पूर्वम्: ५।२।२८
अनन्तरम्: ५।२।३०
 
सूत्रम्
सम्प्रोदश्च कटच्॥ ५।२।२९
काशिका-वृत्तिः
संप्रौदश् च कटच् ५।२।२९

सम् प्र उदित्येतेभ्यः कटच् प्रत्ययो भवति। चकाराद् वेश्च। सङ्कटम्। प्रकटम्। उत्कटम्। विकटम्। कटच्प्रकरणे ऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसङ्ख्यानम्। अलाबूनां रजः अलाबूकटम्। तिलकटम्। उमाकटम्। भङ्गाकटम्। गोष्ठादयः स्थानादिषु पशुनाम् आदिभ्य उपसङ्ख्यानम्। गवां स्थानं गोगोष्ठम्। महिषीगोष्ठम्। सङ्घाते कटच् वक्तव्यः। अवीनां सङ्घातः अविकटम्। विस्तारे पटच् वक्तव्यः। अविपटम्। द्वित्वे गोयुगच्। उष्ट्रगोयुगम्। अश्वगोयुगम्। प्रकृत्यर्थस्य षट्त्वे षङ्गवच्। हस्तिषङ्गवम्। अश्वषङ्गवम्। विकारे स्नेहे तैलच्। एरण्डतैलम्। इङ्गुदीतैलम्। तिलतैलम्। भवने क्षेत्रे इक्ष्वादिभ्यः शाकटशाकिनौ। इक्षुशाकटम्, इक्षुशाकिनम्। मूलशाकटम्, मूलशाकिनम्।
न्यासः
संप्रोदश्च कटच्?। , ५।२।२९

ससाधनक्रियावचनादुपसर्गात् स्वार्थे प्रत्यय इति सर्वं पूर्ववदेव वेदितव्यम्। "अलाबूतिलोमा" इत्यादि। अलाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययस्योपसंख्यानं कत्र्तव्यम्()। विकारप्रत्ययानामपवादः; अलाबूप्रभृतीनां यद्रजस्तस्य तद्विकारत्वात्()। "गोष्ठादयः" इत्यादि। आदिशब्दः प्रकारे। पशुनामानि गोशब्दादीनि, तेभ्यः स्थानादिष्वभिधेयेषु गोष्ठजादयः प्रत्यया वक्तव्याः। "तस्येदम्()" ४।३।१२० इत्यर्थविवक्षायां स्थानादिषु गोष्ठजादयो विधीयन्ते। ननु "तद्धिताः" (४।१।७६) इति बहुवचनेनैव संगृहीतं सङ्घाते कटजित्यादि सर्वम्()? सत्यम्(); अनन्तरोक्तस्यैव वाक्यस्य प्रपञ्चोऽयम्()। "अविकटम्()" इति। अत्र "तस्य समूहः" ४।२।३६ इति सामूहिके प्रत्ययो कटट्()। "अविपटम्()" इति। प्रकीर्णानामवीनां विस्तार उच्यते। द्वावुष्टौ "उष्ट्रगोयुगम्()"। षङ् हस्तिनो "हस्तिषङ्गवम्()" इङ्गुदस्य स्नेह "इङ्गुदतैलम्()"। तिलस्य "रसास्तिलतैलम्()"। "भवने क्षेत्रे" इत्यादि। इक्षूणां भवनं क्षेत्र "मिक्षुशाकटम्()"। "इक्षुशाकिनम्()"। मूलस्य भवनं क्षेत्रं "मूलशाकटम्()"। मूलशाकिनम्()॥
बाल-मनोरमा
संप्रोदश्चकटच् १८०७, ५।२।२९

संप्रोदश्च कटच्। सं, प्र, उत्? एभ्यश्च क्रियाविशिष्टसाधनवाचिभ्यः स्वार्थे कटच् स्यादित्यर्थः। चाद्वेरपि। संकटं। संहतमित्यर्थः। निबिडीकृतमिति यावत्। रूढशब्दा एते कथञ्चिद्व्युत्पाद्याः।

