मने नमः, सं शुक्रात्मने नमः, हं प्राणात्मने नमः, क्षं ज्ञानात्मने नम इति यादीन् हृदि विन्यस्य समस्तेन प्राणप्रतिष्ठामन्त्रेण सकृद् व्यापकं कृत्वा ध्यायेत् - रक्ताब्धिपोतारुणपद्मसंस्थां पाशाङ्कुशाविक्षुशरासबाणान् । शूलं कपालं दधतीं कराब्जै रक्तां त्रिनेत्रां प्रणमामि देवीम् ॥ वामाद्यूर्ध्वयोराद्ये, तदाद्यधःस्थयोरन्ये, तदाद्यधःस्थयोरपर इत्यायुधध्यानम् । इति ध्यात्वा हृदि लेलिहामुद्रया सहितं दक्षहस्तं निधाय ``आँ ह्रीँ क्रोँ हंसः तारिण्याः प्राणा इह प्राणाः आँ ह्रीँ क्रोँ हंसः तारिण्याः जीव इह स्थितः आँ ह्रीँ क्रोँ हंसः तारिण्याः सर्वेन्द्रियाणि आँ ह्रीँ क्रोँ हंसः तारिण्या वाङ्मनोनेत्रश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा'' इति पठित्वा षोडशसंस्कारसिद्ध्यर्थं षोडशवारं प्रणवं पठेत् । अत्रात्मप्राणप्रतिष्ठायाममुष्यपदस्थाने ममेति पठन्ति केचित् । तच्चिन्त्यम् । तथा च रुद्रयामले - अमुकपदं हि यद्रूपं यत्र मन्त्रे च दृश्यते । साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत् ॥ इति ।

अथ मातृकान्यासः

अस्यावश्यकत्वं तु फेत्कारिणीतन्त्रे- मन्त्रा मूकत्वमायान्ति विन्यासेन विना लिपेः । सर्वमन्त्रप्रसिद्ध्यर्थं तस्मादादौ लिपिं न्यसेत् ॥ इति । सानुस्वारैः षोडशस्वरैः पूरकः । तथैव कादिमान्तैः पञ्चविंशत्या कुम्भकः । यादिक्षान्तैर्दशभी रेचकः । इत्थं प्राणायामत्रयं कृत्वा शिरसि अस्य श्रीमातृकामन्त्रस्य ब्रह्मणे ऋषये नमः । मुखे गायत्रीछन्दसे नमः । हृदि श्री मातृकासरस्वत्यै देवतायै नमः । गुह्ये हल्भ्यो बीजेभ्यो नमः । पादयोः स्वरेभ्यः शक्तिभ्यो नमः । नाभौ अव्यक्ताय कीलकाय नमः । मम सर्वाभीष्टसिद्धये तारिण्यङ्गतया मातृकान्यासे विनियोग इति स्मृत्वा अं कं खं गं घं ङं आं हृदयाय नमः । इं चं छं जं झं ञं ईं शिरसे स्वाहा । उं टं ठं डं ढं णं ऊं शिखायै वषट् । एं तं थं दं धं नं ऐं कवचाय हूँ । ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् । अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् । इति मन्त्रानङ्गुष्ठादितलान्तं करयोर्हृदयाद्यस्त्रान्तमङ्गेषु च विन्यस्य ध्यायेत् - पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादयुक्कुक्षिवक्षोदेशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था- मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ दक्षोर्ध्वकरमारभ्य दक्षाधःकरपर्यन्तमायुधध्यानम् । चिन्तालिखितं पुस्तकम् । इति ब्रह्मरन्ध्रस्थवर्णारविन्दे ध्यात्वा तालुमूलस्थविशुद्धिचक्रे षोडशदलेषु स्वाग्रादिप्रादक्षिण्येन अं नम, आं नम इत्यादि प्रतिमन्त्रमेकैकं स्वरं मनसा न्यसेत् । ततो हृदयस्थेऽनाहत चक्रे द्वादशदलेषु तथैव कादिठान्तान् द्वादशवर्णान् न्यसेत् । ततो नाभिस्थमणिपूरके चक्रे दशदलेषु डादिफान्तान् दशवर्णान् तथैव न्यसेत् । ततो लिङ्गमूले स्वाधिष्ठानचक्रे षड्दलेषु बादिलान्तान् षड्वर्णान् तथैव न्यसेत् । ततो मूलाधारे चतुर्दलेषु वादिसान्तान् चतुरो वर्णान् तथैव न्यसेत् । ततो भ्रूमध्यस्थाज्ञाचक्रे द्वयोः पत्रयोः हं क्षं इति वर्णद्वयं न्यसेत् । इति अन्तर्मातृकान्यासः ॥

ततो बहिर्मातृकान्यासः

अं नमः शिरसि । आं नमो मुखवृत्ते । इं नम ईं नमो दक्षवामनेत्रयोः । उं नम ऊं नमो दक्षवामश्रोत्रयोः । ऋं नम ॠं नमो दक्षवामघ्राणयोः । ऌं नम ॡं नमो दक्षवामगण्डयोः । एं नम ऐं नम ऊर्ध्वाधरौष्ठयोः । ओं नम औं नम ऊर्ध्वाधरदन्तपङ्क्त्योः । अं नमस्तालुमूले । अः नमो जिह्वायाम् । कं नमः खं नमो गं नमो घं नमो ङं नम इति दक्षिणांसकूर्परमणिबन्धाङ्गुलीमूलतद्ग्रकेषु । चं नमः छं नमो जं नमो झं नमो ञं नमो वामांसकूर्परमणिबन्धाङ्गुलीमूलतदग्रकेषु । टं नमः ठं नमो डं नमो ढं नमो णं नमो दक्षिणजङ्घामूलसन्धिपादमूलाङ्गुलीमूलतदग्रकेषु । तं नमः थं नमो दं नमो धं नमो नं नमो वामजङ्घामूलसन्धिपादमूलाङ्गुलीमूलतदग्रकेषु । पं नमो दक्षपार्श्वे । फं नमो वामपार्श्वे । बं नमः पृष्ठे । भं नमो नाभौ । मं नमो जठरे । यं त्वगात्मने नमो हृदि । रं असृगात्मने नमो दक्षांसे । लं मलमांसात्मने नमः ककुदि । वं मेदात्मने नमो वामांसे । शं अस्थ्यात्मने नमो हृदादिदक्षिणपाण्यन्ते । षं मज्जात्मने नमो हृदादिवामपाण्यन्ते । सं शुक्रात्मने नमो हृदादिदक्षपादे । हं जीवात्मने नमो हृदादिवामपादे । ळं परमात्मने नमो हृदादिजठरे । क्षं ज्ञानात्मने नमो हृदादिमुखे न्यसेत् । बिन्दुयोगस्तु मातृकाणां वीर्ययोजनाय, अत एवासां बीजत्वसिद्धिरपीति सम्प्रदायः । इति केवलमातृकान्यासः ॥

अथ सृष्टिमातृकान्यासः

शिरसि ओँ अः नम इत्यारभ्य हृदादिवक्त्रान्तं ओँ क्षः नम इत्यन्तमुक्तमातृकास्थानेषु सविसर्गमातृकां न्यसेत् । इति सृष्टिमातृकान्यासः ॥

अथ स्थितिमातृकान्यासः

ऋष्यादिन्यासान् पूर्ववत् कृत्वा स्थितिमातृकां ध्यायेत् - अक्षस्रजं हरिणपोतमुदग्रटङ्कं विद्यां करैरविरतं दधतीं त्रिनेत्राम् । अर्धेन्दुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमत स्तनभारनम्राम् ॥ इति वर्णारविन्दे ध्यात्वा दक्षपादगुल्फे ओँ डंः नमस्तदङ्गुलिमूले ओँ ढंः नम इत्यादि दक्षपादजानुनि ओँ ठंः नम इत्यन्तमुक्तस्थानेष्वेव बिन्दुविसर्गयुतां मातृकां न्यसेत् । इति स्थितिमातृकान्यासः ॥

अथ संहारमातृकान्यासः

ऋष्यादिन्यासान् पूर्ववदेव कृत्वा संहारमातृकां ध्यायेत् - सिन्दूरकान्तिममिताभरणां त्रिनेत्रां विद्याक्षसूत्रमृगपोतवरां दधानाम् । पार्श्वस्थितां भगवतीमपि काञ्चनाभां ध्यायेत् कराब्जघृतपुस्तकवर्णमालाम् ॥ इति वर्णारविन्दे ध्यात्वा हृदादिवक्त्रान्तं ओँ क्षं नमो हृदादिनाभ्यन्तं ओँ लं नम इत्यादि शिरसि ओँ अं नम इत्यन्तं बिन्दुयुतमातृकामुक्तस्थानेष्वेव न्यसेत् । इति संहारमातृकान्यासः ॥

बहिर्मातृकान्यासा

अङ्गुष्ठानामिकाभ्यामेव कार्याः, ``अङ्गुष्ठानामि काभ्यां च न्यासः सर्वत्र सम्मतः'' इति पद्यवाहिनीवचनात् । इदं च न्यासेषु मुद्राणामनुपादाने, तेन ऋष्यादिन्यासस्तत्तन्मुद्राभिरेव भवति, तत्र मुद्राविशेषाणामुपादानादिति । यस्तु गौतमीयोक्तो मातृकान्यासस्थलीयोऽङ्गुलिनियमः, स तु वैष्णवमन्त्राङ्गमातृकान्यासविषय इति ध्येयम् । अत्र ब्रह्मचारिणः सृष्टिस्थितिसंहारान् कृत्वा पुनः सृष्टिः । गृहिणस्तु पुनः सृष्टिस्थिती । यतिवैखानसयोस्तु पुनः सृष्टिस्थितिसंहारा इति विवेकः ।

अथ तारोत्थैकपञ्चाशत्कलामातृकान्यासः

श्रीकण्ठाद्यान् शम्भुभक्तो वैष्णवः केशवादिकान् । गणेशाद्याँस्तु तत्सेवी शाक्तो यो मातृकाकलाः ॥ इति वचनात् कलामातृकान्यास आवश्यकः । अस्य श्रीकलामातृकान्यासस्य शिरसि प्रजापतिऋषये नमः । मुखे गायत्रीछन्दसे नमः । हृदये श्रीकलामातृकासरस्वत्यै देवतायै नमः । गुह्ये हल्भ्यो बीजेभ्यो नमः । पादयोः स्वरेभ्यः शक्तिभ्यो नमः । नाभौ अव्यक्ताय कीलकाय नमः । मम सर्वाभीष्टसिद्धये श्रीतारामन्त्राङ्गत्वेन न्यासे विनियोगः ॥ इति कृताञ्जलिरुक्त्वा अं ओँ आं हृदयाय नमः, इं ओँ ईं शिरसे स्वाहा, उं ओँ ऊं शिखायै वषट्, एं ओँ ऐं कवचाय हूँ, ओं ओँ औं नेत्रत्रयाय वौषट्, अं ओँ अः अस्त्राय फट् इति मन्त्रानङ्गुष्ठादितलान्तं करयोर्हृदयाद्यस्त्रान्तमङ्गेषु च विन्यस्य ध्यायेत् - हस्तैः पद्मं रथाङ्गं गुणमथ हरिणं पुस्तकं वर्णमालां टङ्कं शुभ्रं कपालं दरममृतलसद्धेमकुम्भं वहन्तीम् । मुक्ताविद्युत्पयोदस्फटिकनवजपाबन्धुरैः पञ्चवक्त्रै- स्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां शारदां तां नमामि ॥ वामाद्यधःकरयोराद्ये तदाद्यूर्ध्वयोरन्ये तदाद्यूर्ध्वयोरन्ये । इत्यायुधध्यानम् । गुणस्त्रिशूलं, दरः शङ्खः । इति वर्णारविन्दे ध्यात्वा केवलमातृकास्थानेषु न्यसेत् । ओँ अं निवृत्यै नमः । ओँ आं प्रतिष्ठायै नमः । ओँ इं विद्यायै नमः । ओँ ईं शान्त्यै नमः । ओँ उं इन्धिकायै नमः । ओँ ऊं दीपिकायै नमः । ओँ ऋं रेचिकायै नमः । ओँ ॠं मोचिकायै नमः । ओँ ऌं परायै नमः । ओँ ॡं सूक्ष्मायै नमः । ओँ एं सूक्ष्मामृतायै नमः । ओँ ऐं ज्ञानामृतायै नमः । ओँ ओं आप्यायिन्यै नमः । ओँ औं व्यापिन्यै नमः । ओँ अं व्योमरूपायै नमः । ओँ अः अनन्तायै नमः । ओँ कं सृष्ट्यै नमः । ओँ खं ऋद्ध्यै नमः । ओँ गं स्मृत्यै नमः । ओँ घं मेधायै नमः । ओँ ङं कान्त्यै नमः । ओँ चं लक्ष्म्यै नमः । ओँ छं द्युत्यै नमः । ओँ जं स्थिरायै नमः । ओँ झं स्थित्यै नमः । ओँ ञं सिद्ध्यै नमः । ओँ टं जरायै नमः । ओँ ठं पालिन्यै नमः । ओँ डं क्षान्त्यै नमः । ओँ ढं ईश्वर्य्यै नमः । ओँ णं रत्यै नमः । ओँ तं कामिकायै नमः । ओँ थं वरदायै नमः । ओँ दं ह्लादिन्यै नमः । ओँ धं प्रीत्यै नमः । ओँ नं दीर्घायै नमः । ओँ पं तीक्ष्णायै नमः । ओँ फं रौद्र्यै नमः । ओँ बं भयायै नमः । ओँ भं निद्रायै नमः । ओँ मं तन्द्रायै नमः । ओँ यं क्षुधायै नमः । ओँ रं क्रोधायै नमः । ओँ लं क्रियायै नमः । ओँ वं उत्कार्यै नमः । ओँ शं मृत्युरूपायै नमः । ओँ षं पीतायै नमः । ओँ सं श्वेतायै नमः । ओँ हं अरुणायै नमः । ओँ ळं असितायै नमः । ओँ क्षं अनन्तायै नमः । इति प्रणवादिनमोन्तेन । इति कलामातृकान्यासः ॥

अथ षोढान्यासः

तन्त्रचूडामणौ - रुद्रैस्तु प्रथमो न्यासो द्वितीयस्तु ग्रहैर्मतः । लोकपालैस्तृतीयः स्याच्छिवशक्तया चतुर्थकः ॥ तारादिभिः पञ्चमः स्यात् षष्ठः पीठैर्निगद्यते । एतेन सहिता रुद्राः पञ्चाशत् परिकीर्तिताः ॥ बिन्दुयुक्तैर्मातृकार्णैस्त्र्यक्षरी पूर्वपूर्वकैः । ङेन्तैर्नमोन्तैर्देवेशि विन्यसेत्तान् क्रमात् सुधीः ॥ तारिणी त्र्यक्षरी प्रोक्ता भवबन्धविनाशिनी । नीलवर्णां त्रिनयनां शवासनसमुन्नताम् । बिभ्रतीं विविधाकल्पान्मौलावक्षोभ्यभूषिताम् ॥ इति ।

अथ प्रयोगः

ह्रीँ त्रीं हूँ अं श्रीकण्ठेशाय नमः । ह्रीँ त्रीं हूँ आं अनन्तेशाय नमः । ह्रीँ त्रीं हूँ इं सूक्ष्मेशाय नमः । ह्रीँ त्रीं हूँ ईं त्रिमूर्त्तीशाय नमः । ह्रीँ त्रीं हूँ उं अमरेशाय नमः । ह्रीँ त्रीं हूँ ऊं अर्घीशाय नमः । ह्रीँ त्रीं हूँ ऋं भारभूतीशाय नमः । ह्रीँ त्रीं हूँ ॠं अतिथीशाय नमः । ह्रीँ त्रीं हूँ ऌं स्थाणवीशाय नमः । ह्रीँ त्रीं हूँ ॡं हरेशाय नमः । ह्रीँ त्रीं हूँ एं झिण्टीशाय नमः । ह्रीँ त्रीं हूँ ऐं भौतिकेशाय नमः । ह्रीँ त्रीं हूँ ओं सद्योजातेशाय नमः । ह्रीँ त्रीं हूँ औं अनुग्रहेशाय नमः । ह्रीँ त्रीं हूँ अं अक्रूरेशाय नमः । ह्रीँ त्रीं हूँ अः महासेनेशाय नमः । ह्रीँ त्रीं हूँ कं क्रोधीशाय नमः । ह्रीँ त्रीं हूँ खं चण्डेशाय नमः । ह्रीँ त्रीं हूँ गं पञ्चान्तकेशाय नमः । ह्रीँ त्रीं हूँ घं शिवोत्तमेशाय नमः । ह्रीँ त्रीं हूँ ङं एकरुद्रेशाय नमः । ह्रीँ त्रीं हूँ चं कूर्मेशाय नमः । ह्रीँ त्रीं हूँ छं एकनेत्रेशाय नमः । ह्रीँ त्रीं हूँ जं चतुराननेशाय नमः । ह्रीँ त्रीं हूँ झं अजेशाय नमः । ह्रीँ त्रीं हूँ ञं सर्वेशाय नमः । ह्रीँ त्रीं हूँ टं सोमेशाय नमः । ह्रीँ त्रीं हूँ ठं लाङ्गलीशाय नमः । ह्रीँ त्रीं हूँ डं दारकेशाय नमः । ह्रीँ त्रीं हूँ ढं अर्धनारीशाय नमः । ह्रीँ त्रीं हूँ णं उमाकान्तेशाय नमः । ह्रीँ त्रीं हूँ तं आषाढीशाय नमः । ह्रीँ त्रीं हूँ थं दण्डीशाय नमः । ह्रीँ त्रीं हूँ दं अत्रीशाय नमः । ह्रीँ त्रीं हूँ धं मीनेशाय नमः । ह्रीँ त्रीं हूँ नं मेषेशाय नमः । ह्रीँ त्रीं हूँ पं लौहितेशाय नमः । ह्रीँ त्रीं हूँ फं शिखीशाय नमः । ह्रीँ त्रीं हूँ बं छगलण्डेशाय नमः । ह्रीँ त्रीं हूँ भं द्विरण्डेशाय नमः । ह्रीँ त्रीं हूँ मं महाकालेशाय नमः । ह्रीँ त्रीं हूँ यं त्वगात्मने वाणीशाय नमः । ह्रीँ त्रीं हूँ रं असृगात्मने भुजङ्गेशाय नमः । ह्रीँ त्रीं हूँ लं मांसात्मने पिनाकीशाय नमः । ह्रीँ त्रीं हूँ वं मेदात्मने खड्गीशाय नमः । ह्रीँ त्रीं हूँ शं अस्थ्यात्मने वकेशाय नमः । ह्रीँ त्रीं हूँ षं मज्जात्मने श्वेतेशाय नमः । ह्रीँ त्रीं हूँ सं शुक्रात्मने भृग्वीशाय नमः । ह्रीँ त्रीं हूँ हं प्राणात्मने नकुलीशाय नमः । ह्रीँ त्रीं हूँ ळं शक्त्यात्मने शिवेशाय नमः । ह्रीँ त्रीं हूँ क्षं क्रोधात्मने संवर्त्तेशाय नमः । इत्यङ्गुष्ठानामिकाभ्यां मातृकास्थानेषु न्यसेत् । एषां रुद्राणां ध्यानं तु - ``एते रुद्राः स्मृता रक्ता धृतशूलकपालकाः'' इति । केचित्तु ``रुद्रैश्च प्रथमो न्यासः'' इत्यत्र रुद्रपदं स्वीयशक्तीनामुपलक्षणं मन्वाना रुद्रान् सशक्तिकान् प्रयुञ्जन्ते । तथा च तेषां मते ह्रीँ त्रीं हूँ अं श्रीकण्ठेशाय पूर्णोदर्यै नम इत्यादयः प्रयोगा बोध्याः । पूर्णोदर्यादिशक्तयस्तु शारदातिलकादौ द्रष्टव्याः । विस्तरभियाऽनुपयोगाच्चात्र न लिखिताः ॥

अथ ग्रहन्यासः

हृदये ह्रीँ त्रीँ हूँ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः रक्तवर्णाय सूर्याय नमः । भ्रूमध्ये ह्रीँ त्रीँ हूँ यं रं लं वं शुक्लवर्णाय सोमाय नमः । नेत्रत्रये ह्रीँ त्रीँ हूँ कं खं गं घं ङं लोहितवर्णाय मङ्गलाय नमः । हृदयवृत्ते ह्रीँ त्रीँ हूँ चं छं जं झं ञं श्यामवर्णाय बुधाय नमः । कण्ठकूपे ह्रीँ त्रीँ हूँ टं ठं डं ढं णं पीतवर्णाय बृहस्पतये नमः । गलप्रदेशे ह्रीँ त्रीँ हूँ तं थं दं धं नं पाण्डरवर्णाय शुक्राय नमः । नाभौ ह्रीँ त्रीँ हूँ पं फं बं भं मं नीलवर्णाय शनैश्चराय नमः । वक्त्रे ह्रीँ त्रीँ हूँ शं षं सं हं धूम्रवर्णाय राहवे नमः । पादयोः ह्रीँ त्रीँ हूँ ळं क्षं धूम्रवर्णेभ्यः केतुभ्यो नमः । इति ग्रहन्यासः ॥

अथ लोकपालन्यासः

मध्यललाटे ह्रीँ त्रीँ हूँ अं इं ऋं ऌं एं ओं अं इन्द्राय नमः । दक्षनेत्रोपरि ह्रीँ त्रीँ हूँ आं ईं ऊं ॠं ॡं ऐं औं अः अग्नये नमः । दक्षकर्णोपरि ह्रीँ त्रीँ हूँ कं खं गं घं ङं यमाय नमः । दक्षकर्णाग्रे ह्रीँ त्रीँ हूँ चं छं जं झं ञं निरृतये नमः । चूडाधःकूपे ह्रीँ त्रीँ हूँ टं ठं डं ढं णं वरुणाय नमः । वामकर्णाग्रे तं थं दं धं नं वायवे नमः । वामकर्णोपरि ह्रीँ त्रीँ हूँ पं फं बं भं मं कुबेराय नमः । वामनेत्रोपरि ह्रीँ त्रीँ हूँ यं रं लं वं ईशानाय नमः । चिबुकस्याधोभागे ह्रीँ त्रीँ हूँ शं षं सं हं अनन्ताय नमः । ब्रह्मरन्ध्रे ह्रीँ त्रीँ हूँ ळं क्षं ब्रह्मणे नमः । इति लोकपालन्यासः ॥

अथ शिवशक्तिन्यासः

मूलाधारे ह्रीँ त्रीँ हूँ वं शं षं सं डाकिनीसहिताय ब्रह्मणे नमः । स्वाधिष्ठाने ह्रीँ त्रीँ हूँ बं भं मं यं रं लं राकिनीसहिताय विष्णवे नमः । मणिपूरे ह्रीँ त्रीँ हूँ डं ढं णं तं थं दं धं नं पं फं लाकिनीसहिताय रुद्राय नमः । अनाहते ह्रीँ त्रीँ हूँ कं खं गं घं ङं चं छं जं झं ञं टं ठं काकिनीसहिताय ईश्वराय नमः । विशुद्धिचक्रे ह्रीँ त्रीँ हूँ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः साकिनीसहिताय सदाशिवाय नमः । आज्ञाचक्रे ह्रीँ त्रीँ हूँ हं क्षं हाकिनीसहिताय परमशिवाय नमः । इति शिवशक्तिन्यासः ॥

अथ तारान्यासः

ब्रह्मरन्ध्रे ह्रीँ त्रीँ हूँ अं आं कं खं गं घं ङं ओँ तारायै नमः । ललाटे ह्रीँ त्रीँ हूँ इं ईं चं छं जं झं ञं ओँ उप्रायै नमः । भ्रूमध्ये ह्रीँ त्रीँ हूँ उं ऊं टं ठं डं ढं णं ओँ महोग्रायै नमः । कण्ठकूपे ह्रीँ त्रीँ हूँ ऋं ॠं तं थं दं धं नं ओँ वज्रायै नमः । हृदये ह्रीँ त्रीँ हूँ ऌं ॡं पं फं बं भं मं ओँ काल्यै नमः । नाभौ ह्रीँ त्रीँ हूँ एं ऐं यं रं लं वं ओँ सरस्वत्यै नमः । लिङ्गे ह्रीँ त्रीँ हूँ ओं औं शं षं सं हं ओँ कामेश्वर्ये नमः । मूलाधारे ह्रीँ त्रीँ हूँ अं अः ळं क्षं चामुण्डायै नमः । इति तारान्यासः ॥

अथ पीठन्यासः

मूलाधारे ह्रीँ त्रीँ हूँ अं इं उं ऋं ऌं एं ओं अं कामरूपपीठाय नमः । हृदये ह्रीँ त्रीँ हूँ आं ईं ऊं ॠं ॡं ऐं औं अः जालन्धरपीठाय नमः । ललाटे ह्रीँ त्रीँ हूँ कं खं गं घं ङं पूर्णगिरिपीठाय नमः । केशान्ते ह्रीँ त्रीँ हूँ चं छं जं झं ञं उड्डीयानपीठाय नमः । भ्रूमध्ये ह्रीँ त्रीँ हूँ टं ठं डं ढं णं वाराणसीपीठाय नमः । नेत्रद्वये ह्रीँ त्रीँ हूँ तं थं दं धं नं अवन्तीपीठाय नमः । मुखवृत्ते ह्रीँ त्रीँ हूँ पं फं बं भं मं मायावतीपीठाय नमः । कण्ठे ह्रीँ त्रीँ हूँ यं रं लं वं मधुपुरीपीठाय नमः । नाभौ ह्रीँ त्रीँ हूँ शं षं सं हं अयोध्यापीठाय नमः । कट्यां ह्रीँ त्रीँ हूँ ळं क्षं काञ्चीपीठाय नमः । इति पीठन्यासः । इति तन्त्रचूडामण्युक्तमहाषोढान्यासः ॥

अथ नीलतन्त्रोक्तषोढान्यासः

केशान्ते मूलं अं नमः, मुखवृत्ते मूलं आं नम इत्यारभ्य हृदादिवक्त्रान्तं मूलं क्षं नम इति क्रमेण एको न्यासः । हृदादिवक्त्रान्तं मूलं क्षं नमो हृदादिनाभ्यन्तं मूलं लं नम इत्यारभ्य केशान्ते मूलं अं नम इत्यन्तं व्युत्क्रमेण द्वितीयो न्यासः । एवं पुनर्न्यासचतुष्टयं कृत्वा षोढान्यासो भवति । इति नीलतन्त्रोक्तगुह्यषोढान्यासः ॥

अथ रुद्रयामलोक्तगुह्यषोढान्यासः

[केशान्ते अं ओँ अं ओँ अं ओँ नमः, मुखवृत्ते आं ओँ आं ओँ आं ओँ नम इत्यारभ्य हृदादिवक्त्रान्तं क्षं ओँ क्षं ओँ क्षं ओँ नम इत्यन्तं न्यसेदिति प्रथमो न्यासः । केशान्ते अं ह्रीँ अं ह्रीँ अं ह्रीँ नम इत्यारभ्य हृदयादिवक्त्रान्तं क्षं ह्रीँ क्षं ह्रीँ क्षं ह्रीँ नम इत्यन्तो द्वितीयः । केशान्ते अं स्त्रीं अं स्त्रीं अं स्त्रीं नम इत्यारभ्य हृदयादिवक्त्रान्तं क्षं स्त्रीं क्षं स्त्रीं क्षं स्त्रीं नम इत्यन्तस्तृतीयः । केशान्ते अं हूँ अं हूँ अं हूँ नम इत्यादि हृदयादिवक्त्रान्तं क्षं हूँ क्षं हूँ क्षं हूँ नम इत्यन्तश्चतुर्थः । केशान्ते अं फट् अं फट् अं फट् नम इत्यादि हृदयादिवक्त्रान्तं क्षं फट् क्षं फट् क्षं फट् नम इत्यन्तः पञ्चमः । केशान्ते अं मूलं अं मूलं अं मूलं नम इत्यादि हृदयादिवक्त्रातं क्षं मूलं क्षं मूलं क्षं मूलं नम इत्यन्तः षष्ठः । ] इति रुद्रयामलोक्तषोढान्यासः ॥

