पूर्वम्: ३।२।१३६
अनन्तरम्: ३।२।१३८
 
सूत्रम्
णेश्छन्दसि॥ ३।२।१३७
काशिका-वृत्तिः
णेश् छन्दसि ३।२।१३७

ण्यन्ताद् धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययो भवति। दृषदं धारयिष्णवः। वीरुधः पारयिष्णवः।
न्यासः
णेश्छन्दसि। , ३।२।१३७

"धारयिष्णवः, पारयिष्णवः"इति। "धृङ अवस्थाने" (धा।पा।१४१२), "पृ पालनपूरणयोः (धा।पा।१०८६); हेतुमण्णिच्, "अयामन्त"६।४।५५ इत्यादिनायादेशः॥
बाल-मनोरमा
णेश्छन्दसि ९१९, ३।२।१३७

णेश्छन्दसि। ण्यन्ताद्धातोरिष्णुच् स्याच्छन्दसीत्यर्थ-। पारयिष्णव इति। पृ()धातोण्र्यनतादिष्णुचि णेर्लोपं बाधित्वा "अयमन्ताल्वाय्ये"त्यय्। इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम्।

तत्त्व-बोधिनी
णेश्छन्दसि ७५४, ३।२।१३७

पारयिष्णव इति। "अयामन्ते"ति णेरय्।