पूर्वम्: ५।४।१३०
अनन्तरम्: ५।४।१३२
 
सूत्रम्
ऊधसोऽनङ्॥ ५।४।१३१
काशिका-वृत्तिः
ऊधसो ऽनङ् ५।४।१३१

ऊधस्शब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः। कुण्डम् इव ऊधः अस्याः सा कुण्दोध्नी। घटोध्नी। ऊधसो ऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत्, महोधाः पर्जन्यः। घटोधो धैनुकम्।
न्यासः
ऊधसोऽनङ्। , ५।४।१३१

"अनङादेशोऽयं भवति" इति। कथं पुनर्विज्ञायते---आदेशोऽयं न प्रत्यय इति ? यद्येष प्रत्ययः स्यात्? ङित्करणमनर्थकं स्यात्? आदेशो ह्रस्मिन्नन्त्यादेशार्थं ङित्त्वमर्थवद्भवति। तस्मान्ङित्त्वादेवायमादेशो भवतीति विज्ञायते। "कुण्डोध्नी" इति। अनङि कृते "अतो गुणे" ६।१।९४ पररूपत्वम्(), "बहुव्रीहेरूधसो ङीष्()" (४।१।२५) इति ङीष्? "अल्लोपोऽनः" ६।४।१३४। "स्त्रीग्रहणं कत्र्तव्यम्()" इति। स्त्री गृह्रते येनाभिधेयनित्यत्वेन ततः स्त्रीग्रहणं कत्र्तव्यम्()। एतदुक्तं भवति--तथा व्याख्यानं कत्र्तव्यं यथा स्त्रियामभिधेयायामनङ् भवतीति। तत्रेदं व्याख्यानम्()--"ऊध्र्वाद्विभाषा" ५।४।१३० इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यस्थितविभाषा, तेन स्त्रियामेव भवति, नान्यत्रेति। अनङ्ऽकारादित्वमुत्तरार्थम्()। इह विनापि तेन सिध्यत्येव॥
बाल-मनोरमा
ऊधसोऽनङ् ४७७, ५।४।१३१

तत्र विशेषमाह--ऊधसोऽनङ्। बहुव्रीहौ सक्थ्यक्ष्णो"रित्यतो बहुवीहावित्यनुवृत्तं षष्ठ()आ विपरिणम्यते, "ऊधसः" इत्यनेन विशेष्यते, तदन्तविधिः। तदाह--ऊधोऽन्तस्येति। समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम्। इत्यनङि कृते इति। अनङि ङकार इत्, अकार उच्चारणार्थः, "ङिच्चे"त्यन्त्यस्य सकारस्य अन्, पररूपम्, कुण्जोधन् इति स्थिते सतीत्यर्थः। डाब्डीब्निषेधेष्विति। "डाबुभाभ्या"मिति वैकल्पिके डापि, "अन उपधालोपिनः" इति वैकल्पिके ङीपि, तदुभयाऽभावे "ऋन्नेभ्यः" इति प्राप्तस्य ङीपः "अनो बहुव्रीहे"रिति निषेधे च प्राप्ते इत्यर्थः।

तत्त्व-बोधिनी
ऊधशोऽनङ् ४३०, ५।४।१३१

ऊधसोऽनङ्। नादेशेनैव सिद्धेऽनङ्करणं "धनुषश्चे"त्युत्तरार्थम्, अन्यथा "शाङ्र्गधन्वे"ति न सिद्ध्येदित्याहुः। वस्तुत इहार्थमप्यावश्यकमेव, अन्यथा अनोलक्षणिकत्वेनाऽल्लोपाऽपर्सङ्गादित्यन्ये। इह "बहुव्रीहौ सक्थ्यक्ष्णो"रित्यतो बहुव्रीहावित्यनुवर्तते इत्याह--