अथ तारकान्यासः

तद्यथा - शिरसि अं कं आकाशतत्त्वात्मिकायै रोहिणीरूपायै नमः । मुखे आं खं वायुतत्त्वात्मिकायै मृगशिरारूपायै नमः । हृदये इं गं तेजस्तत्वात्मिकायै आर्द्रारूपायै नमः । गुह्ये ईं घं जलतत्त्वात्मिकायै पुनर्वसूरूपायै नमः । पादयोः उं ङं पृथिवीतत्त्वात्मिकायै पुष्यरूपायै नमः । नसोः ऊं चं घ्राणतत्त्वात्मिकायै अश्लेषारूपायै नमः । जिह्वायां ऋं छं रसनातत्त्वात्मिकायै मघारूपायै नमः । चक्षुषोः ॠं जं चक्षुस्तत्त्वात्मिकायै पूर्वफल्गुनीरूपायै नमः । सर्वाङ्गे ऌं झं त्वक्तत्त्वात्मिकायै उत्तरफल्गुनीरूपायै नमः । श्रोत्रयोः ॡं ञं श्रोत्रतत्त्वात्मिकायै हस्तारूपायै नमः । नसोः एं टं गन्धतत्वात्मिकायै चित्रारूपायै नमः । जिह्वायां ऐं ठं रसतत्वात्मिकायै स्वातीरूपायै नमः । चक्षुषोः ओं डं रूपतत्त्वात्मिकायै विशाखारूपायै नमः । सर्वाङ्गे औं ढं स्पर्शतत्त्वात्मिकायै अनुराधारूपायै नमः । श्रोत्रयोः अं णं शब्दतत्त्वात्मिकायै ज्येष्ठारूपायै नमः । लिङ्गे अः तं उपस्थतत्त्वात्मिकायै मूलारूपायै नमः । गुह्ये अं थं पायुतत्त्वात्मिकायै पूर्वाषाढारूपायै नमः । पादयोः आं दं पादतत्त्वात्मिकायै उत्तराषाढारूपायै नमः । हस्तयोः इं धं पाणितत्त्वात्मिकायै श्रवणारूपायै नमः । मुखे ईं नं वाक्तत्त्वात्मिकायै धनिष्ठारूपायै नमः । लिङ्गे उं पं आनन्दतत्त्वात्मिकायै शतभिषारूपायै नमः । गुह्ये ऊं फं विसर्गतत्त्वात्मिकायै पूर्वभाद्रपदरूपायै नमः । पादयोः ऋं बं गतितत्त्वात्मिकायै उत्तरभाद्रपदरूपायै नमः । हस्तयोः ॠं भं आदानतत्त्वात्मिकायै रेवतीरूपायै नमः । मुखे ऌं मं वचनतत्त्वात्मिकायै अश्विनीरूपायै नमः । नाभ्यादिमुखपर्यन्तं ॡं एं ऐं ओं यं रं लं वं अधस्तत्त्वात्मिकायै भरणीरूपायै नमः । नाभ्यादिमस्तकपर्यन्तं औं अं अः शं षं सं हं ळं क्षं ऊर्ध्वतत्त्वात्मिकायै कृत्तिकारूपायै नमः । एतन्न्यासंस्यावश्यकत्वमुक्तं वीरतन्त्रे - अकृत्वा तारकान्यासं तारिणीं प्रजपेद्यदि । शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ इति तारकान्यासः ॥ ]

अथ ऋष्यादिन्यासः

ऋषिच्छन्दोदैवतानां विन्यासेन विना यदा । जप्यते साधकोऽप्येष तस्य तन्न फलं लभेत् ॥ इति वचनाद् ऋष्यादिन्यासस्यावश्यकत्वम् । [तथा च तन्त्रचूडामणौ - अक्षोभ्य ऋषिरेतस्या बृहती छन्द ईरितम् । नीलसरस्वती देवी त्रिषु लोकेषु गोपिता ॥ हूँ बीजमस्त्रशक्तिः स्याच्चतुर्वर्गफलप्रदा । ऋषिं न्यसेत् मूर्ध्नि देशे छन्दस्तु मुखपङ्कजे ॥ देवता हृदये चैव बीजं गुह्यप्रदेशके । शक्तिं च पादयोश्चैव सर्वाङ्गे कीलकं न्यसेत् ॥ इति । तथा च योगिनीतन्त्रे- ``ऋष्यादीन् विन्यसेद्देवी चतुर्थीहृदयान्तिकान्'' इति । ]

अथ प्रयोगः

शिरसि अस्य श्रीतारिणीमन्त्रस्य अक्षोभ्याय ऋषये नमः । मुखे बृहत्यै छन्दसे नमः । हृदये उग्रतारायै देवतायै नमः । गुह्ये हूँ बीजाय नमः । पादयोः फट् शक्तये नमः । सर्वाङ्गे ह्रीँ कीलकाय नम इति विन्यस्य ममोग्रताराप्रीतिजन्यसर्वाभीष्टसिद्धये विनियोग इति कृताञ्जलिर्निवेदयेत् । अत्र ऋषिच्छन्दोदेवताबीजशक्तीनां न्यासेऽङ्गुष्टवर्जं चतस्रोऽङ्गुलयः । कीलकन्यासस्तु व्यत्यस्ताभ्यां हस्ताभ्यां सर्वाङ्ग इति ।

अथ कराङ्गन्यासः

ह्राँ श्रीमदेकजटायै हृदयाय नमः । ह्रीँ तारिण्यै शिरसे स्वाहा । ह्रूँ वज्रोदके शिखायै वषट् । ह्रैँ उग्रजटे कवचाय हूँ । ह्रौँ महाप्रतिसरे (परिसरे) नेत्रत्रयाय वौषट् । ह्रः पिङ्गोग्रैकजटे अस्त्राय फट् । इति मन्त्रानङ्गुष्ठादितलान्तं हृदयाद्यस्त्रान्तं विन्यसेत् । [मूर्धादिपादान्तं मूलमन्त्रं सप्तकृत्वो व्यापकतया न्यसेत्] । अङ्गन्यासमुद्रास्तु तन्त्रे - हृदये मध्यमानामातर्जनीभिर्न्यसेद् बुधः । मध्यमातर्जनीभ्यां च शिरसि न्यासमाचरेत् ॥ अङ्गुष्ठेन शिखायां च दशभिः कवचे न्यसेत् । नेत्रेषु तिसृभिश्च स्यादस्त्रमूर्ध्वोर्ध्वगं त्रिशः ॥ मध्यमातर्जनीभ्यां स्यादङ्गमुद्रा स्मृता अमू । इति । [हृदये मध्याङ्गुलित्रयम्, शिरसि मध्यमातर्जन्यौ, शिखायामङ्गुष्ठः, कवचे दशाङ्गुलयः, नेत्रद्वये मध्यमातर्जन्यौ, अस्त्रे मध्यमातर्जनीभ्यां ऊर्ध्वोर्ध्वक्रमेण तालत्रयं दद्यात् । ]

अथ यन्त्रलेखनं

तदुक्तं स्वतन्त्रतन्त्रे- ``इत्थं विन्यस्तदेहः सन् चक्रराजं समालिखेत्'' इति । [रुद्रयामलेऽपि - ततः कुङ्कुमसिन्दूरैः कार्य यन्त्रं तु योगिना । सौवर्णे राजते ताम्रे स्फाटिके वैद्रुमे तथा ॥ चक्रे तथोक्तविधिना पूज्या देवी नरोत्तमैः । ] तथा च सौवर्णादिपीठे कुङ्कुमरक्तचन्दनादिना ``आः सुरेखे वज्ररेखे हूँ फट् स्वाहा'' इति पठन् स्वाग्रत्रिकोणकर्णिकसद्वारैकरेखाभूपुरावृत्तसकेसराष्टदलकमलात्मकम्, अथवा षट्कोणकर्णिकसद्वारद्विरेखावृत्तसकेसराष्टदलकमलात्मकं यन्त्रं विलिख्य दिक्पत्रेषु मध्ये बीजानि विलिखेत् । तत्र पूर्वदले मायाबीजं ह्रीँ, दक्षिणदले वधूबीजं स्त्रीँ, उत्तरदले फ, पश्चिमदले ट्, योनिमध्ये हूँ कूर्चमिति । तत्र यन्त्रे मूलेन पुष्पाञ्जलिं न्यसेदिति । [ तथा च फेत्कारिणीये - सयोनिचन्दनेनाष्टदलं पद्मं लिखेत्ततः । मृद्वासनं समासाद्य मायां पूर्वदले लिखेत् ॥ मध्यबीजं द्वितीये फमुत्तरे पश्चिमे तु टम् । मध्ये बीजं लिखेत्तारं भूतशुद्धिमथाचरेत् ॥ इति । द्वितीये दक्षिणे । तारं हूँकारं ताराप्रणवत्वात् ``भगे कूर्चं लिखेत् प्रिये'' इति भैरवीयवचनाच्च । अत्र पूर्वादिदिग्विभागस्तु - पूज्यपूजकयोर्मध्ये प्राची दिङ्मन्यते बुधैः । तद्दक्षिणं दक्षिणं स्यादुत्तरं चोत्तरं मतम् ॥ पृष्ठं तुं पश्चिमं ज्ञेयं सर्वत्रैवं प्रपूजयेत् । इति मालिनीतन्त्रवचनाद् वक्ष्यमाणमानसोल्लासवचनाच्च देवतासम्मुखदिगेव प्राचीत्यादिक्रमेण बोध्या । तेन धर्मादिपूजनं पीठशक्तिपूजनमावरणपूजनं च । एतत् प्राच्यनुसारेणैव पर्यवस्यतीत्यवधेयम् । ``भूतशुद्धिमथाचरेत्'' इत्यस्य तु यन्त्रलेखनानन्तरं भूतशुद्धिं मकारपञ्चकशुद्धिमाचरेत् कुर्याद् वीर इत्यर्थः, भूतपदस्य पञ्चसङ्ख्याबोधकत्वात् । यथा श्रुते तु - ``इत्थं विन्यस्तदेहः सन् चक्रराजं समालिखेत्'' इति स्वतन्त्रतन्त्रविरोधापत्तेः । तन्त्रसारकृत्तु पीठपूजानन्तरं भूतशुद्धिमाह । केचित्तु षट्कोणकर्णिकागर्भस्यैव यन्त्रस्य सद्वाररेखाद्वयात्मकभूपुरस्य वचनारूढत्वात् त्रिकोणकर्णिकागर्भस्यैका रेखा भूपुरे मानाभावः । षट्कोणान्तर्गतं पद्मं भूबिम्बद्वितयं पुनः । चतुरस्रं चतुर्द्वारमेव वा यन्त्रमालिखेत् ॥ इत्येवोक्तेरित्याहुः । वस्तुतः- सयोनिगोमयेनाष्टपत्रमब्जं सुशोभनम् । भूपुरं वसुवज्राढ्यं यन्त्रमेकजटात्मकम् ॥ इति फेत्कारिण्युक्तेर्वचनारूढमेव । गोमयेन गोरोचनया वसुवज्राढ्यमष्टदिक्षु प्रतिदिशमेकैकं यथा स्यात्तथाष्टवज्रैर्लाञ्छितम् । षट्कोणगर्भें तु नीलसारस्वतमिति कश्चित् । विकल्प एवेति तत्त्वविदः । दाक्षिणात्यास्तु पूजायन्त्रं बीजशून्यमेव, बीजलेखोक्तिस्तु साधारणयन्त्रपरेति वदन्ति । वचने विशेषानुपादानाच्चिन्त्यमेतत् । अत्र ``षडङ्गमर्चयेद् देव्या देहेषु केसरेषु च'' इति मालिनीतन्त्रवचनाद् दलमूलेषु केसराश्च प्रतीयन्ते । यन्त्रस्य माहात्म्यं दक्षिणामूर्तिसंहितायां - श्रीखण्डरक्तश्रीखण्डश्रीपर्णीसम्भवे पटे । चक्रे संस्थापयेद् देवि नान्यत्र वरवर्णिनि ॥ इति । श्रीकुलार्णवेऽपि - यन्त्रे सा पूजिता देवी सहसैव प्रसीदति । कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ॥ यन्त्रमित्याहुरेतस्मिन् देवी प्रीणाति तत्त्वतः । शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये ॥ सर्वेषामपि देवानां तस्माद् यन्त्रं प्रतिष्ठितम् । तस्माद् यन्त्रं लिखित्वार्थं ध्यात्वा वा सावृतिं शिवाम् ॥ ज्ञात्वा गुरुमुखात् सर्वं पूजयेद् विधिवद् प्रिये । इति । तथा चेत्थं यन्त्रं विलिख्य, अथवा स्थिररेखात्मकं स्फाटिकादियन्त्रं शालग्रामशिलायां वा पूजाधारचक्रत्वेन स्वस्य पुरोभागे किञ्चिदुन्नतस्थले ताम्रादिपात्रे निधाय योगिनीमूलमन्त्रेण मूलमन्त्रेण वा पुष्पाञ्जलिं दत्वा यन्त्रं परैरलक्ष्यं कुर्यात् । योगिनीतन्त्रे - योगिनीमूलमन्त्रेण चक्रे पुष्पाञ्जलिं क्षिपेत् । अशून्यं कुसुमैः कुर्याच्छून्ये विघ्नं विनिर्दिशेत् ॥ इत्युक्तम् । योगिनीमूलमन्त्रस्तु - अभिषेक शताभिषेक समय हूँ फट् स्वाहा । सिद्धेश्वरीतन्त्रे तु- संस्थाप्य पुरतो देवि शुभे पीठे सुरेश्वरि । दद्यात् पुष्पाञ्जलिं तत्र मूलमन्त्रेण साधकः ॥ इत्युक्तम् । तथा च पुष्पाञ्जलिदानेऽनयोर्मन्त्रयोर्विकल्पः । ]

अथ पीठन्यासः

हृदये ओँ आधारशक्तये नमः । ओँ मूलप्रकृत्यै । ओँ कूर्माय । ओँ अनन्ताय । ओँ पृथिव्यै । ओँ सुधासमुद्राय । ओँ मणिद्वीपाय । ओँ चिन्तामणिगृहाय । ओँ श्मशानाय । ओँ पारिजाताय । तन्मूले ओँ रत्नवेदिकायै । तदुपरि ओँ मणिपीठाय । एतान्युपर्युपरिभावेन विन्यस्य मणिपीठाद् बहिः प्राच्यादिचतुर्दिक्षु स्वाग्रादिषु प्रादक्षिण्येन परितः ओँ मुनिभ्यो नमः । तद्बहिः परितः ओँ देवेभ्यो नमः । तद्बहिः परितः ओँ शवेभ्यः, तद्बहिः परितः ओँ शवमुण्डेभ्यः, तद्बहिः परितः ओँ बहुमांसास्थिमोदमानशिवाभ्यः, तद्बहिः परितः ओँ चिताङ्गारास्थिभ्य इति विन्यस्य स्वस्य वक्षःस्थलमेवोक्तमणिपीठं विभाव्य स्कन्धद्वयमूरुद्वयं चेति पीठस्य पादचतुष्टयं मुखं नाभिः पार्श्वद्वयमिति पीठस्य गात्रचतुष्टयं च विभाव्य दक्षस्कन्धे ओँ धर्माय, वामस्कन्धे ओँ ज्ञानाय, वामोरुमूले ओँ वैराग्याय, दक्षोरुमूले ओँ ऐश्वर्याय, मुखे ओँ अधर्माय, वामपाश्वे ओँ अज्ञानाय, नाभौ ओँ अवैराग्याय, दक्षपार्श्वे ओँ अनैश्वर्याय इति विन्यस्य पुनर्हृदि तनुपद्मासनाय, आनन्दकन्दाय, संविन्नालाय, प्रकृतिमयपत्रेभ्यः, विकारमयकेसरेभ्यः, पञ्चाशद्वर्णबीजाढ्यकर्णिकायै । तस्यां मध्ये परितः सूर्यमण्डलाय द्वादशकलात्मने, तदभ्यन्तरे परितः सोममण्डलाय षोडशकलात्मने, सूर्यमण्डलाद् बहिः परितो वह्निमण्डलाय दशकलात्मन इति विन्यस्य पुनर्मध्य एव सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः, पं परमात्मने नमः, ह्रीँ ज्ञानात्मने नमः, मां मायातत्त्वाय नमः, कं कलातत्त्वाय नमः, विं विद्यातत्त्वाय नमः, पं परतत्त्वाय नम इति विन्यस्य हृदब्जकेसरेषु स्वाग्रादिप्रादक्षिण्येन पीठशक्तीर्न्यसेत् । ओँ लक्ष्म्यै नमः, ओँ सरस्वत्यै नमः, ओँ रत्यै नमः, ओँ प्रीत्यै नमः, ओँ कीर्त्यै नमः, ओँ शान्त्यै नमः, ओँ पुष्ट्यै नमः, ओँ तुष्ट्यै नम इति विन्यस्य कर्णिकामध्ये ह्सौँ सदाशिवमहाप्रेतपद्मासनाय नम इति पीठमन्त्रं न्यसेत् । [ततो वक्ष्यमाणरूपां देवीं ध्यात्वा वक्ष्यमाणयोन्यादिपञ्चमुद्राः प्रदर्श्य मानसैरुपचारैः सम्पूज्य मुखजिह्वाशोधने कुर्यात् । ह्रीँ ह्रीँ ह्रीँ इति मन्त्रस्य दशधा जपेन मुखशोधनं हूँ हूँ हूँ इति मन्त्रस्य दशधा जपेन जिह्वाशोधनं च भवति । तत ऋष्यादिन्यासान् विधायाष्टोत्तरशतं जपित्वा निवेदयेत् । अत्र केचित् तारापूजनक्रमे पीठन्यासो नास्ति, कुमारीतन्त्रोक्तपीठन्यासस्तु कालीपूजनाभिप्रायक एव, कुमारीतन्त्रस्य कालीप्रधानत्वादिति वदन्ति । तच्चिन्त्यम्, तत्तद्ग्रन्थानां तत्तद्देवताक्रममात्रविषयत्वे नानातन्त्रवचनसङ्ग्रहेण क्रमपूरकाणां निबन्धानां वैफल्यं कः परिहरेत् ? नहि केनचिदेकेनैव ग्रन्थेन कस्या अपि देवतायाः पूजनविधिः साकल्येन निर्वहति, किञ्च नहि कश्चिद् ग्रन्थः कस्याश्चित् देवतायाः, काचिद् देवता कस्मिँश्चिदेव ग्रन्थ इति नियमोऽस्ति, येनेदं भवेत् । बहुदेवतोद्देशेनैकग्रन्थस्य एकदेवतोद्देशेन बहूनां ग्रन्थानां च प्रवृत्तत्वात् । तथा चैकस्यापि ग्रन्थस्योपक्रमोपसंहाराभ्यां प्रकरणभेदेन देवताविशेषक्रमोपदेशकत्वं बहूनां ग्रन्थानां चैकस्या अपि देवतायाः शक्ताशक्तविभेदेन गुरुलघुक्रमपरतया विकल्पोपदेशकत्वं च सिध्यति । न चैवं कुमारीतन्त्रोक्तपीठन्यासवचनस्य कालीप्रकरणस्थत्वेन तत्परत्वेन किं न स्यादिति वाच्यम्, यथा काली तथा तारा इत्यभिदेशेन ताराक्रमेऽपि तदन्वयस्योचितत्वात् । आकाङ्क्षितस्थाने ऽप्यप्रवृत्तावप्यप्रवृत्तावतिदेशस्य निर्विषयत्वमेव स्यादिति दिक् । नव्यकेरलास्तु देवतापीठशक्तीनां न्यासः प्रमाणशून्य एव, तासां बाह्यपीठे पूजनस्यैवोक्तत्वादित्याहुः । तदपि प्रमाणादर्शनमूलकमेव । तथा च कुमारीतन्त्रे पीठन्यासं ततः कुर्यादित्युपक्रम्य - धर्मादीँश्चाप्यधर्मादीन् पादगात्रचतुष्टये । हृदि पद्मं तथा पद्मे सूर्यसोमौ महेश्वरि ॥ वैश्वानरं तथा मन्त्रं रजश्चैव तथा तमः । आत्मानं चैव विन्यस्य शक्तीर्हृदयपद्मके ॥ विन्यसेदित्युक्तम् । ]

ततः सप्तच्छदवृत्तिः

[ सा च ह्रीँ मूलं ओँ ह्रीँ एवं रूपस्य सप्तकृत्वो जपेन भवति । ] तदुक्तं वशिष्ठसंहितायां - ततस्तु कारयेद् विद्वान् सप्तच्छदवृतिं द्विजः । ह्रीँकारसम्पुटं कृत्वा ओँकारेण समन्वितम् ॥ पूजादौ प्रत्यहं विप्रः सप्तकृत्वो जपेन्मनुम् ॥ इति ।

अथ मन्त्रशुद्धिः

ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च । क्रमात्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरियं मता ॥ इति । अं ह्रीं आं स्त्रीँ इं हूँ ईं फट् उं ह्रीं ऊं स्त्रीँ ऋं हूँ ॠं फट् ऌं ह्रीं ॡं स्त्रीँ एं हूँ ऐं फट् ओं ह्रीं औं स्त्रीँ अं हूँ अः फट् कं ह्रीं खं स्त्रीँ गं हूँ घं फट् ङं ह्रीं चं स्त्रीँ छं हूँ जं फट् झं ह्रीं ञं स्त्रीँ टं हूँ ठं फट् डं ह्रीं ढं स्त्रीँ णं हूँ तं फट् थं ह्रीं दं स्त्रीँ धं हूँ नं फट् पं ह्रीं फं स्त्रीँ बं हूँ भं फट् मं ह्रीं यं स्त्रीँ रं हूँ लं फट् वं ह्रीं शं स्त्रीँ षं हूँ सं फट् हं ह्रीं ळं स्त्रीँ क्षं हूँ क्षं फट् ळं ह्रीं हं स्त्रीँ सं हूँ षं फट् शं ह्रीं वं स्त्रीँ लं हूँ रं फट् यं ह्रीं मं स्त्रीँ भं हूँ बं फट् फं ह्रीं पं स्त्रीँ नं हूँ धं फट् दं ह्रीं थं स्त्रीँ तं हूँ णं फट् ढं ह्रीं डं स्त्रीँ ठं हूँ टं फट् ञं ह्रीं झं स्त्रीँ जं हूँ छं फट् चं ह्रीं ङं स्त्रीँ घं हूँ गं फट् खं ह्रीं कं स्त्रीँ अः हूँ अं फट् औं ह्रीं ओं स्त्रीँ ऐं हूँ एं फट् ॡं ह्रीं ऌं स्त्रीँ ॠं हूँ ऋं फट् ऊं ह्रीं उं स्त्रीँ ईं हूँ इं फट् आं ह्रीं अं ॥ इति मन्त्रशुद्धिः ॥

अथ द्रव्यशुद्धिः

सा च स्वीयाङ्गमन्त्रेषु षष्ठमङ्गमन्त्रं जपन् कुशैः प्रोक्षणेन धेनुमुद्रयामृतीकरणेन भवति । उक्तं च कुलार्णवे - पूजाद्रव्याणि सम्प्रोक्ष्य मूलास्त्राद्भिर्विधानतः । दर्शयेद् धेनुमुद्रां च द्रव्यशुद्धिः प्रकीर्तिता ॥ इति ।

अथासादनं

तत्र गन्धपुष्पादिपूजासाधनं मूलमन्त्रजप्ततोयैः सम्प्रोक्ष्य स्वस्य दक्षिणभागे स्थापयेत् । पूजासाधनस्थूलजलपात्रं च स्वस्य वामभागे स्थापयेत् । घृतादिप्रज्वलितान् दीपादीँश्च परितः स्थापयेदिति । [ पुष्पाणां विहितत्वाविहितत्वविभागस्तु मूलग्रन्थेषु द्रष्टव्यः, विस्तरभयादत्र न लिखितः । पुष्पमाहात्म्यं यामले - पुष्पैर्देवाः प्रसीदन्ति पुष्पे देवाश्च संस्थिताः । किं चातिबहुनोक्तेन पुष्पस्योक्तिर्मतल्लिका ॥ परञ्ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति । त्रिवर्गसाधनं पुष्पं पुष्पं श्रीस्वर्गमोक्षदम् ॥ पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः । पुष्पाग्रे च महादेवः सर्वे देवाः स्थिता दले ॥ तस्माद् पुष्पैर्यजेद् देवान् नित्यं भक्तियुतो नरः ॥ इति । ]

अथ कलशस्थापनं

स्वस्य वामभागे सिन्दूरादिरजसा स्वाग्रत्रिकोणषट्कोणवृत्तचतुरस्रात्मकं मण्डलं विधाय तत्रास्त्रमन्त्रेण क्षालितं कञ्चिदाधारं स्थापयेत् । आधारभेदाश्च कुलार्णवे - आधारं त्रिविधं प्राहुः षट्पदं वा चतुष्पदम् । अथवा वर्तुलाकारं कुर्याद् देवि मनोहरम् ॥ इति । तस्यावश्यकत्वं तत्रैव - आधारेण विना भ्रंशो नहि तुष्यन्ति देवताः । तस्माद् विधिवदाधारं कल्पयेद् कुलनायिके ॥ तमाधारं मं दशकलात्मने वह्निमण्डलाय नम इति सम्पूज्य तदुपरि कांसायसवर्जं सौवर्णं राजतं ताम्रमयं मृण्मयं वास्त्रमन्त्रेण क्षालितं सुगन्धिवासितं रक्तवस्त्रयुग्मेन वेष्टितं रक्तपुष्पमालालङ्कृतं लक्षणोपेतं कुम्भं स्थापयेत् । लक्षणं तु तन्त्रे - पञ्चाशदङ्गुलव्यास उत्सेधः षोडशाङ्गुलः । कलशानां प्रमाणं तु मुखमष्टाङ्गुलं भवेत् ॥ इति । तं कुम्भं अं द्वादशकलात्मने सूर्यमण्डलाय नम इति सम्पूज्य मूलं जपन् शुद्धोदकेन पूरयेत् । उं षोडशकलात्मने चन्द्रमण्डलाय नम इति सम्पूज्य कुम्भजलं च पूजयेत् ।

