पूर्वम्: ४।१।९३
अनन्तरम्: ४।१।९५
 
सूत्रम्
गोत्राद्यून्यस्त्रियाम्॥ ४।१।९४
काशिका-वृत्तिः
गोत्राद् यून्यस्त्रियां ४।१।९४

अयम् अपि नियमः। यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः। गार्ग्यस्य अपत्यं युवा गार्ग्यायणः। वात्स्यायनः। दाक्षायणः। प्लाक्षायणः। औपगविः। नाडायनिः। अस्त्रियाम् इति किम्? दाक्षी। प्लाक्षी। किं पुनरत्र प्रतिषिध्यते? यदि नियमः, स्त्रियाम् अनियमः प्राप्नोति। अथ युवप्रत्ययः, स्त्रिया गोत्रप्रययेन अभिधानं न प्राप्नोति गोरसंज्ञायाः युवसंज्ञया बाधितत्वात्। तस्माद् योगविभागः कर्तव्यः। गोत्राद् यूनि प्रत्ययो भवति। ततो ऽस्त्रियाम्। यूनि यदुक्तं तत् स्त्रियां न भवति। युवसंज्ञा एव प्रतिषिध्यते, तेन स्त्री गोत्रप्रत्ययेन अभिधास्यते।
लघु-सिद्धान्त-कौमुदी
गोत्राद्यून्यस्त्रियाम् १०१४, ४।१।९४

यून्यपत्ये गोत्रप्रत्ययान्तादेव प्रत्ययः स्यात्, स्त्रियां तु न युवसंज्ञा॥
न्यासः
गोत्राद्यून्यस्त्रियाम्। , ४।१।९४

"अयमपि नियमः" इति। न केवलं पूर्वः--- इत्यपिशब्देन दर्शयति। सर्वेषां ह्रपत्येन योगे परमप्रकृत्यनन्तरयुवभ्योऽपि युवापत्यविवक्षायां प्रत्ययः प्राप्नोति, अतस्तन्निवृत्त्यर्थं नियमः क्रियते। "गोत्रादेव"इति। गोत्रपत्ययान्तादेवेत्यर्थः। अनेन नियमस्वरूपं दर्शयति। "न परम" इत्यादिना नियमस्य व्यवच्छेद्यम्। "गाग्र्यायणः, दाक्षायणः" इति। गोत्रे यौ यञिञौ विहितौ तदन्तात् "यञिञोश्च" ४।१।१०१ इति फक्। "औपगविः" नाडायनिः" इति। गोत्रे यावण्फकौ विहितौ तदन्तात् "अत इञ्" ४।१।९५। "दाक्षी" इति। वक्षस्यापत्यं चतुर्थ स्त्री। "अत इञ्" ४।१।९५, "इतो मनुष्यजातेः" ४।१।६५ इति ङीष्। "किं पुनरत्र प्रतिषिध्यते" इति। सर्वस्मिन् प्रतिषिध्यमाने दोषं मन्यते। तमेव दोषमाविष्कर्तुमाह-- "यदि" इत्यादि। "स्त्रियामनियमः प्राप्नोति" इति। परमप्रकृत्यनन्तरयुवभ्योऽपि स्त्रियां युवप्रत्ययः प्राप्नोतीत्यर्थः। "गोत्रसंज्ञाया युवसंज्ञया बाधितत्वात्" इति। "जीवति तु वंश्ये युवा" इत्यत्र तुशब्दोऽवधारणार्थः कृतः। तेन अभिधानं न प्राप्नोति। "तस्मात्" इत्यादि। यत एव च नियमयुवप्रत्यययोरुभयोरपि प्रतिषेधे दोषः, तस्मात् तन्निरासाय योगविभागः कत्र्तव्यः। तत्र " गोत्राद्यूनि" इत्येको योगः, अनेन च नियमः क्रियते, यदाह-- "गोत्राद् यूनि प्रत्ययो भवति" इति। ततः "अस्त्रि याम्" इति द्वितीयो योगः। तेन च यूनीत्यत्र यदुक्तं कार्यं तस्य प्रतिषेधः क्रियते, यदाह-- "यूनि यदुक्तं स्त्रियां तन्न भवति" इति। "युवसंज्ञैव प्रतिषिध्यते" इति। कथम्? "अस्त्रियाम्" इत्यत्र हि योगे यूनीत्येतदनुवत्र्तते, तेनैवं विज्ञायते-- यूनि यदुक्तं कार्यं स्त्रियां तन्न भवतीति। युवसंज्ञा च यून्येव कार्ययुक्तेत्यतः सैव प्रतिषिध्यते। "युवसंज्ञैव" इति। एवकारेण नियमयुवप्रत्ययोव्र्यवच्छेदः क्रियते। "तेन स्त्री गोत्रपत्ययेनाभिधास्यते" इति। तस्यां युवसंज्ञायां प्रतिषिद्धायां गोत्रसंज्ञाया अविचलत्वात्॥
बाल-मनोरमा
गोत्राद्यून्यस्त्रियाम् १०७८, ४।१।९४

