पूर्वम्: ४।२।१००
अनन्तरम्: ४।२।१०२
सूत्रम्
कन्थायाष्ठक्॥
४।२।१०१
काशिका-वृत्तिः
कन्थायाष्ठक्
४।२।१०२
कन्थाशब्दात् ठक् प्रत्ययो भवति शैषिकः। कान्थिकः।
न्यासः
कन्थायाष्ठक्।
, ४।२।१०१
अणपवादोऽयं योगः॥
बाल-मनोरमा
कन्थायाष्ठक्
१३०३, ४।२।१०१
कन्थायाष्ठक्। तिर्यक्स्यूतबहुवस्त्रखण्डसमूहः कन्था। देशविशेष इत्यन्ये।