अथान्तर्यागः

आत्मदेहं तारिणीमयं विभाव्य मूलाधारात् कूर्चबीजोत्थध्वनिना कुण्डलिनीमुत्थाप्य प्राणवायुना सह ब्रह्मरन्ध्रस्थबिन्दुस्थानं नीत्वा कुण्डलिनीं मूलाधारगतां विभावयेत् । ततः कदम्बगोलकाकारस्य बिन्दोः कुहरे लीनं धूम्रवर्णं शिवशक्त्यात्मकं विश्वं नादयोगात् प्रवहदमृतधारारूपेण परिणतं विभाव्य तस्याममृतधारायामुत्पन्नमुद्भटशक्त्यालिङ्गितं महाबौद्धं विचिन्त्य मृगी हंसो वज्रिणीति तिस्रो मुद्राः प्रदर्श्य सुषुम्णापात्रे महाबौद्धमुद्भटां शक्तिं तालुमूलस्थनागमूर्धनि मनसा प्रत्येकं त्रिः सन्तर्प्य स्वशिरसि दक्षिणोत्तरायतं गुरुपङ्क्तित्रयं स्मरेत् । तत्रोर्ध्वपङ्क्तौ स्वशिरसो दक्षभागप्रान्तमारभ्य ऐँ ह्रीँ श्रीँ नमः ओँ ह्रीँ स्त्रीँ हूँ फट् व्योमकेशानन्दनाथं तर्पयामि स्वाहा । एवं त्रितार्युत्तरं नमस्ततो मूलं सर्वत्र बोध्यम् । ऐँ ह्रीँ श्रीँ नमो मूलं ऊर्ध्वकेशानन्दनाथं तर्पयामि स्वाहा । एवं नीलकण्ठानन्दनाथ-व्योमाम्बा-वृषध्वजानन्दनाथ-नीलानन्दनाथान् स्वशिरसो वामभागपर्यन्तं पङ्क्तिक्रमेण स्थितान् षड़दिव्यौघान् गुरून् सन्तर्प्य गुरूणां मध्ये मध्ये श्रीमदुग्रताराया व्याप्तिं स्मृत्वा ऐँ ह्रीँ श्रीँ नमो मूलं श्रीमदुग्रतारां तर्पयामि स्वाहा (इति) सकृत् सन्तर्पयेत् । ( अत्र वाराणसीमातृकारम्भः ।) मध्यमपङ्क्तौ पूर्ववत् मत्स्यानन्दनाथ-कूर्मानन्दनाथ-वशिष्ठानन्दनाथ-महेश्वरानन्दनाथ-तारावत्यम्बा-भानुमत्यम्बा-विजयाम्बा-विद्याम्बा-महोदर्यम्बा इति तथैव स्थितान् नवसिद्धौघान् गुरुन् सन्तर्प्य एषां गुरूणां मध्ये मध्ये एकजटाव्याप्तिं स्मृत्वा ऐँ ह्रीँ श्रीँ नमो मूलं श्रीमदेकजटां तर्पयामि स्वाहा इति सकृत् सन्तर्पयेत् । अधस्तनपङ्क्तौ तथैव सुखानन्दनाथ-परानन्दनाथ-पारिजातानन्दनाथ-कुलेश्वरानन्दनाथ-विरूपाक्षानन्दनाथ-भीमानन्दनाथ-फेरव्यम्बा-सुषुम्णाम्बा-पराम्बा-बुद्ध्य्म्बा-पश्यन्त्यम्बा-वैखर्यम्बा-पारिजातेश्वर्यम्बा-वागम्बा इति तथैव स्थितान् चतुर्दश मानवौघान् गुरून् सन्तर्प्य एतेषां गुरूणां मध्ये मध्ये नीलसरस्वत्या व्याप्तिं स्मृत्वा ऐँ ह्रीँ श्रीँ नमः श्रीमन्नीलसरस्वतीं तर्पयामि स्वाहेति सकृत् सन्तर्पयेत् । ततो मूलाधारे स्वयम्भूलिङ्गोपरि स्वात्मानं तर्पयेत् । अत्र स्वनामान्ते आनन्दपदं संयोज्य ऐँ ह्रीँ श्रीँ नमो मूलं अमुकानन्दनाथं तर्पयामि स्वाहा । ततः ऐँ ह्रीँ श्रीँ नमो मूलं कुलकुण्डलिनीं तर्पयामि स्वाहा इति तर्पयेत् । अत्र कुण्डलिनी-परशिवयोः संयोगेन परस्परसामरस्यात्मकमैथुनादुत्पन्नेन शक्तिरसात्मकमद्येनोक्तदिशा तर्पणभावनैवान्तर्यागपदार्थः । प्रयोगाश्च त्रितारीपूर्वकाः सकृत् सकृत् तर्पणपरा मानसा बोध्याः । इममेवार्थमनुरुद्ध्य कुलचूडामणिवचनं - अलिना पिशितं मीनं मुद्रां मैथुनमेव च । मकारपञ्चकं यत्र तत्र देवो न संशयः ॥ अलिना मद्येन सह पिशितादिपञ्चकमित्यर्थः । मकारादिपदार्थपञ्चकमित्यर्थः । यत्र पूजने मकारादिपदार्थपञ्चकं पदार्थपञ्चकभावनाऽस्ति, तत्र पूजने भावनारूपे देवी दिव्यरूपा कुण्डलिनी प्रसीदति स्वात्मरूपेण परिणता भवति । न संशय इति ब्रह्मरन्ध्रे भवतीति श्रुतेरिति भावः । न मद्यं माधवीमद्यं मद्यं शक्तिरसोद्भवम् । सुषुम्णा शङ्खिनी मत्स्यं मुद्रा उन्मन्यनुत्तमा ॥ सामरस्यामृतोल्लासं मैथुनं तत्सदाशिवम् । दिव्यं वीरं पशुं चैव पानं त्रिविधमेव च ॥ पशुपानरतो वीरः स भक्ष्यो योगिनीगणैः । दिव्यपानरतो वीरो देवीसायुज्यमाप्नुयात् ॥ देशिको वीरपानेन देवीलोकं स गच्छति । साधकः पशुपानेन रौरवं नरकं व्रजेत् ॥ प्राणापानौ समाहारौ प्रत्याहारं मनःस्थिरम् । भानुमण्डलभेदित्वात् चन्द्रमण्डलमध्यगम् ॥ सुषुम्णावर्त्मना नित्यं सुधाधाराप्रवर्षिणम् । दिव्यपानमिदं प्रोक्तं सर्वसिद्धिकरं परम् ॥ त्यक्तसर्वाशयामूलवासनामूलसञ्चयः । कौलिकाचारयोगेन पञ्चत्वेन तदर्पयेत् ॥ षट्चक्रक्रमभेदेन हुनेद् द्रव्यं समन्त्रकम् । ध्यानार्चनपरावस्था वीरपानमनुत्तमम् ॥ आसक्तो लोलुपो दम्भो मन्त्रार्थे अप्रसङ्गतः । कामुकः कार्यनिर्देशे पशुपानं तदुच्यते ॥ इत्यादि । इत्थमन्तर्यागं विधाय मन्त्रशिखाभ्यासं कुर्यात् । तथा हि -मूलाधारस्थस्वयम्भूलिङ्गवेष्टिनीभूतां सार्धत्रिवलयाकारां बिसतन्तुतनीयसीं ह्रीँ बीजार्थभूतां कुण्डलिनीं हूँबीजोत्थध्वनिनोत्थाप्य सुषुम्णाध्वना स्वाधिष्ठानादिचक्रभेदेनोद्गच्छन्तीं विद्युत्प्रभां विद्युच्चलां मधुरं कूजन्तीं तां ब्रह्मरन्ध्रोपरिवर्तिन्यमृतमये परमशिवे मग्नां विभाव्य पुनस्ततो निर्गत्याधःपतन्तीममृताप्लुतामन्तर्देहममृतं क्षरन्तीं स्वस्थानमूलाधारगतां स्मरेत् । इत्थमेतस्या यातायातक्रमः पुनः पुनरनुसन्धेय इति मन्त्रशिखा । शिखेव शिखा मन्त्रस्याकुण्ठता सामर्थ्यमिति यावत् । एवमभ्यासे कृते भवतीति तात्पर्यार्थः । मन्त्रशिखाभ्यासस्यावश्यकत्वं तु सिद्धेश्वरतन्त्रे - तमोयुक्ते यथा गेहे न किञ्चिद् प्रतिभासते । शिखाहीने तथा मन्त्रे न सिद्धिः कल्पकोटिभिः ॥ इति मन्त्रशिखाभ्यासः ॥

अथार्घस्थापनं

[ तथा च तन्त्रे - साध्यसाधकयोर्मध्ये षट्त्रिंशदङ्गुलं भवेत् । द्वादशाङ्गुलमूर्ध्वं च अधोभागे तथाङ्गुलम् ॥ द्वादशाङ्गुलमध्यस्थं तत्र संस्थापयेद् बुधः । तथाङ्गुलं द्वादशाङ्गुलम् । तथा - स्वार्थं च द्वादशं त्यक्त्वा देवार्थं द्वादशं त्यजेत् । द्वादशाङ्गुलमध्यस्थं तत्र चार्घं निधापयेत् ॥ इति कुमारीकल्पे । ततोऽर्घं स्थापयेन्मन्त्री स्ववामे सुरसुन्दरी । इति त्रिशक्तिरत्ने । कलशाद् दक्षिणे भागे त्रिकोणं वृत्तसंयुतम् । षट्कोणं चतुरस्रं च कृत्वा तन्मध्यभागतः ॥ विलसच्चन्द्रशकलं गन्धर्वं च समालिखेत् । ओजापूकादिकं पीठं तच्चतुर्दिक्षु पूजयेत् ॥ अङ्गमन्त्रैश्च षट्कोणे शक्तौ मूलत्रिभेदतः । आधारशक्तिं सम्पूज्य पूर्ववद् यन्त्रिकामपि ॥ महाशङ्खं नारिकेलं सौवर्णं राजतं तथा । ताम्रं शुक्तयुद्भवं वापि पात्रं तत्र निधापयेत् ॥ विलसच्चन्द्रशकलं गन्धर्वमिति अर्धचन्द्रानुस्वारशिरस्कमीकारमित्यर्थः । ओजापूकादिपीठानि ओड्यान-जालन्धर-पूर्णगिरि-कामरूपाणि । एतेषां पूजनं दिक्षु प्राक्प्रत्यग्दक्षिणोत्तरेषु चतुरस्ररेखायां स्वाग्रादिप्रादक्षिण्येनैव सम्प्रदायादिति केचित् । वस्तुतो यद्दिशि यत्पीठं तत्रैव तत्पूजनस्योचितत्वादुक्त एव पन्थाः । अङ्गपूजने तु अङ्गमन्त्रेषु नमःपदमेव प्रयोज्यं न तु स्वाहा वषट् इत्यादि जात्यन्तरमपि । ``अङ्गानां पूजनं प्रोक्तमङ्गमन्त्रैर्नमोन्तकैः'' इति सामान्यविधानात् । शक्तौ त्रिकोणे मूलत्रिभेदतो मूलमन्त्रस्य त्रिभिर्भागैराधारशक्तिपूजनं च । त्रिकोणमध्यस्थं ईङ्कारे यन्त्रिकार्धाधारत्रिपादिकेव । महाकारकतन्त्रे तु - विश्वामित्रकपालं तु सर्वपात्रोत्तमोत्तमम् । ब्रह्महत्यादिपापानि विश्वासघातनं तथा ॥ दृष्ट्वा पात्रं नारिकेलं सर्वमेव प्रणश्यति । कन्याकोटिप्रदानानि तथा हेमशतानि च ॥ यो ददाति महेशानि राहूग्रस्ते दिवाकरे । तद्फलं कोटिगुणितं नारिकेलार्धपात्रतः ॥ अलाभे तस्य पात्रस्य अन्यपात्रेण पूजनम् । इत्युक्तम् । सारसङ्ग्रहे - मूलेन क्षालितं शङ्खमाधारं स्थापयामि च । काणं सबिन्दुकं तद्वद् भुजङ्गेशं समुद्धरेत् ॥ वह्न्यन्ते मण्डलायेति तथा धर्मप्रदेति च । दशकलात्मने चोक्त्वा नमो गन्धादिभिर्यजेत् ॥ इति । काणं मकारम् । भुजङ्गेशं रेफम् । तद्बिन्दुयुतं तथा अस्त्रेण क्षालितं शङ्खम् । तत्र संस्थाप्य प्रपूजयेत् । अर्घमानं तु प्रादेशं चतुरङ्गुलमुच्छृतम् । अर्धपात्रमिदं प्रोक्तं स्थापयामीति मन्त्रतः ॥ अमर्कमण्डलायेति वदेद् द्वादश इत्यथ । कलात्मने पदं प्रोक्त्वा अर्घपात्राय हृन्मनुः ॥ अनेन शङ्खमभ्यर्च्य कलाः सूर्यस्य पूजयेत् ॥ इति । तन्त्रान्तरे - क्रोधबीजास्त्रबीजाभ्यामाधारे क्षालितं शुभम् । महाशङ्खं ततो मन्त्री स्थापयेत् स्त्रीँपठँस्ततः ॥ शिवां दीर्घत्रयोपेतां कालीब्रह्मारमान्विताम् । दीर्घः शचीपतिर्वायुर्हृदयं मन्मथान्तिमम् ॥ दीर्घत्रयसमोपेतं तारिणी दीर्घवत् पुनः । शिवं दीर्घत्रयोपेतं नीलाशब्दात्तु पूर्ववत् ॥ मायां शरान्तिमं शम्भुं वामकर्णेन भूषितम् । सर्वकामः कालरात्रिर्दीर्घालापपदी ततः ॥ सर्वाधाराय सर्वाय सर्वोद्भवाय शब्दतः । सर्वशुद्धिमयायाथ सर्वासुरपदात्ततः ॥ रुधिरारुणकान्तिः क्षुत् शुभ्राय सुरभाजन । आय देवीकपालाय हृदयान्तो मनुर्मतः ॥ एभिश्चतुर्भिर्मनुभिर्महाशङ्खं प्रपूजयेत् । क्रोधबीजास्त्रबीजाभ्यामिति हूँ फट् इति बीजाभ्याम् । महाशङ्खं नररोटिका सा तु वीरस्यैव । शङ्खादिपात्राणि धारणीयानि बोध्यानि । स्त्रीँपठन्निति स्त्रीँ इति स्वरूपतो ग्राह्यम् । महीधरस्तु स्थीमित्याह न स्त्रीँ तथा चानयोर्बीजयोः क्वचिद् विश्वसितव्यम् । शिवा ह्रीँ दीर्घत्रयं आं ईं ऊं प्राथमिकत्यागानौचित्यात् । कालीति स्वरूपम् । ब्रह्मा ककारः । रमा पकारः । आयुता आकारयुक्ता । दीर्घः शचीपतिः आकारसहितो लकारः । वायुर्यकारः । हृदयं नमः । मन्मथान्तिमं स्त्रीँबीजम् । तारिणीति स्वरूपं पुनः पूर्ववत् । कपालाय नमः । शिवं हकारम् । नीलास्वरूपं पूर्ववत् । कपालाय नम इति । मायां ह्रीङ्कारम् । शरान्तिमं सः इति बीजम् । शम्भुं हकारं वामकर्णेन्दुसंयुतं दीर्घोकारानुस्वारयुतम् । सर्वेति स्वरूपम् । कामः ककारः कालरात्रिः दीर्घाकारसहितः पकारः । कपालाय स्वरूपम् । कान्तिराकारः । क्षुत् यकारः । तन्त्रान्तरे - ततः सुधामयैस्तोयैर्मूलान्तां मातृकां पठन् । विलोमां पूरयेत् तस्मिन् पूजको मनुनामुना ॥ अर्घपात्रं पूरयामीत्युक्त्वा सम्पूरयेत्ततः । कर्णचन्द्रौ बिन्दुयुतौ कामप्रदप्रदां ततः ॥ षोडशान्ते कलाः शब्दायात्मने नम इत्यथ । गन्धपुष्पैः समभ्यर्च्य कलाः षोडशकं यजेत् ॥ सुधामयैः सुधात्वेन भावितैः । अनुलोममूलमन्त्रे यस्यास्तां मातृकां विलोमां पठन् इति योजना । कर्ण उकारः, चन्द्रः सकारः, तौ बिन्दुयुतौ उं सं इति भवतः । कर्ण उकारः, चन्द्रोऽर्धचन्द्रः, बिन्दुरनुस्वारः, तेन उँ इति ठक्कुरकृते प्रामादिक एव, चन्द्रपदस्यार्धचन्द्रपरत्वाप्रसिद्धत्वात्, अर्धचन्द्रानुस्वारयोगस्याप्यसम्भवत्वात् । नहि वस्तुतः कर्णचन्द्रौ बिन्दुयुतावित्यत्र कर्णे एव बिन्दुचन्द्रौ प्रतीयेते, किन्तु कर्णचन्द्रयोर्बिन्दुरेवेति, चन्द्रपदस्य दन्त्यसकारेऽपि रूढत्वाच्च । उक्तं च मन्त्रदीपिकायां - तारभागादिकैरर्चेत् स्वबीजैर्मण्डलत्रयम् ॥ वह्न्यादीनां कलास्तु कुलार्णवे - धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ॥ आग्नेय यादिवर्णोत्था दश धर्मप्रदाः कलाः ॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ कभाद्या वसुदा सौरा ठण्डान्ता द्वादशेरिताः । अमृता मानदा पूषा तुष्टिपुष्टी रतिर्धृतिः ॥ शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा । पूर्णा पूर्णामृता वेति कथिता कुलनायिके । सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः ॥ इति । तथा च तन्त्रे - मूलेन पूरयेन्मन्त्री सुधाबुद्ध्या विधानवित् । गन्धपुष्पाक्षतान् क्षिप्त्वा त्रिखण्डां दर्शयेत् पुनः ॥ पीयूषरोचिषो मन्त्री मण्डलं तत्र पूजयेत् । तारंशक्तिं रमेशक्तिमनुस्वारविभूषिताम् ॥ मूलं तृतीयं भैरव्याः क्रोधबीजसमुज्ज्वलम् ॥ अनेन मनुना मन्त्री भावयेदष्टशो जलम् । शक्त्या सुधां विनिक्षिप्य शङ्खयोनी प्रदर्शयेत् ॥ ] तथा - प्राग्वत् तीर्थं समावाह्य तीर्थमन्त्रेण तत्र च । संयोज्य तेन मन्त्रेण पुष्पं न्यस्य शिखाणुना ॥ प्रदर्श्य गालिनीं मुद्रां मुद्रया धेनुसंज्ञया । अमृतीकृत्य विधिवत् सुधाबीजेन साधकः ॥ ध्यात्वेष्टदेवतां तत्र सकलीकृत्य पुष्पतः । अङ्गमन्त्रेण चास्त्रेण कलयेच्च दिशो दश ॥ तेन मन्त्रेण संवीक्ष्य मुद्रया शङ्खसंज्ञया । अवष्टभ्य ततोद्दीप्य मुद्रया योनिसंज्ञया ॥ गन्धपुष्पादिभिस्तत्र पूजयेदिष्टदेवताम् । षडङ्गानि च सम्पूज्य मन्त्रयेन्मूलमन्त्रतः ॥ अष्टकृत्वस्ततश्चार्धं छादयेन्मत्स्यमुद्रया । प्राग्वद् अङ्कुशमुद्रया क्रोँ इति सूर्यमण्डलं भित्वा मन्त्रेण गङ्गे चेत्यादिना अर्घजले शिखाणुना वषट् इत्यनेन । सुधाबीजेन वं इत्यनेन । पुष्पतोऽङ्गन्यासेन सकलीकृत्य, अस्त्रेण अङ्गमन्त्रान्तिमेन दश दिशो कलयेत्, तालत्रयं दत्वा तर्जन्यङ्गुष्ठोत्थध्वनिना बन्धयेदित्यर्थः । शेषः प्रयोग एव । वृत्ताष्टदलषट्कोणे मूलगर्भे मनोहरे । वक्ष्यमाणप्रकारेण संविचिन्त्य महेश्वरीम् ॥ उपचारैः प्रपूज्यैनां मूलमन्त्रेण मन्त्रवित् । अङ्गुष्ठानामिकायोगात्तर्पयेत्तेन तारिणीम् ॥ तर्जन्यङ्गुष्ठयोगेन मध्यमाङ्गुष्ठयोगतः । अनामाङ्गुष्ठयोगेन कनिष्ठाङ्गुष्ठयोगतः ॥ तर्पयेद् वेदवारं तां मूलमन्त्रेण देवताम् । इति । मूलेन विलोममातृकान्तमूलेन सुधाबुद्ध्या हूँबीजोत्थध्वनिना मूलाधारादुत्थितकुण्डलिन्याः सुषुम्णामार्गेण षट्चक्राणि भित्वा द्वादशान्तर्वर्त्तिपरमशिवसङ्गादुत्पन्नाया वहन्नासाध्वनाधःपतन्त्याः सुधाया बुद्ध्या विधानविदिति । इदमेव विधानं भावनारूपमित्यर्थः । शक्तमिति व्यस्तपदम् । एकारपदं सुन्दरीमन्त्रोद्धारे तथा दर्शनात् । मायाबीजपरत्वे त्वनुस्वारमिति विशेषणस्यैव वैयर्थ्यं स्यादिति । भैरव्यास्तृतीयमिति सम्बन्धः । क्रोधबीजसमुज्ज्वलं हूँकारसहितं भावयेत् । मन्त्रदेवताजलानामैक्यं चिन्तयेत् । मूलगर्भे त्रिकोणगर्भे । वेदवारं चतुश्चतुर्वारम् । ]

अथ प्रयोगः

तत्र पूज्यपूजकयोर्मध्ये किञ्चिद् वामभागे षट्त्रिंशदङ्गुलपरिमितं स्थानं गृहीत्वा देवताग्रे द्वादशाङ्गुलं स्वाग्रे च द्वादशाङ्गुलं परित्यज्य मध्यस्थद्वादशाङ्गुलस्थाने शङ्खस्थापनं कुर्यात् । तत्र स्थाने रक्तचन्दनादिना स्वाग्रत्रिकोणवृत्तषट्कोणचतुरस्रात्मकं मण्डलं विरच्य त्रिकोणमध्ये ईङ्कारं विलिखेत् । चतुरस्त्ररेखायां प्राक्प्रत्यग्दक्षिणोत्तरदिक्षु (प्रादक्षिण्येन वा) ओँ ओड्यानपीठाय नमः, ओँ जालन्धरपीठाय नमः, ओँ पूर्णगिरिपीठाय नमः, ओँ कामरूपपीठाय नम इति सम्पूज्य षट्कोणे स्वाग्रादिप्रादक्षिण्येन ह्राँ एकजटायै हृदयाय नमः, ह्रीँ तारिण्यै शिरसे नमः, ह्रूँ वज्रोदके शिखायै नमः, ह्रैँ उग्रजटे कवचाय नमः, ह्रौँ महापरिसरे नेत्रत्रयाय नमः, ह्रः पिङ्गोग्रैकजटे अस्त्राय नम इति षडङ्गानि सम्पूज्य त्रिकोणस्यास्त्रत्रये स्वाग्रादिप्रादक्षिण्येन ओँ ह्रीँ नमः, स्त्रीँ हूँ नमः, फट् नम इति मूलखण्डत्रयेण सम्पूज्य त्रिकोणान्तर्गते ईङ्कारे ओँ आधारशक्तये नम इति सम्पूज्य तदुपरि मूलमन्त्रेण क्षालितां त्रिपादिकां तारिणीशङ्खाधारं स्थापयामीति मन्त्रेण निदध्यात् । मं रं वह्निमण्डलाय धर्मप्रददशकलात्मने तारिणीपात्राधाराय नम इति त्रिपादिकां गन्धादिभिः पूजयेत् । ततस्त्रिपादिकावलये स्वाग्रादिप्रादक्षिण्येन यं धूम्रार्चिषे नमः, रं ऊष्मायै नमः, लं ज्वलिन्यै नमः, वं ज्वालिन्यै नमः, शं विस्फुलिङ्गिन्यै नमः, षं सुश्रियै नमः, सं सुरूपायै नमः, हं कपिलायै नमः, ळं हव्यवहायै नमः, क्षं कव्यवहायै नम इति सम्पूज्य लेलिहामुद्रया त्रिपादिकां स्पृष्ट्वा आँ ह्रीँ क्रौँ हंसः धूम्रार्चिषादीनां प्राणा इह प्राणाः, आँ ह्रीँ क्रौँ हंसः धूम्रार्चिषादीनां जीव इह स्थितः, आँ ह्रीँ क्रौँ हंसः धूम्रार्चिषादीनां सर्वेन्द्रियाणि इह स्थितानि, ओँ ह्रीँ क्रोँ हंसः धूम्रार्चिषादीनां वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा इति धूम्रार्चिषादीनां प्राणप्रतिष्ठां कुर्यात् । ततः प्रादेशदीर्घं चतुरङ्गुलोन्नतं शङ्खं ``हूँ फट्'' इति मन्त्रेण प्रक्षाल्य स्त्रीँ श्रीतारिण्यर्घपात्रं स्थापयामीति मन्त्रेण त्रिपादिकोपरि शङ्खं संस्थाप्य अं मं अर्कमण्डलायार्थप्रदद्वादशकलात्मने श्रीतारिणीपात्राय नम इति शङ्खं सम्पूज्य शङ्खोपरि स्वाग्रादिप्रादक्षिण्येन वृत्ताकारं यथा भवति तथा सूर्यस्य द्वादशकलाः पूजयेत् । कं भं तपिन्यै नमः, खं बं तापिन्यै नमः, गं फं धूम्म्रायै नमः, घं पं मरीच्यै नमः, ङं नं ज्वालिन्यै नमः, चं धं रुच्यै नमः, छं दं सुषुम्णायै नमः, जं थं भोगदायै नमः, झं तं विश्वायै नमः, ञं णं बोधिन्यै नमः, टं ढं धारिण्यै नमः, ठं डं क्षमायै नम इति सम्पूज्य उक्तमुद्रया शङ्खं स्पृष्ट्वा तपिन्यादीनां प्राणान् प्रतिष्ठाप्य पुनर्मन्त्रचतुष्टयेन शङ्खं पूजयेत् । ह्राँ ह्रीँ ह्रूँ कालीकपालाय नमः । स्त्राँ स्त्रीँ स्त्रूँ तारिणीकपालाय नमः । हाँ हीँ हूँ नीलाकपालाय नमः । ह्रीँ सः हूँ सर्वकपालाय सर्वाधाराय सर्वाय सर्वोद्भवाय सर्वशुद्धिमयाय सर्वासुररुधिरारुणाय शुभ्राय सुराभाजनाय देवीकपालाय नम इति मन्त्रचतुष्टयेन शङ्खं सम्पूज्य विलोममातृकां मूलं श्रीमदुग्रतारार्घं पूरयामीति पठन् सुधाधिया शङ्खं पूरयित्वा तत्र शङ्खजले गन्धपुष्पाक्षतान् दत्वा त्रिखण्डामुद्रां प्रदर्शयेत् । ततः उं सं चन्द्रमण्डलाय कामप्रदषोडशकलात्मने तारिणीपात्रामृताय नम इति चन्द्रमण्डलं सम्पूज्य तत्रैव स्वाग्रादिप्रादक्षिण्येन मण्डलाकारं यथा स्यात्तथा चन्द्रमसः षोडशकलाः पूजयेत् । तद्यथा - अं अमृतायै नमः, आं मानदायै नमः, इं पूषायै नमः, ईं तुष्ट्यै नमः, उं पुष्ट्यै नमः, ऊं रत्यै नमः, ऋं धृत्यै नमः, ॠं शशिन्यै नमः, ऌं चन्द्रिकायै नमः, ॡं काल्यै नमः, एं ज्योत्स्नायै नमः, ऐं श्रिये नमः, ओं प्रीत्यै नमः, औं अङ्गदायै नमः, अं पूषायै नमः, अः पूर्णामृतायै नम इति सम्पूज्य ``आँ ह्रीँ क्रोँ हंस'' इत्यादि प्राणप्रतिष्ठामन्त्रेणामृतादीनां प्राणान् प्रतिष्ठाप्य ``ओँ ह्रीँ श्रीँ एँ ओँ मूलं ह्सौँः हूँ'' इति मन्त्रेणाष्टकृत्वो जप्तेनार्घजलं देवतात्मकं भावयेत् । ततः ``ह्रीँ'' इति बीजेन भ्रूमध्यस्थबिन्दोः परमामृतबिन्दुपातं विभाव्य शङ्खमुद्रां योनिमुद्रां च प्रदर्शयेत् । ततः ``क्रोँ'' इति बीजेनाङ्कुशमुद्रया श्रीसूर्यमण्डलात्तीर्थान्यावाह्य गङ्गे चेत्यादिना मन्त्रेण तीर्थान्यर्घजले संयोज्य तर्जन्यङ्गुष्ठाभ्यां ``वषट्'' इति मन्त्रेण तत्र पुष्पं दत्वा गालिनीमुद्रां प्रदर्शयेत् । ततो वं इति धेनुमुद्रया अमृतीकृत्य [तस्मिन् जले चक्रं भावयेत् । तच्च स्वाग्रादिवामभागे अं आं इत्यादि षोडशस्वरपङ्क्तिरेखात्मकं परभागे कं इत्यादि तं इत्यन्तं षोडशवर्णपङ्क्तिरूपरेखात्मकं दक्षभागे थं इत्यादि सं इत्यन्तं षोडशवर्णपङ्क्तिरूपरेखात्मकं मध्ये हं ळं क्षं इति वर्णत्रयरूपबिन्द्वात्मकं स्वाग्रत्रिकोणं तद्बहिरष्टदलं तद्बहिर्वृत्तमित्येवं रूपम् । ] तत्र ध्यानोक्तरूपामिष्टदेवतां ध्यात्वा पुष्पेण देवतायास्तत्तदङ्गेषु षडङ्गन्यासात्मकं सकलीकरणं विधायं तालत्रयं दत्वा मूलेन ह्रः पिङ्गोग्रैकजटे अस्त्राय फट् इति जपन् तर्जन्यङ्गुष्ठोत्थध्वनिना दशदिग्बन्धनं कुर्यात् । ततो वौषट् इति स्वप्रतिबिम्बं यथा न पतति तथा संवीक्ष्य शङ्खमुद्रया अवष्टभ्य योनिमुद्रया उद्दीप्य मूलमन्त्रेणेष्टदेवतां गन्धपुष्पाक्षतैः सम्पूज्य पूर्वोक्तरीत्या नमोन्तैः षडङ्गमन्त्रैः षडङ्गानि सम्पूज्याष्टकृत्वो मूलमन्त्रेणार्घजलमभिमन्त्र्यार्घजलं मत्स्यमुद्रया आच्छादयेत्, शङ्खस्य किञ्चिज्जलं कुम्भजले च दद्यात् । ततोऽर्घस्थां देवतामर्घजलेन मूलान्ते श्रीतारिणीं तर्पयामि स्वाहा इति मन्त्रं पठन् अङ्गुष्ठानामिकाभ्यां ४ मध्यमाङ्गुष्ठाभ्यां ४ अनामाङ्गुष्ठाभ्यां ४ कनिष्ठाङ्गुष्ठाभ्यां ४ चतुश्चतुस्तर्पयेत् । एवं विंशतितर्पणानि विधाय पाद्यादिपात्रस्थापनं कुर्यात् । अथ शङ्खस्य दक्षिणे भागे प्रोक्षणीपात्रं स्थापयित्वा जलेन पूरयित्वा प्रोक्षणीजले किञ्चिदर्घोदकं दद्यात् । ततः शङ्खस्य वामे पाद्यपात्रं तद्वामेऽर्घपात्रं तद्वामे आचमनीयपात्रं तद्वामे मधुपर्कपात्रं तद्वामे पुनराचमनीयपात्रं तद्वामे स्नानीयपात्रमिति षट्पात्राणि शङ्खघटयोर्मध्ये त्रिकोणवृत्तचतुरस्रात्मकषण्मण्डलानि चन्दनादिना विरच्य ओँ आधारशक्तये नम इति सम्पूज्य तदुपर्याधाराणि निधाय तदुपरि क्रमेण पात्राणि संस्थाप्य शुद्धजलेन पूरयेत् । तत्र पाद्यपात्रे उशीरं रोचनां च, अर्घपात्रे कुशाग्राक्षतयवव्रीहितिलाब्जसिद्धार्थान् पुष्पाणि च, आचमनीयपात्रे जातीफललवङ्गकङ्कोलबहुमूलतमालपत्राणि च चूर्णयित्वा, मधुपर्कपात्रे क्षौद्रशर्कराघृतदधिक्षीराणि, स्नानीये तु सुगन्धिद्रव्यं चन्दनादि च निक्षिपेत् । पुनराचमनीयमाचमनीयवदेव । उक्तद्रव्याणामभावे तत्तद्भावनया क्षालिततण्डुलान् दद्यात् । [ ततः पुष्पेण शङ्खोदकं गृहीत्वा सर्वपात्रेषु निक्षिप्य सर्वपात्रस्थं जलं दिव्यरूपं भावयेत् । तत आत्मनो मूर्ध्नि आनन्दभैरवानन्दभैरव्यौ ध्यात्वा नमोन्ताभ्यां स्वस्वमन्त्राभ्यां प्रत्येकं पुष्पाञ्जलित्रयेण सम्पूज्य वामहस्ताङ्गुष्ठानामिकाभ्यां अर्घजलमुद्धृत्य स्वस्वमन्त्रान्ते स्वस्वनाम संयोज्यात्मनो मूर्धन्येव तर्पयेत् । तत आत्मनो ब्रह्मरन्ध्रे दक्षहस्ताङ्गुष्ठानामिकाभ्यामर्घोदकमुद्धृत्य दिव्यौघ-सिद्धौघ-मानवौघगुरून् सन्तर्प्य स्वगुरु-परमगुरु-परा परगुरु-परमेष्ठिगुरून् तर्पयेत् । दिव्यौघादिगुरुतर्पणविस्ताराशक्तौ स्वगुर्वादिचतुष्टयं त्रयं वा तर्पयेत् । स्वगुर्वादीनां तर्पणं तु लौकिकं नाम श्रीपूर्वकमुच्चार्य गुरु-परमगुरु-परापरगुरु-परमेष्ठिगुरुपदं योजयित्वा पादुकां तर्पयामीत्येवं तर्पयेदिति सम्प्रदायः ।

