पूर्वम्: ५।४।९७
अनन्तरम्: ५।४।९९
 
सूत्रम्
उत्तरमृगपूर्वाच्च सक्थ्नः॥ ५।४।९८
काशिका-वृत्तिः
उत्तरमृगपूर्वाच् च सक्थ्नः ५।४।९८

उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानं च, तदन्तात् तत्पुरुषाट् टच् प्रत्ययो भवति समासान्तः। उत्तरसक्थम्। मृगसक्थम्। पूर्वस्क्थम्। उपमानात् खल्वपि फलकम् इव सक्थि फलकसक्थम्।
न्यासः
उत्तरमृगपूर्वाच्च सक्थ्नः। , ५।४।९८

"उत्तरसक्थम्()" इति। उत्तरं सक्थ्न इति पूर्वापरादिशूत्रेण २।१।५७ समासः। अथ वा--उत्तरं सक्थीति विशेषणसमासः। "मृगसक्थम्()" इति। षष्ठीसमासः। "पूर्वसक्थम्()" इति। उत्तरसक्थमित्यनेन तुल्यमेतत्()। "फलकसक्थम्()" इति। "विशेषणम्()" २।१।५६ इत्यादिना समासः॥
बाल-मनोरमा
उत्तरमृगपूर्वाच्च सक्थ्नः ७९०, ५।४।९८

उत्तरमृग। "उत्तर" "मृग" "पूर्व" एभ्य, उपमानाच्च परो यः सक्थिशब्दत्तदन्तास्तत्पुरुषाट्टच्स्यादित्यर्थः। उत्तरसक्थमिति। उत्तरं सक्थीति विग्रहः। पूर्वं सक्थीति विग्रहे "पूर्वकालैके"ति समासः। फलकसक्थमिति। फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात्समासः। सर्वत्र टच्, टिलोपः।

तत्त्व-बोधिनी
उत्तरमृगपूर्वाच्च सक्न्थः ६९५, ५।४।९८

फलकसक्थमिति। अतएव ज्ञापकादसामान्यवचनेनाप्युपमानस्य समास इति माधवः।