पूर्वम्: ५।३।११७
अनन्तरम्: ५।३।११९
 
सूत्रम्
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ्॥ ५।३।११८
काशिका-वृत्तिः
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छरुमदणो यञ् ५।३।११८

आयुधजीविसङ्घातिति निवृत्तम्। अभिजिदादिभ्यो ऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति। अभिजितो ऽपत्यम् इत्यण्, तदन्ताद् यञ्। आभिजित्यः, आभिजित्यौ, आभिजिताः। वैदभृत्यः, वैदभृत्यौ, वैदभृताः। शालावत्यः, शालावत्यौ, शालावताः। शैखावत्यः। शामीवत्यः। और्णावत्यः। श्रौमत्यः। गोत्रप्रत्ययस्य अत्र अणो ग्रहणम् इष्यते। अभिजितो मुहुर्तः, आभिजितःस्थालीपाकः इत्यत्र न भवति।
न्यासः
अभिजिद्विदभृच्छालावच्?छिखावच्छमीवदूर्णावच्छ्ररुमदणो यञ्?। , ५।३।११८

"अभिजितोऽपत्यमित्यण्()" इति। "प्राग्दीष्यतोऽण्()" ४।१।८३ इत्यौत्सर्गिकः। एवमुत्त्रत्रापि। "गोत्रप्रत्ययस्याणो ग्रहणमिष्यते" इति। तत्कथं जातिनाम्न इत्यनुवत्र्तते? तेनाणन्तं यज्जातिनाम तदेव ग्रहीष्यते। यश्च गोत्र्रऽण्? विहितस्तदन्तमेव जातिनाम भवति; "गोत्रं च चरणैः सह" (म। भा। २।२२५) इति आतित्वात्()। "आभिजितो मुहूततत्त्#ं#ः, आभिजीतः स्थालीपाकः" इति। एकत्र "नक्षत्रेण युक्तः कालः" ४।२।३ इत्यण्(), अपरत्र "सास्य देवता" ४।२।२३ इति॥
बाल-मनोरमा
अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ�मदणो यञ् , ५।३।११८

अभिजिद्विदभृत्। अभिजित्, पिदभृत्, शालावत्, शिखावत्, शमीवत्, ऊर्णावत्, श्रुमत्--एषां समाहारद्वन्द्वात्पञ्चम्या लुक्। अण इति प्रत्ययत्वात्तदन्तग्रहणम्। तदाह--अभिजिदादिभ्य इति। अत्र "आयुधजीविसङ्घादिति निवृत्त"मिति वृत्तिः।आभिजित्य इति। अभिजितोऽपत्यम् आभिजितः। अपत्येऽण्। आभिजित एव आभिजित्यः। वैदभृत्य इति। विदभृत्यः। शालावत्य इति। शालावतोऽपत्यं शालावतः, स एव शालावत्यः। शैखावत्यैति। शिखावतोऽपत्यं शैखावतः। स एव शैखावत्यः। शामीवत्य इति। "शमीवतोऽपत्यं शामीवतः, स एव शामीवत्यः। और्णावत्य इति। ऊर्णावतोऽपत्यमौर्णावतः, स एव और्णावत्यः। श्रौमत्य इति। श्रुमतोऽपत्यं श्रौमतः, स एव श्रौमत्यः। अत्र अभिजिदित्यादिशब्देषु यञः स्वार्थिकतया गोत्रार्थकत्वादाभिजित्यस्यायमिति विग्रहे "गोत्रचरणा"दिति वुञि"आपत्यस्य चे"ति यलोपे "आभिजितक" इति भवति। "अपत्याऽणन्तेभ्य एवायं यञ्। तेन आभिजितो मुहूर्त इत्यादौ न य"ञिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
अबिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ�मदणो यञ् १५४१, ५।३।११८

आभिजित्य इति। आभिजितशब्दादणन्ताद्यञ्। एवं विदभृत्प्रभृतिभ्योऽणि तदन्तेभ्यो वैदभृत ----शालावतः---शैखावतादिब्योयञ्।