पूर्वम्: ५।३।१
अनन्तरम्: ५।३।३
 
सूत्रम्
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः॥ ५।३।२
काशिका-वृत्तिः
किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः ५।३।२

प्राग्दिशः इत्येव। किमः सर्वनाम्नो बहुशब्दाच् च प्राग्दिशः प्रत्ययाः वेदितव्याः। सर्वनामत्वात् प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते। कुतः , कुत्र। यतः, यत्र। ततः, तत्र। बहुतः, बहुत्र। अद्व्यादिभ्यः इति किम्? द्वाभ्याम्। द्वयोः। प्रकृतिपरिसङ्ख्यानं किम्? वृक्षात्। वृक्षे। प्राग्दिशः इत्येव, वैयाकरणपाशः। सर्वनामत्वादेव सिद्धे किमो ग्रहणम् द्व्यादिपर्युदासात्। बहुग्रहणे सङ्ख्याग्रहणम्। इह न भवति, बहोः सूपात्, बहौ सूपे इति।
लघु-सिद्धान्त-कौमुदी
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः १२०१, ५।३।२

किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते॥
लघु-सिद्धान्त-कौमुदी
इदम इश् १२०४, ५।३।२

प्राग्दिशीये परे। इतः॥
न्यासः
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः। , ५।३।२

"कुत्र" इति। "सप्तम्यास्त्रल्()" ५।३।१०, पूर्ववत्? कुभावः। "प्रकृतिपरिसंख्यानम्()" इति। प्रकृतिपरिगणनम्()। "वैयाकरणपाशः" इति। "याप्ये पाशप्()" ५।३।४७। अयं चावधेः परो व्य इत्यन्याभ्योऽपि प्रकृतिभ्यो भवति। "सर्वनामत्वादेव सिद्धे" इति। सर्वनामत्वं किमः सर्वादिषु पाठात्()। "किमो ग्रहणम्()" इत्यादि। किंशब्दोऽयं द्व्यादिषु पठ()त इति तस्य "द्व्यादिभ्यः" इति पर्युदासः क्रियते। तस्मात्? सर्वनाम्नोऽपि स्वशब्देनोपादानम्()। यद्येवं द्विशब्दात्? पूर्वं किंशब्दः पठितव्यः, एवं हि तस्य पृथग्ग्रहणं न कत्र्तव्यमेव भवति? सत्यमेतत्(); न सूत्रकारस्येह गणपाठ इति नासावुपालम्भमर्हति। अपि च त्यदादीनां यद्यत्परं तत्तच्छिष्यत इति किमः सर्वैरेव त्यदादिभिः सह विवक्षायां शेय इष्यते--"त्वञ्च कश्च" कौ, भवांश्च कश्च कौ; स चैवं पाठे न सिध्यतीति यथान्यासमेवास्तु। "बहुग्रहणे संख्याग्रहणम्()" इति। कथमिह सर्वनामसंज्ञया सर्वादयः संज्ञिनो निर्दिश्यन्ते? तस्मात्? तैः सह निदेशाद्बहुशब्दस्यापि बहुगणादि १।१।२२ सूत्रेण यस्य संख्यासंज्ञा विहिता तस्यैव संज्ञिता तस्यैव संज्ञिनो ग्रहणं विज्ञायते। "बहोः सूपात्()" इति। अत्र वैपुल्यवाची बहुशब्दः॥
बाल-मनोरमा
किंसर्वनामबहुभ्योऽद्व्यादिभ्यः १९२३, ५।३।२

किंसर्वनाम। अद्व्यादिभ्य इति च्छेदः। प्राग्दिश इत्यनुवर्तते। तदाह--प्राग्दिशोऽधिक्रियत इति। विधेयाऽनिर्देशादधिकारोऽयमिति भावः। किमः सर्वनामत्वेऽपि द्व्यादिपर्युदासात्पृथग्ग्रहणम्। द्व्यादिषु किशब्दपाठस्तु त्वं च कश्च कौ, अहं च कश्च कौ इत्यत्र "त्यदादीनां मिथः सहौक्तौ" इति किमः शेषत्वाऽर्थः। अथ वक्ष्यमाणतसिलादिप्रत्यये परे कार्यविशेषानाह--इदम इशित्यादिना।

तत्त्व-बोधिनी
किंसर्वनामबहुभ्योऽव्द्यादिभ्यः १४७१, ५।३।२

किंसर्वनाम। द्व्यादिपर्युदासात्किमः पृथग्ग्रहणम्। द्व्यादिषु किंशब्दपाठे प्रयोजनं तु---त्वं च कश्च कौ।अहं च कश्च कौ। भवांश्चकश्च कौ इत्यत्र किमः शेषः, "त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते"इत्युक्तत्वात्।