पूर्वम्: ३।४।८४
अनन्तरम्: ३।४।८६
 
सूत्रम्
लोटो लङ्वत्॥ ३।४।८५
काशिका-वृत्तिः
लोटो लङ्वत् ३।४।८५

अतिदेशो ऽयम्। लोटो लङ्वत् कार्यं भवति। तामादयः, सलोपश्च। पचताम्। पचतम्। पचत। पचाव। पचाम। अडाटौ कस्मान् न भवतः, तथा झेर् जुसादेशः लङः शाकटायनस्य एव ३।४।१११ इति वान्तु, यान्तु? विदो लटो वा ३।४।८३ इत्यतो वाग्रहणम् अनुवर्तते, सा च व्यवस्थितविभाषा भविष्यति।
लघु-सिद्धान्त-कौमुदी
लोटो लङ्वत् ४१५, ३।४।८५

लोटस्तामादयस्सलोपश्च॥
न्यासः
लोटो लङ्वत्। , ३।४।८५

"तामादयः" इति। येषां "तस्थस्थ" ३।४।१०१ इत्यादिना विधाननम्। "सलोपश्च" इति। यस्य नित्यं ङितः" ( ३।४।९९) इति विधानम्। "अडाटौ इत्यादि। "लुङ्लङ्लृङक्षु" ६।४।७१इत्यादिनाट्, "आडजादीनाम्" ६।४।७२ इत्याट् लङः कार्य विधास्यते। "लङ शाकटायनस्यैव" ३।४।१११ इति झेर्जुसादेशश्च। न चेह कश्चिद्विशेष उपादीयते, ततश्च यस्मादतिदेशात् तामादिकार्यं भवति तथा "आडजादीनाम्"६।४।७२ लङकार्येणापि भवितव्यमित्यभिप्रायः। "इतश्च" ३।४।१०० इति लोपः, मिपोऽम्भावश्च। देश्यमेतत्। तयोः "एरुः" ३।४।८६ इत्युत्त्वस्य "मेर्निः" इति निरादेशस्य चापवादस्य विधास्यमानत्वात्। "सा च व्यवस्थितविभाषा" इति। तेन तामादिरेवादेशो भवति, न त्वडादिरिति मन्यते॥
बाल-मनोरमा
लोटो लङ्वत् ४७, ३।४।८५

लोटो लङ्वत्। लङ इव लङ्वत्। "तत्र तस्येवे"ति षष्ठ()न्ताद्वतिः। तदाहलोटो लङ इवेति। ननु तर्हि "लुङ्लङ्लृङ्क्ष्वडुदात्त" इत्यडागमोऽपि स्यादित्यत आह-- तेनेति। लङ इति स्थानषष्ठ()न्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः। अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः। केन तामादयः, केन वा सलोप इत्यत आह--तथा हीति। तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः।

तत्त्व-बोधिनी
लोटो लङ्वत् ३७, ३।४।८५

"लोट" इत्युपमेये षष्ठीदर्शनात् [उपमानादपि] षष्ठ()न्तादेव वतिः, तदाह--तेनेति। अडादौ तु नातिदिश्येते, न हि तौ लङः क्रियेते, किं तु लङि अङ्गस्येति भावः॥ नन्वेमपि यान्तु वान्तु इत्यत्र "लङः वाग्रहणमिहानुवत्र्य व्यवस्थितविभाषाश्रयणान्न जुस्। यद्वा "लङः शाकटायनस्ये"ति सूत्रे "नित्यं ङितःर" इत्यतो "ङित" इत्यनुवृत्त्यैवेष्टसिद्धेर्लचङ्ग्रहणमतिरित्यते, लुङि सिचा, लृङि स्यप्रत्ययेन च व्यवधानात्, लिङि तु "झेर्जु"सिति जुसो विहितत्वाच्च, "ङित" इत्यस्य लड()एव पर्यवसानात्। ततो लड्ग्रहणं विभज्यते। नियमश्चायं "लडेव यो लङ् तस्यैव झेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्ये"त्यतो नोक्तदोष" इति। तञ्चिन्त्यम्। अदुरित्यत्र "सिजभ्यस्ते"ति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात्। तस्माल्लड्ग्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते। न च "आतः" इति सूत्रेणाऽदुरित्यत्र नित्यं रजुस्स्यादिति वाच्यं, तस्य नियमार्थत्वेन विद्यर्थत्वा।योगात्, अन्यथा अभूवन्नित्यत्र "सिजभ्यस्ते"ति जुस् दुर्वार एव स्यादिति नव्याः॥ यदि त्विह "आतः" इति सूत्रमावर्त्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तद#ओषाऽभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात्। तदभावपक्षे पुनःप्रसङ्गविज्ञानात् "सिजभ्यस्ते"ति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्()वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवैति दिक्।