पूर्वम्: ४।३।१५७
अनन्तरम्: ४।३।१५९
 
सूत्रम्
गोपयसोर्यत्॥ ४।३।१५८
काशिका-वृत्तिः
गोपयसोर् यत् ४।३।१६०

गोपयस्शब्दाभ्यां यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। गव्यम्। पयस्यम्। सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव, मय्ड्विषये तु विधीयते।
लघु-सिद्धान्त-कौमुदी
गोपयसोर्यत् १११८, ४।३।१५८

गव्यम्। पयस्यम्॥
लघु-सिद्धान्त-कौमुदी
इति विकारार्थाः। (प्राग्दीव्यतीयाः) ६ १११८, ४।३।१५८

लघु-सिद्धान्त-कौमुदी
अथ ठगधिकारः १११८, ४।३।१५८

न्यासः
गोपयसोर्यत्। , ४।३।१५८

"मयड्विषये तु विधीयते" इति। अजादिप्रसङ्ग इति वचनात्। मयटोऽनजादित्वात् तद्विषये न प्राप्नोतीत्यतस्तत्र गोशब्दाद्विधीयते। पयःशब्दस्तु पिबतेरित्यसुन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः, तस्मात् प्राग्दीव्यतोऽण्" ४।१।८३ इत्यण् प्राप्नोति। अतस्तदपवादोऽयं यद्विधीयते॥
बाल-मनोरमा
गोपयसोर्यत् १५१७, ४।३।१५८

गोपयसोर्यत्। गव्यमिति। गोर्विकारोऽवयवो वेत्यर्थः। "वान्तो यी"त्यवादेशः। पयस्यमिति। पयसो विकार इत्यर्थः। "सर्वत्र गोरजादिप्रसङ्गे य"दित्येव सिद्धे यद्विधानं "मयड्वैतयो"रिति पाक्षिकमयटो बाधनार्थम्।

तत्त्व-बोधिनी
गोपयसोर्यत् ११८०, ४।३।१५८

गोपयसोः। यद्यपि सर्वत्र गोरजादिप्रसङ्गे यदुक्तस्तथापि "मयड्वैतयो"रिति पक्षे प्राप्तं मयटं बाधितुं पुनरयं यद्विधिः।