पूर्वम्: ३।३।१३६
अनन्तरम्: ३।३।१३८
 
सूत्रम्
कालविभागे चानहोरात्राणाम्॥ ३।३।१३७
काशिका-वृत्तिः
कालविह्भागे च अनहोरात्राणाम् ३।३।१३७

भविष्यति मर्यादावचने ऽवरस्मिनिति वर्तते। कालमर्यादाविभागे सत्यवर्स्मिन् प्रविभागे भविष्यति काले ऽनद्यतनवत् प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्भन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः। पूर्वेण एव सिद्धे वचनम् इदम् अहोरात्रनिषेधार्थम्। योगविभाग उत्तरार्थः। यो ऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे। भविष्यति इत्येव। यो ऽयं वत्सरो ऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्जमहि। मर्यादावचने इत्येव। यो ऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे। अवरस्मिनित्येव। परस्मिन् विभाषां वक्ष्यति। अहोरात्राणाम् इति किम्? त्रिविधम् उदाहरणम् यो ऽयं मास आगामी, तस्य यो ऽवरः पञ्चदशरात्रः, यो ऽयं त्रिंशद्रात्र आगामी, तस्य यो ऽवरो ऽर्धमासः, यो ऽयं त्रिंशदहोरात्र आगामी, तस्य यो ऽवरः पञ्चदशरात्रः, तत्र युक्ता अध्येतासमहे, तत्र सक्तून् पातास्मः। सर्वथा अहोरात्रस्पर्शे प्रतिषेधः।
न्यासः
कालविभागे चानहोरात्राणाम्। , ३।३।१३७

"कालमर्यादाविभागे सति" इति मर्यादाविभागशब्दयोः सयाहारे द्वन्द्वः। तेन कालशब्दस्य षष्ठीसमासः। "तेषाञ्च" इति। तैस्तेषाञ्चेति युक्तं यत् तेषां विभागे प्रतिषेधो भवति; तत्सम्बन्धित्वाद्विभागस्य। यदा तैरन्यस्य विभागस्तदा न युक्तम्, न हि तदा तत्सम्बन्धी विभागः। किं तर्हि? विभज्यमानसम्बन्धी। तथाप्यहोरात्रकृतत्वाद्विभागस्य सम्बन्धित्वमस्त्येव; निमित्तस्य नैमित्तिकसम्बन्धादित्यदोषः। यदि वचनमहोरात्रप्रतिषेधार्थम्, एवं च सामथ्र्यात् कालविभागस्यैव प्रतिषेधो विज्ञास्यते, न देशविभागस्य, न हि देशविभागस्याहौरात्रैः सह सम्बन्धोस्तीत्यत आह-- "योगाविभाग उत्तरार्थः"इति। उत्तरसूत्रे कालविभाग एव यथा स्यादित्येवमर्थम्, देशविभागे मा भूदिति। "अभुञ्ज्महि" इति। "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः। "त्रिविधिमुदाहरणम्" इति। तत्र प्रथमे शब्दान्तरवाच्यस्य कालस्याहोरात्रैर्विभागः, द्वितीयेऽहोरात्रवाच्यस्य शब्दान्तरवाच्ययेन कालेन विभागः, तृतीयेऽहोरात्रवाच्यस्य कालस्योरात्रवाच्येन कालेन। "सर्वथा" इति। सर्वेण प्रकारेण। यद्यहोरात्रैरन्यस्य विभागोऽथधाप्यन्येन तेषां यद्यहोरात्रैरेव तेषामेवमपि प्रतिषेध इति सर्वथाशब्दस्यार्थः। "अहोरात्रसंस्पर्शः" इति। अहोत्राणां विभागेन सम्बन्ध = अहोरात्रसंस्पर्श इति। "सर्वत्रानद्यतनवत्प्रत्यया उदाहत्र्तव्याः" इति। भूतानद्यतने-- तत्र युक्ता अध्यैमहि, तत्रोदनमभुञ्ज्महीति सर्वत्र लुङदाहत्र्तव्यः। भविष्यदनद्यतने तु-तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्मह इति सर्वत्र लुडुदाहत्र्तव्यः॥
तत्त्व-बोधिनी
कालविभागे चाऽनहोरात्राणाम् ५१०, ३।३।१३७

कालविभागः = कालविशेषः। अनहोरात्राणामिति संबन्धषष्ठी। पूर्वसूत्रमिति। तदयमर्थः-- मर्यादोक्तौ कालविशेषाद्यदवरं तस्मिन्प्रविभागे भविष्यत्यनद्यतनवन्न, स चेत्कालविभागोऽहोरात्रसंबन्धी न चेदित्यर्थः। इह कालविभागे सत्यवरस्मिन्ननद्यतनवन्नेत्युक्ते कस्मादित्यपेक्षायामर्थात्कालविशेषादिति लभ्यत इत्येके। केचित्तु कालविभाग इति पञ्चम्यर्थे सप्तमीत्याहुः। उत्तरार्थ इति। "परस्मिन्विघाषे"ति सूत्रे कालमर्यादाया एवानुवृत्तिर्यथा स्यात्। भविष्यतीति किम्?। यः संवत्सरोऽतीतस्तस्य यदवरं मासात्तत्र पयोऽपिबाम। मर्यादायामिति किम्?। यो निरवधिः समयस्तस्य यदवरं मासात्तत्र पयः पातास्मः। पञ्चदशरात्र इति। नन्वत्र "सङ्ख्यापूर्वं रात्र"मिति क्लीब्तवेन भाव्यम्। न च पञ्चदश रात्रयो यस्मिन्पक्षे इति बहुव्रीह्राश्रयणात्पुंल्लिङ्गःसिद्ध इति वाच्यम्, "अहः सर्वैकदेशेट त्यच्प्रत्ययस्याऽभावप्रसङ्गादिति चेत्। सत्यम्। अतएव हि भाष्यप्रयोगात्क्लीबत्वं नेत्याहुः।