पूर्वम्: ५।३।७६
अनन्तरम्: ५।३।७८
 
सूत्रम्
नीतौ च तद्युक्तात्॥ ५।३।७७
काशिका-वृत्तिः
नीतौ च तद्युक्तात् ५।३।७७

सामदानादिरुपायो नीतिः। नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद् यथाविहितं प्रत्ययो भवति। हन्त ते धानकाः। हन्त ते तिलकाः। एहकि। अद्धकि। परस्य अनुकम्पामात्रोपादानेनाराधयति। पूर्वेण प्रत्यासन्नानुकम्पासम्बन्धातनुकम्प्यमानादेव प्रत्ययो विहितः। संप्रति व्यवहितादपि यथा स्यादिति वचनम्।
न्यासः
नीतौ च तद्युक्तात्?। , ५।३।७७

"सामदानादिरूपायो नीतिः" इति। आदिशब्देन भेददण्डयोग्र्रहणम्(); तौत्वनुकम्पायां न सम्भवत इति सामदानादिरेकैव नीतिर्गुह्रते, "एहकि" इति। इण आङपूर्वाल्लोण्मध्यमपुरुषैकवचनस्य "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः। ननु पूर्वेणैवात्रापि प्रत्ययः सिद्धः, अत्रापयनुकम्पा गम्यत एव, तत किमर्थम्? इत्याह--"पूर्वेणैव" इत्यादि। प्रत्यासन्नोऽनुकम्पासम्बन्धो यस्यानुकम्पयमानस्य स तथोक्तः। प्रत्यासन्नत्वं तु सम्बन्धसर्यानुकम्प्यानंप्रति; तदाश्रयत्वादनुकम्पायां विधीयमानः प्रत्यासत्तेर्यस्यानुकम्पया प्रत्यासन्नः सम्बन्धस्ततः एव युक्तो विधातुमिति पूर्वेमानुकम्प्यमानादेव प्रत्यो विहितः, न तु व्यवहितात्? पुनर्घानादेः। अतः सम्प्रति ततोऽपि यथा स्यादित्येवमर्थमिदम्()। "व्यवहितात्()" इति। विप्रकृष्टादित्यर्थः। विप्रृष्टत्वमतदाश्रयत्वादनुकम्पायाः। न हि तस्यां धानादिराश्रयः, किं तर्हि? अनुकम्प्यमानो देवदत्तादिः॥
बाल-मनोरमा
नीतौ च तद्युक्तात् , ५।३।७७

नीतौ च तद्युक्तात्। सामदानादीति। आदिना भेददण्डयोग्र्रहणम्। तद्युक्तादित्येतद्व्याचष्टे--अनुकम्पायुक्तादिति। अव्ययसर्वनाम्नां टेः प्रागिति चानुवर्तते, "कस्य च दः" इति च। हन्त ते धानका इति। "दास्यन्ते" इति शेषः। "हन्ते"त्यव्ययमनुकम्पाद्योतकम्। "हन्त हर्षेऽनुकम्पाया"मित्यमरः। "हन्ते"त्यदन्तम्। "हे पुत्रे"ति शेषः। अनुकम्पायुक्ता धाना इत्यर्थः। धानाशब्दात्कप्रत्यये "केऽणः" इति ह्यस्वे कान्ताट्ठापि "अबाषितपुंस्काच्चे"ति विकल्पात्पक्षे इत्त्वाऽभावः। एहकीति। "एही"ति तिङन्तस्य टेः प्रागकच्। "अव्ययसर्वनाम्ना"मित्यत्र तिङस्चेत्यनुवृत्तेरिति भावः। अद्धकीति। "अद्धी"ति तिङन्तस्य टेः प्रागकच्। पूर्वेणेति। अनुकम्पायास्तद्विषयत्वादिति भावः। परम्परासम्बन्धे।ञपीति। पुत्रः साक्षादनुकम्प्यः, तद्द्वारा धाना अनुकम्पायुक्ता इति भावः।

तत्त्व-बोधिनी
नीतौ च तद्युक्तात् १५१७, ५।३।७७

नीतौ च तद्युक्तात्। अनुकम्पायुक्तादिति। यद्यपि पुत्रादिरेव साक्षादमुकम्पायुक्तो न तु धानादिस्तथापि तद्द्वारा धानादीनामप्यस्त्यनुकम्पासंबन्ध इति भावः। धानका इति। "धाना"शब्दः स्त्रीलिङ्गः। ततः कः। "केऽणः"इति ह्यस्वः। कप्रत्ययान्ताट्टाप्। अत्र "प्रत्ययस्था"दितीत्त्वेन भाव्यम्। प्रायेण तु "धानका"इति पट()ते। तत्र लिङ्गातिवृत्तिद्र्रष्टव्येति हरदत्तः। "कर्मव्यतिहारे णच्()स्त्रिया"मिति सिद्धे "णचः स्त्रियामञि"ति सूत्रे पुनः स्त्रीग्रहणेन ज्ञापितं "स्वार्थिकाः प्रकृतिलिङ्गं क्विचदतिवर्तन्ते"इति। तेन "धानका"इत्यत्र पुंस्त्वमिति भावः।