अथानन्दभैरवानन्दभैरव्योर्ध्यानं तारार्णवे -

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् । अष्टादशभुजं देवं पञ्चवक्त्रं त्रिलोचनम् ॥ अमृतार्णवमध्यस्थं ब्रह्मपद्मोपरि स्थितम् । वृषारूढं नीलकण्ठं सर्वाभरणभूषितम् ॥ कपालखट्वाङ्गधरं घण्टाडमरुवादिनम् । पाशाङ्कुशधरं देवं गदामुशलधारिणम् ॥ खड्गखेटकपट्टीशमुद्गरं शूलदण्डकम् । विचित्रं खेटकं मुण्डं वरदाभयपाणिनम् ॥ लोहितं देवदेवेशं भावयेत् साधकोत्तमः । इति भैरवध्यानम् । विभावयेत् सुरां देवीं चन्द्रकोटियुतप्रभाम् । हिमकुन्देन्दुधवलां पञ्चवक्त्रां त्रिलोचनाम् ॥ अष्टादशभुजैर्युक्तां सर्वानन्दवरोद्यताम् । प्रहसन्तीं विशालाक्षीं देवदेवस्य सम्मुखीम् । इति भैरवीध्यानम् । अथवा देवदेवेशमर्धनारीश्वरं यजेदिति विशिष्टमूर्तेरेकस्या एव ध्यानम् । ऊर्ध्ववामदक्षयोः कपालखट्वाङ्गे । तदधः क्रमेण घण्टाडमरू । तदधः गदामुशले । तदधः खङ्गखेटकौ । तदधः पट्टीशमुद्गरे । तदधः शूलदण्डौ । तदधश्चित्रखेटकमुण्डे । तदधो वराभये इत्यायुधध्यानम् । एवं भैरव्या अपि । एवं ध्यात्वा साधको मूर्धनि पुष्पाञ्जलित्रयेणानन्दभैरवं पूजयेत् । तत्र हसक्षमलवरयूं आनन्दभैरवाय वषट् नम इति प्रयोगः । एवमानन्दभैरवीं च सहक्षमलवरयीं सुरादेव्यै वौषट् स्वाहा इति प्रयोगः । ततः सहक्षमलवरयूं आनन्दभैरवाय वषट् आनन्दभैरवं तर्पयामि नम इति त्रिः सन्तर्प्य सहक्षमलवरयीं सुरादेव्यै वौषट् आनन्दभैरवीं तर्पयामि स्वाहा इति त्रिः सन्तर्पयेत् । ततः ओँ ऊर्ध्वकेशानन्दनाथं तर्पयामि नमः । एवं व्योमकेशानन्दनाथनीलकण्ठानन्दनाथ-वृषध्वजानन्दनाथ इति नमोन्तेन दिव्यौघान् गुरून् सन्तर्प्य, ओँ वशिष्ठानन्दनाथं तर्पयामि नमः, एवं कूर्मानन्दनाथ-भीमानन्दनाथ-महेश्वरानन्दनाथ इति प्रणवादिनमोन्तेन सिद्धौघान् गुरून् सन्तर्प्य ओँ तारावतीदेवीं तर्पयामि स्वाहा, एवं भानुमती-जयावती-विद्या-महोदरी इति स्वाहान्तेन तर्पयेत् । ओँ सुखानन्दनाथं तर्पयामि नमः, एवं परानन्द-पारिजातानन्द-कुलेश्वरानन्द-विरूपाक्षानन्द इति । ओँ फेरवीं देवीं तर्पयामि स्वाहा, एवं मानवौघान् गुरून् सन्तर्प्य ओँ श्रीअमुकानन्दनाथपादुकां स्वगुरून् तर्पयामि नमः । एवं परमगुरु-परापरगुरु-परमेष्ठिगुरूँश्च तर्पयेत् । इति दिव्यौघादीनां सर्वेषां गुरूणां तर्पणं कृत्वा सकृदिति सम्प्रदायविदः । अत्र केचिदन्ये तर्पणमात्रेऽपीत्यपरे प्रधानदेवतानुरोधेन अङ्गभूतपुन्देवतातर्पणेऽपि स्वाहान्त एव प्रयोग इत्यपि । तन्मते प्रधानपुन्देवताङ्गभूतब्राह्म्यादिशक्तितर्पणे नमः प्रयोग आपतति । यथाश्रद्धमाचरणीयं स्पष्टप्रमाणानामभावात्, लब्धानामपि विसंवादित्वात् सम्प्रदायानामपि निर्मूलविवादग्रस्तत्वाच्चेति । ततो मूलान्ते साङ्गां सायुधां सवाहनां सपरिवारां श्रीतारिणीं तर्पयामि स्वाहा इत्यर्घोदकेन स्वहृदये मूलदेवीं त्रिः सन्तर्पयेत् । एतानि भैरवतर्पणादिसर्वतर्पणानि तत्त्वमुद्रया कार्याणि । सा च अनामिकाङ्गुष्ठयोगेन भवति । ] तन्त्रे - स्वदक्षे प्रोक्षणीपात्रमादायाद्भिः प्रपूरयेत् । किञ्चिदर्घाम्बु सङ्गृह्य प्रोक्षण्यम्भसि योजयेत् ॥ ततः साधारकं पात्रं पुरतः स्थापयेद् बुधः । तत्पार्श्वे पाद्यदानं च तत्पार्श्वेऽर्धप्रदानकम् ॥ आचमनीयं तु तत्पार्श्वे तत्पार्श्वे मधुपर्ककम् । पुनराचमनीयं च स्नानीयं तत्क्रमान्न्यसेत् ॥ इति । पाद्यादिपात्रे प्रक्षेप्यद्रव्याणि फेत्कारिण्यां - उशीरं रोचनां चैव पाद्यपात्रे तु कल्पयेत् । कुशाग्रानक्षतं चैव यवब्रीहितिलानपि ॥ अब्जसिद्धार्थपुष्पाणि क्षिपेदर्घस्य पात्रके । जातीकर्पूरकङ्कोलबहुमूलतमालकान् ॥ चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके । माक्षिकं शर्करा सर्पिर्दधि क्षीरयुतं तथा मधुपर्कं कल्पयित्वा प्रदद्याद् विधिपूर्वकम् ॥ इति । पुरश्चरणचन्द्रिकायां - ``गन्धाब्भिः कारयेत् स्नानम्'' इति । त्रिशक्तिरत्ने- पुष्पादिना समुद्धृत्य बिन्दुं शङ्खामृतस्य च । निक्षिपेत् सर्वपात्रेषु सर्वं दिव्यं विचिन्तयेत् ॥ स्वतन्त्रे - ``एवं पात्राणि संस्थाप्य तेनैव तर्पणं चरेत्'' इति । तेनैव अर्घोदकेनैव । तारार्णवे भैरवभैरव्योर्ध्यानमुक्त्वा - ``ध्यात्वैवं तर्पयेन्मूर्ध्नि तावुभौ साधकः सुधीः'' इति । त्रिशक्तिरत्ने - ब्रह्मरन्ध्रे स्वके मन्त्री मुद्रया तत्त्वसंज्ञया । तर्पयेद् गुरुणा मन्त्री ...........सुधीः ॥ स्वगुरूनपि सन्तर्प्य त्रिः सकृद् वा विशेषतः । आत्मनो हृदयाम्भोजे परिवारगणावृताम् । देवीपात्रामृतेनापि तर्पयेद् कुलनायिकाम् ॥ इति । अत्र कल्पे गुरुपात्रं देवपात्रं च विशेषार्घपात्रमेव । तर्पणे तत्त्वमुद्रा तु ज्ञानार्णवे - तर्पणानि पुनर्दद्यात् त्रिवारं तत्त्वमुद्रया । अङ्गुष्ठानामिकाभ्यां च तत्त्वमुद्रेयमीरिता ॥ इति । इयं तर्पणसम्बन्धिनी । ध्यानादौ - ``तर्जन्यङ्गुष्ठयोगेन तत्त्वमुद्रा प्रकीर्त्तिता'' इत्युक्तत्वात् । भावचूडामणौ - अत्र तारागुरून् वक्ष्ये दृष्टादृष्टफलप्रदान् । ऊर्ध्वकेशो व्योमकेशो नीलकण्ठो वृषध्वजः ॥ दिव्यौघा सिद्धिदा वत्से सिद्धौघान् श‍ृणु तत्त्वतः । वशिष्ठः कूर्मनाथश्च मीननाथो महेश्वरः ॥ हरिनाथो मानवौघानथ वक्ष्यामि सद्गुरून् । तारावती भानुमती जया विद्या महेश्वरी ॥ सुखानन्दः परानन्दः पारिजातः कुलेश्वरः । विरूपाक्षः फेरवी च कथितं तारिणीकुलम् ॥ आनन्दनाथशब्दान्ता गुरवः सर्वसिद्धिदाः । स्त्रियोऽपि गुरुरूपाश्च देव्यन्ताः परिकीर्त्तिताः ॥ इति । भावनिर्णये - आदौ सर्वत्र देवेशि मन्त्रदः परमो गुरुः । परापरगुरु .........परमेष्ठीगुरुस्ततः ॥ परापरगुरुस्तद्रूपत्वेन परमेष्ठीगुरुश्च तद्रूपत्वेन ध्यात्वा तर्पणीय इति भावः । ] ततो यन्त्रोपरि पूर्ववदेव सचन्दनपुष्पाक्षतैः पीठन्यासं कुर्यात् । ततस्तत्त्वशुद्धिं कुर्यात् । तत्र श्रुतिः - ओँ प्राणापानव्यानोदानसमाना मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा । ओँ पृथिव्यप्तेजोवाय्वाकाशानि मे शुद्ध्यन्तां ...... ओँ प्रकृत्यहङ्कारबुद्धिमनःश्रोत्राणि मे शुद्ध्यन्तां ...... ओँ त्वक्चक्षुःश्रोत्रजिह्वाघ्राणवचांसि मे शुद्ध्यन्तां ...... ओँ पाणिपादपायूपस्थशब्दा मे शुद्ध्यन्तां ...... ओँ स्पर्शरूपगन्धाकाशानि मे शुद्ध्यन्तां ...... ओँ वायुतेजःसलिलभूम्यात्मानो मे शुद्ध्यन्तां ...... इति सप्तमन्त्रान् जपन् प्रतिमन्त्रं हस्ताभ्यां सर्वाङ्गं स्पृशेदिति तत्त्वशुद्धिः ।

अथ बटुकादिबलिदानं

उक्तञ्च ज्ञानार्णवे - ईशानवह्निनैऋत्यवायुकोणेषु पूर्ववत् । मण्डलानि विधायाथ पूर्ववत् पूजयेत् प्रिये । पूर्ववद्बलिदानं च दद्यात् सर्वसमृद्धये ॥ इति । बलिमन्त्रा वीरचूडामणौ - प्रणवं पूर्वमुद्धृत्य हृल्लेखाबीजमुद्धरेत् । बटुकाय पदं पश्चादापदुद्धरणाय च ॥ कुरुद्वयं समुच्चार्य मायातारं समुद्धरेत् । वह्निजायान्वितो मन्त्रो बटुकस्य बलिं हरेः ॥ तथा - आग्नेय्यां बलिमुत्सृज्य मायां लक्ष्मीं च मन्मथम् । वाराहीबीजमुद्धृत्य बीजं पञ्चातकं पुनः ॥ गणपतये पदं पश्चाद् वरद्वन्द्वं तथा पुनः । सर्वजनं वदेच्चैव वदेन्मे वशमानय ॥ अन्ते वह्निवधूं दद्याद् गणनाथो महामुनिः ॥ इति । वाराहीबीजं ग्लौँ । तथा - रौद्रं त्रिगुणमुद्धृत्य नारायणं तथोद्धरेत् । बीजं सूक्ष्मेशमुद्धृत्यामरेशं बीजमुद्धरेत् ॥ ङेन्तं तु क्षेत्रपालं च बलिं गृह्णद्वयं ततः । वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य कीर्त्तितः ॥ इति । रौद्रं क्षकारः त्रिगुणं त्रिपठितः । नारायणं आं सूक्ष्मेशं ईं अमरेशं ऊं एतैर्युक्त इति । तथा - वायुबीजं त्रिधालिख्य अनन्तो माधवस्तथा । वर्तुलाक्षीं तथोद्धृत्य योगिनीभ्यस्तथैव च ॥ वह्निजायान्वितो मन्त्रो वायव्यां योगिनीबलिः ॥ इति । वायुबीजं यकारः, अनन्त आकारः, माधव ईकारः, वर्तुलाक्षी ऊकारः । तथा - क्षकारं कालमारूढं तदन्ते अनलाक्षरम् । सर्वविघ्नपदं कृद्भ्यः सर्वेभ्यो भूत उद्धरेत् ॥ भ्यो वर्म फट् समुद्धृत्य बलिं गृह्णापय ततः । द्विठान्तः सिद्धिदः प्रोक्तः सर्वभूतबलिं हरेत् ॥ इति । कालो मकारः, मा ईकारः, अनलाक्षरं रेफः, तेन क्ष्म्रीँ इति समयाचारः । दक्षिणे बटुकं दद्यादुत्तरे योगिनीबलिम् । पूर्वभूतबलिं दद्यात् क्षेत्रपालाय पश्चिमे ॥ अङ्गुष्ठानामिकाभ्यां तु बटुकाय बलिर्मतः । कनिष्ठाङ्गुष्ठयोगेन योगिनीबलिमाहरेत् ॥ अङ्गुष्ठतर्जनीभ्यां च क्षेत्रपालबलिं हरेत् । गणेशाय बलिं दद्याद् गजदन्ताख्यमुद्रया ॥ इति । गजदन्ताख्यमुद्रा ज्ञानार्णवे - वाममुष्टेस्तु मध्यस्थामङ्गुलीं दण्डवत् कुरु । गजदन्तमहामुद्रा गणपस्य बलिं हरेत् ॥ इति । तथा बलिद्रव्याणि तत्रैव - ओदनं पायसं क्षीरं मत्स्यं मांसं तथैव च । मोदकं पूलिकापूपं बटुकं त्रिविधा सुरा ॥ हृद्यौदनादिपक्वान्नमाज्यं मधु सशर्करम् । सर्वत्र विधिवत् कुर्यात् दुग्धेनोत्सर्गमाचरेत् ॥ इति । सर्वत्र सर्वबलिषु विधिवत् कुर्यात् यथाधिकारमुक्तद्रव्यैः कुर्यादित्यर्थः । ]

अथ प्रयोगः

ईशाने आग्नेये नैऋत्ये वायव्ये च पराग्रत्रिकोणमण्डलानि विधाय तेषु प्रमाणोक्तबलिद्रव्यसहितानि साधारणानि चत्वारि पात्राणि स्थापयेत् । तत ईशानकोणस्थबलिद्रव्यं ``फट्'' इति संशोध्य ``वां बटुकाय नमः'' इति तत्रैव बटुकं सम्पूज्य ``ओँ ह्रीँ बटुकाय आपदुद्धारणाय कुरु कुरु ह्रीँ ओँ स्वाहा'' इति मन्त्रेण वामहस्तस्याङ्गुष्ठानामिकाभ्यां क्षीरं जलं वा पातयन् बटुकाय दद्यात् । आग्नेयकोणस्थबलिद्रव्यं फट् इति संशोध्य गं गणपतये नम इति तत्रैव सम्पूज्य ``ह्रीँ श्रीँ क्लीं ग्लौं गं गणपतये वर वर सर्वजनं मे वशमानय स्वाहा'' इति मन्त्रेण वामहस्तगजदन्ताख्यमुद्रया क्षीरं जलं वा पातयन् गणेशाय दद्यात् । गजदन्तमुद्रा तु प्रसारितमध्यमाङ्गुलिको वामहस्तमुष्टिरेव । ततो नैऋत्यकोणस्थबलिद्रव्यं ``फट्'' इति सम्प्रोक्ष्य क्षाँ क्षेत्रपालाय नम इति तत्रैव सम्पूज्य ``क्षां क्षीं क्षूं क्षेत्रपालाय बलिं गृह्ण गृह्ण स्वाहा'' इति वामहस्तस्याङ्गुष्ठतर्जनीभ्यां क्षीरं जलं वा पायतन् क्षेत्रपालाय दद्यात् । वायव्यकोणस्थबलिद्रव्यं ``फट्'' इति सम्प्रोक्ष्य ``यां योगिनीभ्यो नमः'' इति तत्रैव सम्पूज्य ``यां यीं यूं योगिनीभ्यः स्वाहा'' इति मन्त्रेण वामहस्ताङ्गुष्ठकनिष्ठाभ्यां क्षीरं जलं वा पातयन् योगिनीभ्यो दद्यात् । ततः ``क्ष्म्रीँ सर्वविघ्नकृद्भ्यः सर्वेभ्यो भूतेभ्यो हूँ फट् बलिं गृह्णापय स्वाहा'' इति जपन् चतुर्दिक्षु बलिद्रव्यं भूमौ विकिरेत् । बटुकादिबलिदानस्यावश्यकत्वं तु श्रीकुलार्णवे - यावन्नो बटुके दद्यात् तावन्नैव कुलेश्वरि । तृप्यन्ति देवतास्सर्वाः स्मरणाद् यजनादपि । बटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः । तत्तन्मन्त्रविधानेन देवतातृप्तिमाप्नुयात् ॥ इति

अथ पीठपूजा

अत्र यन्त्रोपरि पूर्वोक्तपीठन्यासक्रमेण पीठपूजां कुर्यात् । [ अथ पूजाचक्रमध्ये ओँ आधारशक्तये नमः, मूलप्रकृत्यै, कुर्माय, शेषाय, पृथिव्यै, सुधासमुद्राय, मणिद्वीपाय, चिन्तामणिमण्डपाय, श्मशानाय, पारिजाताय । तन्मूले रत्नवेदिकायै, तदुपरि मणिपीठाय । एता उपर्युपरिभावेन सम्पूज्य मणिपीठाद्बहिः प्राच्यादिचतुर्दिक्षु स्वाग्रादिप्रादक्षिण्येन परितः ओँ मुनिभ्यो नमः, तद्बहिः परितः देवेभ्यः, तद्बहिः परितः शवेभ्यः, तद्बहिः परितः शवमुण्डेभ्यः, तद्बहिः परितः बहुमांसास्थिमोदमानशिवाभ्यः, तद्बहिः परितः चिताङ्गारास्थिभ्य इति प्रणवादिनमोन्तेन सम्पूज्य अग्निकोणे धर्माय नमः, नैऋत्यकोणे ज्ञानाय, वायव्यकोणे वैराग्याय, ईशानकोणे ऐश्वर्याय, पूर्वे अधर्माय, दक्षिणे अज्ञानाय, पश्चिमे अवैराग्याय, उत्तरे अनैश्वर्याय इति सम्पूज्य पुनर्मध्ये ओँ तत्त्वपद्मासनाय नमः, आनन्दकन्दाय, संविन्नालाय, प्रकृतिमयपत्रेभ्यः, विकारमयकेसरेभ्यः, पञ्चाशद्वर्णबीजाढ्यकर्णिकायै । तस्यां मध्ये परितः सूर्यमण्डलाय, तदभ्यन्तरे परितः सोममण्डलाय, सूर्यमण्डलाद्बहिः परितो वह्निमण्डलाय नम इति सम्पूज्य पुनर्मध्य एव सं सत्त्वाय नमः, रं रजसे, तं तमसे, आं आत्मने, अं अन्तरात्मने, पं परमात्मने ह्रीँ ज्ञानात्मने, मां मायातत्त्वाय, कं कलातत्त्वाय, विं विद्यातत्त्वाय, पं परतत्त्वाय नम इति सम्पूज्य हृदब्जकेसरेषु स्वाग्रादिप्रादक्षिण्येन ओँ लक्ष्म्यै नमः, सरस्वत्यै, रत्यै, प्रीत्यै, कीर्त्यै, शान्त्यै, पुष्ट्यै, तुष्ट्यै, नम इति पीठशक्तीः सम्पूज्य मध्ये ह्सौँ सदाशिवमहाप्रेतपद्मासनाय नम इति पूजयेत् । लक्ष्म्याद्यष्टपीठशक्तयः सिद्धसारस्वते - लक्ष्मी सरस्वती चैव रतिः प्रीतिस्तथैव च । कीर्त्तिः शान्तिश्च पुष्टिश्च तुष्टिरित्यष्टशक्तयः ॥ वीरचूडामणौ तु - पीठशक्तिविधानेन नवशक्तीः प्रपूजयेत् । रतिः प्रीतिः प्रिया कान्तिः कामिनी काममालिनी ॥ कन्दर्पदलिनी दुर्गा भाविनी नव शक्तयः ॥ इति । तथा - वियद्भृगुं समुच्चार्य मनुबिन्दुकलान्वितम् । महाप्रेतपदात् पद्मासनाय हृदयमनुरीरितम् ॥ तथा च पीठशक्तीनां विकल्पो मनुः पीठमनुः । तारोपनिषद्यपि लक्ष्मीसरस्वतीरतिप्रीतिकीर्तिशान्तिपुष्टितुष्टिः सदाशिवश्च इत्युक्तम् ॥ ]

अथावाहनम्

यथा-पूजाधारयन्त्रादौ मूलमन्त्रेण प्रमाणोक्तामिष्टदेवतामूर्त्तिं परिकल्प्य कूर्ममुद्राञ्जलिना मातृकावर्णधिया पुष्पाणि गृहीत्वा स्वहृदये विद्युत्-पुञ्जनिभं स्फुरत्स्वेष्टदेवतातेजो दीपाद्दीपान्तरमिव सुषुम्णावर्त्मना द्वादशान्तःस्थसहस्रदलपद्ममध्यवर्त्तिनि परमशिवे संयोज्य परमामृतलोलितं चिदानन्दघनं विभाव्य वामनासाध्वना करस्थपुष्पाञ्जलौ संयोज्य तत् कामकलात्मकं ध्यात्वा - ओँ देवेशि भक्तिसुलभे परिवारसमन्विते । यावत् त्वां पूजयिष्यामि तावत् त्वं सुस्थिरा भव ॥ इति पठन् कल्पितमूर्तेश्शिरसि पुष्पाञ्जलिं दत्वा देवतातेजः पुष्पाञ्जलिमपहाय ब्रह्मरन्ध्रद्वारेण तस्या मूर्त्तेर्हृदयं प्रविश्य स्थिरीभूतं भावयेदिति । कामकलाध्यानं तन्त्रचूडामणौ - मुखं बिन्दुवदाकारं तदधः कुचयुग्मकम् । तदधः सपरार्धं च सुपरिष्कृतमण्डलम् ॥ एतत् कामकलाध्यानं सुगोप्यं साधकोत्तमैः ॥ इति । एतद्रहस्यं गुरुमुखादवगन्तव्यम् । तदुक्तं - ``सङ्केतविद्या गुरुवक्त्रगम्या'' इति ।

