पूर्वम्: ५।३।२२
अनन्तरम्: ५।३।२४
 
सूत्रम्
प्रकारवचने थाल्॥ ५।३।२३
काशिका-वृत्तिः
प्रकारवचने थाल् ५।३।२३

किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः ५।३।२ इति वर्तते। सप्तम्याः इति काले इति च निवृत्तम्। सामान्यस्य भेदकः विशेषः प्रकारः। प्रकृत्यर्थविशेषणं च एतत्। प्रकारवृत्तिभ्यः किंसर्वनामबहुभ्यः स्वार्थे थाल् प्रत्ययो भवति। तेन प्रकारेण तथा। यथा। सर्वथा। जातीयरो ऽपीदृशम् एव लक्षणम्। स तु स्वभावात् प्रकारवति वर्तते, थाल् पुनः प्रकारमात्रे।
लघु-सिद्धान्त-कौमुदी
प्रकारवचने थाल् १२१८, ५।३।२३

प्रकारवृत्तिभ्यः किमादिभ्यस्थाल् स्यात् स्वार्थे। तेन प्रकारेण तथा। यथा॥
न्यासः
प्रकारवचने थाल्?। , ५।३।२३

"सामान्यस्य ["सायास्य विशेषो भेदकः=प्रकारः"-काशिका]
बाल-मनोरमा
प्रकारवचने थाल् १९४६, ५।३।२३

प्रकारवचने थाल्। पञ्चम्यर्थे सप्तमीत्याह--प्रकारवृत्तिभ्य इति। सामान्यस्य भेदको विशेषः प्रकारः। यथा "बहुभिः प्रकारैर्भुङ्क्ते" इति। विशेषैरिति गम्यते। सादृश्यं त्विह न गृह्रते, सर्वथेत्यादौ तदप्रतीतेः। तेन प्रकारेणेत्यनन्तरं "विशिष्ट" इति शेषः। "यथा हरिस्तथा हरः" इत्यादौ यत्प्रकारवान्हरिस्तत्प्रकारवान्हर इति बोधे सति हरिसदृशो हर इति फलति। तदभिप्रायेण यथाशब्दस्य सादृश्यार्थकत्वोक्तिः।

तत्त्व-बोधिनी
प्रकारवचने थाल् १४८२, ५।३।२३

प्रकारवचने थाल्। सामान्यस्य भेदको विशेषः प्रकारः। यथा ब्राआहृणसामान्यस्य माठरकाठकादय इति हरदत्तः। यद्यपि "प्रकारे गुणवचनस्ये"त्यत्र सादृश्यं प्रकारस्तथापि नेह सादृश्यं गृह्रते, अनबिधानात्। "अव्ययं विभक्ती"ति सूत्रे सादृश्यमपि यथाशब्दार्थ इत्युक्तम्, इह तु केवलस्य थाल्प्रत्ययस्य सादृश्यं नाऽर्थः, किं तु प्रकार एवेत्युक्तमिति नास्ति पूर्वापरविरोध इति बोध्यम्। तेन प्रकारेण तथेति। प्रथमान्तात्तु न भवति---स प्रकारस्तथेति, अनभिधानादेवेति भावः। किंसर्वनामबहुभ्यो विशेषविहितेनापि थाला जातीर्न बाध्यते, अर्थभेदात्। प्रकारे हि थाल्। जातीयर्तु तद्वति, स्वभावात्। एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते--तथाजातीयो यताजातीयोऽन्यथाजातीय इति।

एतदोऽपि वाच्यः। अनेन एतेन वेति। द्वितीयान्तादपि थमुर्भवत्येव, इममेतं वा प्रकारमापन्न इत्थम्भूतः। अत्र च "लक्षणेत्थम्भूताख्याने"त्यादिसौत्रप्रयोगे लिङ्गम्। एतेन कथम्भूतो व्याख्यातः। इत्थमिति। "एततौ रथो"रिति इदम इतादेशः। "एतदः"इति योगविभागादेतदोऽपि इतादेश इति भावः।