गोत्राद्यून्यस्त्रियाम्। गर्गस्य गोत्रं गार्ग्यः, गर्गस्य तृतीयः। "गर्गादिभ्यः" इति गोत्रे यञ्। गाग्र्यस्य तृतीयः सगर्गस्य पञ्चमो युवापत्यं, तस्मिन्बुबोधयिषिते गाग्र्यशब्दात् गोत्रप्रत्ययान्तात् "यञिञोश्चे"ति फकि "गाग्र्यायण" इति रूपमिष्यते। तथा षष्ठादिष्वपि युवापत्येषु "गाग्र्यायण" इत्येवेष्यते। तदिदमपत्यशब्दः पुत्रपौत्रादिसाधारण इति पक्षे यद्यपि सुलभमेव,गर्गात्तृतीयं गाग्र्यं प्रति पञ्चमादीनामप्यपत्यत्वात्, तथापि गर्गस्य पञ्चमाद्यपत्ये यूनि विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात्। तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गान्मूलप्रकृतेरपि इञ् स्यात्। तथा गर्गस्य अन्तरापत्ये इञि गार्गिः, तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि "गार्गायण" इत्यपि स्यात्। तथा गर्गस्य चतुर्थे यूनि गोत्रत्वाऽभावात् यञभावे इञि गार्गिः। तदपत्यत्वेन विवक्षिते गर्गस्य पञ्चमादौ यूनि गार्गेः फकि "गार्गायण" इति स्यात्। गोत्रपत्ययान्तादेव यूनि प्रत्यया" इति नियमः क्रियते--गोत्राद्यूनी"ति। तदाह--यून्यपत्ये गोत्रप्रत्ययान्तादेवेति। नतु मूलप्रकृतेस्तदनन्तरापत्यप्रत्ययान्ताद्युवप्रत्ययान्ताच्चेति भावः। नचापत्यशब्दः पुत्र एव रूढ इति पक्षे पञ्चमादौ यूनि चतुर्थाद्यपत्यप्रत्ययान्तादेव प्रत्ययः स्यात्, नतु तृतीयवाचिगोत्रप्रत्ययान्तादिति तत्र विष्यर्थमेवेदं स्यात्, नतु नियमार्थमिति वाच्यं, "पुत्रपौत्रादिसाधारणोऽपत्यशब्द" इत्येव भाष्ये सिद्धान्तितत्वादिति भावः।

स्त्रियां तु न युवसंज्ञेति। इह "अस्त्रिया"मिति योगो विभज्यते। यूनीत्यनुवर्तते। उभयमपि प्रथमया विपरिणम्यते। तथाच "स्त्री उक्तयुवसंज्ञिका ने"ति फलितमिति भावः। नच स्त्रीभिन्ने यूनि गोत्रादेवेत्यर्थः कुतो नाश्रीयते, एवं सत्येकवाक्यत्वलसाभादिति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात्। नच "एको गोत्रे" इति नियमात्तन्निवृत्तिः संभवतीति वाच्यं, युवसंज्ञया गोत्रसंज्ञाया बाधात्। नच सत्यपि योगविभागे "स्त्रियां न युवप्रत्यय" इति व्याख्यायतामिति वाच्यं, गोत्रप्रत्ययेन युवत्यभिधानानापत्तेरित्यलम्। गर्गस्येति। गर्गस्य पञ्चमादौ यूनि गाग्र्यशब्दाद्गोत्रे यञन्तात्फकि "गाग्र्यायण" इति रूपमित्यर्थः। स्त्रियां युवसंज्ञानिषेधस्य प्रयोजनं दर्शयति--स्त्रियामिति। पञ्चमादियुवतीनां युवसंज्ञानिरहेण गोत्रत्वात्। "एको गोत्रे" इति नियमाद्गार्गीत्येव भवति, नतु गाग्र्यायणीति रूपमित्यर्थः। "स्त्रीभिन्ने यूनि गोत्रादेवे"त्यर्थाश्रयणे तु युवसंज्ञया गोत्रसंज्ञाया बाधात् "एको गोत्रे" इत्यस्याऽप्रवृत्तेः प्रत्ययमाला स्यादिति भावः।

