पूर्वम्: ५।४।१३५
अनन्तरम्: ५।४।१३७
 
सूत्रम्
अल्पाख्यायाम्॥ ५।४।१३६
काशिका-वृत्तिः
अल्पाऽख्यायाम् ५।४।१३६

अल्पाख्यायां योगन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। सूपो ऽल्पो ऽस्मिन् सूपगन्धि भोजनम्। अल्पम् अस्मिन् भोजने घृतम् घृतगन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः।
न्यासः
अल्पाख्यायाम्?। , ५।४।१३६

बाल-मनोरमा
अल्पाख्यायाम् ८६५, ५।४।१३६

अल्पाख्यायाम्। अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः। "लेशः" इति गन्धशब्दस्य विवरणम्। सूपस्य गन्धो यस्मिन्नित्येव विग्रहः। सूपगन्धि भोजनमिति। उत्पूतिसुसुरभिपूर्वंकत्वाऽभावादेकान्तत्वाऽभावाच्चाऽप्राप्ते वचनमिदम्। व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते। घृतगन्धीति। घृतस्य गन्धो लेशो यस्मिन्निति विग्रहः। गन्धशब्दस्याऽल्पवाचित्वे प्रमाणमाह--गन्धो गन्धक इति।

तत्त्व-बोधिनी
अल्पाख्ययाम् ७५४, ५।४।१३६

अल्पाख्यायाम्। अल्पवाचिनो गन्धस्येकारान्तादेशः स्याद्बहुव्रीहौ। सूपस्य गन्ध इति। अतएव ज्ञापकाव्द्यधिकरणपदो बहुव्रीहिः। यद्वा फलितार्थकनमेतत्। सूपो गन्धो यस्मिन्नित्येव विग्रहः। गन्धशब्दस्य विसेषणत्वेऽप्यस्मादेव ज्ञापकात्परनिपातः।