पूर्वम्: ६।१।१६१
अनन्तरम्: ६।१।१६३
 
सूत्रम्
सावेकाचस्तृतीयाऽ‌ऽदिविभक्तिः॥ ६।१।१६२
काशिका-वृत्तिः
सावेकाचस् तृतीयाऽअदिर् विभक्तिः ६।१।१६८

सौ इति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम्। तत्र सौ य एकाच् तस्मत् परा तृतीयादिर् विभक्तिरुदात्ता भवति। वाचा। वाग्भ्याम्। वाग्भिः। वाग्भ्यः। याता। याद्भ्याम्। याद्भिः। सौ इति किम्? राज्ञा। रज्ञे। एकाचः इति किम्? हरिणा। गरिणा। राजसु। तृतीयादिः इति किम्? वाचौ। वाचः। विभक्तिः इति किम्? वाक्तरा। वाक्तमा। सप्तमीबहुवचनस्य ग्रहणादिह न भवति त्वया, त्वयि इति।
न्यासः
सावेकाचस्तृतीयादिर्विभक्तिः। , ६।१।१६२

साविति प्रथमैकवचनस्येदं ग्रहणं स्यात्()? सप्तमीबहुवचनस्य वा? उभयोर्वा? तत्र यदि प्रथमैकवचनस्य ग्रहणं स्यात्(), त्वाया त्वयि इत्यत्रापि स्यात्()। भवति हि युष्मच्छब्दसय "त्वाहौ सौ" ७।२।९४ इति त्वादेशे कृते प्रथमैकवचने परत एकाच्त्वम्()। सामान्येनोभयग्रहणेऽप्येष दोषः। सप्तमीबहुवचनस्य ग्रहणे नायं दोषः प्रसज्येत्(), युष्मास्वित्यत्र युष्मच्छब्दस्यानेकाच्त्वमित्येतत्? सर्वं ह्मदि कृत्वाऽ‌ऽह--"साविति सप्तमीबहुवचनस्य ग्रहणम्()" इति। "याद्भ्याम्()" इति। याच्छब्दाच्छत्रन्तात्? तृतीया। "राज्ञे" इति। भवति राजञ्शब्दो भसंज्ञके परतो लोपे कृत एकाच्(), न तुल सौ राजस्विति; तत्रानेकाच्त्वात्? "वाक्तरा, वाक्तमा" इति। तरप्तमबिति भवति वा तृतीयादिः, न तु विभक्तिः। अथ कस्मात्? सप्तमीबहुवचनग्रहणम्()? इत्याह--"सप्तमीबहुवचनस्य" इत्यादि। "त्वया त्वयि" इति। युष्मदस्मदोः "मपर्यन्तस्य" ७।२।९१ "त्वमावेकवचने" ७।२।९७ इति त्वादेशः। परिशिष्टस्य "योऽचि" ७।२।८९ इति यकारः॥