"अकारो विशेषणार्थः" इति। यद्यत्राकारो न क्रियते, तदा "षष्ठी तसर्थप्रत्ययेन"
२।३।३० इति सूत्रं कत्र्तव्यम्(), एवञ्च सति तसिलोऽपि ग्रहणं स्यात्()। ततश्च ततो हेतुनेत्यत्रापि तृतीयां बाधित्वा षष्ठी स्यात्()। तस्मादकारो विशेषणार्थः कत्र्तव्यः। अथ यदा दक्षिणोत्तरशब्दौ दिशि वत्र्तेते,
तदा टाप्श्रवणं मा भूदित्येवमर्थोऽकारः कस्मान्न भवति? "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" (वा। १०४) इति पुंवद्वचनेनैव टापो निवर्त्तितत्वात्()। ननु चासत्यकारे प्रत्ययस्वरेम सिद्धत्वाच्चकारोऽपि नैव कत्र्तव्यः, तत्र, "एकानुबन्धकग्रहणे तु न द्व्यनुबन्धकस्य" (व्या। प।
५२) इति तसिलो ग्रहणं न भविष्यति? एवमपि "प्रतियोगे पञ्चम्यास्तसिः"
५।४।४४, "तेनैकदिक्()"
४।३।११२, "तसिश्च"
४।३।११३ इत्यन्यतरग्रहणं स्यात्()। तस्माद्विशेषणार्थश्चकारः कत्र्तव्यः॥
दक्षिणोत्तराभ्यां। "दिग्देशकालवृत्तिभ्या"मिति शेषः। दक्षिणत उत्तरत इति। नच तसुजेव प्रत्ययोऽस्तु, दिग्वर्तित्वे तु "सर्वनाम्नो वृत्तिमात्रे" इति पुंवत्वेनैव "दक्षिणतः" इत्यादि सिद्धमिति वाच्यं, स्पष्टार्थत्वात्। अत एव भाष्ये अकारः प्रत्याख्यातः। केचित्तु--अकारोच्चारणमन्यतो विधानार्थं, तेन पुरत इति सिद्धमित्याहुः "समानकालीन"मित्यादिवत् "पुरत" इति प्रामादिकमेवेति बहवः।