यञन्तातिञन्ताच् च प्रातिपदिकादपत्ये फक् प्रत्ययो भवति। गार्ग्यायणः। वात्स्यायनः। इञन्तात् दाक्षायणः। प्लाक्षायणः। द्वीपादनुसमुद्रं यञ्
४।३।१०, सुतङ्गमादिभ्य इञ्
४।२।७९ इत्यतो न भवति। गोत्रग्रहणेन यञिञौ विशेष्येते। तदन्तात् तु यून्येव अयं प्रत्ययः, गोत्राद् यूनि प्रत्ययो भवति इति वचनात्।
अथ "द्वीपादनुसमुद्रं यञ्"
४।३।१० इति यो यञ् विहितः, यश्च "वृञ्छण्"
४।२।७९इत्यादिना सूत्रेण सुतङ्गमादिभ्य इञिति तदन्तात् कस्मान्न भवति, न ह्रत्र कश्चिद्विशेष उपात्तः?इत्यत आहः-- "द्वीपादनुसमुद्रं यञ्" इत्यादि। गोत्रग्रहणेन ह्रत्र यञिञौ विशेष्येते-- गोत्रे यौ यञिञाविति। न च "द्वीपात्"
४।३।१० इत्यादिना गोत्रे यञ् विहितः,
किं तर्हि? जातादावर्थविशेषे। नापि सुतङ्गमादिभ्यो गोत्रे इञ् विहितः,
किं तर्हि? तदस्मिन्नस्तीति देशे" (४।२।६७,७०) इत्येवमादिषु चतुष्र्वर्थेषु, तेन तदन्तान्न भवति। यदि तर्हि गोत्रग्रहणेनेह यञिञौ विशेष्येते, न प्रत्ययार्थः, एवं सति क्वायं प्रत्ययो भवतीति न विज्ञायत इत्यत आह--"तदन्तात्" इत्यादि। कस्मात् तदित्याह-- "गोत्राद्यूनीति वचनात्" इति॥
यञिञोश्च। "गोत्रे" इत्यधिकृतं यञिञोर्विशेषणं, नतु विधेयस्य फकः, व्याख्यानात्। तदाह--गोत्रे यौ यञिञाविति। सामथ्र्याद्यून्ययम्। न हि गोत्रप्रत्ययात् गोत्रप्रत्ययोऽस्ति, "एको गोत्रे" इति नियमात्। अनातीति। गर्गस्य गोत्रं गार्ग्यः। गर्गादित्वाद्यञ्। गाग्र्यस्यापत्यं युवेत्यर्थे यञन्तात्फकि आयन्नादेश "अनाती"ति पर्युदासात् "आपत्यस्य चे"ति यलोपाऽभावे णत्वे "गाग्र्यायण" इति रूपमित्यर्थः। दाक्षायण इति। दक्षस्य गोत्रापत्यं दाक्षिः, अत इञ्, दाक्षेरपत्यं युवा दाक्षायणः। इञन्तात्फक्। गोत्रे किम्?। सुतङ्गमस्यादूरभव इत्यर्थे "सुतङ्गमादिभ्य इ"ञितीञि सौतङ्गमेरपत्ये न फक्।
यञिञोश्च।अधिकारप्राप्तं गोत्रग्रहणं यञिञोर्विशेषणं न तु विधेयस्य फकः, व्याख्यानात्। तदेतदाह---गोत्रे याविति। गोत्रे किम्()। "द्वीपादनुसमुद्रं"यञ"द्वीपे भवो द्वौप्यः। सुतङ्गमादिभ्यश्चातुरर्थिक इञ्। सौतङ्गमिः। तदपत्ये फक्मा भूत्। फक्स्यादिति। सामथ्र्याद्यृन्ययम्।