पूर्वम्: २।४।६०
अनन्तरम्: २।४।६२
 
सूत्रम्
न तौल्वलिभ्यः॥ २।४।६१
काशिका-वृत्तिः
न तौल्वलिभ्यः २।४।६१

अनन्तरेण प्राप्तो लुक् प्रतिषिध्यते। तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग् भवति। तौल्वलिः पिता। तौल्वलायनः पुत्रः। तौल्वलि। धारणि। रावणि। पारणि। दैलीपि। दैवलि। दैवमति। दैवयज्ञि। प्रावाहणि। मान्धातकि। आनुहारति। श्वाफल्कि। आनुमति। आहिंसि। आसुरि। आयुधि। नैमिषि। आसिबन्धकि। बैकि। आन्तरहाति। पौष्करसादि। वैरकि। वैलकि। वैहति। वैकर्णि। कारेणुपालि। कामालि।
न्यासः
न तौल्वलिभ्यः। , २।४।६१

तौल्वल्यादिष्वान्तरहातिशब्दः पौष्करसादिशब्दश्च बाह्वादी इञन्तौ। बाह्वादिषु ह्रन्तरहच्छब्दः पुष्करसच्छब्दस्य पठ()एते; अत्रोभयपदवृद्धिकश्चानुरशतिकादित्वात्। शेषास्तु "अत इञ्" ४।१।९५ इति इञन्ताः॥
बाल-मनोरमा
न तौल्वलिभ्यः १०६९, २।४।६१

न तौल्वलिभ्यः। बहुवचनात्तौल्वल्यादीनां ग्रहणमित्याह--तौल्वल्यादिभ्यः परस्येति। पूर्वेणेति। "इञः प्राचा"मित्यनेन प्राप्तो लुगनेन प्रतिषिध्यत इत्यर्थः। तुल्वल इति। तुल्वलो नाम प्राच्यः कश्चित्। तस्य गोत्रापत्यं तौल्वलिः। "अत इञ्"। तस्यापत्यं युवा तौल्वलायनः। "यञिञोश्चे"ति फक्।

तत्त्व-बोधिनी
न तौल्वलिभ्यः ८९५, २।४।६१

युवप्रत्ययस्य लुगिति। पीलाया वेत्यादि। अपत्येऽणि विहिते गोत्रापत्येऽप्यणेव, "एको गोत्रे"इति वक्ष्यमाणत्वात्। ततोऽणन्तात्पैलशब्दादपत्येऽपि विधीयमानः फैञ् युवापत्ये पर्यवस्यति। तस्य च फिञोऽनेन लुगित्यर्थः। एवं च पीलाया अपत्ये गोत्रापत्ये युवापत्ये चाऽवैरूप्येण पैलशब्दः प्रयुज्यत इत्याह---पैलः पिता पुत्रश्चेति। पैलादिषु ये इञन्ता शालङ्किसात्यकिऔदमेयिपैङ्गलिप्रभृतयस्तेभ्यः "इञः प्राचा"मिति लुकि सिद्धे अप्राचामर्थः पाठ इति ज्ञेयम्। तद्राजाच्चाणः। गणसूत्रमिदम्। तद्राजसंज्ञाकात्परस्य युवप्रत्ययस्य लुगित्यर्थः।तच्चेद्गोत्रं प्राचां भवतीति। इह प्राचाङ्ग्रहणं गोत्रविशेषणं, न तु "प्राचामवृद्धा"दित्यादिवग्विकल्पार्थमित्यर्थे व्याख्यानं शरणम्। दाक्षिः पितेत्यादि। दक्षस्यापत्यं गोत्रापत्यं च पुमान्दाक्षिः। युवापत्यं तु दाक्षयण तु दाक्षायण इति भावः। न तोल्वलिभ्यः। बहुवचननिर्देशाद्गणपाठसामथ्र्याच्चाद्यर्थावगतिरित्यभिप्रेत्याह---तोल्वल्यादिभ्य इति। देवमित्र। देवयज्ञि। ()आआफल्कि। आसुरि। नैमेषि। पौष्करसादि। वैकर्णीत्यादि तौल्वल्यादिः।