पूर्वम्: १।३।२८
अनन्तरम्: १।३।३०
 
प्रथमावृत्तिः

सूत्रम्॥ समो गम्यृच्छिभ्याम् (॰प्रच्छिस्वरत्यर्तिश्रुविदिभ्यः)॥ १।३।२९

पदच्छेदः॥ समः ५।१ गम्यृच्छिभ्याम् ५।२ अकर्मकात् ५।१ २६ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिघ्यः १।३।२९

अकर्मकातिति वर्तते। शेषात् कर्तरि परस्मैपदम् १।३।७८ इति प्राप्ते सम्पूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्यो ऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति। सङ्गच्छते। अमृद्धते। संपृच्छते। संस्वरति। सङ्कल्पा अस्य समरन्त। अर्तेर् लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्च ३।१।५६। इत्यङादेशः। तत्र प्रस्मैपदेशु इत्येतन् नाश्रीयते। बहुलं छन्दस्यमाङ्योगे ऽपि ६।४।७५ इत्याट् प्रतिषध्यते। ऋदृशो ऽङि गुणः ७।४।१६ इति गुणः समरनत। संशृणुते। संवित्ते। ऋच्छेरनादेशस्य ग्रहणम्, समृच्छिष्यते। अर्त्यादेशस्य त्वर्ति इत्येव सिद्धम् आत्मनेपदम्। अर्तिरुभयत्र पठ्यते, ऋ गतिप्रापणयोः इति भ्वादौ, ऋ सृ गतौ इति जुहोत्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। विदेर्ज्ञानार्थस्य ग्रहनम्, परस्मैपदिभिर् गमादिभिः साहचर्यात्, न लाभार्थस्य स्वरितेत्त्वादुभ्यतोभाषस्य। दृशेश्च इति वक्तव्यम्। संपश्यते। अकर्मकातित्येव। ग्रामं संपस्यति।
न्यासः
समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः। , १।३।२९

"संस्वरते" इति। "स्वृ शब्दोपतापयोः" (धा।ता।९३२)। "समरन्त" इति। अर्त्तेः "सर्तिशास्त्यर्तिभ्यश्च" ३।१।५६ इत्यत्र पुषादिसूत्रात् परस्मैपदग्रहणानुवृत्तेरात्मनेपदेष्वङागेशेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्तुमाह-- "तत्र हि" इत्यादि। "संशृणुते"इति। "श्रु श्रवणे" (धा।पा।९४२), "श्रुवः शृ च" ३।१।७४ इति श्नुप्रत्ययः, शृभावश्च। "ऋच्छेरनादेशस्य ग्रहणम्" इति। "ऋच्छ गतीन्द्रियप्रलयमृर्तिभावेषु" (धा।पा।१२९६) इत्यस्य। "स्मृच्छिष्यते" इति लृट्। स्यप्रत्ययः। यद्यादेशस्य ग्रहणं स्यात् तदेतन्न सिध्येत्। प्राध्रादि ७।३।७२ सूत्रेणात्र्तेरृच्छादेशस्यच्छादशस्य शितीत्येवं विधानात्। अथार्त्त्यादेश्यापि ग्रहणं कस्मान् भवतीत्याह-- "अर्त्त्यादेशस्यत्वत्र्तीत्येवम्" इत्यादि। अथ वा-- यद्यनादेशस्य ग्रहमं स्यात्, आदेशस्यात्मनेपदं न सिध्यतीत्यत आह-- अर्त्त्यादेशस्य त्वर्तीत्येवम्" इत्यादि। स्थानिवद्भावेनेत्यभिप्रायः। "न लाभार्थस्य" इति। "विद्लृ लाभे" (धा।पा।१४३२) इत्यस्य। अथ "न तु सत्तार्थस्य, नापि विचारणार्थस्य" इत्येवमपि कस्मान्नोक्तम्? एवं मन्यते-- नित्यात्मनेपदित्वादनयोरात्मनेपदार्थग्रहणं नाशङ्क्येतैवेति। "दृशेश्चेति वक्तव्यम्" इति। "दृशिर् प्रेक्षणे"(धा।पा।९८८) इत्यस्मात् संपूर्वादात्मनेपदं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याखानं तु पूर्वपदेव। "सम्पश्यते इति। पाध्रादिना७।३।७२ पश्यादेशः॥
बाल-मनोरमा
समो गम्यृच्छिभ्याम् ५२३, १।३।२९

समो गम्यृच्छिभ्याम्। "आत्मनेपद"मिति शेषः। अकर्मकाभ्यामित्येवेति। "स्वाङ्गकर्मकाच्चे"ति तु निवृत्तमिति भावः। सङ्गच्छते इति। संगतं भवतीत्यर्थः।

तत्त्व-बोधिनी
समो गम्यृच्छिभ्याम् ४४६, १।३।२९

सङ्गतं भवतीत्यर्थः।