अथ ध्यानं

गन्धर्वतन्त्रे - श्मशानं तत्र सञ्चिन्त्य तत्र कल्पतरुं स्मरेत् । तन्मूले मणिपीठं च नानामणिविभूषितम् ॥ शिवाभिर्बहुमांसास्थिमोदमानाभिरन्ततः । चतुर्दिक्षु शवा मुण्डाश्चित्राङ्गारास्थिभूषिताः ॥ तन्मध्ये भावयेद् देवीं यथोक्तध्यानयोगतः ॥ इति । नीलतन्त्रे - प्रत्यालीढपदां घोरां मुण्डमालाविभूषिताम् । खर्वां लम्बोदरीं भीमां व्याघ्रचर्मावृतां कटौ ॥ नवयौवनसम्पन्नां पञ्चमुद्राविभूषिताम् । चतुर्भुजां ललज्जिह्वां महाभीमां वरप्रदाम् ॥ खड्गकर्तृधरां सव्ये वामे मुण्डोत्पलान्विताम् । पिङ्गोग्रैकजटां ध्यायेन्मौलावक्षोभ्यभूषिताम् ॥ बालार्कमण्डलाकारलोचनत्रयभूषिताम् । प्रज्वलत्पितृभूमध्यगतां दंष्ट्राकरालिनीम् ॥ सावेशस्मेरवदनामस्थ्यलङ्कारभूषिताम् । विश्वव्यापकतोयान्तः श्वेतपद्मोपरि स्थिताम् ॥ इति । तन्त्रचूडामणौ - तस्योपरि महादेवीं सर्वां नीलमणिप्रभाम् । लम्बोदरीं व्याघ्रचर्मसमावृतनितम्बिनीम् ॥ समुन्नतपयोभारां रक्तवर्तुललोचनाम् । ललज्जिह्वां महाभीमां दंष्ट्राकोटिसमुज्ज्वलाम् । नीलोत्पललसन्मालाबद्धजूटां भयङ्करीम् ॥ श्वेतास्थिपट्टिकायुक्तकपालपञ्चशोभिताम् । ललाटे रक्तनागेन कृतकर्णावतंसकाम् ॥ अतिशुभ्रमहानागकृतहारमहोज्ज्वलाम् । दूर्वादलश्यामनागकृतयज्ञोपवीतिनीम् ॥ चतुर्भुजां रक्तमांसखण्डमण्डितमुष्टिना । जटाजूटाक्षसूत्रेण शोभिना तीक्ष्णधारया ॥ खड्गेन दक्षिणस्योर्ध्वे शोभितां वीरनादिनीम् । तदधस्ताद् बीजवृन्तकर्त्तृकालङ्कृतां पराम् ॥ वामोर्ध्वे रक्तनालेन विकस्वरमनोहराम् । दधतीं नीलपद्मञ्च तदधस्तात् कपालकम् ॥ जगतां जाड्यसंयुक्तं दधतीं कुन्दसन्निभम् । धूम्राभनागसन्दोहकृतकेयूरसत्वराम् ॥ सुवर्णवर्णनागेन कङ्कणोज्ज्वलपाणिकाम् । शुभ्रवर्णमहादेवकृतसद्विमलासनाम् ॥ निर्यन्त्रणभिया तद्वत् सङ्कुचत्प्रपदात्मिकाम् । शवपाद्वयारूढवामपादां हसन्मुखीम् ॥ तस्यैव कण्ठमूलस्थदक्षपादसरोरुहाम् । कुन्दाभनागसंशोभिकटिसूत्रां त्रिलोचनाम् ॥ असृग्रक्तेन नागेन कृतनृपुरपल्लवाम् । सद्यश्छिन्नगलद्रक्तमुण्डै रक्तविभूषणैः ॥ अन्योन्यकेशग्रथितैः पादपद्मविलम्बितैः । पञ्चाशद्भिर्महामालां विभ्रतीं परमेश्वरीम् ॥ ज्वलच्चितामध्यसंस्थां द्वीपिचर्मोत्तरांशुकाम् । अक्षोभ्यनागसम्बद्धजटाजूटां वरप्रदाम् ॥ एवम्भूतां महादेवीमात्मानं यागवस्तु च । विज्ञापयेन्महादेव पण्डितोऽहं महाकविः ॥ इति । तत आवाहनमुद्रया मूलान्ते श्रीतारिणी इहावह इहावह स्थापनमुद्रया इह तिष्ठ इह तिष्ठ सन्निधापनमुद्रया इह सन्निधेहि सन्निधेहि सन्निरोधनमुद्रया इह सन्निरुद्ध्यस्व सन्निरुद्ध्यस्व सम्मुखीकरणमुद्रया इह सम्मुखीभव इह सम्मुखीभव इति पञ्चमुद्राभिरावाहनादि कृत्वा शालग्रामशिलावर्ज्जं लिखितयन्त्रादौ लेलिहानमुद्रया देव्या हृदये करं दत्वा ``आँ ह्रीँ क्रोँ हंसः तारिण्याः प्राणा इह प्राणाः आँ ह्रीँ क्रोँ हंसः तारिण्या जीव इह स्थितः आँ ह्रीँ क्रोँ हंसः तारिण्याः सर्वेन्द्रियाणि आँ ह्रीँ क्रोँ हंसः तारिण्याः वाङ्मनश्चक्षुःश्रोत्रघ्राणप्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा'' इति मन्त्रेण प्राणप्रतिष्ठां कुर्यात् । अवगुण्ठनमुद्रया ``मूलान्ते श्रीतारिणी अवगुण्ठिता भव'' इति अवगुण्ठ्य सकलीकुर्यात् । तच्च पुष्पेण देवतायास्तत्तदङ्गेषु उपास्यमन्त्रस्य षडङ्गन्यास एव । ततो धेनुमुद्रया वं इति अमृतीकृत्य महामुद्रया परमीकृत्य पञ्चमुद्राविभूषितामिति ध्याने विभूषणत्वेनोक्ता योन्यादिपञ्चमुद्राः स्वस्वबीजजपपुरस्सराः प्रदर्शयेत् । यथा- ऐँ योनिं, ह्रीँ भूतिनीं, वं बीजमुद्रां, स्त्रीँ दैत्यधूमिनीं, हूँ लेलिहानमुद्रामिति । [ तदुक्तं तन्त्रे - आवाहनं स्थापनं च सन्निधापनमेव च । सन्निरोधनमित्युक्तं सम्मुखीकरणं तथा ॥ विधाय स्वस्वमुद्राभिः प्राणस्थापनमाचरेत् । इति । तथा - अवगुण्ठ्यावगुण्ठिन्या धेन्वा चैवामृतीकृतिः । प्रोक्ता महामुद्रया तु देवस्य परमीकृतिः ॥ इति । योन्यादिपञ्चमुद्राश्चोक्ता भैरवतन्त्रे पञ्चमुद्राविभूषितामिति ध्यानमुक्त्वा - योनिश्च भूतिनी चैव बीजाख्या दैत्यधूमिनी । लेलिहानेति संयुक्ता पञ्चमुद्राः प्रकीर्त्तिताः ॥ एतासां बीजानि च क्रमेण तत्रैवोक्तानि - योनिर्मायाधराधेनुर्वधूकूर्चक्रमाद् विदुः । बीजान्यासां लक्षणं तु क्रमेण कथयाम्यहम् ॥ इति । योनिरत्र ऐँ, माया ह्रीँ, अधरा अस्या अनन्तरभूता इति धेनोर्विशेषणम् । धेनुः वं, वधूः स्त्रीँ, कूर्चं हूँ । ] ततो देवशुद्धिं कुर्यात् । सा च मूलजपपुरस्सरमर्घोदकेन पूजाचक्रस्य त्रिः प्रोक्षणेन भवति । तदुक्तं कुलार्णवे - पीठे देवीं प्रतिष्ठाप्य सकलीकृत्य साधकः । मूलमन्त्रेण दीपिन्या मालिन्यार्घोदकेन च । त्रिवारं प्रोक्षयेद् विद्वान् देवशुद्धिरियं प्रिये ॥ [ नृसिंहठक्कुरास्तु यद्यप्यस्मिन् कुलार्णववचने दीपिनीमालिनीसहितमूलमन्त्रेणैव प्रोक्षणं लभ्यते, तथापि दीपिनीमालिन्योरूर्द्ध्वाम्नायमन्त्रान्तर्गतपराप्रासादमन्त्रघटितत्वेनोर्द्ध्वाम्नायदेवताबुद्धावेव विनियोगः । अस्यास्तु देवताया उत्तराम्नायविद्यात्वादिति वदन्ति । शक्तिसङ्गमतन्त्रे त्वेतस्या ऊर्द्ध्वाम्नायविद्यात्वमपि लभ्यत एव । यन्त्रे देवताया प्राणस्थापनस्यावश्यकत्वं कुलार्णवे - सकलीकृत्य प्राणाँस्तदीयानिन्द्रियाणि च । प्रतिष्ठाप्यार्चयेद् देवमन्यथा निष्फलं भवेत् ॥ इति ] ततो यथाशक्ति षोडशोपचारैर्दशोपचारैः पञ्चोपचारैर्वा देवतां पूजयेत् । ते च मन्त्ररत्नावल्यां - पाद्यार्घाचमनीयं च स्नानं वसनभूषणे । गन्धपुष्पधूपदीपनैवेद्याचमनानि च । ताम्बूलमथ च स्तोत्रं तर्पणं च नमस्क्रिया । प्रयोजयेदर्चनायां उपचाराँश्च षोडश ॥ पाद्यमर्घ्यं निवेद्याथ तथैवाचमनीयकम् । मधुपर्काचमने चैव गन्धप्रसूनके ततः ॥ धूपदीपौ च नैवेद्यं दशोपचारकं मतम् । गन्धादयो निवेद्यान्ताः पूजा पञ्चोपचारिका ॥ इति । प्रपञ्चसारे च - ``सपर्या त्रिविधा प्रोक्ता तासामेकतमां श्रयेत्'' इति । त्रिविधा षोडश-दश-पञ्चोपचारभेदात् । उपचारेषु यस्य वस्तुनोऽलाभस्तदनुकल्पत्वेन पुष्पं दद्यात् । तदुक्तं कुलोड्डीशे - उपचारेषु सर्वेषु यत् किञ्चिद् दुर्लभं भवेत् । तत् सर्वं मनसि ध्यात्वा पुष्पक्षेपेण कल्पयेत् ॥ इति । पुष्पाक्षतैश्च कल्पयेदिति पाठे अक्षतानामप्यनुकल्पः । सारसङ्ग्रहे तु - ``अलाभे तूपचाराणां दद्यात् क्षालिततण्डुलान्'' इत्युक्तम् । एवं च पुष्पाक्षतयोरैच्छिको विकल्पः । अक्षताश्च शक्तिसूर्यगणेशपूजायां सरक्तचन्दना देयाः । उक्तं च तन्त्रे - शक्तयर्कगणनाथानाभक्षताः प्रीतिदा मताः । शोणचन्दनलिप्तानां दानात् सर्वफलं भवेत् ॥ इति । सर्वफलं सर्वोपचारदानफलम् । ततो मूलेन देवताया वामभागे प्रमाणोक्तेष्वन्यतममासनं दद्यात् । आसनभेदाः सारसङ्ग्रहे उक्ताः - देवस्य वामभागे तु दद्यान्मूलेन चासनम् । पौष्पं दारुमयं वास्त्रं चार्मं कौशं च तैजसम् ॥ षड्विधं चासनं प्रोक्तं देवताप्रीतिकारकम् । पौष्पं सुगन्धिपुष्पनिर्मितम् । दारुमयं कण्टकिभिन्नचन्दनादिघटितम् । वास्त्रं कार्पासकौशेयक्षौमराङ्कवाद्यन्यतमम् । कौशं च सप्तविंशतिकुशपत्राणां वेण्याकारेण रचितविष्टररूपम् । [ उक्तं च डामरे - सप्तविंशतिदर्भाणां वेण्यग्रे ग्रन्थिभूषिता । विष्टरः सर्वयज्ञेषु विष्टरं परिकीर्तितम् ॥ ] तैजसं लोहसीसादिभिन्नसुवर्णादिप्रशस्तधातुरचितम् । चार्मं मृगव्याघ्राजिनम् । ततः स्वागतमुद्रां प्रदर्श्य ``मूलान्ते श्रीतारिणि देवि स्वागतं ते'' इति स्वागतमुच्चरेत् । ततो पाद्यपात्रस्थजलमुद्धृत्य मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति पादयोर्दत्त्वा ``इदं पाद्यं श्रीमदुग्रतारायै नम'' इत्यर्घोदकेनोत्सृज्य पाद्यमुद्रां प्रदर्शयेत् । ततोऽर्घपात्रस्थजलमुद्धृत्य मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्याः शिरसि दत्त्वा ``एषोऽर्घः श्रीमदुमतारायै स्वाहा'' इत्यर्घोदकमुत्सृज्य अर्घमुद्रां प्रदर्शयेत् । तत आचमनीयपात्रस्थजलमुद्धृत्य मूलं ओँ श्रीमदेकटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्या मुखकमले दत्त्वा ``इदमाचमनीयं श्रीमदुग्रतारायै वम्'' इत्यर्घोदकेनोत्सृज्य आचमनमुद्रां प्रदर्शयेत् । ततो मधुपर्कमुद्धृत्य मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति मधुपर्कं मुखकमले दत्त्वा ``एष मधुपर्कः श्रीमदुग्रतारायै वम्'' इत्यर्घोदकेनोत्सृज्य मधुपर्कमुद्रां प्रदर्शयेत् । ततः पुनराचमनीयं दद्यात् । प्रयोगमुद्रे अत्र आचमनीयवदेव बोध्ये । ततः स्नानीयपात्रस्थजलमुद्धृत्य मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति शतकृत्वो दशकृत्वो वा यथाशक्ति देव्याः सर्वाङ्गे दत्वा ``इदं स्नानीयं श्रीमदुग्रतारायै नम'' इत्यर्घोदकेनोत्सृज्य स्नानमुद्रां प्रदर्शयेत् । ततो मूलेनाङ्गप्रोञ्छनं विभाव्य रक्तवर्णं सूक्ष्ममच्छिद्रमनुपभुक्तं वस्त्रयुगमादाय मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्या वामहस्ते दत्त्वा ``इदं वस्त्रयुगं श्रीमदुग्रतारायै निवेदयामि'' इत्यर्घोदकेनोत्सृज्य वस्त्रमुद्रां प्रदर्श्य पुनराचमनीयं पूर्ववदेव दद्यात् । यज्ञोपवीतं तु पुन्देवताया एव । ततो भूषणमादाय मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्या हस्ते दत्त्वा ``इदं भूषणं श्रीमदुग्रतारायै निवेदयामि'' इत्यर्घोदकेनोत्सृज्य भूषणमुद्रां प्रदर्शयेत् । ततः प्रमाणोक्तमुत्तमगन्धं कनिष्ठया आदाय मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्याः सर्वाङ्गे दत्त्वा ``एष गन्धः श्रीमदुग्रतारायै नम'' इत्यर्घोदकेनोत्सृज्य गन्धमुद्रां प्रदर्शयेत् । ततः प्रमाणोक्तमुत्तमं पुष्पमङ्गुष्ठतर्जनीभ्यामुद्धृत्य मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्याः सर्वाङ्गे दत्वा ``इदं पुष्पं श्रीमदुग्रतारायै वौषट्'' इत्यर्धोदकेनोत्सृज्य पुष्पमुद्रां प्रदर्शयेत् । तथा च कालिकाकल्पे - पाद्यं तु पादयोर्दद्यात् नमोमन्त्रेण मन्त्रवित् । स्वाहामन्त्रेण देवेशि अर्घं दद्याच्छिरोपरि ॥ आचमनं मधुपर्कं च सुधामन्त्रेण वै मुखे । शारदातिलके - सुधामन्त्रेण वदने दद्यादाचमनीयकम् । जातीलवङ्गकङ्कोलैस्तदुक्तं मन्त्रवेदिभिः । तथा - सुधाणुना ततः कुर्यान्मधुपर्कं मुखाम्बुजे । आज्यं दधिमधून्मिश्रमयमुक्तो मनीषिभिः ॥ इति । कुलोड्डीशे - माक्षिकं शर्करासर्पिर्दधिक्षीरयुतं तथा । मधुपर्कं कल्पयित्वा प्रदद्याद् विधिपूर्वकम् ॥ सर्वतः क्षौद्रमधिकं दधि सर्पिः सितासमम् । जलं तु सर्वतः स्वल्पं मधुपर्क उदाहृतः ॥ इत्युक्तम् । शारदातिलके - ``तेनैव मनुना कुर्यादद्भिराचमनीयकम्'' इति । इदं त्वाचमनीयकं पुनराचमनीयकम् । अत्राचमनमधुपर्कयोः प्रयोगे विवदन्ते बहवः । अत्रोक्तकालीकल्पशारदातिलकयोः सुधाशब्दस्यैव मन्त्रत्वेन वचनारूढत्वम् । तथा च इदमाचमनीयकममुकदेवतायै सुधा । एवं मधुपर्केऽपि प्रयोग इति दाक्षिणात्याः । उपचारदानप्रयोगेषु नमःस्वाहादिदानार्थकशब्दसाहचर्येण स्वधाशब्दप्रयोगस्यैवोचिततया सुधाशब्दप्रयोगोऽनुचित एव । अत एवोक्तकालीकल्पादिप्रमाणवचनेष्वपि स्वधाशब्द एव कल्प्यते । दाक्षिणात्यानां भ्रान्तिस्तु प्राच्यलिप्यां सुधाशब्दस्वधाशब्दयोः समानाकारतयाप्युपपद्यते । एवं च इदमाचमनीयकममुकदेवतायै स्वधा इत्येव प्रयोग इति गौडाः । पुरश्चरणचन्द्रिकायामप्येवमेव । अन्ये तु सुधामन्त्रेणेत्यादौ सुधामन्त्रो न सुधाशब्दः स्वधाशब्दो वा, किन्तु वमित्यमृतबीजमेव, दानार्थकपदसाहचर्यबलेन स्वधाशब्दोऽप्युचितकल्पनमेवेत्युभयमपि । इत्थं च त्रैवर्णिकाणामिदमाचमनीयकममुकदेवतायै स्वधा इति, शूद्रस्य तु स्वधाशब्दप्रयोगनिषेधादिदमाचमनीयकममुकदेवतायै वमित्येव प्रयोग इत्याहुः । वस्तुतस्तु सकलप्रमाणवचनाना- मेकवाक्यतयाऽमृतबीज एव साधीयसी प्रतीयते । तदुक्तं सुतन्त्रे - ``मधुपर्कं मुखे दद्याज्जलमन्त्रेण देशिकः'' इति । यामले च- वारुणेन च बीजेन मधुपर्कं मुखाम्बुजे । तेनैव मनुना कुर्यादब्भिराचमनीयकम् ॥ इति । तत्रैव - गन्धाब्भिः कारयेत्स्नानं वाससी परिधापयेत् । दद्याद् दिव्योपवीतं च हाराद्याभरणानि च ॥ गन्धश्चन्दनकर्पूरकालागुरुभिरीरितः ॥ इति । शक्तौ रक्तवस्त्रं प्रशस्तम् । ``रक्तं शक्त्यर्कविघ्नानाम्'' इति यामलवचनात् । अदेयवस्त्राण्युक्तानि मन्त्रतन्त्रप्रकाशे - तैलादिदूषिताद्रोगः सच्छिद्राद्बाध्यता भवेत् । जीर्णाद् दरिद्रता कर्त्तुर्मलिनात् कान्तिहीनता ॥ इति । कुलार्णवे- यज्ञोपवीतं दत्त्वाथ भूषणानि समर्पयेत् । तानि नानाविधानि स्युर्मुकुटादिप्रभेदतः ॥ स्त्रीपुम्प्रभेदतस्तानि विज्ञेयानि विचक्षणैः । यज्ञोपवीतं पुन्दैवतायै देयम् । गन्धाः पुरश्चरणचन्द्रिकायामुक्ताः - चन्दनं मलयोत्पन्नमनाघ्रातं सुशीतलम् । कर्पूरागुरुकस्तूरीहिमाम्बुक्षोदितं शुभम् ॥ इति । क्षोदितं घृष्टम् । कुङ्कुमारक्तचन्दने अपि प्रशस्ते । ज्ञानार्णवे - रोचनाकपिकाश्मीरमांसीतगरुचन्दनैः । सचोरैरष्टगन्धोऽयं तारायाः प्रीतिदायकः ॥ इति । कपिर्बाला । चोरः शटी । तगरुर्गन्धकाष्ठविशेषः । चन्दनपदेन शुक्लरक्तयोर्द्वयोरपि ग्रहणाद् गन्धाष्टकत्वम् । पुष्पाणि च पुरश्चरणचन्द्रिकायां - अनन्यार्पितमच्छिद्रं पूतं पुण्यं नवं शुभम् । गुणचन्दनसंयुक्तं नानागन्धमनोहरम् ॥ इति । ज्ञानार्णवे - पुष्पैः पर्युषितैर्देवि नार्चयेत् स्वर्णजैरपि । निर्माल्यभूतैरुच्छिष्टैः कुसुमैः परमेश्वरि ॥ इति । स्वर्णैजैरपीति पर्युषितवनस्पतिपुष्पाणां निषेधातिशयार्थं न तु स्वर्णजस्यापि निषेधाय ``तुलसी स्वर्णपुष्पं च नैव निर्माल्यतां व्रजेत्'' इति मन्त्रतन्त्रप्रकाशोक्तेरिति । उच्छिष्टैरन्यदेवतापूजावशिष्टैः । ज्ञानमालायां - पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् । दुःखदं तत्समाख्यातं यथोत्पन्नं तथार्पणम् ॥ अधोमुखार्पणं नेष्टं पुष्पाञ्जलिविधौ न तत् ॥ इति । पुष्पाञ्जलिदाने कतिपयपुष्पाणामधोमुखपातित्वेऽपि न दोष इत्यर्थः । तन्त्रे- ``अङ्गुष्टतर्जनीभ्यां च चक्रे पुष्पं निवेदयेत्'' इति । ततः प्रमाणोक्तपात्रे विहितधूपं साराङ्गारेषु निःक्षिप्य अस्त्रमन्त्रेण धूपपात्रं सम्प्रोक्ष्य नम इति सम्पूज्य वामहस्ततर्जन्या धूपपात्रं स्पृशन् मूलमुच्चार्य ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्याः समीपं नीत्वा ``इमं धूपं श्रीमदेकजटायै निवेदयामि'' इत्यर्घादकेनोत्सृज्य धूपमुद्रां प्रदर्श्य [ ओँ जयध्वनिमन्त्रमातय स्वाहा इति] मन्त्रेण घण्टां सम्पूज्य वामहस्तेन तां वादयन् देव्याः पादादिनाभ्यन्तं धूपयेत् । ततः [कर्पूरगर्भिण्या वर्त्तिकया घृतदीपं तिलतैलदीपं वा प्रज्वाल्य] दीपस्यापि धूपवत् प्रोक्षणपूजने विधाय वामहस्तमध्यमया दीपपात्रं स्पृशन् मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्याः समीपं नीत्वा ``इमं दीपं श्रीमदेकजटायै निवेदयामि'' इति अर्घोदकेनोत्सृज्य दीपमुद्रां प्रदर्शयन् [ मूलगायत्र्या मध्यमाङ्गुष्ठाभ्यां दीपपात्रमुत्तोल्य ] घण्टावादनपूर्वकं देव्याः पादादिनेत्रान्तं दीपयेत् । निवेदितं धूपपात्रं देव्या वामभागे दीपपात्रं च दक्षभागे स्थापयेत् । तिलतैलदीपपात्रं तु वामभाग एव स्थाप्यम् । तत्रापि सितवत्तिकं चेत्तदा दक्षे रक्तवर्त्तिकं चेत्तदा वामे स्थाप्यम् । [ ततो घृतलिप्ते तिलतैललिप्ते वा ताम्रादिधातुपात्रे शिलायां वा घृतदीपस्य कज्जलं गृहीत्वा सम्मर्द्य ] स्वर्णादिशलाकया देव्या नेत्राण्यञ्जयेत् । ततः प्रमाणोक्तं पायसादिनैवेद्यं स्वर्णादिपात्रे कृत्वा तत्पात्रं चतुरस्रमण्डले साधारं निधाय संस्कुर्यात् । [ प्रोक्षणीजलमादाय ] फट् इति सम्प्रोक्ष्य [चक्रमुद्रया] हूँ इति संरक्ष्य यं इति बीजजपेन नैवेद्यदोषान् विशोषय रं इति तान् सन्दह्य दक्षकराग्रेण स्पृष्ट्वा वं इत्यमृतीकृत्य उभाभ्यां कराभ्यां तत्पात्रं स्पृष्ट्वा मूलेनाष्टकृत्वोऽभिमन्त्र्य धेनुमुद्रां प्रदर्श्य गन्धपुष्पैर्नैवेद्यं पूजयेत् । ततो वामहस्ताङ्गुष्ठतर्जनीभ्यां नैवेद्यपात्रं स्पृशन् मूलं ओँ श्रीमदे कजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्याः समीपे नीत्वा ``इदममुकनैवेद्यं श्रीमदेकजटायै निवेदयामि'' इत्यर्घोदकेनोत्सृज्य नैवेद्यमुद्रां प्रदर्श्य मूलं अमृतोपस्तरणमसि स्वाहा इति देव्यै जलं दत्वा वामहस्तेन विकचोत्पलसदृशीं ग्रासमुद्रां प्रदर्शयन् दक्षहस्तेन प्राणादिपञ्चमुद्राः प्रदर्शयेत् । यथा संयुक्तैः कनिष्ठानामिकाङ्गुष्ठैः ओँ प्राणाय स्वाहा, तर्जनीमध्यमाङ्गुष्ठैः ओँ अपानाय स्वाहा, मध्यमानामाङ्गुष्ठैः ओँ समानाय स्वाहा, तर्जनीमध्यमानामाङ्गुष्ठैः ओँ उदानाय स्वाहा, सर्वाभिः ओँ व्यानाय स्वाहा इति प्राणादीनां पञ्चमुद्राः प्रदर्श्य, ओँ तारे देवदेवेशि सर्वतृप्तिकरं परम् । अखण्डानन्दसम्पूर्णं गृहाण लमुत्तमम् ॥ इति पानीयं दत्वा देवतां तृप्तां विभाव्य ओँ अमृतापिधानमसि स्वाहा इति प्रत्यपोशानं जलं दद्यात् । ततस्ताम्बूलं फट् इति सम्प्रोक्ष्य नम इति सम्पूज्य मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति देव्यग्रे नीत्वा ``इदं ताम्बूलं श्रीमदेकजटायै निवेदयामी'' इति शङ्खोदकेनोत्सृज्य मूलेन त्रिर्देवीं तर्पयेत् । अथ धूपाद्युपचारेतिकर्त्तव्यतायां प्रमाणवचनानि । तत्र पुरश्चरणचन्द्रिकायां - इत्थं धूपं प्रकुर्वीत ताम्रकांस्यादिनिर्मिते । भाजने द्विपदे भुग्ननाले पद्माकृतौ शुभे ॥ साराङ्गारविनिक्षिप्तैर्गुग्गुल्वगुरुवृक्षजैः । निर्यासाद्युत्थितैर्धूपैन्धद्रव्यैरथोदितैः ॥ निर्यासः सर्ज्जरसादिः । तन्त्रलीलावत्यां - जटामांसी गुग्गुलं च चन्दनागुरुकैस्तथा । चन्द्रैरजनिसंयुक्तैर्माक्षिकैः सह कुङ्कुमैः ॥ सर्पिः सम्मिश्रितैर्दद्याद् देव्यै धूपं महेश्वरि ॥ इति । कुलोड्डीशे- गुग्गुलं शरलं दारुपत्रं मलयसम्भवम् । ह्रीबेरमगुरुं कुष्ठं गुडं सर्जरसंशनम् ॥ हरीतकी नखी लाक्षा जटामांसी च शैलजम् । षोडशाङ्गं विदुर्धूपं दैवे पित्र्ये च कर्मणि ॥ अथवागुरुकर्पूरचन्दनैः सह गुग्गुलम् । मधुसर्पिर्जण्टामांसी शैलजं कुङ्कुमं तथा । एभिर्विमिश्रितः कार्यो धूपोऽयं पार्वतीप्रियः ॥ इति । तन्त्रान्तरे - मधु मुस्तं घृतं गन्धं गुग्गुल्वगुरुशैलजम् । चन्दनं सिल्हसिद्ध्यर्थं दशाङ्गो धूप इष्यते ॥ सिताज्यमधुसम्मिश्रं गुग्गुल्वगुरुचन्दनम् । षडङ्गं धूपमेतत्तु सर्वदेवप्रियं सदा ॥ इति । शैवागमे - धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना । अस्त्रेण पूजितां घण्टां वादयन् गुग्गुलुं दहेत् ॥ गुग्गुलुपदं विहितधूपमात्रोपलक्षकम् । तन्त्रे - अस्त्रेण धूपदीपादीन् सम्पूज्य दापयेत्ततः । यथागन्धस्तथा देवि धूपं दद्याद् विचक्षणः ॥ इति । कुलोड्डीशे - घृतप्रदीपः प्रथमस्तिलतैलसमुद्भवः । सार्षपः फलनिर्यासजातो वा वारिजोद्भवः ॥ दधिजश्चाक्षजश्चैव दीपाः सप्त प्रकीर्त्तिताः । पद्मसूत्रभवा वर्त्तिः दर्भसूत्रभवाथवा ॥ जालजा बादरी वापि तूलकोषोद्भवापि वा । वर्त्तिका दीपकृत्येषु सदा पञ्चविधाः स्मृताः ॥ तैजसं राजतं लौहं माणिक्यं नारिकेलजम् । तृणराजोद्भवं वापि दीपपात्रं प्रशस्यते ॥ एवं दीपं प्रकुर्वीत नेत्ररञ्जनकारणम् । दीपं तु यागपर्यन्तमधोमुखं प्रकल्पयेत् । कालिकापुराणे - लभ्यते यस्य तापस्तु दीपस्य चतुरङ्गुलात् । (६९.११९) न स दीप इहाख्यातो ह्यघवृद्धिस्तु स स्मृतः ॥ (६९.१२०) तथा - शणं बादरकं जीर्णं वस्त्रं मलिनमेव वा । उपभुक्तं न दद्यात्तु वर्त्तिकार्थं कदाचन ॥ नैव निर्वापयेद् दीपं देवार्थमुपकल्पितम् । (६९.१२९) दीपहर्ता भवेदन्धः काणो निर्वापको भवेत् ॥ (६।.१३०)

