सप्तम्याः इत्येव, काले इति च। इदमः सप्तम्यन्तात् काले वर्तमानात् र्हिल् प्रत्ययो भवति। हस्य अपवादः। लकारः स्वरार्थः। अस्मिन् काले एतर्हि। काले इत्येव, इह देशे।
"हस्यापवादः" इति। "इदमो हः"
५।३।११ इति प्राप्तस्य। "लकारः स्वरार्थः" इति। "लिति"(६।१।
१९३) प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्()। ननु च यथा इत इत्यत्र--"ऊडिदम्()"
६।१।१६५ इत्यादिना विभक्तिस्वरो भवति,
तथेहापि तेनैव भवितव्यम्()? नैतदस्ति; तथा हि युक्तमित इत्यत्र यद्विभक्तिस्वरो भवतीति; तसिलो लित्त्वस्य परितः, अभित इत्यतर चरितार्थत्वात्(), अस्य तु हिलो लित्करणमकृतार्थम्()। तद्यदि विभक्तिस्वरेम बाध्येत तस्यानर्थक्यं स्यात्()। तस्माल्लित्स्वर एव भवति॥