पूर्वम्: ५।२।१३५
अनन्तरम्: ५।२।१३७
 
सूत्रम्
संज्ञायां मन्माभ्याम्॥ ५।२।१३६
काशिका-वृत्तिः
संज्ञायां मन्माभ्याम् ५।२।१३७

मन्नन्तात् प्रातिपदिकान् मशब्दान्ताच् च इनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत् संज्ञा गम्यते। प्रथिमिनी। दामिनी। मशब्दान्तात् होमिनी। सोमिनी। संज्ञायाम् इति किम्? सोमवान्। होमवान्।
न्यासः
संज्ञायां मन्माभ्याम्?। , ५।२।१३६

"प्रथिमिनी, दामिनी" इति। प्रथिमिन्(), दामिन्()--इत्येताभ्यामिनिः, "नस्तद्धिते" ६।४।१४४ इति टिलोपः, "ऋन्नेभ्यो डीप्()" ४।१।५ इति ङीप्()। अत्रापि संज्ञाग्रहणमितिकरणस्यैव प्रपञ्चः॥
तत्त्व-बोधिनी
संज्ञायां मन्माभ्याम् १४६७, ५।२।१३६

प्रथिमिनीति। "पृथ्वादिभ्यः" इतीमनिचि "टे"रिति टिलोपः। "र ऋतः" इत #इ रभावः। "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ती"ति मन्नन्तादिनौ कृते "नस्तद्धिते"इति टिलोपे नान्तत्वान्ङीप्। दामिनीति। दाधातोर्मनिन्। होमिनी। सोमिनीति। "अर्तिस्तुसुहुसृधृक्षी"त्यौणादिकेन मनिनित्त्वाद्धोमसोमशब्दौ मप्रत्ययान्तौ।