पूर्वम्: ५।३।६३
अनन्तरम्: ५।३।६५
 
सूत्रम्
युवाल्पयोः कनन्यतरस्याम्॥ ५।३।६४
काशिका-वृत्तिः
युवाल्पयोः कनन्यतरस्याम् ५।३।६४

युवाल्पशब्दयोः कनित्ययम् आदेशो भवत्यन्यतरस्याम् अजद्योः परतः। तयोश्च सत्त्वं पूर्ववज् ज्ञेयम्। सर्वे इमे युवानः, अयम् एषम् अतिशयेन युव कनिष्ठः। द्वाविमौ युवानौ, अयम् अनयोरतिशयेन युवा कनीयान्। अयम् अस्मात् कनीयान्। यविष्ठः, यवीयानिति वा। सर्वे इमे ऽल्पाः, अयम् एषाम् अतिशयेन अल्पः कनिष्ठः। उभाविमावल्पौ, अय्म् अनयोरतिशयेन अल्पः कनीयान्। अयम् अस्मात् कनीयान्। अल्पिष्ठः, अल्पीयानिति वा।
न्यासः
युवाल्पयोः कनन्यतरस्याम्?। , ५।३।६४

अत्रापि निमित्तयोर्यथासंख्यं नेष्यते, तस्य ह्रभावः "अजाद्यदन्तम्()" २।२।३३ इत्यल्पशब्दास्य पूर्वनिपाते परनिपाताल्लक्षणानपेक्षाच्चिह्निल्लभ्यते, युवेति स्वरूपगरहणमिष्यते, न जीवत्त्वं वंशस्य। कस्मात्()? इहापि "प्रशस्यस्य" ५।३।६० इत्येतदनुवत्र्तते, तेन युवशब्दो विशेषयितव्यः--प्रशस्यस्य यून इति। स्वरूपग्रहणे सर्वलोकाभिमतयौवनाख्यवयःसम्बन्धे शब्दार्थे प्रशंसोपपद्यते, न पारिभाषिकग्रहणे। अथ वा--स्थानेऽन्तरतमपरिभाषया १।१।४९ कन्नित्यादेशस्य योऽन्तरतमः स एव स्थानिति विज्ञायते, अन्तरतमश्च युवशब्द एव। तस्मात् स्वरूपस्यैव ग्रहणं युक्तम्()। "अन्यतरस्यां" ग्रहणमिहाल्पशब्द एव प्रयोजयति, न युवशब्दः, तस्य विनापि तेन विकल्पः सिद्ध एव; "स्थूलटूरयुवह्यस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः" ६।४।१५६ इति वचनात्()। न हि नित्य आदेशे यणादेः परस्य लोपः सम्भवति, नापि पूर्वभागो गुणभाक्()। "यविष्ठः, यवीयान्()" इति। स्थूलदूरादिसूत्रेण ६।४।१५६ यणादेः परं लुप्यते, पूर्वस्य च गुणो भवति॥
बाल-मनोरमा
युवाऽल्पयोः कनन्यतरस्याम् , ५।३।६४

युवाल्पयोः। इष्ठेयसोरिति। "अजादी" इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः। कनिष्ठः कनीयानिति। अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः। पक्षे यविष्ठ इति। युवन्शब्दादिष्ठनि "स्थूलदूरे"ति वनो लोपे उकारस्य गुणेऽवादेशे रूपम्। अल्पिष्ठ इति। अल्पशब्दादिष्ठनि टिलोपः। इत्यादीति। यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्रम्।

तत्त्व-बोधिनी
युवाऽल्पयोः कनन्यतरस्याम् १५१०, ५।३।६४

युवाल्पयोः "युवे"ति स्वरूपग्रहणं , न तु युवापत्यस्य, अल्पसाहचर्याव्द्याख्यानाच्च। "अजादी"इत्यनुवर्तनादरजाद्योरेव परयोर्न तु तरप्तमपोरित्याशयेन व्याचष्टे--इष्ठेयसोरिति।