पूर्वम्: ५।३।५७
अनन्तरम्: ५।३।५९
 
सूत्रम्
अजादी गुणवचनादेव॥ ५।३।५८
काशिका-वृत्तिः
अजादि गुणवचनादेव ५।३।५८

इष्ठन्नीयसुनौ अजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते, गुणवचनादेव भवतस्तौ न अन्यस्मादिति। पटीयान्। लघीयान्। पटिष्ठः। लघीष्ठः। इह न भवतः, पाचकतरः, पाचकतमः इति। एव कारः इष्टतो ऽवधारणार्थः, प्रत्ययनियमो ऽयं न प्रकृतिनियमः इति। पटुतरः। पटुतमः।
न्यासः
अजादी गुणवचनादेव। , ५।३।५८

"पाचकतरः" इति। कर्तृशक्तिमतो द्रव्यस्याभिधानाद्द्रव्यवचनोऽयं पाचकशब्दः। अथैवकारः किमर्थः, यावता सिद्धे विधिरारभ्यमाणो विनापि तेन नियमार्थो भवति()इत्याह-"एवकारः" इत्यादि। असति ह्रेवकारे विपरीतमवषारणं विज्ञायते--अजादी एव गुणवचनादिति, ततश्च यत एवकारस्ततोऽन्यत्रावधारणमिति प्रकृतिनियमः स्यात्()। एवं च गुणवचनस्याजाद्योनियतत्वात्? ततस्तरबादिर्नं स्यात्()। एवकारे तु प्रकृत्यनन्तरमुच्चार्यमाणे सति प्रत्ययार्थनियमोऽयं भवति न प्रकृतिनियम इति पटुतरः, पटुतम इति सिद्धं भवति। एतयोरपि सिद्ध्यर्थं "गुणवचनादिष्ठन्नीयसुनौ" इति सूत्रं न कृतम्()। तदा विध्यर्थत्वादेतौ तरप्तमपोरपवादत्वाद्बाधकाविति तयोरभावे पटुतरः, पटुतम इति न सिध्येत्()॥
बाल-मनोरमा
अजादी गुणवचनादेव , ५।३।५८

अजादी। तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः। तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः। तदाह--इष्ठन्नीयसुनाविति। पाचकतरः, पाचकतम इति। क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः। "गुणवचनादजादी एवे"ति विपरीतनियमव्यावृत्त्यर्थ एवकारः। तेन पटुतरः पटुतम इत्यादि सिद्धम्।

तत्त्व-बोधिनी
अजादी गुणवचनादेव १५०२, ५।३।५८

अजादी गुणवचनादेव। इष्टतोऽवधारणार्थ एवकारः। तेन प्रत्यय नियमोऽयम्। एवकाराऽभावे तु "गुणवचनादजादिप्रत्ययावेवे"ति प्रकृतिनियमोऽपि सम्भाव्येत। तथा च पटुतरः, पटुतम इत्यादि न सिध्येत्।