तत्त्व-बोधिनी
गोत्राद्यून्यस्त्रियाम् ९०२, ४।१।९४

गोत्राद्यूनि। असत्यस्मिन्सूत्रे मुख्यमते पञ्चमादौ यूनि विवक्षिते गोत्रप्रत्ययन्ताद्युवप्रत्ययोत्पत्ताविष्टे सिद्धेऽपि मूलप्रकृत्यनन्तरयुवभ्योऽपि स्यादिति पाक्षिकानिष्टे प्राप्ते नियमार्थमिदमित्याशयेनाह---गोत्रप्रत्ययान्तादेवेति। न तु मूलप्रकृत्यनन्तरयुबभ्य इत्यर्थः। मनोरमायां तु "नतु युप्रत्ययान्तादिति प्रथमपक्षेऽर्थ"इत्यपि स्थितम्। अत्र वदन्ति---पञ्चमादौ यूनि विवक्षिते तस्य यूस्तृतीयं प्रत्यनपत्यत्वादप्राप्तौ विध्यर्थमेवेदं स्यान्न तु नियमार्थमिति युवप्रत्ययान्तात्प्रत्त्ययो दुर्वारः स्यात्। तस्मादिह "पितुरेवापत्य"मिति पक्षो नाश्रयणीय इति। अन्ये त्वाहुः---आद्यपक्षे "गोत्राद्यूनि"त्यावत्र्य एकेनाऽप्राप्तप्रत्ययं विधाय द्वितीयेन नियम्यते "यूनि गोत्रादेव"इति। एवं च "ततः प्राचामपी"ति पक्षेण सहास्यैकरूपता भवतीति। "गोत्राच्चेद्यून्येवे"ति विपरीतनियमस्त्विह न कृतः, व्यावर्त्त्याऽलाभात्। न च शैषिकाश्छादयो व्यावर्त्त्या इति वाच्यं, "गोत्रेऽलुगची"ति लिङ्गात्। स्त्रियां त्विति। यद्यत्र "अस्त्रिया"मित्यस्यैकवाक्यतया "स्त्रीभिन्ने यूनि गोत्रादेवे"त्यर्थः क्रियते, तर्हि स्त्रीषु युवसंज्ञाय#आ अनषेधाद्यवतिषु स्त्रीषु प्रत्ययानां परम्परा प्रसज्येत। न च "एको गोत्रे"इत्यनेन निस्तारः, युवसंज्ञया गोत्रसंज्ञाया बाधात्। अथ "स्त्रियां न युवप्रत्ययः"इति वाक्यभेदेनार्थः क्रियते, तदा गोत्रप्रत्ययेन युवतिर्नाभिधोयेत। ततश्च गाग्र्यस्यापत्यं स्त्री गार्गी न स्यात्। किं तु वाक्यमेव स्यात्। अतो "युवसंज्ञानिषेधपरमेवेद"मित्याशयेन व्याचष्टे---न युसंज्ञेति। अत्रायमाशयः---"अस्त्रिया"मिति योगो विभज्यते। "यूनी"ति शब्दस्वरूपमनुवर्तते। परिभाषा चेयम्। यत्र युवसंज्ञाविधानं तत्र "अस्त्रिया"मित्युपतिष्ठत"इति,---सिद्धस्य गतिरियम्। "जीवति तु वंश्ये युवाऽस्त्रिया"मित्येव सूत्रयितुं युक्तम्।