पूर्वम्: ४।३।४६
अनन्तरम्: ४।३।४८
 
सूत्रम्
देयमृणे॥ ४।३।४७
काशिका-वृत्तिः
देयम् ऋणे ४।३।४७

तत्र इत्येव, कालातिति च। सप्तमीसमार्थात् कालवाचिनः प्रातिपदिकात् देयम् इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद् देयम् ऋणं चेत् तद् भवति। मासे देयम् ऋणं मासिकम्। आर्धमासिकम्। सांवत्सरिकम्। ऋणे इति किम्? मासे देया भिक्षा।
न्यासः
देयमृमे। , ४।३।४७

बाल-मनोरमा
देयमृणे १४०१, ४।३।४७

देयमृणे। कालादित्येवेति। तत्रेत्यप्यनुवर्तते। वुञिति निवृत्तम्। सप्तम्यन्तात्कालवाचिनो देयमित्यर्थे यताविहितं प्रत्ययाः स्युः। तस्मिन्देयद्रव्ये ऋणे सतीत्यर्थः। मासिकमिति। "कालट्ठञ्"।

तत्त्व-बोधिनी
देयमृणे ११०१, ४।३।४७

देयमृणे। ऋणे किम्()। मासे देया भिक्षा।