सूत्रम्
अनुदात्तादेश्च॥ ४।३।१३८
काशिका-वृत्तिः
अनुदात्ताऽदेश् च ४।३।१४०
अनुदात्तादेः प्रातिपदिकातञ् प्रत्ययो भवति विकारावयवयोरर्थयोः। अणो ऽपवादः। दाधित्थम्। कापित्थम्। माहित्थम्।
बाल-मनोरमा
अनुदात्तादेश्च १४९९, ४।३।१३८
अनुदात्तादेश्च। "विकारे अ"ञिति शेषः। "अवयवे चे"ति सूत्रमप्यत्र सम्बध्यते। दाधित्थमिति। दधित्थस्यावयवो विकारो वेत्यर्थः। एवं कापित्थम्। "कपित्थे तु दधित्थग्राहिमन्मथाः" इत्यमरः। अव्युत्पन्नप्रातिपदिकत्वात्-फिट्-स्वरेणान्तोदात्तावेतौ।
तत्त्व-बोधिनी
अनुदात्तादेश्च ११६७, ४।३।१३८
दाधित्थमिति। दधनि तिष्ठतीति "सुपि स्थः"इति कः। उपपदसमासः। पृषोदरादित्वात्सकारस्य तकारः। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम्। एवं कपित्थेऽपि बोध्यम्।