पूर्वम्: ४।१।३०
अनन्तरम्: ४।१।३२
 
सूत्रम्
रात्रेश्चाजसौ॥ ४।१।३१
काशिका-वृत्तिः
रात्रेश् च अजसौ ४।१।३१

जस्विषयादन्यत्र संज्ञायां छन्दसि च रात्रिशब्दात् ङीप् प्रत्ययो भवति। या च रात्री सृष्टा। रात्रीभिः। अजसौ इति किम्? यास्ता रात्रयः। अजसादिष्विति वक्तव्यम्। रात्रिं सहोषित्वा। कथं तिमिरपटलैरवगुण्ठिताश्च रत्र्यः? ङीषयं बह्वादिलक्षणः। तत्र हि पठ्यते कृदिकारादक्तिनः, सर्वतो ऽक्तिन्नर्थातित्येके इति।
न्यासः
रात्रेश्चाजसौ। , ४।१।३१

"अजसौ" इति। विषयसप्तमीयम्, न परसप्तमी, कुतः? स्त्रीप्रत्ययस्यान्तरङ्गत्वाज्जसः परत्वाविरोधाद्विषयसप्तमीत्वे न दोष इत्याह-- "जस्विषयत्वात्" इत्यादि। "अजसादिष्विति वक्तव्यम्िति।जासादिविषयादन्यत्र रात्रिशब्दान्ङीब्भवतीत्येदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- इह लाघवार्थं "अजसि" इति वक्तव्येऽजसावित्युक्तम्, मात्राधिक्यादर्थाधिक्यसूचनार्थम्, तेनाजसादिषु ङीब्भवतीति। आदिशब्देनामादीनां ग्रहणम्। "कथम्" इत्यादि। "रात्र्यः" इति। रात्रिशब्दस्य जसन्तस्य प्रयोगः। एवं हि "दीर्घाज्जसि च" ६।१।१०१ इति सवर्णदीर्घत्वे प्रतिषिद्धे यणादेश उपपद्यते, नान्यथा। यदि तु रात्रिशब्दस्यायं प्रयोगः स्यात्, ततः "जसि च"७।३।१०९ इति गुणे कृतेऽयादेशे च रात्रय इति रूपं स्यात्। ईकारान्तश्च रात्रिशब्दो न सम्भवति;अजसाविति ङीप्प्रतिषेधात्। ततश्च रात्र्य इति प्रयोगो नोपपद्यत इत्यभिप्रायः। "ङीषयम्ित्यादि। ननुच रात्रिशब्दो बह्वादिषु पठ()ते, तत्कथं बह्वादिलक्षणस्ततो ङीष्भविष्यति? इत्यत आह--"तत्र हि" इत्यादि। "कृदिकारादक्तिनः"इति। कृत इकारः कृदिकारः,तदन्तान्ङीष् भवति।"वृदृभ्यां विन्" (द।उ। १।२३) वर्वी, दर्वी। यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति-- "स्त्रियां क्तिन्" ३।३।९४ कृतिः, ह्मतिः। "सर्वतोऽक्तिन्नर्थादित्येके" इति। एक आचार्या सर्वतोऽक्तिन्नर्थात् कृदिकारादकृदिकाराच्च ङीष् भवतीत्याहुः, राजिः राजी। राजिशब्दोऽव्ययुत्पत्तिपक्षे कृतिकारान्तो न भवति। अक्तिन्नर्थादिति, न विद्यते क्तिन्नर्थो यस्य सोऽक्तिन्नर्थः, तस्मात् सर्वतो ङीष् भवति। यस्तु क्तिन्नर्थस्तदन्तान्न भवति-- कृतिः ह्मतिः। "आक्रोशे नञ्यनिः" ३।३।११२ -- अकरणिः, अहरणिः। रात्रिशब्दश्चायं व्युत्पत्तिपक्षे कृदिकारान्तो भवति, "रा आदाने" (धा।पा।१०५७), "राशदिभ्यां त्रिप्" (द।उ।१।३६) रात्रिः, तस्मात् पक्षे ङीष् रात्री। अव्युत्पत्तपक्षे तु कृदिकारान्तो न भवति, ततः "सर्वतोऽक्तिन्नर्थात्" (ग।सू।५१) इति ङीष्॥