पुरश्चरणचन्द्रिकायां -

वर्त्त्या कर्पूरगर्भिण्या सर्पिषा तिलजेन वा । आरोप्य दर्शयेद् दीपानुच्चैः सौरभशालिनः ॥ इति । तूर्णयागे - पारावतभ्रमाकारं दीपं नेत्रादि दर्शयेत् । दक्षिणे सर्पिषा दीपं तिलतैलेन वामतः ॥ इति । तन्त्रान्तरे - अङ्गुष्ठाग्रेण देवेशि धृत्वा दीपं निवेदयेत् । उत्तोलनं तथा कुर्याद् गायत्र्या मूल्योगतः ॥ अत्राञ्जनमप्युक्तं तन्त्रे - सौवीरं यामुनं नख्यं मायूरं श्रीकरं तथा । दर्विका मेघनीला च अञ्जनानि भवन्ति षट् ॥ घृष्ट्वा निपात्य तैलानि शिलायां तैजसेऽथवा । प्रदद्याद् सर्वदेवेभ्यो देवीभ्यश्चापि भक्तियुक् ॥ घृततैलादियुक्ते तु ताम्रादौ पातितेऽनले । यदञ्जनं तु जायेत दर्विका तत् प्रकीर्त्तिता ॥ इति । नैवेद्यभेदाः सुतन्त्रे - कन्दुपक्वं स्नेहपक्वं घृतसंयुक्तपायसम् । मनःप्रियं च नैवेद्यं दद्याद् देव्यै पुनः पुनः ॥ इति । पुनः पुनरिति तत्तन्नैवेद्यं पृथक्पृथग् देव्यै समर्पयेत्, न तु सर्वाणि नैवेद्यान्यादाय एकदैवेत्यर्थः । मत्स्यसूक्ते - पायसं कृशरं दद्याच्छर्करागुडसंयुतम् । आज्यं दधिमधून्मिश्रं तस्मात्तानि प्रदापयेत् ॥ शालमत्स्यं च पाठीनं गोधिकामांसमुत्तमम् । अन्नं च मधुना युक्तं यत्नाद् दद्याच्च मन्त्रवित् ॥ मुण्डमालायां - शालमत्स्यं च पाठीनं शकुलं टेङ्गणं तथा । मद्गुरं चेल्लिसं दद्यान्मांसं माहिषमेव च ॥ पक्षिमांसं वराहस्य डिम्बं नानासमुद्भवम् । कृष्णछागं महामांसं गोधिकां हरिणं तथा ॥ जलजं मत्स्यमांसं च गण्डकीमांसमेव च । नानाव्यञ्जनदुग्धानि व्यञ्जनानि बहूनि च ॥ इति । कुमारीतन्त्रे - अन्यानि च निवेद्यानि साधकानां श‍ृणुष्व मे । ताम्बूलं च सकर्पूरं नारिकेलं सशर्करम् ॥ पायसं सघृतं चैव आर्द्रकं सगुडं तथा । सतण्डुलं तिलं चैव दधि चैव सशर्करम् ॥ जम्बीरं पनसं चैव फलमाम्रादिकं तथा । कदलीं तिन्तिलीं चैव श्रीफलं फलमुत्तमम् ॥ करञ्जं लकुचं चैव तालं खर्जूरमेव च । अन्यानि च सुगन्धीनि स्वादूनि च फलानि च ॥ इति । रुद्रयामले - तैजसेषु च पात्रेषु सौवर्णे राजते तथा । ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथवा पुनः ॥ यज्ञदारुमये वापि नैवेद्यं कल्पयेद् बुधः । सर्वाभावे तु माहेये स्वहस्तघटितं यदि ॥ यद्योग्यमर्घपात्रे च तन्निधाय निवेदयेत् ॥ इति । सारसङ्ग्रहे - निधाय स्वर्णजे पात्रे साधारं तच्च मण्डले । निधाय चतुरस्रे च संस्कुर्याच्छास्त्रमार्गतः ॥ अस्त्रमन्त्रेण सम्प्रोक्ष्य चक्रमुद्राभिरक्षितम् । वायुबीजेन संशोष्य वह्निबीजेन सन्दहेत् ॥ स्पृशन् दक्षकराग्रेण सुधाबीजेन मन्त्रवित् । अमृतीकृत्य तत् सर्वं मूलमन्त्रेण तत् पुनः ॥ स्पृशन् कराभ्यां विधिवष्टधा चाभिमन्त्रयेत् । धेनुमुद्रां प्रदर्श्याथ गन्धपुष्पैः समर्चयेत् ॥ इति । तन्त्रे - तत्त्वाख्यमुद्रया देवि नैवेद्यानि निवेदयेत् । मूलेन दत्वा ताम्बूलं साधकस्तेन मुद्रया ॥ तेन मूलमन्त्रेण, मुद्रया तत्त्वमुद्रया । यामले - सर्वोपकरणादीनि मूलान्तेन निवेदयेत् । अशक्तौ मनसा दद्यादेतत्कर्म न लोपयेत् ॥ चूलुकं विधिवद् दत्वा [ पञ्च मुद्राः प्रदर्शयेत् । पुनश्च चूलुकं दत्वा ] दद्यात्ताम्बूलमुत्तमम् । एलालवङ्गकर्पूरजातीफलादिसंयुतम् । तमालदलखच्चूर्णपूगभागतरङ्गितम् ॥ इति । खत् खदिरम् । नीलतन्त्रे - सर्वमन्त्रमयं कृत्वा देवतायै निवेदयेत् इति । फेत्कारिण्यामपि - आवाह्य स्थापयित्वा तु ध्यात्वा वै स्थापयेत्ततः । श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ चोच्चरेत् ॥ मूलेनाग्निप्रियान्तेन सतारेण च साधकः ॥ इति । स्थापयेत् प्राणैः सहेति शेषः । तथा च ध्यानानन्तरं प्राणान् प्रतिष्ठापयेदित्यर्थः । अयं ``श्रीमदेकजटे'' इत्यादि फेत्कारिणीतन्त्रोक्तः सर्वोपचारनिवेदनमन्त्रः सर्वासां तारादेवतानां पूजनेऽविकृत एव पठनीयः, सर्वा एव उपक्रम्य सामान्यतः कथनात् । इत्थं हि मन्त्रवाक्ययोजना । श्रीमदेकजटे वज्रपुष्पं प्रतीच्छेति निवेदनक्रियायां करणम् । अनेन प्रतीच्छान्तेन वाक्येनोपचारान्निवेदयेदिति । एतावन्मात्रेण निवेदनप्राप्तौ प्रतीच्छान्तस्थ शरीरवर्धकं विशेषणत्रयम् । किं भूतेन प्रतीच्छान्तेन ? सतारेण । तारः प्रणवः, तस्य च सम्बन्ध आदावेव सम्प्रदायसिद्ध इति । ओँकारपूर्वकेणेत्यर्थः । पुनः किं भूतेन प्रतीच्छान्तेन ? अग्निप्रियान्तेन स्वाहाशब्दान्तावयवकेनेत्यर्थः । पुनः किं भूतेन प्रतीच्छान्तेन ? मूलेन मत्वर्थलक्षणया मूलवता मूलसहितेन मूलमन्त्रादिकेनेति यावत् । मूलस्यादितः प्रयोज्यत्वं तु ``श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ चोच्चरेत्'' इति मूलमन्त्रसमुच्चायकाच्चकारात् प्रतीयते । प्रथमं मूलमुच्चरेत् ततः प्रतीच्छान्तं चेति हि तस्यार्थः । मूलेनेति पुनरुपादानं तु मूलमुच्चरेत् प्रतीच्छान्तं चोच्चरेदिति पूर्वार्धे मन्त्रद्वयोच्चारणबोधनात् । सतारेणाग्निप्रियान्तेनेति विशेषणद्वयस्य प्रतिमन्त्रं सम्बन्धे सति प्रणवादिना स्वाहान्तेन मूलेन उपचारनिवेदनम् । अथवा प्रणवादिना स्वाहान्तेन प्रतीच्छान्तेनेति विकल्पशङ्कां निराकर्त्तुम् । पुनर्मूलेनेत्युपादानबलात्तु मूलप्रतीच्छान्तयोर्मिश्रीभावेनैकमन्त्रता सिद्ध्यति । एवं यासलेऽपि - ``सर्वोपकरणादीनि मूलान्तेन निवेदयेत्'' इत्युक्तम् । मूलान्तेन मूलमन्त्रस्यावयवभूतेन प्रतीच्छान्तेन निवेदयेदिति हि तस्यार्थः । तथा च मूलं ओँ श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा इति मन्त्रस्वरूपं सिद्ध्यति । तन्त्रसारकृत्तु मूलमन्त्रान्ते श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ हूँ फट् स्वाहा इति प्रयोगं प्रदर्श्य एतत्प्रयोगमूलतया फेत्कारिणीवचनमुपन्यस्तवान् - श्रीमदेकजटेत्युक्त्वा वज्रपुष्पं प्रतीच्छ च । तारादिवह्निजायान्तमुदीर्य यजनं चरेत् ॥ इति । वस्तुतस्तु इदं वचनं तदुक्तप्रयोगं पृष्ठतः कृत्वाऽस्मदुक्तप्रयोगमेव स्पष्टीकरोति । ननु गौडशङ्कराचार्यकृद्रहस्यवृत्तावपि तादृशप्रयोगस्यैवोपलम्भात् किमपराद्धं कृष्णानन्देनेति चेत्, तस्यापि भ्रान्तत्वे का हानिरस्ति प्रज्ञानामिति न किञ्चिदेतत् । अत्र जलोपचारभिन्नानामेतेषामुपचाराणां प्रत्येकं प्रोक्षणं कृत्वा अमुकदेवताया अमुकवस्तु अनेन नम इति तत्तद्देवतोल्लेखेन तत्तदुपचारं सम्पूज्य उक्तद्रव्यमन्त्रान्ते इदममुकद्रव्यममुकदेवतायै इति दद्यात् । तदुक्तं योगिनीतन्त्रे - गन्धः पुष्पं तथा धूपो दीपो नैवेद्यमेव च । यस्य यद्दीयते वस्त्रमलङ्कारादिकाञ्चनम् ॥ तेषां दैवतमुच्चार्य कृत्वा प्रोक्षणपूजने । उत्सृज्य मूलमन्त्रेण प्रतिनाम्ना निवेदयेत् ॥ इति । प्रतिनाम्ना स्वस्वनाम्ना कर्मीभूतद्रव्यनाम्ना, सम्प्रदानीभूतदेवतानाम्ना चेत्यर्थः । उपचाराणामुत्सर्गो विशेषार्घजलेनैव कर्तव्यो न तु जलान्तरेणापि । उक्तं हि स्वतन्त्रे - अन्यतोयैर्यदुत्सृष्टमर्घपात्रस्थितेतरैः । न गृह्णाति महादेवी दत्तं विधिशतैरपि ॥ इति । उपचाराणां स्थानदिक्प्रभेदा रुद्रयामले - निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम् । दीपान् दक्षिणतो दद्यात् पुरतो न तु वामतः ॥ वामतस्तु तथा धूपमग्रतो वा न दक्षिणे । नैवेद्यं दक्षिणे वामे पुरतो न तु पृष्ठतः ॥ इति । गौतमीये- अमृतोपस्तरणमसि स्वाहेति जलसर्पयेत् । इति । क्रमदीपिकायां - ग्रासमुद्रां वामदोष्णा विकचोत्पलसन्निभाम् । प्रदर्शयन् दक्षिणेन प्राणादीनां च दर्शयेत् ॥ स्पृशेत्कनिष्ठोपकनिष्ठके द्वे साङ्गुष्ठमूर्धा प्रथमेह मुद्रा । तथापरा तर्जनिमध्यमे स्यादनामिकामध्यमिके च मध्या ॥ अनामिका तर्जनिमध्यमे स्यात्तद्वच्चतुर्थी सकनिष्ठकास्ताः । स्यात्पञ्चमी तद्वदिति प्रदिष्टाः प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥ इति । प्राणादीनां मुद्राणां मन्त्राश्चन्द्रिकायां - प्राणापानसमानोदानव्यानास्तारपूर्वकाः । चतुर्थ्यग्निवधूयुक्ताः प्राणमन्त्राः स्मृता अमी ॥ इति । गौतमीये - क्षणं विमृष्य मतिमान् दद्याद् गण्डूषकं ततः । अमृतापिधानमसि स्वाहेति मनुनामुना ॥ इति । दीपिकायां - गण्डूषदन्तधवनाचमनास्यदन्त- मृज्याम्बुलेपमुखवासकमाल्यभूषाः । ताम्बूलमप्यभिसमर्प्य सुवाद्यनृत्य- गीतैः सुतृप्तमभिपूजयतात् पुरेव ॥ गन्धादिभिः सपरिवारमथार्घमस्मै दत्त्वा विधाय कुसुमाञ्जलिमादरेण । स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन स्वात्मानमर्पयतु तच्चरणाब्जमूले ॥ इति । सोमभुजगावल्यां - ततश्च मूलमन्त्रेण त्रिवारं तर्पयेत् सुधीः । गृहीत्वाज्ञां महादेव्याः परिवारान् समर्चयेत् ॥ इति ।

अथावरणपूजाप्रयोगः

मूलान्ते श्रीभगवत्युग्रतारिणि तव परिवारपूजनानुज्ञां देहीति सम्प्रार्थ्य अनुज्ञां दत्तां विभाव्य बिन्दुं परितः स्वाग्रमारभ्य दक्षिणावर्त्तमण्डलाकारेण ओँ रं रते वज्रपुष्पं प्रतीच्छ स्वाहा । एवं प्रीं प्रीति, प्रिं प्रिया, कां कान्ति, पुं पुष्पबाणधनुर्धर - एतान् सम्पूज्य त्रिकोणस्य पूर्वकोणे गां गायत्री, ब्रं ब्रह्मा, नैऋत्यकोणे सां सावित्री, विं विष्णुः, वायव्यकोणे वां वागीश्वरी, रुं रुद्र इति सम्पूज्य देव्याः शिरसि अं अक्षोभ्येति अक्षोभ्यं सम्पूज्य देव्यासनादधोभावेन ओँ कं कर्तृके तदधोभावेन ओँ चिं चिताङ्गार इति सम्पूज्य षडङ्गानि पूजयेत् । सं सर्वज्ञते वज्रपुष्पं प्रतीच्छ स्वाहा ओँ एकजटायै हृदयाय नमः । ओँ तृं तृप्ते वज्रपुष्पं प्रतीच्छ स्वाहा ह्रीँ तारिण्यै शिरसे नमः । ओँ अं अनादिबोधे वज्रपुष्पं प्रतीच्छ स्वाहा स्त्रीँ वज्रोदके शिखायै नमः । ओँ स्वं स्वतन्त्रते वत्रपुष्पं प्रतीच्छ स्वाहा हूँ उग्रजटे कवचाय नमः । ओँ निं नित्ये वज्रपुष्पं प्रतीच्छ स्वाहा फट् महापरिसरे नेत्रत्रयाय नमः । ओँ अं अलुप्तशक्ते वज्रपुष्पं प्रतीच्छ स्वाहा ओँ ह्रीँ स्त्रीँ हूँ फट् पिङ्गोग्रैकजटे अस्त्राय नम इति देव्या हृदये, शिरसि, शिखायां कवचे, स्कन्धान्नाभिपर्यन्तम्, नेत्रत्रये परितश्च लयाङ्गतया षडङ्गानि सम्पूज्य पुनरष्टदलमूलस्थेषु केसरेषु उक्तप्रयोगैः षडङ्गान्येतानि पूजयेत् । तत्र क्रमः । आग्नेयकेसरे हृदयम्, ईशानकेसरे शिरः, नैऋत्यकेसरे शिखाम्, वायव्यकेसरे कवचम्, देव्याः पुरः पूर्वकेसरमप्राप्यैव नेत्रम्, प्रागादिदिक्चतुष्टयकेसरेषु अस्त्रम् । अस्त्रपूजनमन्त्रस्य प्रतिदिशमावृत्तिरिति सम्प्रदायः । एवं द्विः षडङ्गानि सम्पूज्य षट्कोणगर्भचक्रपक्षे तु षट्कोणेष्वेव षडङ्गानि सकृत् सम्पूज्य । ओँ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । अथ दलाग्रभूपुरयोर्मध्ये वायव्यकोणादीशानकोणपर्यन्तं पङ्क्तित्रयक्रमेण दिव्यौघादिगुरून् पूजयेत् । तत्र दलाग्रसन्निहितपङ्क्तौ ओँ ऊँ ऊर्ध्वकेशानन्दनाथ वज्रपुष्पं प्रतीच्छ स्वाहा । एवं व्यों व्योमकेशानन्दनाथ-नीं नीलकण्ठ-वृं वृषभध्वजान् दिव्यौघगुरून् सम्पूज्य, किञ्चिद्बहिः पङ्क्तौ वं वशिष्ठ-कूं कूर्म-मीं मीन-मं महेश्वर-हं हरीन् सिद्धौघान् सम्पूज्य, किञ्चिद्बहिः पङ्क्तौ तां तारावती-भां भानुमती-जं जया-विं विद्या मं महोदरी-सुं सुखानन्द-पं परानन्द-पां पारिजातानन्द-कुं कुलेश्वर-विं विरूपाक्ष-फें फेरवी इति एतान् मानवौघान् सम्पूज्य, इतः परमस्यामेव पङ्क्तौ गुं गुरो वज्रपुष्पं प्रतीच्छ स्वाहा । एवं पं परमगुरु-पं परापरगुरु-पं परमेष्ठिगुरून् सम्पूज्य, ओँ अभीष्टसिद्धिं में देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । ततो दलमूलेषु स्वाग्रदलमूलमारभ्य प्रादक्षिण्येन ओँ मं महाकालि वज्रपुष्पं प्रतीच्छ स्वाहा । एवं रुं रुद्राणी-उं उग्रा-भीं भीमा-घों घोरा-भ्रां भ्रामरी-मं महारात्रि-भैं भैरवीः पूजयेत् । ततः - ओँ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । ततो दलमध्ये देव्याः सम्मुखदलमारभ्य वामावर्त्तक्रमेण चतुषु दिग्दलेषु ओँ वैं वैरोचन वज्रपुष्पं प्रतीच्छ स्वाहा । एवं अं असिताभ-पं पद्मनाभ-शं शङ्खनाभ इति सम्पूज्य विदिक्कोणेषु आग्नेयकोणमारभ्य दक्षिणावर्त्तक्रमेण नां नामका-मां मामका-पां पाण्डरा-तां तारकाः पूजयेत् । ततः - ओँ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । ततो दलाग्रेषु देव्यग्रदलमारभ्य प्रादक्षिण्येन ओँ ब्रां ब्राह्मि वज्रपुष्पं प्रतीच्छ स्वाहा । एवं मां माहेश्वरी-कौं कौमारी-वैं वैष्णवी-वां वाराही-इं इन्द्राणी-चां चामुण्डाः सम्पूज्य, ओँ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । ततः पूर्वद्वारमारभ्य दक्षिणावर्त्तक्रमेण द्वारेषु ओँ पं पद्मान्तक वज्रपुष्पं प्रतीच्छ स्वाहा । एवं यं यमान्तक-विं विघ्नान्तक-नं नरकान्तकान् सम्पूज्य, ओँ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं षष्ठावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । ततो भूगृहरेखायां स्वाग्रादिप्रादक्षिण्येनाष्टदिक्षु ओँ लं इन्द्र सुराधिप पीतवर्ण वज्रहस्तैरावतवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ रं अग्ने तेजोधिप रक्तवर्ण शक्तिहस्त मेषवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ मं यम प्रेताधिप कृष्णवर्ण दण्डहस्त महिषवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ क्षं निऋते रक्षोधिप धूम्रवर्ण खड्गहस्त मृतमर्त्यवाहन सपरीवार सशक्तिकैक- जटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ वं वरुण यादःपते शुभ्रवर्ण पाशहस्त मकरवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ यं वायो प्राणाधिप धूम्रवर्णाङ्कुशहस्त मृगवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ सं कुवेर यक्षाधिप शुक्लवर्ण गदाहस्त नरवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । ओँ हं ईशान विद्याधिप स्वर्णवर्ण शूलहस्त वृषवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । निऋति-वरुणयोर्मध्येऽधोभावेन ओँ नं अनन्त नागाधिप गौरवर्ण चक्रहस्त गरुडवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा । इन्द्रेशानयोर्मध्ये ऊर्ध्वभावेन ओँ कं ब्रह्मन् लोकाधिप रक्तवर्ण पद्महस्त हंसवाहन सपरीवार सशक्तिकैकजटापार्षद वज्रपुष्पं प्रतीच्छ स्वाहा, इति सम्पूज्य इन्द्रादिसन्निधौ क्रमेण ओँ वं वज्र पीतवर्ण वज्रपुष्पं प्रतीच्छ स्वाहा, एवं ओँ शं शक्ते सितवर्ण, ओँ दं दण्ड कृष्णवर्ण, ओँ खं खड्ग आकाशवर्ण, ओँ पां पाश विद्युन्निभ, ओँ अं अङ्कुश रक्तवर्ण, ओँ गं गदे शुक्लवर्णे, ओँ त्रिं त्रिशूल नीलवर्ण, ओँ चं चक्र नीलमणिवर्ण, ओँ पं पद्म रक्तवर्ण इति सम्पूज्य लोकपालमुद्रां प्रदर्शयेत् । सा तु - पाणिमूले तु संलग्ने शाखाः सर्वाः प्रसारिताः । लोकेशानामियं मुद्रा तेषामर्चासु दर्शयेत् ॥ इति तन्त्रोक्ता । शाखा अङ्गुल्यः । ततः- ओँ अभीष्टसिद्धिं मे देहि शरणागतवत्सले । भक्त्या समर्पये तुभ्यं सप्तमावरणार्चनम् ॥ इति देव्यै पुष्पाञ्जलिं दद्यात् । ततो गुरुपङ्क्तिभूपुरयोर्मध्ये ओँ सूं सूर्य वज्रपुष्पं प्रतीच्छ स्वाहा इति सूर्यं सम्पूज्य तद्देश एव भूपुराद्बहिः ओँ बुं बुद्ध वज्रपुष्पं प्रतीच्छ स्वाहा इति बुद्धं पूजयेत् । ततो मूलेन पुष्पाञ्जलित्रयं मूलदेव्यै दद्यात् । ततो रक्तपुष्पाण्यादाय ह्रीँ स्त्रीँ हूँ श्रीमदेकजटाकुल्लुके वज्रपुष्पं प्रतीच्छ स्वाहा इति स्वमूर्धनि कुल्लुकां पूजयेत् । ततो योनिमुद्रां प्रदर्श्य मूलं श्रीमदेकजटां तर्पयामि स्वाहा इति विशेषार्घोदकेन त्रिः सन्तर्प्य मूलं श्रीमदेकजटे वज्रपुष्पं प्रतीच्छ स्वाहा साङ्गायै सायुधायै सवाहनायै सपरीवारायै श्रीमदेकजटायै नम इति गन्धपुष्पाक्षतैर्मूलदेवीं त्रिः सम्पूजयेत् । अत्र केरलसम्प्रदाये पुष्पोपचारानन्तरं धूपोपचारात्प्रागावरणपूजनम् । गौडसम्प्रदाये तु सर्वोपचारार्पणं समाप्यावरणपूजेति यथासम्प्रदायमाचरणीयम् । पुरश्चरणचन्द्रिकाकृत्तु दीपानन्तरमावृत्तिसपर्यामाह, स तु कुत्रत्य इति न जानीमः । अत्रावरणपूजायामस्मदुक्ते प्रयोगे - प्रणवं पूर्वमुद्धृत्य तन्नामपदमेव च । वज्रपुष्पं प्रतीच्छोक्त्वा द्विठान्तं मनुमुद्धरेत् ॥ नामानि च प्रवक्ष्यामि स्थाने स्थाने यथाक्रमम् । इति भावचूडामणिवचनं मूलम् । वीरतन्त्रे तु - वज्रपुष्पं प्रतीच्छेति हूँ फट् स्वाहेति चान्ततः । अनेन मनुना सर्वान् परिवारान् समर्चयेत् ॥ इत्युक्तम् । एवं चावरणार्चनेऽनयोर्मन्त्रयोर्विकल्प इति ।

अथ यथालाभमावृत्तिदेवतानां ध्यानं

इन्द्रकोणे लसद्दण्डकुण्डिकाक्षगुणाभयाम् । गायत्रीं पूजयेन्मन्त्री ब्रह्माणमपि तादृशम् ॥ रक्षःकोणे चक्रशङ्खगदापङ्कजधारिणीम् । सावित्रीं पीतवसनां यजेद् विष्णुं च तादृशम् ॥ वायुकोणे च पर्श्वक्षमालाभयवरान्विताम् । यजेत् सरस्वतीमक्षां रुद्रं तादृशलक्षणम् ॥ इति शारदातिलके । इन्द्रकोणे देवताग्रकोणे । रक्षःकोणे देवतादक्षपार्श्वकोणे । वायव्यकोणे देवतावामपार्श्वकोणे । षडङ्गदेवताध्यानमपि तत्रैव - तुषारस्फटिकश्यामनीलकृष्णारुणार्चिषः । वरदाभयधारिण्यः प्रधानतनवः स्त्रियः ॥ ध्यातव्या विदुषा तेन क्रमेणैवाङ्गदेवताः ॥ इति । अत्राङ्गदेवता उक्तरूपाः स्त्रिय एव ध्यातव्याः । अथवा प्रधानतनव इति मुख्यदेवता यल्लिङ्गिका तल्लिङ्गा एवाङ्गदेवता ध्येया इति ध्यानविकल्पो बोध्यः । यत्तु- ``दलमूले पूजितमहाकाल्यादिध्यानं मूलदेवतावद् विशेषानभिधानात्'' इति नृसिंहठक्कुराः, तत्तु प्रमाणालाभमूलकं कल्पनामात्रम् । नहि यस्य ध्यानग्रन्थो न लभ्यते स मूलदेवतावद् ध्यातव्य इति नियामकं किञ्चिद् वचनं लभ्यते, येनेयं कल्पना समूला स्यात् । विशेषानभिधानज्ञानस्यापि यावत्तन्त्रवचनज्ञानसाध्यतया तथाविधज्ञानस्यास्मदादिष्वसम्भवाच्चेति न किञ्चिदेतत् ।

अथ वैरोचनादिध्यानं

तन्त्रान्तरे - वैरोचनं द्विहस्तं च यष्टितोमरधारिणम् । पीतं वृषासनगतं त्रिनेत्रं भक्तवत्सलम् ॥ शङ्खं त्रिशिरसं देवमसिताभं हिरण्मयम् । पुस्तकाभीतिवरदं विमलं शशवाहनम् ॥ शङ्खं शङ्खपाण्डरम् । त्रिशिरसं मस्तकत्रयवन्तम् । अन्यत् सर्वमसिताभवत्, ध्यायेदिति क्रियान्वयात् । सर्वेषां द्वितीययोल्लेखः । एकस्यैव पुस्तकस्य हस्ताभ्यां धारणाच्चतुर्बाहुत्वं बोध्यमिति नृसिंहठक्कुराः । एकस्यायुधस्य हस्तद्वयेन धारणस्याप्रसिद्धतया त्रिहस्तत्वमेव किं न स्यात् त्रिशिरस्त्ववद् इति केचित् । त्रिशिरस्त्व-त्रिपदत्वयोः प्रसिद्धत्वेऽपि त्रिहस्तत्वस्याप्रसिद्धिरेव । तथा चोपरितनहस्तयोः प्रत्येकं पुस्तकमधस्तनयोर्वामदक्षयोरभीतिवरौ ध्येयौ, एवं चतुर्भुजत्वं तु सम्भवति प्रमाणवचनादपीति तन्त्रतत्त्वविदः । पद्मनाभं दन्तिवक्त्रं पुस्तकं वरदाभयम् । पाशं च विधृतं देवं त्रिनेत्रं वरदं शुभम् ॥ विधृतं विधरन्तं विधृतवन्तम् ।

अथ मामकादीनां

श्वेतां त्रिनेत्रां वरदां पुस्तकाभयधारिणीम् । मामकां बलदेवेन संयुक्तेन विभाविताम् ॥ कृष्णां करालवदनां नामकां नवयौवनाम् । गोधिकायां समारूढां शिखिहस्तां च तारकाम् ॥ पाण्डरां स्वेन बीजेन चतुर्बाहुसमन्विताम् । रक्तां लम्बोदरीं ध्यायेत् पञ्चप्रेतासनस्थिताम् ॥ हस्तध्यानं तु मामकावद् ज्ञेयम् । पूर्वबीजं समुच्चार्य तारां श्यामां समर्चयेत् । पूर्वादिपञ्चपत्रेषु पुनर्बीजेन शाङ्करि ॥ नमोऽन्तेन ध्रुवाद्येन प्रतिश्लोकं समर्चयेत् ॥ इति ।

अथ ब्राह्म्यादीनां ध्यानं

शारदायां - दण्डं कमण्डलुं पश्चादक्षसूत्रमथाभयम् । बिभ्रतीं कनकच्छायां ब्राह्मीं कृष्णाजिनोज्ज्वलाम् ॥ शूलं परश्वधं क्षुद्रं दुन्दुभिं नृकरोटिकाम् । वहन्ती हिमसङ्काशा ध्येया माहेश्वरी शुभा ॥ अङ्कुशं दण्डखट्वाङ्गौ पाशं च दधती करैः । बन्धूकपुष्पसङ्काशा कौमारी वरदायिनी ॥ चक्रं घण्टां कपालं च शङ्खं च दधती करैः । तमालश्यामला ध्येया वैष्णवी विभ्रमोज्ज्वला ॥ मुसलं करवालं च खेटकं दधती हलम् । करैश्चतुर्भिर्वाराही ध्येया कालघनच्छविः ॥ अङ्कुशं तोमरं विद्युत्कुलिशौ दधती करैः । इन्द्रनीलनिभेन्द्राणी ध्येया सर्वसमृद्धिदा ॥ शूलं कृपाणं नृशिरः कपालं दधती करैः । मुण्डासृङ्मण्डिता ध्येया चामुण्डा रक्तविग्रहा ॥ अक्षस्रजं बीजपूरं कपालं पङ्कजं करैः । वहन्ती हेमसङ्काशा महालक्ष्मीः समीरिता ॥ इति ।

