पूर्वम्: ५।२।१३७
अनन्तरम्: ५।२।१३९
 
सूत्रम्
तुन्दिवलिवटेर्भः॥ ५।२।१३८
काशिका-वृत्तिः
तुन्दिबलिवटेर् भः ५।२।१३९

तुन्दि बलि वटि इत्येतेभ्यो भः प्रत्ययो भवति मत्वर्थे। तुन्दिः इति वृद्धा नाभिरुच्यते, सा अस्य अस्ति इति तुन्दिभः। बलिभः। वटिभः। वलिशब्दः आमादिषु पठ्यते, तेन बलिनः इत्यपि भवति।
न्यासः
तुन्दिबलिवटेर्भः। , ५।२।१३८

तुन्दिशब्दात्? तुन्दादिषु "स्वाङ्गाद्विवृद्धौ" ५।२।११६ इति पाठादिलचीनिठनोर्मतुपि प्राप्ते, बलेः पामादिपाठान्ने मतुपि, वटेर्मतुप्येव बो विधीयते॥
बाल-मनोरमा
तुन्दिवलिबटेर्भः १९१९, ५।२।१३८

तन्दिवलि। तन्दि, वलि, बटि एभ्यो मत्वर्थे भप्रत्ययः स्यादित्यर्थः। समाहारद्वन्द्वात्पञ्चम्येकवचनम्। पुंस्त्वमार्षम्। वटिभ इति। "वट वेष्टने"। वटनं वटिः। सोऽस्यास्तीति विग्रहः।

तत्त्व-बोधिनी
तुन्दिवलिबटेर्भः १४६९, ५।२।१३८

वटिभ इति। "वट "वेष्टने"इन्। वटिशब्दः पामादिषु पट()ते। तेन "वटिन"इत्यपि भवति।