पूर्वम्: ५।१।६१
अनन्तरम्: ५।१।६३
 
सूत्रम्
तद् अर्हति॥ ५।१।६२
काशिका-वृत्तिः
तदर्हति ५।१।६३

ततिति द्वितीयासमर्थादर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। श्वेतच्छत्रम् अर्हति श्वैतछत्रिकः। वास्त्रयुग्मिकः। शत्यः, शतिकः। साहस्रः।
लघु-सिद्धान्त-कौमुदी
तदर्हति ११५१, ५।१।६२

लब्धुं योग्यो भवतीत्यर्थे द्वितीयान्ताट्ठञादयः स्युः। श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः॥
न्यासः
तदर्हति। , ५।१।६२

"()औतच्छत्रिकः, वास्त्रयुग्मिकः" इत्यादिषु ठक्()। "आर्हात्? ५।१।१९ इत्यभिविधौ चायमाकार इति॥
बाल-मनोरमा
तदर्हति १७०५, ५।१।६२

तदर्हति। अर्हतीत्यस्य योग्यो भवतीत्यर्थे अकर्मकत्वात्तदिति द्वितीया न स्यात्। इष्यते तु द्वितीयान्तादेव प्रत्ययः। तत्राह--लब्धुमिति। ()औतच्छत्रिक इति। आर्हीयष्ठक्।

तत्त्व-बोधिनी
तदर्हति १३१८, ५।१।६२

()औतच्छत्रिक इति। एवं खारीकाः। शत्यः। शतिकः। साहरुआः। इत्यादीन्युदाहर्तव्यानि।