पूर्वम्: ५।३।५४
अनन्तरम्: ५।३।५६
 
सूत्रम्
अतिशायने तमबिष्ठनौ॥ ५।३।५५
काशिका-वृत्तिः
अतिशायने तमबिष्ठनौ ५।३।५५

अतिशयनम् अतिशायनं प्रकर्षः। निपातनाद् दीर्घत्वम्। प्रकृत्यर्थविशेषणं च एतत्। अतिशायनविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे तमबिष्ठनौ प्रत्ययौ भवतः। प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति। सर्व इमे आढ्याः, अयम् एषाम् अतिशयेन आढ्यः आढ्यतमः। दर्शनीयतमः। सुकुमारतमः। अयम् एषाम् अतिशयेन पटुः पटिष्थः। लघिष्ठः। गरिष्ठः। यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव। देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे। युधिष्ठिरः श्रेष्ठतमः कुरूणाम् इति।
लघु-सिद्धान्त-कौमुदी
अतिशायने तमबिष्ठनौ १२२१, ५।३।५५

अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः। अयमेषामतिशयेनाढ्यः आढ्यतमः। लघुतमः, लघिष्ठः॥
न्यासः
अतिशायने तमबिष्ठनौ। , ५।३।५५

"अतिशायनम्()" इति। ल्युट्()। यद्यपि शेतिः केवलः स्वप्ने वत्र्तते, तथाप्यतिपूरह्वस्य प्रकर्षे वृत्तिः, अत एवाऽ‌ऽह--"प्रकर्षः" इति। ननु चातिशयनमिति भवितव्यम्()? इत्याह--"निपातनाद्दीर्घत्वम्()" इति। निपातनं त्वतिशायनशब्दस्य कथम्()? साधुत्वं विज्ञायते इत्येवमर्थम्()। "प्रकृतिविशेषणं चैतत्" इति। प्रत्ययाशङ्कां निराकरोति। प्रकृत्यर्थविशेषणं स्वाथिकानां द्योत्यं भवतीति न वाच्यम्(); तस्य प्रकृतिवाच्यत्वाकत्()। "पटिष्ठः, लघिष्ठः" इति। "तुरिष्ठेमेयस्सु" ६।४।१५४ इति टिलोपः। "गरिष्ठः" इति। "प्रियस्थिरस्फिरोरुबहुलगुरु" ६।४।१५७ इत्यादिना गुरुशब्दस्य गरादेशः। "प्रकर्षप्रत्ययान्तादपरेण प्रत्ययेन न भवितव्यम्(), एकेनैव प्रत्ययस्य द्योतितत्वात्()" इति यो मन्यते, तं प्रत्याह--"यदा च" इति। यत्र प्रथमे प्रकर्षे आतिशायनिको विहितः"; तत्र तेनैव द्योतितत्वाद्()द्वितीयो मा भूत प्रकर्षप्रत्ययः। प्रकर्षान्तरत्वे आतिशायनप्रत्ययान्ताद्युक्तमेवापरेणातिशायिकेन प्रत्ययेन भवितुम्(), तदद्योतितत्वादिति भावः। इष्ठनि परतः "प्रशस्यस्य श्रः" ५।३।६०, पूर्वेण सह "आद्गुणः" ६।१।८४ इष्ठन्प्रत्यान्तात्? तमप्प्रकर्षप्रत्ययः। अत्र प्रतियोग्यपेक्षो यः प्रकर्षः पूर्वस्मात्? प्रकर्षात्? स प्रकर्ष इष्ठन्प्रत्ययेन द्योतितः। ननु च नास्यातिशायिकस्य विधायकं वाक्यमस्ति, येन तस्मिन्? विहिते तदन्तादपरः प्रकर्ष आतिशायानिको विधीयेत, इदमेव ह्रेकं वाक्यम्(), तत्रानेनैव विधीयमाने प्रकर्षप्रत्ययो तदन्तायाः प्रकृतेरसम्भव इत्ययुक्त आतिशायिकादपरस्यातिशायिकस्य भावः? नैष दोषः; इह विधीयमानप्रतत्ययभेदाद्द्वे एते वाक्ये, तत्रैकेनेष्ठन्? विधीयते, अपरेण तु तदन्तात्? तमप्()॥
बाल-मनोरमा
अतिशायने तमबिष्ठनौ , ५।३।५५

