पूर्वम्: ५।४।१५
अनन्तरम्: ५।४।१७
 
सूत्रम्
विसारिणो मत्स्ये॥ ५।४।१६
काशिका-वृत्तिः
विसारिणो मत्स्ये ५।४।१६

विसरति इति विसारी। विसारिन्शब्दात् स्वार्थे अण् प्रत्ययो भवति मत्स्ये ऽभिधेये। वैसारिणो मत्स्यः। मत्स्ये इति किम्? विसारी देवदत्तः।
न्यासः
विसारिणो मत्स्ये। , ५।४।१६

"विसारी" इति। पूर्ववण्णिनिः। "वैसारिणः" इति। पूर्ववत्प्रकृतिभावः॥
बाल-मनोरमा
विसारिणो मत्स्ये , ५।४।१६

विसारिणो मत्स्ये। "अणिनुणः" इति पूर्वसूत्रादण्णित्यनुवर्तते। तदाह--अण् स्यादिति। मत्स्ये विद्यमानाद्विसारिन्शब्दात्स्वार्थे अण् स्यादित्यर्थः। वैसारिण इति। इनण्यनपत्ये" इति प्रकृकतिभावाट्टिलोपो न।

तत्त्व-बोधिनी
विसारिणो मत्स्ये १५५२, ५।४।१६

विसारिणो। पूर्ववदिहापि णिनिः। हरदत्तस्तु---"सुप्यजातौ"इति णिनिरूपसर्गभिन्न एव सुप्यपपदे भवतीत्याशयेन पूर्वसूत्रेऽ()स्मश्च अतएव निपातनाण्णिनिरित्याह। तदयुक्तम्। "स बभूवोपजीविनाम्", "अनुयायिवर्गः", "न वञ्चनीयाः प्रभावोऽनुजीविभि"रित्यादिप्रयोगानुरोधेन उपसर्गे सुप्युपपदेऽपि णिनेरवश्यस्वीकर्तव्यतया निपातनाश्रयणस्य व्यर्थत्वात्। "अणिनुणः"इत्यतोऽनुवर्तनादाह---अण् स्यादिति। वैसारिण इति। "इनण्यनपत्ये"इति प्रकृतिभावः। सङ्ख्यायाः। अभ्यावृत्तिशब्देन यदि द्वितीयादिप्रवृत्तिर्गृह्रते, तदा षट्कृत्वः प्रवृत्तौ पञ्चकृत्व इति स्यात्, अतोऽत्र विवक्षितमर्थमाह---अभ्यावृत्तिर्जन्मेति।