पुंसि सञ्ञायाम्, करणाधिकरणयोश्च इति सर्वम् अनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोः घञ् प्रत्ययो भवति। घस्य अपवादः। लेखः। वेदः। वेष्टः। वन्धः। मार्गः। अपामार्गः। वीमार्गः।
हलन्ताद्घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥
"वेष्टः" इति। "वेष्ट वेष्टने" (धा।पा।२५५)। "मार्गोऽपामार्गः" इति। "{मृजू-धा।पा।} (धा।पा।१०६६)। "चजोः
७।३।५२ इत्यादिना कुत्वम्, मृजेर्वृद्धिः,
७।२।११४ "उपसर्गस्य घञि"
६।३।१२१ इति दीर्घः॥