अतिशायने। अतिपूर्वकः शीङ्धातुरुपसर्गवसादुत्कर्षे वर्तते। उत्कर्षश्चाधिक्यफलको न्यक्कारः, नत्वाधिक्यमात्रं, तथा सति अकर्मकत्वापातात्। न चेष्टापत्तिः, तथा सति "शुक्लमतिशेते कृष्णतरः" इत्यादिभाष्यविरोधात्। अतिशयिता=अतिशायनः बाहुलकः कर्तरि ल्यु"डिति भाष्यम्। अत एव निपानाद्दीर्घः। "अतिशायने" इति प्रकृत्यर्थविशेषणम्। अतिशयितरि विद्यमानात्प्रातिपदिकात्स्वार्थे तमप् इष्टन् च स्यादित्यर्थः। फलितमाह--अतिशयविशिष्टार्थवृत्तेरिति। यदि तु अतिशायनशब्दस्य भावल्युडन्तत्वं तर्हि प्रत्ययार्थस्य प्राधान्यापत्तौ शुक्लतरादिशब्दाच्छुक्लादिगतमतिशयनमिति बोधः स्यान्नत्वतिशयितशुक्ल इति। तता च शुक्लतरः शुक्लतरेति पुंस्त्वं स्त्रीत्वं च न स्यात्। "अतिशायने वर्तमाना"दित्यर्थे तु अतिशयप्रकर्षादिशब्देभ्य एव स्यान्नतु पट्वादिभ्यः। अतिशयविशिष्टे लक्षणया विद्यमानादित्यर्थे अतिशय्यमानादपि प्रत्ययापत्तिः। अतिशयनकर्तरि लक्षणायां तु भाष्योक्तमेव साधि इत्यास्तां तावत्। अयमेषामिति। द्वयोरेकस्य निर्धारणे तरबीयसुनावपवादौ वक्ष्येते। अतः परिशेषाद्बहूनामेकस्य निर्धारणे अस्य तमपः प्रवृत्तिरिति भावः। अतिशयेनाढ() इति। द्रव्यस्य जातेर्वा त्वतः प्रकर्षयोगो नास्ति, अन्यथा "घटतम" इत्याद्यापत्तेः। किंतु गुणद्वारैव द्रव्य।जात्योः प्रकर्षयोगः। तथा च "आढ()तम" इत्यत्र उत्कर्षविशिष्ट आढ्यः प्रकृत्यर्थः तमप्तु तद्द्योतकः। तमपि सति "सुपो दाथु" इति सुपो लुक्, "घकालतनेषु" इति योगेन सुबन्तादेव तद्धितोत्पत्तेरुक्तत्वात्। अत्र आतिशायनिकप्रत्ययान्तादातिशायनिकप्रत्ययोऽनभिधानान्न भवति। "श्रेष्ठतमाय कर्मणे" इति नुछान्दसमिति भाष्ये स्पष्टम्। लघिष्ठ इति। लघुशब्दादिष्ठनि ओर्गुणे प्राप्ते "इष्ठेमेयस्सु" इत्यनुवृत्तौ "टे"रिति टिलोपः।

तत्त्व-बोधिनी
अतिशायने तमबिष्ठनौ १४९७, ५।३।५५

अतिशायने। अतिपूर्वाच्छेतेर्ल्युट्। अतिशयनमेवातिशयनम्। अस्मादेव निपातनाद्दीयः। नचु सौत्रः। तेन लोकेऽपि दीर्घः साधुः। "अबाधकान्यपि निपातनानि भवन्ति"। तेन ह्यस्वोऽपि साधुः। यद्यपि केवलः शोतिः स्वप्ने वर्तते तथाप्यतिपूर्वः प्रकर्षे। प्रकर्षश्चात्र नाधिक्यं, किं त्वभिभवः, "पूर्वान्महाभागतयाऽतिशेषे"इति प्रयोगदर्शनात्। न चैवं "प्रकर्षे तमबिष्ठनौ"इत्येव कुतो न सूत्रितमिति शङ्क्यम्, अतिशायनमिति निपातनार्थमेव तथोक्तत्वात्। अतिशयो न प्रत्ययार्थः, तथा हि सति लघोरतिशायनं लघुतममिति स्यात्। प्रत्ययार्थस्य फ्राधान्यात्। नापि प्रकृत्यर्थः, तथा हि सति प्रकर्षातिशयनादिभ्य एव स्यात्, न त्वाढ()आदिभ्यः। किं तु प्रकृत्यर्थविशेषणम्। प्रत्ययस्तु द्योतकः। तदेतदाह---अतिशयविशिष्टेत्यादि। अयमेषामिति। द्व्यवयवे समुदाये यदा एकस्यातिशयो विवक्ष्यते तदा तरबीयसुनावपवादौ वक्ष्येते। तथा च परिशेषाद्बहूनां मध्ये यदा एकदेशस्य निर्धारणं सोऽस्य विषय इति भावः। आढ()तम इति। सुबन्तात्तमप्। "सुपो धात्वि"ति लुक्। यद्यपि "ङ्याप्प्रातिपदिका"दित्येवानुवर्तते तथापि सुबन्तपरतयैव व्याख्येयम्। अन्यथा हि पूर्वाह्णेतमामित्यादौ "घकालतनेषु कालनाम्नः"इति सप्तम्या अलुग्विधानं कथमुपपद्येत()।