पूर्वम्: ४।१।२३
अनन्तरम्: ४।१।२५
 
सूत्रम्
पुरुषात् प्रमाणेऽन्यतरस्याम्॥ ४।१।२४
काशिका-वृत्तिः
पुरुषात् प्रमाणे ऽन्यतरस्याम् ४।१।२४

द्विगोः तद्धितलुकि इत्येव। प्रमाणे यः पुरुषशब्दः, तदन्ताद् द्विगोः तद्धितलुकि सति अन्यतरस्यां न ङीप् प्रत्ययो भवति। द्वौ पुरुषौ प्रमाणम् अस्याः परिखायाः द्विपुरुषा, द्विपुरुषी। त्रिपुरुषा, त्रिपुरुषी। अपरिमाणान्तत्वान् नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम्। प्रमाणे इति किम्? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा। क्रिपुरुषा। तद्धितलुकि इत्येव। समाहारे द्विपुरुषी। त्रिपुरुषी।
न्यासः
पुरुषात्प्रमाणेऽन्यतरस्याम्। , ४।१।२४

"प्रमणे यः पुरुषशब्दो वत्र्तते"इति। जातिवचनोऽपि पुरुषशब्दः, यदा प्रमाणशब्देनाभिसम्बध्यते तदा पुरुषगते प्रमाणे वत्र्तते। भवति पदान्तरसम्बन्धेन शब्दस्यार्थान्तरे वृत्तिः, यथा-- सिंहो माणवक इति। सिंहशब्दो जातिवचनोऽपि माणवकसान्निध्याच्छौर्यलक्षणं गुणमाचष्टे। "द्विपुरुषी" इति। "प्रमाणे द्वयसच्"५।२।३७ इति विहितस्य द्वयसचः "प्रमाणे लो द्विगोर्नित्यम्"(वा। ५५८,५५९) इति लुक्। "अपरिमाणान्तत्वात् प्रतिषेध प्राप्ते"इति। "अपरिमाणविस्त" ४।१।२२ इत्यादिना। "द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा" इति। पूर्ववदार्हीयस्य ठको लुक्। "तद्धितलुकि" इत्येव। "पञ्चपुरुषी" इति। प्रमाणार्थवृत्तानामेव समाहारान्नास्ति द्व्यङ्गविकलता॥
बाल-मनोरमा
पुरुषात्प्रमाणेऽन्यतरस्याम् ४७६, ४।१।२४

पुरुषात्। द्विगोरिति तद्धितलुकीति ङीबिति चानुवत्र्तते। तदाह--प्रमाणे य इत्यादिना। प्रमाणमायामः, "आयामस्तु प्रमाणं स्यात्" इति वचनात्। द्वौ पुरुषाविति। "पञ्चहस्तायामः पुरुषः" इति शुल्वसूत्रात्। द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे "तद्धितार्थ" इति द्विगुसमासः। प्रमाणे द्वयसज्दघ्नञ्मात्रचः" इति विहितस्य मात्रचः "प्रमाणे लः, द्विगोर्नित्य"मिति लुक्। अत्रोक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्य "अपरिमाणे"ति नित्यं ङीब्निषेधे प्राप्ते विकल्पार्थमिदं वचनम्। अन्ये तु "तदस्य परिमाण"मिति ठकः ठञो वा "अध्यर्धे"ति लुक्। तत्र हि उत्तरसूत्रानुरोधात्परिमाण शब्देन परिच्छेदकमात्रं गृह्रते इत्याहुरित्यास्तां तावत्। द्विपुरुषी द्विपुरुषा वा परिखेति। तिर्यक् द्विपुरुषायतेत्यर्थः। दुर्गं परितः तत्संरक्षणार्थौ जलाशयः परिखा। अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः।

तत्त्व-बोधिनी
पुरुषात्प्रमाणेऽन्यतरस्याम् ४२९, ४।१।२४

पुरुषात्प्रमाणे। अपरिमाणान्तत्वान्निषेधे प्राप्ते विकल्पार्थं वचनम्। पुरुषशब्दो यद्यपि लोके जातिवचनस्तथापि "द्वौ पुरुषौ प्रमाणमस्या"इति वाक्ये प्रमाणशब्दसामानाधिकरण्यात्प्रमाणे वर्तत एव। वृत्तौ तु शब्दशक्तिस्वाभाव्यादेव। तथा च शुल्लसूत्रम्--"पञ्चारित्रि- पुरुषः"इति। द्विपुरुषीति। अत्र "पर्माणे लोद्विगोर्नित्य"मिति द्वयसचो लुगिति न्यासकारः। नन्विह तद्धितलुग्लुर्लभः, पुरुषशब्दस्य प्रमाणवाचित्वाऽभावेन "प्रमाणे लः"इति श्लोकवार्तिकस्याऽपर्वृत्तेः। ये हि शमादिवत्प्रमाणत्वेन प्रसिद्धस्तत्रैव तत्प्रवर्तते, न तु पुरुषशब्देऽपि। अन्यथा "पुरुषद्वयस"मित्यत्रापि लुक् स्यात्। न चैवं द्वयसज्दघ्नचावपि नास्मात्स्यातामिति वाच्यम्, --"ऊध्र्वमाने मतौ ममे"त् वचनात्। एवं "पुरुषात्प्रमाणे---"इति वैकल्पिकस्यापि ङीपः सामथ्र्यादेव प्रवृत्तिः। किन्तु तद्धितलुगेव दुर्लभः इति चेत्राहुः--अस्त्विह "प्रमाणे लः"इत्यस्याऽप्रवृत्तिस्तथापि सुलभ एव लुक्। "पुरुषात्प्रमाणे"इति सूत्रे हि "द्विगोस्तद्धितलुकी"त्यनुवर्तते तत्सामथ्र्याल्लुगप्याक्षिप्यत इति सुवचत्वादिति। प्रमाणे किम्()। द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुष#आ गौः। "तद्धितलुकी"त्येव। समाहारे--पञ्चपुरुषी। नन्विह पुरुषशब्दः पर्माणे न वर्तते इति द्द्यङ्गविकलमेतदिति चेदत्राहुः--प्रमाणार्थवृत्तीनामेव पुरुषाणामत्र समाहारान्न द्द्यङ्गविकलता। ततश्च "तद्धितलुकी"त्यनुक्तौपञ्चपुरुषशब्दाद्विकल्पः स्यात्, इष्यते तु "द्विगो"रिति नित्यं ङीबीति।