पूर्वम्: ४।४।१२१
अनन्तरम्: ४।४।१२३
 
सूत्रम्
असुरस्य स्वम्॥ ४।४।१२२
काशिका-वृत्तिः
असुरस्य स्वम् ४।४।१२३

असुरशब्दात् षष्ठीसमर्थात् स्वम् इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। अणो ऽपवादः। असुर्यं वा एतत् पात्रं यत् कुलालकृतं चक्रवृत्तम्।
न्यासः
असुरस्य स्वम्। , ४।४।१२२

"षष्ठीसमर्थात्" इति। "असुरस्य" इति निर्देशादेव षष्ठी समर्थविभक्तर्लभ्यते। "स्वम्" इति। आत्मीयमित्यर्थः। "अणोऽपवादः" इति। "तस्येदम्" ४।३।१२० इति प्राप्तस्य॥