सूत्रम्
किंवृत्ते लिङ्लृटौ॥ ३।३।१४४
काशिका-वृत्तिः
किंवृत्ते लिङ्लृटौ ३।३।१४४
गर्हायाम् इत्येव विभाषा न स्वर्यते। किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणाम् अपवादः। लिङ्ग्रहणं लटो ऽपरिग्रहार्थम्। को नाम वृषलो यं तत्रभवान् याजयेत्, यं तत्रभवान् वृषलं याजयिष्यति। कतरो नाम, कतमो नाम यां तत्रभवान् वृषलं याजयेत्, याजयिष्यति। भूते क्रियातिपत्तौ वा लृङ्। भविष्यति तु नित्यम्। को नाम वृषलो यं तत्रभवानयाजयिष्यत्।
न्यासः
किंवृत्ते लिङलृटौ। , ३।३।१४४
"किंवृत्ते" इति। वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयतते। "डतरतमौ च" इति किंवृत्ते च लृडित्येवं कस्मान्नोक्तम्, प्रकृतो हि लिङ्, ततश्चकारेण तस्यैव समुच्ययो विज्ञास्यते, किं लिङ्()ग्रहणेनेत्याह-- "लिङ्ग्रहणम्" इत्यादि। असति हि लिङ्()ग्रहणे यथा प्रकृत्वाच्चकारेण लिङ समुच्चीयते, तथा लडपि समुच्चीयेत, सोऽपि हि प्रकृत एव। तस्माल्लटो निवृत्त्यर्थं लिङग्रहणं कृतम्॥
बाल-मनोरमा
किंवृत्ते लिङ्?लृटौ ६२४, ३।३।१४४
किंवृत्ते लिङ्लृटौ। नानुवर्तते इति। व्याख्यानादिति भावः। विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम्। तस्मिन्प्रयुज्यमाने गर्हायां लिङ्()लृटौ स्त इत्यर्थः। सर्वलकाराणामपवादाविति वृत्तिः। लृङ् प्राग्विदिति। भविष्यति नित्यं लृङ्, भूते वेति प्रागुक्तमिहाप्यनुसन्धेयमित्यर्थः। लिङ्()निमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः।
तत्त्व-बोधिनी
किंवृत्ते लिङ्लृटौ ५१५, ३।३।१४४
किंवृत्ते। लिङ्लृटौ कालत्रये स्तः। नानुवर्तत इति। एवं चाऽस्मिन्विषये नित्यं भूते वेत्यर्थः।