अथ बलिदानं

स्वस्य वामभागे रक्तचन्दनादिना स्वाग्रत्रिकोणवर्त्तुलचतुरस्रात्मकं मण्डलं विधाय रक्तपुष्पाक्षतैः ओँ आधारशक्तये नमः ओँ मण्डलाय नमः इति च सम्पूज्य सोदकं बलिपात्रं तत्र निधाय ओँ बलिद्रव्याय नम इति रक्तपुष्पाक्षतैर्बलिद्रव्यं सम्पूज्य ``ओँ ह्रीँ श्रीमदेकजटायै महायक्षाधिपायै उपनीतं बलिं गृह्ण गृह्ण गृह्णापय गृह्णापय मम सर्वशान्तिं कुरु कुरु परविद्यामाकृष्याकृष्य त्रुट त्रुट छिन्धि छिन्धि ह्रीँ स्वाहा'' इति मन्त्रं जपन् वामहस्ताङ्गुलिभ्यो बलिपात्रे जलं पातयन् देव्यै बलिमुत्सृजेत् । बलेरुत्सर्गस्तु विशेषार्घोदकेन बलिपात्रोदकेन क्षीरेण वा कर्त्तव्य इति । त्रिशक्तिरत्ने - वामभागे त्रिकोणं च वृत्तं भूपुरमेव च । विधाय रक्तमाल्यादैरर्चयित्वा यथाविधि ॥ वक्ष्यमाणेन विधिना बलिं देव्यै निवेदयेत् । ध्रुवं लज्जां समुच्चार्य ङेन्तामेकजटां वदेत् ॥ महायक्षाधिपायै स्यादुपनीतं बलिं वदेत् । गृह्ण-गृह्णापयद्वन्द्वं मम सर्वपदादथ ॥ शान्तिं कुरु युगं ब्रूयात् परविद्यामतः परम् । आकृष्य-युगलादन्ते त्रुटछिन्धियुगं वदेत् ॥ व्रीडावह्निवधूप्रान्तो बलिमन्त्रोऽयमीरितः ॥ इति । नरसिंहपुराणे - आर्द्रामलकमालेन (?) कुर्याद्धोमहविर्बलीन् । इति ॥

अथ जपः

स च स्वकुल्लुकामन्त्रं जप्त्वैव कर्त्तव्यः । तदुक्तं त्रिशक्तिरत्ने अजप्त्वा कुल्लुकं मन्त्रमस्मृत्वा श्रीपतिं हरिम् । प्रजपेत् तारिणीमन्त्रं नरके स निलीयते ॥ जपित्वा कुल्लुकं मन्त्रमष्टोत्तरशतं सुधीः । प्रजपेत्तारिणीं पश्चान्नान्यथा सिद्धिमाप्नुयात् ॥ धृत्वा तु कुल्लुकं हस्ते महादेवीं समर्चयेत् । अथवा मूर्ध्नि विन्यस्य पूजयेत् प्रजपेदपि ॥ इति । तथा अक्षोभ्यमन्त्रोऽप्यादावेवावश्यं जप्तव्यः । तदुक्तं ब्रह्मसंहितायां - अक्षोभ्यस्य मनुं त्यक्त्वा देवीं तारां जपेद् यदि । सिद्धिहानिर्भवेत्तस्य रौरवं नरकं व्रजेत् ॥ इति । अक्षोभ्यमन्त्रस्तु - श्रीँ अं अक्षोभ्य स्वाहा श्रीँ इति । उक्तं च त्रिशक्तिरत्ने - अनुत्तरं समुद्धृत्य पपञ्चमविभूषितम् । अक्षोभ्येति च स्वाहेति रमाद्यन्तो महामनुः ॥ इति ।

अथ जपमाला

तत्र वर्णमाला मुख्या सर्वत्र । तदभावे एतद्विद्योपासकस्य वीरस्य रहस्यमाला प्रशस्ता । एतद्विद्योपासकस्यावीरस्य तु स्फटिकादिमाला प्रशस्ता । तदुक्तं मुण्डमालातन्त्रे - अनुलोम विलोमस्थक्लृप्तया वर्णमालया । आदिवर्णक्रमेणैव लान्तं च परमेश्वरि ॥ क्षकारं मेरुरूपं तु लङ्घयेन्न कदाचन । मेरुहीना च या माला मेरुङ्घ्या च या भवेत् ॥ अशुद्धा तु भवेदत्र सा माला निष्फला भवेत् । चित्रिणी बिसतन्त्वाभा ब्रह्मनाडी गता च या ॥ तया सङ्ग्रथिता ध्येया सर्वकामफलप्रदा । अष्टोत्तरशतजपे त्वादौ क्लीबं समुच्चरेत् ॥ ऋॠऌॡवर्णचतुष्टयं क्लीबं प्रचक्ष्यते । वर्गाणामष्टकं वापि काम्यभेदक्रमेण तु ॥ अकचटतपयश इत्येवं चाष्टवर्गकमिति ॥ अष्टोत्तरशतजपे कर्त्तव्ये प्रकारद्वयम् । तत्र प्रथमं क्लीबचतुष्टयेन जपित्वा अकारादिलकारान्तैर्जपेत् । एवं मन्त्रस्य चतुःपञ्चाशदावृत्तिजपो भवति । ततः क्षकारं केवलमुच्चरेन्न तु ततो मन्त्रमपि । पुनर्लकारमारभ्याकारान्तैर्विलोमक्रमेण जपित्वा ततो विलोमक्लीबचतुष्टयेनापि जपेत् । इत्थं चतुःपञ्चाशत्सङ्ख्याकजपो भवति । मिलित्वाऽऽष्टोत्तरशतमित्येकः प्रकारः । अनुलोमविलोमैरकाराद्यकारान्तैः शतावृत्ति जपित्वा अकचटतपयशाख्यैरष्टवर्गैरष्टावृत्तिजपेनाष्टोत्तरशतजपो भवतीत्यपरः प्रकारः । अथ चानयोः प्रकारयोर्मध्ये येन प्रकारेण यो नित्यजपं करोति स काम्यजपे कर्त्तव्ये भिन्नप्रकारेणैव कुर्यात् । एकेनैव प्रकारेण नित्यं काम्यं च जपं न कुर्यादित्यर्थः । प्रकारद्वयकथनप्रयोजनमेव स्पष्टयति - ``काम्यभेदक्रमेण तु'' इति । काम्यजपक्रमाद् भिन्नक्रमेण नित्यं जपेदिति हि तस्यार्थः । यामलेऽपि - सबिन्दुवर्णमुच्चार्य पश्चान्मन्त्रं जपेत्सुधीः । क्षं मेरुं कल्पयित्वा तु जपेत्तन्नाभिलङ्घयेत् ॥ इति । क्षकारं केवलं मेरुतयानुलोमावृत्त्यन्ते विलोमावृत्त्यन्ते च सकृदुच्चरेत् । तस्मात्परं मन्त्रं तु नोच्चरेदित्यर्थः । तथा कुलमूलावतारे सारसङ्ग्रहे च - ब्रह्मनाडीगतानादिक्षान्तान् वर्णान् विभाव्य च । अर्णं बिन्दुयुतं कृत्वा स्वेष्टं मन्त्रं जपेत्सुधीः ॥ अकारादिषु संयोज्य तथा कादिषु च क्रमात् । क्षार्णं मेरुमथो तत्र कल्पयेज्जगदीश्वरि ॥ तदा लिपेर्भवेदक्षमालार्धशतसङ्ख्यया । अनया सर्वमन्त्राणां जपः सर्वार्थसाधकः ॥ इति । तथा - अकारादिक्षकारान्तं पञ्चाशन्मणिसूत्रकम् । क्षकारं मेरुसंस्थाने लकारादिविलोमतः ॥ वर्णाष्टकविभेदेन शतमष्टोत्तरं भवेत् । एकैकान्तरितं मन्त्रं जप्यादेवं फलप्रदम् ॥ अनुलोमविलोमस्थैः क्लृप्तया वर्णमालया । प्रत्येकार्णयुता मन्त्रा जप्ताः स्युः शीघ्रसिद्धिदाः ॥ वैरिमन्त्रा अपि नृणामन्ये मन्त्राश्च किं पुनः । इति । एवं च वर्णमालायामेवाक्षमालाप्रयोगो मुख्यः, स्फटिकादौ गौण एवेति जपेऽपि मालाभेदान्मुख्यगौणभावो बोध्य इति । करमालाविशेषो मणिभेदकृतफलविशेषश्च मूलग्रन्थे द्रष्टव्यः । मालासंस्कारपद्धतिस्त्वस्मद्रचिता पृथगेवास्तीति विस्तरभिया मालासंस्कारो नेह लिखितस्तत एवावगन्तव्यः । संस्कृतयैव मालया नित्यं नैमित्तिकं च जपं कुर्यात् ।

अथ नित्यजपसङ्ख्या

मन्त्रतन्त्रप्रकाशे - अष्टोत्तरसहस्रं तु कृत्वान्तर्यागमादरात् । जपेत्प्रतिदिनं यत्तु नित्य एष जपः स्मृतः ॥ इति । उत्तरतन्त्रे - न जपेत् त्रिशतान्न्यूनं साधकस्तु कदाचन ॥ इति । योगिनीतन्त्रे - अष्टोत्तरशतं वापि जपान्ते शिरसि क्षिपेत् । त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम । शिवं कुरुष्व मे भद्रे यशो वीर्यं च सर्वदा ॥ इति । अष्टोत्तरशतं वा जपेदशक्त इति शेषः । त्वं माले इत्यादि सर्वदेत्यन्तेन मन्त्रेण स्वमूर्धनि जपमालां स्थापयेदित्यर्थः । शैवागमे - अष्टोत्तरसहस्रं तु तदर्धं त्रिशतं तु वा । अष्टोत्तरशतं वापि जपेन्नित्यमतन्द्रितः ॥ जपश्च मन्त्रध्यानपूर्वकं कर्त्तव्यः । तदुक्तं नीलतन्त्रे - मन्त्रध्यानं प्रवक्ष्यामि जपात्सार्वज्ञदायकम् । मन्त्रध्यानान्महेशानि शुद्ध्यते ब्रह्महा यतः ॥ मूलचक्रे तु हृल्लेखां सूर्यकोटिसमप्रभाम् । स्वाधिष्ठाने पीतवर्णं द्वितीयं परिभावयेत् ॥ नाभौ जीमूतसङ्काशं कूर्चबीजं महाप्रभम् । मन्त्री चन्द्रप्रतीकाशं योगिभिर्दृष्टपूर्वकम् ॥ अस्त्रबीजं हृदि ध्यायेत् कालाग्निसदृशप्रभम् । अथवा पूर्णचन्द्राभं कूर्चं मूर्ध्नि सुधाप्रभम् ॥ तत्प्रभापटलैर्जिह्वां प्रदीप्तां च विभावयेत् । मूलादिब्रह्मरन्ध्रान्तं सर्वां विद्यां विभावयेत् ॥ सूर्यकोटिप्रतीकाशां योगिभिर्दृष्टपूर्विकाम् ॥ इति । हृल्लेखा भुवनेश्वरीबीजम् । तदुक्तं सङ्केततन्त्रोदये - हृल्लेखा भुवनेश्वरी च भुवना देवीश्वरी श्रीमहामाया जीवनमध्यगा त्रिजगतां धात्री परेशी परा ॥ इति तन्त्रान्तरे - स्थानस्था वरदा मन्त्रा ध्यानस्थाश्च फलप्रदाः । स्थानध्यानविनिर्मुक्ताः सुसिद्धा अपि वैरिणः ॥ प्रसङ्गेनैव तत् स्थानं कथयामि न संशयः । सकलं निष्कलं सूक्ष्मं तथा सकलनिष्कलम् ॥ कलाभिन्नं कलातीतं षोढा मन्त्रं शिवोऽब्रवीत् । सकलं ब्रह्मरन्ध्रस्थं तदधो विद्धि निष्कलम् ॥ बिन्दुस्थितं कलाभिन्नं कलातीतं ततो ह्यधः (तदूर्ध्वतः) ॥ कला कुण्डलिनी सैव नादशक्तिः शिवोदिता । एतत्स्थानस्थिता मन्त्राः स्थानस्थाः परिकीर्तिताः ॥ मनसा मनवो ध्येया कुण्डलिन्यां समाहितैः । ततस्तां भावयेद् बिन्दौ ध्यानस्थाः परिकीर्तिताः ॥ इति । तदधः केशान्तस्थम् । बिन्दुस्थितं भ्रूमध्यस्थितम् । तदूर्द्ध्वतः ललाटस्थितं (ततो ह्यधः हृदब्जस्थम्) । सूक्ष्मं मूलाधारस्थम् । सकलनिष्कलं ब्रह्मरन्ध्रात् केशान्तमभिव्याप्य स्थितम् । नादशक्तिः परा पश्यन्ती मध्यमा वैखरीति च चतुर्विधा वाक्शक्तिः । समाहितैः सावधानचित्तैः साधकैः कुण्डलिन्यां सूत्रस्थानीयायां मनवो मन्त्राक्षराणि मनसा ध्येयाः प्रोताश्चिन्तनीया इत्यर्थः । तां कुण्डलिनीं बिन्दौ भावयेद् वीणातन्तुवद् मूलाधारबिन्दुमपरित्यज्यैव भ्रूमध्यबिन्दुसम्बद्धां भावयेत् । मन्त्रवर्णास्तु तन्तुध्वनिरूपा भवन्तीति तात्पर्यार्थः । पुरश्चरणचन्द्रिकायां जपभेदा उक्ताः - जपः स्यादक्षरावृत्तिस्तस्य भेदान् ब्रवीम्यहम् । जपश्च द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥ आद्योऽप्युपांशुरुच्चैश्च द्विविधः परिकीर्त्तितः । द्वितीयोऽथ द्विधा प्रोक्तो जिह्वाचित्तप्रभेदतः ॥ मन्त्रमुच्चारयेद् वाचा स उक्तो वाचिको जपः । शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ॥ किञ्चिच्छ्रवणयोग्यः स्यादुपांशुः स जपः स्मृतः । जिह्वाजपः स विज्ञेयः केवलं जिह्वया जपः ॥ धिया यदुच्चरेन्मन्त्रं स उक्तो मानसो जपः ॥ इति । विशुद्धेश्वरतन्त्रे - निजकर्णागोचरो यो मानसः स जपः स्मृतः । उपांशुर्निजकर्णस्य गोचरः परिकीर्त्तितः ॥ निगदस्तु जनैर्वेद्यस्त्रिविधो जप ईरितः । मन्त्रमुच्चारयेद् वाचा वाचिकः स जपः स्मृतः ॥ उच्चैर्जपाद् विशिष्टः स्यादुपांशुर्दशभिर्गुणैः । जिह्वाजपः शतगुणः सहस्रो मानसः स्मृतः ॥ इति । कुलार्णवे - मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः । न सिध्यति वरारोहे कल्पकोटिजपादपि ॥ जातसूतकमादौ स्यादन्ते च मृतसूतकम् । सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति ॥ गुरोस्तद्रहितं कृत्वा मन्त्रं यावज्जपेद् धिया । सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः ॥ इति । सूतकमोचनप्रकारोऽपि तत्रैव - ब्रह्मबीजं मनौ दत्वा चाद्यन्ते परमेश्वरि । सप्तवारं जपेन्मन्त्रं सूतकद्वयमुक्तये ॥ मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः । शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥ इत्यादि । देवतां हृद्गतां कृत्वा हृदयं च स्थिरं निजम् । शिवादींश्च गुरुन् नत्वा जपेन्मन्त्रं समाहितः ॥ शनैश्शनैरविस्पष्टं न द्रुतं न विलम्बितम् ॥ इति । तथा - उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गलावृतः । अप्रावृतकरोऽशुद्धः प्रलपन्न जपेन्मनुम् ॥ अप्रावृतौ करौ कृत्वा शिरसा प्रावृतोऽपि वा । चिन्ताव्याकुलचित्तो वा क्रुद्धो भ्रान्तस्त्वरान्वितः ॥ निरासनः शयानो वा गच्छन्नुत्थित एव वा । रथ्यायामशिवस्थाने न जपेत्तिमिरावृते ॥ उपानद्गूढपादो वा यानशय्यागतोऽपि वा । न जपेदित्यनुषज्यते । पतितानामन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधोवायुगमने जृम्भायां जपमुत्सृजेत् ॥ उत्थायाचम्य तत्प्रान्ते प्राणायामषडङ्गकम् । कृत्वाचम्य चरेच्छेषं यद्वा सूर्यादिदर्शनम् ॥ इति । सूर्यादिदर्शनं कृत्वा शेषं चरेदित्यनुषङ्गः । आदिशब्दादग्निदर्शनम् । कालीतन्त्रे - तेजोमयं जपफलं देव्या हस्ते निवेदयेत् । गुह्यातिगुह्यगोत्री त्वमिति मन्त्रेण मन्त्रवित् ॥ प्रणवमुच्चार्य यावज्जपं समाप्यान्तेऽपि प्रणवमुच्चार्य त्वं माले इत्यादिपूर्वोक्तयोगिनीतन्त्रोक्तमन्त्रेण मालां शिरसि निधाय ऋष्यादिकरन्यासमङ्गन्यासं च कृत्वा तेजोमयं जपफलं देवताहस्ते जलदानेन समर्पयेत् । जपसमर्पणमन्त्रस्तु - गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मद्कृतं जपम् । सिद्धिर्भवतु मे मातस्त्वत्प्रसादान्महेश्वरि ॥ इति भैरवीतन्त्रोक्तेः । सोमशम्भुः - भोगश्लोकं पठित्वा च दक्षहस्तेन शम्भवे । मूलमन्त्रार्घतोयेन वरहस्ते समर्पयेत् ॥ इति । भोगश्लोकं गुह्यातिगुह्येति श्लोकम् । दक्षहस्तेन स्वीयेन । शम्भवे इत्युपलक्षणम्, प्रकृतदेवतायाः । भोगश्लोकानन्तरं मूलमन्त्रं पठित्वा विशेषार्घोदकेनार्पयेत् । वरहस्ते प्रधानहस्ते । एवं च पुन्देवताया दक्षहस्ते स्त्रीदेवताया वामहस्ते इत्यर्थः । ``देवीनां वामहस्ते तु देवानां दक्षिणेऽर्पयेत्'' इति रुद्रयामलवचनाच्च । ततः स्तोत्रं पठेत् । उक्तं च शैवागमे - इत्थं जपं समर्प्याथ घण्टावादनपूर्वकम् । स्तुवीत स्तुतिभिः सम्यक् साधको भक्तवत्सले ॥ इति ॥ जपादौ कवचं जप्यं जपान्ते स्तवनं चरेत् । जपेत् सहस्रनामानि यथाकालमुदारधीः ॥ इति देवीयामलोक्तेस्तथैव पठनीयमिति ।

अथ नित्यहोमः

ततो नित्यहोमं कुर्यात् । कुलार्णवे - सङ्कल्प्य परमेशानि नित्यहोमविधि चरेत् ॥ इति सङ्कल्पस्तु - ``ओँ अद्येहामुकदेवताप्रीत्यै एतावदाहुतीरहं होष्यामि'' इत्येवंरूपः । नीलतन्त्रे - नित्यहोमं प्रवक्ष्यामि सर्वार्थं सर्वसिद्धिदम् । विधिवद् वह्निमानीय क्रव्यादांशं परित्यजेत् ॥ ततश्च मन्त्रमुच्चार्य कुण्डे वा स्थण्डिले तथा । भूमौ वा संस्तरेद् वह्निं व्याहृतित्रितयेन तु ॥ आहुतित्रयमुत्क्षिप्य षडङ्गहवनं ततः । ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ॥ कृत्वा स्तुत्वा नमस्कृत्य विसृजेदिन्दुमण्डले ॥ इति । विधिवद् कांस्यादिपात्रे पात्रान्तरेण पिधायेत्यर्थः । क्रव्यादांशं परित्यजेदिति ज्वलदङ्गारखण्डं क्रव्यादेभ्यो नम इत्युच्चार्य नैऋत्यां क्षिपेदिति सम्प्रदायः । मन्त्रमुच्चार्य मूलमन्त्रमुच्चार्य । संस्तरेत् स्थापयेदित्यर्थः । व्याहृतित्रितयेन ओँ भूः स्वाहा ओँ भुवः स्वाहा ओँ स्वः स्वाहा एवं क्रमेण ।

षडङ्गहवनं -

ओँ एकजटायै हृदयाय स्वाहा । ह्रीँ तारिण्यै शिरसे स्वाहा । स्त्रीँ वज्रोदके शिखायै स्वाहा । हूँ उग्रजटे कवचाय स्वाहा । फट् महापरिसरे नेत्रत्रयाय स्वाहा । ओँ ह्रीँ स्त्रीँ हूँ फट् पिङ्गोग्रैकजटे अस्त्राय स्वाहा इति प्रयोगेण हवनम् । मूलेन ओँ ह्रीँ स्त्रीँ हूँ फट् स्वाहा एवंरूपेण । ``विसृजेदिन्दुमण्डले इति । इन्दुमण्डलं भ्रूमध्यस्थद्वारा हृदये विसृजेदित्यर्थः । अयं नित्यहोमो लौकिकाग्नावपि भवति । ``अग्न्याधानादिकं कर्म नित्यहोमेन विद्यते'' इति वशिष्ठसंहितावचनात् । वह्निसंस्कारोऽपि नीलतन्त्रोक्त एव कर्त्तव्यो नाधिकः, एतत्तन्त्रस्यासाधारणत्वादिति वदन्ति ।

अथ आरात्रिकं

उक्त ज्ञानार्णवे - तत आरात्रिकं कुर्यात् सर्वकामार्थसिद्धये । सौवर्ण राजते कांस्ये लोकनेत्रमनोहरम् ॥ कुङ्कुमेन लिखेत् पद्मं वसुपत्रं वरानने । कर्णिकायां दीपमेकं वसुपत्रेषु दीपकान् ॥ यवगोधूमरचितान् शर्करादुग्धसंयुतान् । वलयाञ्चितशोभाभिः शोभितान् घृतपूरितान् ॥ अभिमन्त्र्य ततो मन्त्री रत्नेश्वर्या ततः परम् । मूलमन्त्रेण चाभ्यर्च्य ततश्चारात्रिकं चरेत् ॥ तत्पात्रं तु समुद्धृत्य मस्तकान्तं पुनः पुनः । नववारं महादेव्यास्तेन नीराजनं चरेत् ॥ नीराजने महादेव्याश्चक्रमुद्रां प्रदर्शयेत् ॥ इति । कर्णिकायामेकं स्थूलम् । दीपकान् किञ्चिदल्पान् । यवपिष्टरचितान् गोधूमपिष्टरचितान् वा । दीपानां सन्धिषु शर्करादुग्धाभ्यां पूरणात् शर्करादुग्धसंयुतान् । वलयाकारेण स्थापनात् प्राप्ताभिः शोभाभी रुचिरान् । रत्नेश्वर्या मन्त्रण नवार्णेनाभिमन्त्र्य महादेव्या इष्टदेवतायाः पादमारभ्य मस्तकान्तं नीत्वा नववारं नीराजयेद् देवतामूर्त्तिं प्रकाशयेद् रत्नेश्वरीमन्त्रेणैवेति । रत्नेश्वरीविद्या तु - श्रीं ह्रीँ ग्लूँ स्लूँ प्लूँ म्लूँ ल्लूँ ह्रीँ श्रीँ इति । उक्तं च ज्ञानार्णवे - श्रीबीजं च पराबीजं संलिखेत् मनुवित्तमः । गसौ च पमलान् पश्चादिन्द्रस्थान् क्रमतो लिखेत् ॥ नादबिन्दुसमायुक्तान् वामकर्णविभूषितान् । पूर्वबीजविलोमेन रत्नेशीयं नवाक्षरी ॥ इति ।

अथ प्रदक्षिणा

उत्तरतन्त्रे - पौराणिकैर्वैदिकैश्च मूलमन्त्रेण चैव हि । प्रदक्षिणं प्रणामं च कुर्याद्धर्मार्थसाधकम् ॥ यामले - ``त्रिकोणाकारा सर्वत्र नतिः शाक्ते समीरिता'' इति । नतिरत्र प्रादक्षिण्यम् । प्रदक्षिणा विषमाः कार्यास्तत्र एका तु निषिद्धा । त्रिधा च वेष्टयेत् सम्यग् देवतायाः प्रदक्षिणे । एकहस्तप्रणामं च एकं वापि प्रदक्षिणम् ॥ अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुरा कृतम् ॥ इति । तथा - एकं चण्ड्यां रवौ सप्त त्रीणि दद्याद् विनायके । चत्वारि केशवे दद्यात् शिवस्यार्धं प्रदक्षिणम् ॥

अथ नतिः

सा चाष्टाङ्गा पञ्चाङ्गा वा । तथा हि तन्त्रे - साष्टाङ्गश्चाथ पञ्चाङ्गः पूजाकर्मसु सम्मतः । हस्ताभ्यां चरणाभ्यां च जानुभ्यां चक्षुषा तथा ॥ मूर्ध्ना दृष्ट्या तथा वाचा चित्तेनाष्टाङ्ग ईरितः । इति, हस्तजानुशिरोवाक्यधीभिः पञ्चाङ्ग ईरितः ॥ इति च । स इति प्रणाम इत्यर्थः । अत्र तन्त्रान्तरे प्रणामस्य पञ्चमुद्रा उक्ताः - सम्मुखं चतुरस्रं च वृत्तं गोमुखमेव च । योनिमुद्रेति कथिता मुद्राः पञ्च नमस्कृतौ ॥ इति । तत्र भूमिसंलग्नाञ्जलौ शिरसो योगः सम्मुखमुद्रा । भूमिसंलग्नोत्तानवामकरतलोपरि वामाग्रतिर्यग्स्थापितोत्तानदक्षकरतले शिरसो योगे चतुरस्रमुद्रा । भूमिसंलग्नसन्निरोधनमुद्रायां शिरसो योगे वृत्तमुद्रा । भूमिसंलग्नविस्तारिताङ्गुलिककरसम्पुटे शिरसो योगे सम्पुटमुद्रा । योनिमुद्रायां शिरसो योगे योनिमुद्रा इति । ततो ब्रह्मार्पणमन्त्रेण देव्या वामकरे जलदानेन कृतमर्चनं देव्यै समर्पयेत् । ब्रह्मार्पणमन्त्रस्तु- ``ओं इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु सर्वास्ववस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा'' इति । इति मन्त्रेण देव्या वामकरे अर्घोदकमुत्सृजेत् । उक्तं च कुलार्णवे - कृतार्चनादिकं सर्वं समन्त्रोदपुरस्सरम् । इतः पूर्वादिमनुना देवतायै समर्पयेत् ॥ इति । मन्त्रोद्धारः सारसङ्ग्रहे - वदेदितःपदं पूर्वं प्राणबुद्धिं ततो वदेत् । देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु ॥ वदेत्सर्वास्ववस्थासु मनसा वाचेति पदमुच्चरेत् । कर्मणा चैव हस्ताभ्यां पद्भ्यामुक्त्वोदरेण च ॥ वदेच्छिश्ना च यच्छब्दं स्मृतं यत्पदमुच्चरेत् । उक्तं च यत्कृतं सर्वं ब्रह्मार्पणं भवत्विति । स्वाहान्तश्चापि सम्प्रोक्तो ब्रह्मार्पणमनूत्तमः ॥ इति । समर्पणप्रकारोऽपि शिवागमे - इत्यर्घोदकमुत्सृज्य किञ्चिद्देवस्य दक्षिणे । करे समर्षयेद् विद्वान् कृतमाराधनं प्रिये ॥ इति । यत्र दक्षिणकरे इति पुन्देवताविषयं, शिवपूजायाः प्रकृतत्वात् । देवीनां तु वामकर एव समर्पणम् । ``कृतमाराधनं देव्या वामहस्ते समर्पयेत्'' इति वीरचूडामणिवचनात् । ततो देवतां विसर्जयेत् । यथा संहारमुद्रां बद्ध्वा तर्जनीयुगलेन देव्यास्तेजसा सह चक्रपुष्पमुद्धृत्याघ्राय वहन्नासाध्वना तत्तेजो ब्रह्मरन्ध्रं नीत्वा परमशिवे संयोज्यामृतप्लुतं विभाव्य क्षणं विश्रम्य सुषुम्णामार्गेण हृदयारविन्दं नीत्वा दोपे दीपान्तरमिव हृदि वर्त्तमाने तेजसि संयोज्यैकीभूतं सञ्चिन्त्य सम्पूज्य आत्मानं च तत्तेजोमयं भावयेदिति । ततो मरणाद्यशौचापनोदनाय दशधा मूलं जपेत् । तदुक्तं हंसपारमेश्वरतन्त्रे - संहारमुद्रां बद्ध्वाथ तेजोरूपां महेश्वरीम् । विभाव्य पुष्पेणोद्धृत्य वहच्छ्वासाध्वना शिवे ॥ प्रवेश्य द्वादशान्तःस्थसहस्रारसरोरुहे । विश्रम्य मध्यनाड्या तामानीय हृदयाम्बुजे ॥ संस्थाप्य सम्यक् सम्पूज्य स्वात्मानं तन्मयं स्मरेत् । इति । तत ईशानकोणे चन्दनेन स्वाग्रं त्रिकोणमण्डलं विधाय चक्रे दत्तं देव्यां निर्माल्यं गन्धपुष्पादि गृहीत्वा तस्मिन् मण्डले निक्षिप्य अवशिष्टगन्धादिभिर्निक्षिप्तनिर्माल्योपरि चण्डेश्वरीं स्वमन्त्रेण पूजयेत् । तदुक्तं कुलमूलावतारे - ऐशान्यां मण्डलं कृत्वा द्वारपद्मविवर्जितम् । विसर्जनार्थं निर्माल्यधारिण्याः पूजनाय वै ॥ निक्षिप्य तस्मिन्निर्माल्यं मन्त्रेण तु समर्चयेत् । इति । विसर्जनार्थं पूजासमाप्त्यर्थं निर्माल्यधारिण्याः पूजनायेति सम्बन्धः । तस्याः पूजनं विना पूजाया असमाप्तेरिति । चण्डेश्वरीमन्त्रोऽपि तत्रैव - चण्डेश्वरि महादेवि निर्माल्यैश्चन्दनादिभिः । लेह्यचोष्यान्नपानादिनिर्माल्यं स्रग्विलेपनम् । निर्माल्यभोजनं तुभ्यं ददामि श्रीशिवाज्ञया ॥ इति । तथा इति नैवेद्यशेषं तु दत्वा नत्वा विसर्जयेत् । नैवेद्यांशं दत्वा विसर्जयेदित्यर्थः । तथा - निर्माल्यं मस्तके धार्यं मूलमन्त्रेण मन्त्रिणा । प्राश्य पादोदकं देवीनैवेद्यं विभजेत्प्रिये ॥ तद्भक्तेभ्यः स्वयं भुक्त्वा तन्मयो विहरेत् स्वयम् ॥ इति । तन्मयो देवीरूपोऽहमित्यात्मानं भावयन् विहरेद् निरपेक्षसुखमनुभवेदित्यर्थः । इति नित्यार्चनक्रमः ॥

