पूर्वम्: १।४।८१
अनन्तरम्: १।४।८३
 
प्रथमावृत्तिः

सूत्रम्॥ कर्मप्रवचनीयाः॥ १।४।८२

पदच्छेदः॥ कर्मप्रवचनीयाः १।३ ९७

काशिका-वृत्तिः
कर्मप्रवचनीयाः १।४।८३

कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः। यानित ऊर्ध्वम् अनुक्रमिष्यामः कर्मप्रवचनीय। संज्ञास्ते वेदितव्याः अधिरीश्वरे इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीया २।३।८ इत्येवम् आदयः।
न्यासः
कर्मप्रवचनीयाः। , १।४।८२

"कर्मप्रवचीयाः" इति वक्ष्यमाणानां संज्ञिनां बहुत्वाद्बहुवचनेन निर्देशः। महत्याः संज्ञायाः करणस्यैतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत-- कर्म प्रोक्तवन्तः कर्मप्रवचीया इति। भूते "कृत्यल्युटो बहुलम्" ३।३।११३ इति कत्र्तर्यनीयर्। कर्मशब्दः क्रियावचनः। के च कर्म प्रोक्तवन्तः? ये सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु प्रोक्तवन्तः? येत सम्प्रति क्रियां न त्वाहुः। तदेवमन्वर्थसंज्ञाकरणद्वारेण ये क्रियां द्योतितवन्तः, न तु सम्प्रति द्योतयन्ति, ते कर्मप्रवचनीयसंज्ञा भवन्तीत्युक्तं भवति। यदि सम्प्रतति न क्रियां द्योतयन्ति, किन्तर्हि? सम्बन्धविशेषम्। यथा शाकल्यस्य संहितामनुप्रावर्षखदित्यत्र हि निशमनक्रियया संहिताप्रवर्षणयोर्यः सम्बन्ध उपजनितो हेतुहेतुमद्भावलक्षणः, तमनुशब्दो द्योतयति। कर्मप्रवचनीयसंज्ञायां सत्याम् "कर्मप्रवचनीययुक्ते द्वितीया" २।३।८ इति द्वितीया भवति॥
बाल-मनोरमा
कर्मप्रवचनीयाः ५३८, १।४।८२

कर्मप्रवचनीयाः। इत्यधिकृत्येति। "प्राग्रीस्वरान्निपाताः" इति पर्यन्तमिति बोध्यम्।

तत्त्व-बोधिनी
कर्मप्रवचनीयः ४८४, १।४।८२

कर्मप्रवचनीयाः। इत्यधिकृत्येति। रू()आरात्प्रागिति बोध्यम्। गुरुसंज्ञाकरणमन्वर्थत्वाय। कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः। बाहुलकाद्भूते कर्तर्यनीयर्। तेन संप्रति क्रियां न द्योतयन्तीति लभ्यते। तथा च हरिः--"क्रियाया द्योतको नाऽयं सम्बन्खस्य न वाचकः। नापि क्रियापदाक्षेपी, सम्बन्धस्य तु भेदकः"इति। तथाहि "जपमनु प्रावर्ष"दित्यत्र अनुना न क्रियाविशेषो द्योत्यते, "अनुभूयते सुख"मित्यदौ यथा। नापि षष्ठ()एव सम्बन्ध उच्यते, द्वितीययैवो तस्योक्तत्वात्। नापि "प्रादेशं विपरिलिखति"विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, कारकविभक्तिप्रसङ्गात्। किं तु जपसम्बन्धि वर्षणमिति द्वितीययावगतः सम्बन्धो लक्ष्यलक्षणभाव एवेत्यवगमात्सम्बन्ध एवानुना विशेषेऽवस्थाप्यते। क्विचित्तु क्रियागतविशेषद्योतकेऽपि इयं संज्ञा वचनात्प्रवर्तते। "सुःपूजायाम्"तिरतिक्रमणे च "इति यथा। उक्तसंज्ञ इति। कर्मप्रवचनीयसंज्ञ इत्यर्थः।