पूर्वम्: ५।४।३२
अनन्तरम्: ५।४।३४
 
सूत्रम्
कालाच्च॥ ५।४।३३
काशिका-वृत्तिः
कालाच् च ५।४।३३

वर्ने च अनित्ये ५।४।३१, रक्ते ५।४।३२ इति द्वयम् अप्यनुवर्तते। कालशब्दातनित्ये वर्तमानात् रक्ते च कन्प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते कालकः पटः। कालिका शाटी।
न्यासः
कालाच्च्। , ५।४।३३

बाल-मनोरमा
कालाच्च , ५।४।३३

कालाच्च। द्व्यमनुवर्तत इति। अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम्। अनित्ये वर्णे उदाहरति--कालकं मुखं वैलक्ष्येणेति। लज्जाऽसूयादिनेत्यर्थः। रक्ते उदाहरति--कालकः पट इति। "नील्यादिने"ति शेषः।