परिशिष्टः

अथ मुद्राः

तत्र स्नानप्रकरणस्थाङ्कुशमुद्रा । तन्त्रे - दक्षमुष्टेर्विधायाथ तर्जन्यङ्कुशरूपिणी । अङ्कुशाख्या महामुद्रा त्रैलोक्याकर्षणक्षमा ॥ इति । अथ कुम्भमुद्रा - दक्षाङ्गुष्ठे पराङ्गुष्ठं क्षिप्त्वा हस्तद्वयेन तु । सावकाशा चैकमुष्टिर्मुद्रेयं कुम्भसंज्ञिता ॥ अथ धेनुमुद्रा - अन्योन्याभिमुखा श्र्लिष्टा कनिष्ठानामिका पुनः । तथा च तर्जनीमध्या धेनुमुद्रामृतप्रदा ॥ अथावाहनादिमुद्रा लक्षणसङ्ग्रहे - हस्ताभ्यामञ्जलिं बद्ध्वाऽनामिकामूलपर्वणोः । अङ्गुष्ठौ निक्षिपेत् सेयं मुद्रा त्वावाहनी मता ॥ अधोमुखी त्वियं वै स्यात् स्थापनीति निगद्यते । उच्छ्रिताङ्गुष्ठमुष्ट्यास्तु संयोगात् सन्निधापनी ॥ अन्तःप्रवेशिताङ्गुष्ठा सैव संरोधनी मता । उत्तानमुष्टियुगला सम्मुखीकरणी भवेत् ॥ अथावगुण्ठनमुद्रा - सव्यहस्तकृतामुष्टिर्दीर्घाधोमुखतर्जनी । अवगुण्ठनमुद्रेयमभितो भ्रामिता सती ॥ अथ महामुद्रा वा परमीकरणमुद्रा - अन्योन्यग्रथिताङ्गुष्ठप्रसारितकराङ्गुलिः । महामुद्रेयमुदिता परमीकरणे प्रिये ॥ प्रयोजयेदिमां मुद्रां देवताह्वानकर्मणि । अथ मत्स्यमुद्रा - दक्षपाणिपृष्ठदेशे वामपाणितलं क्षिपेत् । अङ्गुष्ठं चालयेन्मत्स्यमुद्रेयं मत्स्यरूपिणी ॥ अथ गालिनीमुद्रा मन्त्रतन्त्रप्रकाशे - कनिष्ठाङ्गुष्ठकौ युक्तौ करयोरितरेतरम् । तर्जनीमध्यमानामाः संहता भुग्नवर्जिताः ॥ मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता । अथ शङ्खमुद्रा - वामाङ्गुष्ठं सङ्गृह्य दक्षिणेन तु मुष्टिना । कृत्वोत्तानं ततो मुष्टिमङ्गुष्ठं तु प्रसारयेत् ॥ वामाङ्गुल्यस्तथा श्लिष्टाः संयुक्ताः स्युः प्रसारिताः । दक्षिणाङ्गुष्ठसंस्पृष्टा मुद्रैषा शङ्खसंज्ञिता ॥ अथ योनिमुद्रा - मध्यमे कुटिले कार्ये तर्जन्युपरि संस्थिते । अनामिके मध्यगते तथैव हि कनिष्ठिके ॥ सर्वा एकत्र संयोज्य अङ्गुष्ठपरिपीडिताः । योनिमुद्रा समाख्याता त्रैलोक्योत्पत्तिमातृका ॥ अथ पञ्चमुद्राविभूषितामित्यभिधाय भैरवतन्त्रोक्ता महायोन्यादिपञ्चमुद्राः - तर्जन्यनामिके मध्ये कनिष्ठे च क्रमादपि । करयोर्योजयेच्चैव कनिष्ठामूलभेदतः ॥ अङ्गुष्ठाग्रं तु निक्षिप्य महायोनिः प्रकीर्तिता । अधोमुखीमिमां मुद्रां दर्शयेद् बीजपूर्विकाम् ॥ अस्यां तु देवि तर्जन्यौ निपात्य पृष्ठतस्ततः । संस्थाप्याङ्गुष्ठके मुद्रा भूतिनी परिकीर्त्तिता ॥ तन्त्रान्तरे - बद्ध्वा तु योनिमुद्रां वै मध्यमे कुटिले कुरु । अङ्गुष्ठे च तदग्रे तु मुद्रेयं भूतिनी मता ॥ परिवर्त्य करौ स्पष्टावङ्गुष्ठतर्जनीयुगम् । अर्धचन्द्राकृतिन्यायं युगपत् कारयेत् समम् ॥ अधःकनिष्ठामाकृष्य मध्यमे विनियोजयेत् । मुद्रैषा कथिता देवि बीजाख्या ज्ञानरूपिणी ॥ परिवर्त्य करौ कृत्वा कनिष्ठाकृष्टमध्यमाम् । अनामयोर्युगं चाधस्तर्जनीयुगलं पृथक् ॥ अन्योन्यं निबिडं बद्ध्वा अङ्गुष्ठाग्रे अनामिके । दैत्यानां धूमकेत्वाख्या मुद्रैषा कथिता प्रिये ॥ वक्त्रं विस्फारितं कृत्वाप्यधोवक्त्रं च चालयेत् । पार्श्वस्थमुष्टियुगलं लेलिहानेति कीर्तिता ॥ अथ प्राणप्रतिष्ठायां लेलिहामुद्रा यथा - तर्जनीमध्यमानामाः समाः कुर्यादधोमुखीः । अनामायां क्षिपेद् वृद्धां ऋजुं कृत्वा कनिष्ठिकाम् ॥ लेलिहा नाम मुद्रेयं जीवन्यासे प्रकीर्तिता ॥ इति । अथ कूर्ममुद्रा - वामहस्तस्य तर्जन्यां दक्षस्य च कनिष्ठिकाम् । तथा दक्षिणतर्जन्यां वामाङ्गुष्ठं नियोजयेत् ॥ उन्नतं दक्षिणाङ्गुष्ठं वामस्य मध्यमादिकाः । अङ्गुलीर्योजयेद् पृष्ठे दक्षिणस्य करस्य च ॥ वामस्य पितृतीर्थेन मध्यमानामिके तथा । अधोमुखे ततः कुर्याद् दक्षिणस्य च हस्ततः ॥ कूर्मपृष्ठसमं कुर्याद् दक्षिणस्य च मण्डलम् । एवंविधः सर्वसिद्धिं ददाति करकच्छपः ॥ इति । अथ चक्रमुद्रा । यथा लक्षणसङ्ग्रहे - विपर्यस्ते तले कृत्वा वामदक्षिणहस्तयोः । अङ्गुष्ठौ ग्रथयेच्चैव कनिष्ठानामिकान्तरे ॥ चक्रमुद्रेयमुदिता सर्वसिद्धिकरी शुभा । अथ संहारमुद्रा - पृष्ठलग्नौ करौ कृत्वा अङ्गुल्योऽन्योन्यमध्यतः । परिवर्त्य ततः कुर्यात् तर्जन्यौ सरलाकृतीम् ॥ विसर्जने निगदिता मुद्रा संहारसंज्ञिका ॥ इति । अथोपचाराणां मुद्रा लक्षणसङ्ग्रहे - आसने पद्ममुद्रा स्याद्धस्तद्वयमधोमुखम् । मुद्रैषा कुशलप्रश्ने तदेवोर्द्ध्वमुखं पुनः ॥ मुद्रास्यात् स्वागते चार्घमुद्रात्वञ्जलिरुच्यते । अनामाङ्गुष्ठयोर्योगात् सैवोक्ता पाद्यमुद्रिका ॥ उत्तानदक्षहस्तं तु कृत्वा निम्नतलं सुधीः । कनिष्ठहीनाः संयुक्ताश्चतस्रोऽङ्गुल्य उन्नताः ॥ मुद्रैषाचमने प्रोक्ताधोमुखी सा त्वनामया । स्पृष्टाङ्गुष्ठा भवेन्मुद्रा मधुपर्के वरानने ॥ अधोमुखी दक्षहस्तकृता मुष्टिः कनिष्ठया । वियुक्ता स्नानमुद्रैषा गदिता परमेश्वरि । उत्तानं दक्षिणं हस्तं कृत्वा तन्मध्यमां पुनः । अङ्गुष्ठेन स्पृशेदेषा मुद्रा वस्त्रस्य कीर्त्तिता ॥ एषैवानामिकास्पर्शान्मुद्रा भूषणसंज्ञिका । कनिष्ठास्पर्शतो ह्येषा उपवीतस्य मुद्रिका ॥ ज्येष्ठाग्रेण कनिष्ठाग्रं स्पृशेद् गन्धस्य मुद्रिका । अधोमुखं करं कृत्वा तर्जन्यग्रे तु योजयेत् ॥ अङ्गुष्ठाग्रं तु मुद्रेयं पुष्पाख्या परमेश्वरि । अङ्गुष्ठाग्रेण तर्जन्याः स्पृशेदग्रं महेश्वरि ॥ धूपमुद्रेयमाख्याता सर्वदेवप्रियङ्करी । ज्येष्ठाग्रेण स्पृशेदग्रं मध्यमायाः सुरार्चिते ॥ दीपमुद्रेयमुदिता सर्वदेवप्रिया शुभा । अनामाग्रं स्पृशेद् देवि ज्येष्ठाग्रेण तु देशिकः ॥ नैवेद्यमुद्रा कथिता देवताप्रियकारिणी ।

अथ मन्त्रोद्धारः

फेत्कारिणीतन्त्रे - सपरं प्रथमं दत्वा चतुर्थस्वरभूषितम् । रेफारूढं स्फुरद्दीप्तमिन्दुबिन्दुविभूषितम् ॥ त्रङ्कारं च ततो दद्याच्चतुर्थेनैव भूषितम् । दीर्घोकारसमायुक्तं हकारं योजयेत्ततः ॥ फट्कारं च ततो दद्यात् सम्पूर्णः सिद्धमन्त्रकः । अनेन एकजटामन्त्र उद्धृतो भवति । मत्स्यसूक्ते - अथ वक्ष्ये महादेव्या मन्त्रोद्धारमनुत्तमम् । यच्च ज्ञात्वा नरो भाति वाचस्पतिरिवापरः ॥ मायाबीजं समुद्धृत्य तवर्गप्रथमं तथा । रतिबिन्दुवह्नियुतं द्वितीयं बीजमुत्तमम् ॥ कूर्चबीजं तृतीयं तु फट्कारस्तदनन्तरम् । सम्पूर्णः सिद्धमन्त्रस्तु रश्मिपञ्चकसंयुतम् ॥ इति । तत्त्वबोधे - तारं लज्जां त्रकामेशी हूँफडित्युग्रतारिका । माया त्रीं हूँ अथास्त्रान्तमित्येकजटायामुच्चरेत् ॥ अस्त्रहीनमिदं नीलसरस्वत्या विनिर्दिशेत् । कामेश्वरी ईकारः । त्र्यक्षरोऽसौ महामन्त्रः फट्कारान्तो हृदि स्थितः । पञ्चरश्मिसमायुक्तो ह्यज्ञानेन्धनदाहकः ॥ इति । तारार्णवे - अनुत्तरं समुद्धृत्य मायोत्तरमनुं ततः । पपञ्चमसमायुक्तं पञ्चरश्मिः प्रकीर्तितः ॥ जीवनी मध्यमा पश्चादेकाक्षी तदनन्तरम् । उग्रदर्पं ततः पश्चान्मन्त्रो देवि प्रकाशितः ॥ इति । अनुत्तरः अकारः, माया इकारः, तदुत्तरं उकारः, पपञ्चमो मकारः, तेन ओँ इति प्रथमं बीजम् । जीवनीं ह्रीमिति, मध्यमा ओङ्कारादग्रिमबीजम् । एकाक्षी त्रीँ इति तृतीयबीजम् । उग्रं हूँ इति चतुर्थं बीजम् । दर्पं फट् इति पञ्चमं बीजम् । तन्त्रचूडामणौ- अस्त्रास्तेयं महाविद्या जरापुङ्गवधारिणी । वेदादिमुखयुक्ता चेत् तारा त्रिभवतारिणी ॥ नीलया वाक्प्रदा चेति तेन नीलसरस्वती । तारकत्वप्रदा तारा सुखमोक्षप्रदायिनी ॥ उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्त्तिता ॥ इति । मत्स्यसूक्त एव - वशिष्ठेनास्य मुनिना शापो दत्तः सुदारुणः । ततः प्रभृति विद्येयं फलदात्री न कस्यचित् ॥ इति । शापोद्धारोऽपि तत्रैव - शक्तिबीजं त्रपान्तस्थबीजोपरि नियोजितम् । ततः प्रभृति विद्येयं वधूरिव यशस्विनी ॥ इति । शक्तिबीजं सकारः, त्रपा ह्रीँ तदन्तस्थबीजं त्रीँ इति तदुपरि तस्मात्पूर्वं नियोजितं चेत् स्त्रीँ इति भवति । एतद्रूपघटितस्य मन्त्रस्य जपाच्छापदोषो न भवति । मत्स्यसूक्तेऽपि पूर्वं केवलमूलमन्त्रस्वरूपमुद्धृत्य पुनः शापोद्धारप्रकारमन्त्रस्य रूपमुद्धृतम् । लज्जाबीजं वधूबीजं कूर्चबीजं तथा हि फट् । एवं पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी ॥ तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती । कुल्लुकेति समाख्याता त्रिषु लोकेषु गोपिता ॥ इति । वधूबीजं स्त्रीँ । एवंरूपा प्रणवादित्वेन पञ्चाक्षरी विद्या पञ्चभूतप्रकाशिनी शापहीनतया सकलसिद्धिदात्री भवतीत्यर्थः । कुल्लुका तु वधूबीजघटितैव एतन्मते, तस्यैव बीजस्य प्रकृतत्वात् । तारोपनिषदि तु सकारसहितमेव त्रीमिति बीजं वधूबीजमिति दर्शितं - ``अथ हैना ब्रह्मरन्ध्रे तारिणीमाप्नोति । तारयतीति तारा सार्धपञ्चाक्षररूपा । ब्रह्मविष्णुमहेश्वरबिन्दुमेलनरूपा विद्या । ततो भुवनामुद्धरेत् । व्योमजलनेन्दिरा कला बिन्दुमेलनरूपा ततो वधूमुद्धरेत् । षोडशदहनतुर्यस्वरबिन्दुमेलनरूपम्'' इति । शापोऽपि कृष्णावतारपर्यन्तमेवासीदिति प्रतीयते । उक्तं च शक्तिसङ्गमतन्त्रे - कृष्णावतारपर्यन्तं तारायाः शाप ईरितः । जाते कृष्णावतारे तु निर्मुक्ता तारिणी परा ॥ उत्पत्तौ विन्ध्यवासिन्या विद्युद्रूपे समागते । श्रीमहातारिणी विद्या महारण्यपरायणा ॥ स्मरणादेव संसिद्धा स्मृतिपुष्टिकरी सदा ॥ इति । एवं च कृष्णावतारात् पूर्वमेव मायाबीजोत्तरबीजे सकारं दत्वा जपः शापमोचनार्थम् । इदानीं तु मन्त्रस्य शापहीनतया सकारं विनैव जपः सिद्धिदो भवति । सकारयोगस्तु प्रत्युतानुपूर्वीभङ्गेन मन्त्रान्तरसम्पादकतया वैगुण्याधायक एवेति ध्येयम् ॥

आसवपानविचारः

अत्र केचन द्वारपूजां कृत्वा देवतागृहं प्रविश्य स्वासनं सम्पूज्य स्वस्तिकाद्यासनेनोपविश्य पूर्वदिनपूजावशिष्टासवं पीत्वा पूजनं कर्त्तव्यमिति वदन्ति, तन्त्रवचनानि (च) पठन्ति । भावचूडामणौ - विना हेतुकमास्वाद्य क्षोभयुक्तो महेश्वरः । न पूजामासनं कुर्यान्न च ध्यानं न चिन्तनम् । तस्माद् भुक्त्वा च पीत्वा च पूजयेत् परमेश्वरीम् ॥ कुलार्णवेऽपि - विना द्रव्याधिवासेन न जपेन्न स्मरेत् प्रिये । ये स्मरन्ति महादेवि तेषां दुःखं पदे पदे ॥ नासवेन विना मन्त्रं न मन्त्रेण विनासवम् । परस्परविरोधेन कथं पूजा विधीयते ॥ तत्संशयनिवृत्तिं च ज्ञात्वा गुरुमुखाद् यजेत् । वीक्षणप्रोक्षणध्यानमन्त्रमुद्राविभूषितम् ॥ द्रव्यं तर्पणयोग्यं स्याद् देवताप्रीतिकारणम् ॥ इति । समयाचारे - सौत्रामण्यां कुलाचारे ब्राह्मणः प्रपिवेत्सुराम् ॥ इत्यादीनि । तथापि ब्राह्मणजातेरासवदानं पानं च निषिद्धमेव, किन्तु शूद्रस्यैवासवदानपानयोरधिकारः । तथा च हंसपारमेश्वरतन्त्रे भैरवतन्त्रे च - ब्राह्मणो मदिरां दत्वा ब्राह्मण्यादेव हीयते । स्वगात्ररुधिरं दत्वा ब्रह्महत्यामवाप्नुयात् ॥ इति । भैरवीतन्त्रे - क्षीरेण ब्राह्मणैस्तर्प्या घृतेन नृपवंशजैः । माक्षिकैर्वैश्यवर्णैस्तु आसवैः शूद्रजातिभिः ॥ इति । कुलचूडामणौ - यत्रावश्यं विनिर्दिष्टं मदिरादानपूजनम् । ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् ॥ इति । ज्ञानार्णवे - वर्णानुक्रमभेदेन द्रव्यभेदा भवन्ति वै ॥ इति । महाकालसंहितायां - द्रव्येण सात्त्विकेनैव ब्राह्मणः पूजयेच्छिवाम् । इत्युक्त्वा आसवभेदमभिधाय - एवं दद्यात् क्षत्रियोऽपि पैष्टिकीं न कदाचन । एवं प्रदानमात्रेण हीनायुर्ब्राह्मणो भवेत् ॥ इति । लघुस्तवे - ``विप्राः क्षोणिभुजो विशस्तदितरे क्षीराज्यमध्वासवैः'' इति । बृहच्छ्रीक्रमसंहितायां - वामागमोऽपि विप्रस्तु मद्यं मांसं न भक्षयेत् । स्वकीयां परकीयां वा नाकृष्य ब्राह्मणो यजेत् ॥ इति । अगस्त्यसंहितायामपि गौरीं प्रति शिववाक्यं हरगौरीसंवादे - आवाभ्यां पिशितं रक्तं सुरां वापि सुरेश्वरि । वर्णाश्रितोचितं धर्ममविचार्यार्पयन्ति ये ॥ भूतप्रेतपिशाचास्ते भवन्ति ब्रह्मराक्षसाः ॥ इति । सौत्रामणियागस्यापि हरिनाथनिबन्धादौ कलिवर्ज्येषु गणितत्वात् तदङ्गस्य सुरापानस्य सुतरामप्रसक्तिरेव । मेरुतन्त्रेऽपि - वामागमो मदुक्तोऽयं सर्वशूद्रपरः प्रिये । ब्राह्मणो मदिरादानाद् ब्राह्मण्येन वियुज्यते ॥ न कर्त्तव्यं न कर्त्तव्यं न कर्त्तव्यं कदाचन । इदं तु साहसं देवि न कर्त्तव्यं कदाचन ॥ इति । सर्वशूद्रपरः सर्वथा शूद्रपरः, ब्राह्मण्यविमुखपर इत्यर्थः । ब्राह्मणो ब्राह्मणजातिर्मदिराया आदानाद् ब्राह्मण्येन वियुज्यते । ब्राह्मण्यवामोपासकत्वयोर्मध्ये ब्राह्मण्यमपगच्छति, वामोपासकत्वमात्रमवशिष्यत इत्यर्थः । इदं तु साहसं ब्राह्मण्यजिहासायामेव सुरापानम् । एवं च ब्राह्मणस्यासवनिषेध इत्यस्य ब्राह्मण्यहानिमसहमानस्येत्यर्थः । ब्राह्मण्यं रक्षता तु वामाचारिणा पूर्वोक्तक्रमेण शक्तिरस एव देव्यै दातव्यः स्वयं पातव्यश्च । अत एव ``वामागमोऽपि विप्रस्तु'' इति सङ्गच्छत इति निःसन्देहः पन्थाः । आसवालाभे विजयापानमनुकल्प उक्तः, सोऽपि विप्रस्य निषिद्धः । मुख्यभूते आसवेऽधिकारश्चेत् तदलाभे तदनुकल्पतया विजयोपादानं युज्येत, (अत्र च) मुख्यस्यैव निषेधात् । अत एव विहितपुष्पालाभे तत्पत्रादिनानुकल्पतया पूजनविधानेऽपि लक्ष्मीपूजायां पद्मपत्रं नानुकल्पः, मुख्यस्य पुष्पस्यैव निषेधादिति । भैरवतन्त्रेऽपि विप्रस्य मद्यग्रहणनिषेधमभिधाय - ``मादकं सकलं वस्तु वर्जयेत् कनकादिकम्'' इत्युक्तम् । ताम्रपात्रस्थमधुरूपस्य मद्यस्य दानमात्रं तु कुलचूडामणिवचनादेव । एवं च नानाविधानि विधिनिषेधवचनानि यथाधिकारं योज्यानीति शिवम् ॥

ग्रन्थसमाप्तिपद्यानि

नानाजाति सुवाना विश्वं विश्वस्य मानसाधारा । मम दयतां हरदयिता भवसङ्कटतारिणी तारा ॥ १॥ संशयसागरग्नः को नहि मज्जत्युपासने लग्नः । यस्य भवेद् गुरुचरणं शरणं तरणाय न स पुनर्भग्नः ॥ २॥ गहरवारकुलकमलिनीबोधिनी राजनि भाति । विक्रमदिनमणिनामनि क्षितिकं (तिथिमपि?) पाति ॥ ३॥ पारिजातानन्दनाम्नो मैथिलस्य द्विजन्मनः । कृते तद्गुरुणा तारापारिजातः प्रकाशितः ॥ ४॥ शुकदेवनामधेयो विख्यातः कान्यकुब्जदेशीयः । कृतवाँस्तारापूजामन्दारं सत्फलाधारम् ॥ ५॥ मूलं यस्यास्ति शूलायुधविशदवचः सम्प्रदायप्रभेदाः शाखाः स्थूलालवालायितविततजपः पत्त्रितन्यासजालः । चेतो भृङ्गार्त्तिहारिक्रमयजिकुसुमो जायतां पारिजाता- नन्दस्यानन्ददायी विपुलसुखफलस्तारिणीपारिजातः ॥ ६॥ ॥ इति श्रीविद्वदुपाध्यायपण्डितरचितस्तारिणीपारिजातः सम्पूर्णः ॥ Proofread by Preeti Bhandare

प्रमाणरूपेणोद्धृतानां ग्रन्थानां ग्रन्थकाराणाम्-चाक्षरानुक्रमणिका

अगस्त्यसंहिता उत्तरतन्त्रं कालिकाकल्पः कालिकापुराणं कालीतन्त्रं कुमारीकल्पं कुमारीतन्त्रं कुम्भसम्भवः कुलचूडामणिः कुलमूलावतारः कुलार्णवः कुलोड्डीशः कृष्णानन्दः केरलसम्प्रदायः क्रमदीपिका गन्धर्वतन्त्रं गौड-शङ्कराचार्यः गौड-सम्प्रदायः गौडाः गौतमीयं चन्द्रिका ज्ञानमाला ज्ञानार्णवः डामरः तत्त्वबोधः तन्त्रचूडामणिः तन्त्रलीलावती तन्त्रसारः तन्त्रं तन्त्रान्तरं तारार्णवः तारोपनिषद् तूर्णयागः त्रिशक्तिरत्नं दक्षिणामूर्त्तिसंहिता दाक्षिणात्याः दीपिका देवीयामलं नरसिंहपुराणं नव्यकेरलाः नीलतन्त्रं नृसिंहठक्कुराः पद्यवाहिनी पुरश्चरणचन्द्रिका प्रपञ्चसारः फेटकारिणीतन्त्रं बृहच्छ्रीक्रमसंहिता ब्रह्मसंहिता भावचूडामणिः भावनिर्णयः भैरवतन्त्रं भैरवीतन्त्रं भैरवीयं मत्स्यसूक्तं मन्त्रतन्त्रप्रकाशः मन्त्ररत्नावली महाकारकतन्त्रं महाकालसंहिता मालासंस्कारपद्धतिः मालिनीतन्त्रं मुण्डमालातन्त्रं मेरुतन्त्रं यामलं योगिनीतन्त्रं रहस्यवृत्तिः रुद्रयामलं लक्षणसङ्ग्रहः लघुस्तवः वशिष्टसंहिता विशुद्धेश्वरतन्त्रं वीरचूडामणिः वीरतन्त्रं शङ्कराचार्यः (गौडः) शक्तिसङ्गमतन्त्रं शारदातिलकं शैवागमः श्रुतिः समयाचारः सङ्केततन्त्रोदयः सारसङ्ग्रहः सिद्धसारस्वतं सिद्धेश्वरतन्त्रं सिद्धेश्वरीतन्त्रं सोमभुजगावली सोमशम्भुः स्वतन्त्रतन्त्रं हरिनाथनिबन्धं हंसपारमेश्वरतन्त्रं It is recommended that readers seek their Guru's/qualified practioners' guidance when practicing contents given in this text document.
% Text title            : Tarini Parijatah
% File name             : tAriNIpArijAtaH.itx
% itxtitle              : tAriNIpArijAtaH (vidvadupAdhyAyapaNDitavirachitaH)
% engtitle              : tAriNIpArijAtaH
% Category              : major_works, pUjA, mantra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : vidvadupAdhyAyapaNDita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Indexextra            : (Scan)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org