अलाबूतिलेति। अलाबू, तिल, उमा, भङ्गा-इत्येभ्यः षष्ठ()न्तेभ्योरजसिपशिनामभ्यः स्थानादिष्वर्थेषु गोष्ठजादयः प्रत्यया वक्तव्या इत्यर्थः। गोष्ठजादीनां प्रत्ययानां स्थानादीनां चार्थानां प्रपञ्चनपराणि "सङ्घाते कटजि"त्यादीनि "शाकटशाकिना"वित्यन्तानि षड्वार्तिकानि। तेषु चतुर्षु "पशुनामब्य" इत्यनुवत्र्तते।

अप्रसृतावयवः समूहः-सङ्घातः।

प्रसृतावयवस्स्तु विस्तारः।

द्वित्व इति। प्रकृत्यर्थगतद्वित्व इत्यर्थः। वृषगोयुगमिति। द्व्यवयवकसङ्घामिताभिप्रायमेकवचनम्। द्वयं युग्ममित्यादिवत्। केचित्तु द्वौ वृषावित्यर्थे "वृषगोयुग"मिति स्वभावादेकवचनं विंशतिरित्यादिवदित्याहुः। एवमुष्ट्रगोयुगम्। अ()आषङ्गवम्।

तत्त्व-बोधिनी
संप्रोदश्च कटच् १३९५, ५।२।२९

संप्रोदश्च। क्रियाविशिष्टसाधनवाचकात्स्वार्थे प्रत्ययः। सङ्कटं=संहतम्। संबाध इत्यर्थः। प्रकटं=प्राज्ञातम्। प्रकाशत इत्यर्थः। उत्कटम्ुद्भूतं। विकटं=विकृतं,। रूढशब्दाश्चैते कथंचिद्व्युत्पाद्यन्ते।

अलाबूतिलोमाभङ्गाभ्यो रजस्युपसङ्ख्यानम्। अलाबूकटमिति। एभ्यः पञ्चभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति। रजसो विकारत्वाद्विकारप्रत्ययानामपवादोऽयम्। अलाबूकटमिति। "ओरञ्""मयड्वैतयो"रिति मयड्वेह प्राप्तः। तिलकटमिति। "असंज्ञायां तिलयवाभ्या"मिति मयट् प्राप्तः। उमाशब्दाद्धृतादित्वादन्तोदात्तात् "अनुदातादेश्चे"त्यञ्, "उमोर्णयोवे"ति वुञ्च प्राप्तः। भङ्गाशब्दात् "तृणधान्यानां च व्द्यषा"मित्याद्युदात्तत्वादण्डमयड्वा प्राप्त इत्येवं यथासंभवं प्रत्ययप्राप्तिरूह्रां। हरदत्तस्तु---तिलशब्दस्य घृतादित्वादन्तोदात्तत्वमङ्गीकृत्य ततः "अनुदात्तादेश्चे"त्यञ्, "असंज्ञायां तिलयवाभ्या"मिति मयड्वा प्राप्त इत्याह। तत्र तिलशब्दस्य घृतादित्वकल्पनेबीजं चिन्त्यम्। "तृणधान्यानां च व्द्याषा"मिति फिट्सूत्रेणाद्युदात्तस्यैव न्याय्यत्वात्।"तिलाश्च मे"इत्यत्र तथैव वेदे पाठाच्च।

गोष्ठजादयः स्थानादिषु पशुनामभ्यः। गोष्ठजादय इति। "सङ्घाते कट"जित्यादीन्यस्यैव प्रपञ्चः। इहोभयत्राऽ‌ऽदिशब्दः प्रकारे। पशुनामभ्य इति। "पशुनामादिभ्यः"इति भाष्मे प्रचुरः पाठः। गवां स्थानमिति। "तस्येद"मित्यत्रार्थे "सर्वत्र गोरजादिप्रसङ्गे"इति यति प्राप्ते गोष्ठच्।

सङ्घाते कटच्। सङ्घात इति। अप्रसृताक्यवः समूहः--सङ्घातः। प्रसृतावयवस्तु---बिस्तारः। कठच्पटचौ द्वावपि सामूहिकानामपवादौ।

द्वित्वे गोयुगच्। द्वित्वे इति। प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः। उष्ट्रगोयुगमिति। द्वयं युग्ममित्यादिवद्द्व्यवयवसङ्घातप्राधान्यादेकवचनम्। एवमग्रेऽपि।