पूर्वम्: ४।२।४४
अनन्तरम्: ४।२।४६
 
सूत्रम्
चरणेभ्यो धर्मवत्॥ ४।२।४५
काशिका-वृत्तिः
चरणेभ्यो धर्मवत् ४।२।४६

चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत् प्रत्यया भवन्ति। गोत्रचरणाद् वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चरणाद् धर्माम्नाययोः इति, तेन धर्मवतित्यतिदेशः क्रियते। वतिः सर्वसादृश्यार्थः। कठानां धर्मः काठकम्। कालापकम्। छन्दोग्यम्। औक्थिक्यम्। आथर्वणम्। तथा समूहे ऽपि काठकम्। कालापकम्। छन्दोग्यम्। औक्थिक्यम्। आथर्वणम्।
न्यासः
चरणेभ्यो धर्मवत्। , ४।२।४५

"गोतर्चरणाद्()वुञित्यारभ्य" इति। ननु च तत्र धर्मग्रहमं नास्ति, तत्कथं धर्मवदित्यतिदेशः प्रयुज्यते? इत्याह-- "तत्रेदम्" इत्यादि। इदमेव धर्मवदिति वचनं लिङ्गभूतं गमयति-- "चरणाद्धर्माम्नाययोः" (वा।४७६) इत्येतद्वचनं शेषभूतमिति। न हि तेन विनाऽदेश उपपद्यते। "वतिः सादृश्यार्थः" इति। असति हि वतौ यदि चरणग्रहणं धर्मप्रत्ययैरभिसम्बध्यते-- चरणेभ्यो धर्मेऽभ्यो ये प्रत्यया अभिधास्यन्ते ते भवन्ति "तस्य समूह-" ४।२।३६ इत्येतस्मिन्नर्थ इति, समूहप्रकृतिर्न विशेषिता स्यात्। एवञ्चेह प्रकृतिमात्राद्धर्मप्रत्ययाः प्रसज्येरन्। अथ प्रकृतिः सम्बध्यते-- धर्मे ये विधास्यन्ते प्रत्ययास्ते भवन्ति। "चरणेभ्यः समूहः" इत्येतस्मिन्नर्थे, एवमपि धर्मप्रत्ययान विशेषिताः स्युः। ततश्चाचरणेभ्योऽपि ये धर्मे विधास्यन्ते प्रत्ययास्तेऽपीह चरणेभ्य आपद्येरन्। अथाप्युभयसन्निधानादुभयं विशेष्यते, तेन वाक्यभेदं कृत्वा प्रत्ययैः प्रकृतिभिः सम्बध्यते-- चरणेभ्यो धर्मेऽथ ये प्रत्यया विधास्यन्ते ते समूहे भवन्ति चरणेभ्य इति? एवमपि कश्चित् चरणप्रकृतिकः प्रत्ययो यतः कुतश्चिच्चरणात् समूहे स्यात्। "कौपिञ्जलहास्तिपदादण्" ४।३।१३१ छन्दोग#आदिभ्योऽपि स्यात्। वतौ तु तस्य सादृश्ये विधानात् सर्वसादृश्यपरिग्रहो भवति। तेन याभ्यः प्रकृतिभ्यश्चरणविशेषणेन ये प्रत्ययाः विहिताः , इहापि ताभ्यः प्रकृतिस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टमापद्यते। तस्मात् सर्वसादृश्यपरिग्रहार्थं वत्करणं कत्र्तव्यम्। " काठकम्, कालापकम्" इति। "गोत्रचरणाद्()वुञ्" ४।३।१२६। "छान्दोग्यम्, औक्थिक्यम्" इति। "छन्दोगोक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः" ४।३।१२९ इति ञ्यः। "आथर्वणम्" इति। "कौपिञ्जलहास्तिपदादण्" ४।३।१३१,"आथर्वणिकस्येकलोपश्च" ४।३।१३१ इत्यण्, इकलोपश्च। एते प्रत्यया यथा चरणेभ्यो धर्मे भवन्ति, तथा समूहेऽपि॥
बाल-मनोरमा
चरणेभ्यो धर्मवत् १२३६, ४।२।४५

चरणेभ्यो धर्मवत्। चरणाः=शाखाध्येतारः। धर्मेऽर्थे याभ्यः प्रकृतिभ्यो ये प्रत्यया वक्ष्यन्ते ते ताभ्यः प्रकृतिभ्यः समूहे स्युरित्यर्थः। काठकमिति। कठानां समूह इति विग्रहः। "गोत्रचरणाद्वुञ्" इति धर्मे वक्ष्यमाणो वुञ् समूहेऽपि भवति। छान्दोग्यमिति। छन्दोगाः-सामशाखिनः, तेषां समूह इति विग्रहः। "छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः" इति धर्मे वक्ष्यमाणो ञ्यः समूहेऽपि भवति।

तत्त्व-बोधिनी
चरणेभ्यो धर्मवत् १००८, ४।२।४५

चरणेभ्यः। यस्याः प्रकृतेर्यः प्रत्ययो धर्मे वक्ष्यते, स तस्याः प्रकृतेः समूहेऽपि स्यादित्य्रथः। वुञादयो हि चरणेभ्यो वक्ष्यन्ते। तत्र "चरणाद्धर्माम्नाययो"रिति तु वार्तिकम्। तदप्यनेनैवातिदेशसूत्रेण ज्ञाप्यते। काठकमित्यादि। गोत्रचरणाद्वुञ्। छान्दोग्यमिति। "छन्दोगौक्थिके"तिञ्यः। यच्छाविति। यथासङ्ख्यं स्तः। ठगणाविति। केशशब्दादचित्तत्वेन ठक्।